Sunday, April 6, 2014

Shri Panini Hrudayam-Second Adhyaaya


द्वितीय : अध्याय :
प्रथम : पाद :
1.समर्थ : पद—विधि : =पद—संबन्धी यो विधि : : समर्थ—आश्रित : बोध्य :
2.सुप् आमन्त्रिते पर—अङ्गवत् स्वरे =सुप् आमन्त्रिते परे परस्य अङ्गवत्स्वरे कर्तव्ये। दिवस्पाणी शुभस्पती।
3.प्राक् कडारात् समास : =From this सूत्र upto theसूत्र viz.”कडारा: कर्मधारय :” समासा are dealt with.
4.सह सुपा =सुबन्तं समर्थेन सह समस्यते। कतिपय—तिङन्त--उत्तर--पद समास : छन्दसि एव। eg. पर्यभूषत्, , अनुव्यचलत्।
5.अव्ययीभाव : =From this अव्ययीभाव---समास : is dealt with.:
6.अव्यय—विभक्ति--समीप--समृद्धि--व्यृद्धि--अर्थ--भाव--अत्यया--संप्रति--शब्द--प्रादुर्भाव---पश्चात्--यथानुपूर्व्य--यौगपद्य---साद्श्य--संपत्ति--साकल्य--अन्त--वचनेषु = नद्या :समीपम्--उपनदि। समृद्धि : मद्राणाम्--सुमद्रम्। व्यृद्धि ;--यवनानां --दुर्यवनम् । अर्थभाव :--अभाव : मक्षिकाणाम्---निर्मक्षिकम्। अत्यय---अतीतानि हिमानि---निहिमम्। निद्रा संप्रति न युज्यते--अतिनिद्रम्। शब्दप्रादुर्भाव---पाणिनि--शब्द : प्रकाशते---अतिपाणिनि । रथस्य पश्चात् --अनुरथम् =पादातम् =After chariot cavalry—army of men. पदस्य पश्चात्--अनुपदम् =त्वं प्रयाहि वयम् अनुपदं आयाम :। यथानुपूर्व्य has four meanings. 1.योग्यता =रूपस्ययोग्यम्---अनुरूपम्। वीप्सा --अर्थम् अर्थम् प्रति =प्रत्यर्थम्। एकम् एकं प्रति =प्रत्येकम्। पूर्वं पूर्वम् अनु =अनुपूर्वम् तस्य भाव : =आनुपूर्व्यम् । यौगपद्य =सचक्रं (चक्रेण युगपत्)) धेहि। सादृश्य =सदृश : सख्या =ससखि। संपत्ति =सक्षत्रं रघूणाम्।. सब्रह्म वसिष्ठानाम्।अन्त =
साग्न्यधीते =He studies upto the end of the chapter concerned with अग्नि :। यावदमत्रं ब्राह्मणान् आमन्त्रयस्व ।
7.यथा असादृश्ये =असादृश्ये एव यथा शब्द : समस्यते।
8.यावत् अवधारणे =यावन्त :श्लोका :तावन्त : अच्युत—प्रणामा :। यावव्च्छ्लोकम्॥
9.सुप् प्रतिना मात्रे =शाकस्य लेश : शाकप्रति । मात्र—अर्थे किम् ? वृक्षं वृक्षं प्रति विद्योतते विद्युत्।
10.अक्ष—शलाका--संख्या : परिणा =द्यूत—व्यवहारे पराजय एव अयं समास :। अक्षेण विपरीतं वृत्तं अक्षपरि।शलाकापरि। एकपरि।
11.विभाषा =अधिकार : अयम्।
12.अप—परि--बहि : --अञ्चव : पञ्चम्या =अपविष्नु संसार :। अपविष्णो : संसार :। एवं परि , बहि ; and प्राक्।
13.आङ् मर्याद—अभिविध्यो : : =एतयो : आङ् पञ्चमी--अन्तेन वा समस्यते स : अव्ययीभाव :। आमुक्ति। आमुक्ते : संसार :।आबाल :। आबालेभ्य : हरि--भक्ति :|
14.लक्षणेन अभि--प्रती =आभिमुख्ये।
15.अनु : यत्--समया =यं पद्--अर्थं समया द्योत्येन तेन लक्षण—भूतेन अनु : समस्यते स : अव्ययीभाव :। अनुवनम् अशनि : गत :। वनस्य समीपं गत : इति अर्थ :
16.यस्य च आयाम : =यस्य दैर्घ्यम् अनुना द्योत्यते तेन लक्षण—भूतेन अनु : समस्यते स :
अव्ययीभाव: :। अनुगङ्गं वारणासी।।
17.तिष्ठद्गु प्रभृतीनि च =एतानि निपाद्यन्ते। तिष्ठद्गु =दोहन—काल :
18.पारे मध्ये षष्ठ्या वा =पारे and मध्ये षष्ठ्या वा समस्यते। पारे गङ्गात् or गङ्गाया : पारात्।
19.संख्या वंश्येन =वंश : द्विधा विद्यया जन्मना च। त्रिमुनि व्याकरणम्। एकविशति भारद्वाजम्।
20.नदीभि : = सप्तगङ्गम्। द्वियमुनम्।
21.अन्य—पद--अर्थे च संज्ञायाम् =उन्मत्तगङ्गं नाम देश :। लोहितगङ्गाम्।
22.तत्पुरुष : =अधिकार : अयं प्राक् बहुव्रीहे :
23.द्विगु : =द्विगु : अपि तत्पुरुष—समास : स्यात्।
24.द्वितीया श्रित—अतीत--पतित--गत--अत्यस्त--प्राप्त--आपन्नै : =द्वितीय—अन्तं श्रित---आदि प्रकृतिकै : सुबन्तै :सह वा सम्स्यते स : तत्पुरुष :
25.स्वयं क्तेन =द्वितीया इति न संबध्यते अयोग्यत्वात्। स्वयंकृतस्य अपत्यं स्वायंकृति :
26.खट्वा क्षेप्रे =खट्वा प्रकृतिकंद्वितिया----अन्तं क्त—अन्त प्रकृतिकेन सुबन्तेन न समस्यते निन्दायाम्। खट्वारूढ : जाल्म :
27.सामि =सामिकृतम्।
28.काला : =मास -अर्ध--प्रमित : प्रतिपत्--चन्द्र : =मासं परिच्छेत्तुम् आरब्धवान् इति अर्थ :
29.अत्यन्त –संयोगे च =कले इति एव।अक्रान्त्--अर्थं वचनम् --मुहूर्तं सुखम् --मुहूर्त--सुखम्।
30.तृतीया तत्--कृत--अर्थेन गुण—वचनेन =तत्कृत--इति लुप्त—तृतीयकम्। तृतीय—अन्त--अर्थ--कृत--गुण--वचनेन अर्थ—शब्देन सह प्राग्वत्।शष्कुलयाख--:ण्ड :शष्कुला--खण्ड :। धान्येन अर्थ : धान्यार्थ :। तत्कृतेति किम् ? अक्ष्णा काण :
31,पूर्व—सदृश--समोनार्थ--कलह--निपुण--मिश्र--श्लक्ष्णै : =तितीयान्ताम् एतै : प्राग्वत्।मासपू--र्व : :। मास—सदृश :। पितृ--सम :। माष--ऊनं कार्ष --आपणम्। माष--विकलम्। वाक्कलह :। आचार—निपुण :। गुड—मिश्र :। आचार—श्लक्ष्णै :
32.कर्तृ--करणे कृता बहुलम् =कर्तरि करणे च तृतीया कृदन्तेन बहुलं प्राग्वत्। हरिणा त्रात :
हरि--त्रात :। नखै : भिन्न : नख—भिन्न :
33.कृत्यै : अध्किकार—अर्थ--वचने =स्तुति--निन्दा--फलकम्--अर्थवाद--वचनं तत्र कर्तरि करणे च तृतीया कृत्यै :प्राग्वत्। अर्थवाद : आरोपित : अर्थ :। वातच्छेद्यं तृणम्। काकपेया नदी।
34.अन्नेन व्यञ्जनम् = संसारक—द्रव्य--वाचकं तृतीया--अन्तेन अन्नेन प्राग्वत्।
दध्ना ओदन : =दध्योदन :। इह—अन्तर्भूत----उपसेवक –क्रियाद्वारा सामर्थ्यम् ।उपसेक—क्रिया--द्वारा इति तां विना दध्ना संस्कार—अर्थत्वेन प्रतीत---अन्त--संस्कार--अनुपपत्ते : इति भाव :
35.भक्ष्येन मिश्रीकरणम् =गुडेन धाना : गुड—धाना :
36.चतुर्थी तत्--अर्थार्थ--बलि--हित--सुख--रक्षितै : =चतुर्थ्यन्त –अर्थाय यत् तत् वाचिन : अर्थ—आदिभि : च चतुर्थी--अन्तं प्राग्वत्।तत् -- अर्थेन प्रकृति--विकृति---भाव : गृह्यते बलि--रक्षित--ग्रहणात् --ज्ञापकात्।
यूपाय दारु य़ूप—दारु।द्विज--अर्थ : सूप :। भूत—बलि :। गो--हितम्। गो--सुखम्। गो--रक्षितम्।
37.पञ्चमी भयेन =चोरात् भयम् चोर--भयम्।
38.अपेत—अपोढ---मुक्त--पतिअ--अपत्रस्तै : अल्पश : =एतै : सह अल्पं पञ्चमी--अन्तेन समस्यते स :तत्पुरुष :। सुख—अपेत :। कल्पना--अपोढ :। चक्र—मुक्त :। स्वर्ग—पतित :। तरङ्ग—अपत्रस्त :। अल्पश : किम् ? प्रासादात् पतित :
39.स्तोक—अन्तिक-- --दूरार्थ--कृच्छ्राणि क्तेन =स्तोकात्मुक्त :। अन्तिकात् -आगत :। अभ्याशाद्
आगत :। दूरात् आगत :। विप्रकृष्टात् आगत :। कृच्छ्रात् आगत :। पञ्चम्या : स्तोक—आदिभ्य : इति अलुक्।
40.सप्तमी शौण्डै : =सप्तमी--अन्तं शौण्डादिभि : तत्पुरुषेण समस्यते। अक्ष्णेषु शौण्ड : =अक्ष्ण—शौण्ड :
अधि शब्द : अत्र पठ्यते। अध्--उत्तर--पदात् इति ख :। ईश्वर—अधीन :
41.सिद्ध—शुश्क---पक्व--बन्धै : =साङ्काश्य—सिद्ध :। आतप—शुष्क :। स्थाली--पक्व :। चक्र—बन्ध :
42.ध्वाङ्क्षेण क्षेपे =ध्वाङ्क्ष वाचिना सह सप्तमी--अन्तं समस्यते निन्दायाम्। तीर्थे—ध्वाङ्क्ष इति तीर्थ—ध्वाङ्क्ष : =तीर्थ—काक :
43.कृत्यै : ऋणे =सप्तमी--अन्तं प्राग्वत्। कृत्य—प्रत्यय --अन्तै : सह आवश्यके। मासे देयं ऋणम्।
44.संज्ञायाम् =सप्तमी--अन्तं सुपा प्राग्वत् संज्ञायाम्। अरण्ये तिलका :। हल्--अन्तात् सप्तम्याम् इति अलुक्।
45.क्तेन अहोरात्र अवयवा : =पूर्वाह्ण—कृतम्। अपर- -रात्र—कृतम्।अवयव-- ---ग्रहणं किम् ? अन्हि दृष्टम्।
46.तत्र =तत्र—भुक्तम्।
47.क्षेपे =सप्तमी--अन्तंक्त--अन्तेन प्राग्वत् निन्दायाम्।अव्तप्तेन कुल—स्थितं ते एतत्।
48.पात्रे समित् आदय :=एते निपात्यन्ते क्षेपे। पात्रे--समिदा :। भोजन—समये एव संगता : न तु कार्ये।
49.पूर्व—काल—एक---सर्व-जरत्--पुराण--नव--केवला : समानाधिकरणेन =विशेषणं विशेष्येण इति सिद्धेपूर्व—निपात--नियम--अर्थं सूत्रम्। स्नात—अनुलिप्त :। एक—नाथ :। सर्व—याज्ञिका :। जरन्--नैयायिका :। पुराण—मीमांसका : :
50.दिक्--संख्ये संज्ञायाम् =समानाधिकरणेन इति आपादपरिसमाप्ते : अधिकार :। संज्ञायाम् एव इति नियम—अर्थम्। सूत्रम् । पूर्व—इषु--काम--शमी। सप्तर्षय :। न इह—उत्तरा : वृक्षा :। पञ्च—ब्राह्मणा :
51.तद्धित—अर्थ--उत्तर--पद--समाहारे च =तद्धित—अर्थे विषये उत्तर—पदे च परत : समाहारे च वाच्ये दिक्--संख्ये प्राग्वत् वा। पूर्वस्यां शालायां भव : पौर्व—शाल :। समासे कृते दिक्--पूर्व--पदात् असंज्ञायाम् ञ इति ञ :
52.संख्या पूर्वो द्विगु : =तद्धित—अर्थ इति अत्र उक्त त्रि--विध : संख्या पूर्व : द्विगु : स्यात्।
53.कुत्सितानि कुत्सितै : =कुत्स्यमानानि कुत्सनै : सह प्राग्वत् । वैयाकरण---खसूचि :।मीमांसक---दुर्दुरूढ :
    54.पापाणके कुत्सितै : =पाप—नापित :। अणव—कुलाल :
    55.उपमानानि सामान्य—वचनै : =घन इव श्याम : घन—श्याम :
    56.उपमितं व्याघ्र—आदिभि सामान्य—प्रयोगे =पुरुषव्याघ्र :। नृ--सोम ::
57.विशेषणं विशेष्येण बहुलम् =भेदकं समानाधिकरणेन भेद्येन बहुलम्। नील--उत्पलम्।
कृष्ण—सर्प :। क्वचित् अ = राम : जामदग्न्य :
58.पूर्व—अपर--प्रथम--चरम--जघन्य--समान--मध्य--मध्यम--वीरा : =पूर्व—वैयाकरण :। अपर—अध्यापक :etc.
59.श्रेणी--आदय : कृत—आदिभि : =श्रेणी--कृता :। च्वि इति वाच्यम्।
60.क्तेन नञ् विषिष्टेन अनञ् =कृतं च तत् अकृतं च =कृत—अकृतम्|
61.सत्--महत्--परम--उत्तम--उत्कृष्टा : पूज्यमनै : =सत्--वैद्या :। वक्ष्यमाणेन महता आकाअर : महा--वैयाकरणा :
62.व्रुन्दारक—नाग---कुञ्जरै : पूज्यमानम् =गो--वृन्दारक :। दिक्--नाग :। कवि--कुञ्जर :
63.कतर—कतमौ जाति ---परिप्रश्ने =कतर—कठ :। कतर--कलाप :
64.किं क्षेपे =कुत्सित : राजा किंराजा य : न रक्षति।
65.पोटा--युवति--स्तोक--कतिपय--गृष्टि---धेनु--वशा--वेहत्---बष्कयणी---प्रवृक्त--श्रोत्रिय--अध्यापक--धूर्तै : जाति : =पोटा =स्त्री पुम्स्त्व—लक्षणा। इभ—पोटा , इभ—युवति , अग्निस्तोक : , उदश्वि--भार्या ,
गो-गृष्टि , धेनु : =सकृत्--प्रसूतिका , गो--वेशा =वन्ध्या , गो--वेहत् =गर्भ—घातिनी , बष्कयणी =तरुण—वत्सा , कठ—प्रवक्ता , कठ—श्रोत्रिय : ,कठ—अध्यापक : , कठ—धूर्त :
66.प्रशंसा--वचनै : =गो--मतल्लिका ,गो--मार्चिका- , गो--प्रकाण्डम् , गवोद्घ : ,गो--तल्लज :
67.युवा खलति--पलित--वलिन--जरतीभि : =युवा--खलति : ,युआ—खलती etc.
68.कृत्य—तुल्य--आख्या अजात्या =भोज्योष्णम्। तुल्य—श्वेत :। सदृश—श्वेत :। अजात्या किम् ? भोज्य—ओदन :
69.वर्ण : वर्णेन =समानाधिकरणेन प्राग्वत्। कृष्ण—सारङ्ग :
70.कुमार : श्रमणा आदिभि : =कुमार—श्रमणा। कुमारी श्रमणा।
71.चतुष्पाद : गर्भिण्या =गो--गर्भिणी।
72.मयूर—व्यंसक--आदय : =एते निपात्यन्ते । व्यंसक : =धूर्त :। मयूर—व्यंसक :
समर्थ : अन्यपदार्थे--सिद्ध--शुष्क--सन्महत्--द्वादश्। Pro.Total =351+72 =423.
इति द्वितीय अध्यायस्य प्रथम : पाद : समाप्त :

द्वितीय : पाद :
1.पूर्व—अपर--अधर--उत्तम--एकदेशिन--एक--अधिकरणे =अवयविना सह पूर्व—आदय : समस्यन्ते। एकत्व—असंख्या विशिष्ट : चेत् अवावी। षष्ठी--समास अपवाद :। पूर्वं कायस्य पूर्व—काय :। अपर—काय :। एकदेशिना किम् ? पूर्वं नाभे : कायस्य। एक—अधिकरणे किम् ? पूर्व : छात्राणाम्।
2.अर्धं नपुंसकम् =सम-अंश—वाचि अर्ध—शब्द :नित्यं क्लीबे स प्राग्वत्।
3.द्वितीय—तृतीय---चतुर्थी--तुर्याणि अन्यतरस्याम् =एतानि एकदेशिना सह प्राग्वत् वा।द्वितीयं भिक्षाया द्वितीय-- भिक्षा। एकदेशिना किम् ? द्वितीयं भिक्षाया भिक्षुकस्य। अन्यतरस्यां ग्रहण—सामर्थ्यात् पूरण—गुण इति निषेधं बाधित्वा पक्षे षष्ष्ठी समास :। भिक्षा--द्वितीयम्।
4.प्राप्त—आपन्ने च द्वितीयया =पक्षे द्वितीया-- आश्रिता इति समास :। प्राप्त—जीविक :। प्राप्त—जीविका।। (सूत्रे द्वीतीयया + अ इति )आपन्न—जीविक : , जीविक—आपन्न :। आपन्न—जीविका। जीविका--आपन्ना।
5.काला : परिमाणिना =परिच्छेद्य—वाचिना सुबन्तेन सह काला : समस्यन्ते। मास—जात :। द्व्यन्ह—जात :। द्वयो : अन्हो : समाहार : द्व्यन्ह ::
6.नज् सुपा सह समस्यते =न ब्राह्मण : अब्राह्मण :। नञ : नस्य लोप : स्यात् उत्तर—पदे।
7.ईषत्--कृता = ईषत्--पिङ्गल :। ईषत्--रक्तम्। (वाच्यम् )
8.षष्ठी = राज्ञ : पुरुष : राज—पुरुष :
9.याजक—आदिभि : =एभि : षष्ठी--अन्तं समस्स्यते। तृच् अकाभ्यां कर्तरि।इति अस्य प्रतिप्रसव : अयम्। ( Refer 15th सूत्र of this पाद )
10.न निर्धारणे =निर्धारणे या षष्ठी सा न समस्यते । नृणां द्विज : श्रेष्ठ :
11.पूरण्--गुण--सुहितार्थ--सत्--अव्यय--तव्य--समानाधिकरणेन् =पूरण--आदिभि : अर्थै : सत्--आदिभि : च षष्ठी न समस्यते।पू राणे---सतां षष्ठ :। गुणे--काकस्य कार्ष्ण्यम्। फलानां सुहित :। सत्--द्विजस्य कुर्वन् , कुर्वाण : वा। तव्य--ब्राह्मणस्य कर्तव्यम्। अव्यय—ब्राह्मणस्य कृत्वा।
12.क्तेन च पूजायाम् =राज्ञां मत : , बुद्ध : , पूजित : वा।
13.अधिकरण—वाचिना च =इदम् एषां आसितं , गतं , भुक्तं वा।
14.कर्मणि च =उभय—प्राप्तौ कर्मणि इति या षष्ठी सा न समस्यते। आश्चर्यो गवां दोह : अगोपेन।
15.तृच्--अकाभ्यां कर्तरि =( Refer 9th सूत्र of this पाद ) कर्तरि--अर्थ तृच्--अकाभ्यां षष्ठ्या न समास :
अपां स्रष्टा। वज्रस्य भर्ता। ओदनस्य पाचक :। कर्तरि किम् ? इक्षूणां बक्षणम्। इक्षु--भक्षिका। भू--भर्ता।
कथं तर्हि--घटानां निर्मातु : त्रिभुवन—विधातु : च कलह :( शेषे ) शेष—समास इति कैयट :
16.कर्तरि च =कर्तरि षष्ठ्या अकेन न समास :। भवत : शयका।
17.नित्यं क्रीडा--जीविकयो =एतयो :अर्थयो : अकेन नित्यं षषठी समस्यते। उद्दालक—पुष्प----भञ्जिका। जीविकायां =दन्तलेखक :
18.कु--गति--प्रादय : =एते समर्थेन नित्यं समस्यन्ते। कुत्सित : पुरुष : कु--पुरुष :। गति : च इति अनुवर्तमाने।
19.उपपदम् अतिङ् =उपपदम् सुबन्तं समर्थेन नित्यं समस्यते। अतिङ : च अयं समास :।कुम्भकार :। अतिङ : किम् ? मा भवान् भूत्।
20.अमा एव अव्ययेन =अमा एव तुल्य—विधानं यत् उपपदं तत् एव अव्ययेन समस्यते । स्वादुं--कारम्। अमैवैति किम् ? अग्रे भोजम् , अग्रे भुक्त्वा।
21.तृतीया प्रभृतीनि अन्यतरस्याम् =उपदंश :तृतीयाम् इति आदीन् उपपदानिअन्यम् अन्तेन अव्ययेन सह वा समस्यते।मूलकेन उपदंशं भुङ्क्ते। मूलकोपदेशम्।
22.क्त्वा च =तृतीया--प्रभृतीनि उपपदानि क्त्वा अन्तेन सह वा समस्यते।उच्चै : कृत्य , उच्चै : कृत्वा। तृतीया--प्रभृतीनि किम् ? अलं कृत्वा। खलु कृत्वा।
23.शेषे बहुव्रीहि : =The other समासा : are classified as बहुव्रीहि समासा :
24.अनेकम् अन्य—पद--अर्थे =अनेकं प्रथम—अन्तम् अन्यस्य पदस्य अर्थेन वर्तमानं वा समस्यते स : बहुव्रीहि :। प्राप्त—उदक : ग्राम :
25.संख्यया अव्यय—आसन्न- --अदूर--अधिक--संख्याया : संख्येये =संख्येय अर्थया संख्यया अव्यय—आदय : समस्यन्ते स बहुव्रीहि :। दशानां समीपे ये सन्ति ते उपदशा : =नव or एकादश।
26.दिङ्नामानि अन्तराले =दिङ्नामानि अन्तराले वाच्ये प्राग्वत् | .dakShiNa—pUrva|
27.तत्र तेन इदम् इति सरूपे =सप्तमी--अन्तेग्रहण--विषये सरूपे पदे तृतीया अन्ते च प्रहतण—विषये इदं युद्धं प्रवृद्धम् इति अर्थे समस्येते । कर्म—व्यतिहारे द्योत्ये स बहुव्रीहि :। नागेशभट्ट :--मुष्टा--मुष्टि।
28.तेन सह इति तुल्य—योगे =तुल्य—योगे वर्तमानं सह इति एतत् तृतीया अन्तेन प्राग्वत्॥ सहपुत्र :। ससुत :
29.चार्थे द्वन्द्व : =अनेकं सुबन्तं चार्थे वर्तमानं वा समस्यन्ते स द्वन्द्व :
30.उपसर्जनं पूर्वम् =समासे उपसर्जनं प्राक्--प्रयोजनम्।
31.राज—दन्त--आदिषु परम् =दन्तानां राजा -राज—दन्त :
32.द्वन्द्वे घि =द्वन्द्वे घि संज्ञं पूर्वं स्यात्। हरि : च हर : =हरि--हर :
33.अच् आदि अत् अन्तम् =इदं द्वन्द्वे पूर्वं स्यात्। ईश—कृष्ण :। बहुषु अनियम :। अश्व—रथ--इन्द्रा :
इन्द्र—अश्व—रथ :
34.अल्प—अच्--तरम् =शिव—केशवौ।
35.सप्तमी विशेषणे बहुव्रिहौ =सप्तमी--अन्तं विशेषणं च बहुव्रीहौ पूर्वम् प्रयोज्यम्}। कण्ठे--काल :
अत : एव ज्ञापकादि अधिकरण –पदां बहुव्रीहि : =चित्रगु।
36.निष्ठा =निष्ठा--अन्तं बहुव्रीहौ पूर्वं स्यात्। कृत—कृत्य :
37.वा आहित—अग्नि–आदिषु। आहिताग्नि : :। अग्न्याहित :
38.कडारा : कर्मधारये =कडार---आदय : शब्दा : कर्मशारये वा पूर्वं प्रयोज्या :। कडार—जैमिनि :। जैमिनि--कडार :(कडार—जयवर्धन :)
पूर्व--अपर--अधर--उत्तर--तृतीया--प्रभृतीनि अष्टादश।
इति द्वितीत अध्यायस्य द्वितीय पाद : समाप्त :Pro.Total =423+38 =461.

तृतीय पाद :
1.अनभिहिते =इति अधिकृत्य।
2.कर्मणि द्वियीया =अनुक्ते कर्मणि द्वितीया स्यात्। हरिं भजते।
3.तृतीया च हो : छन्दसि =जुहोते : कर्मणि तृतीया स्यात् द्वितीया च।यवाग्वा अग्निहोत्रं जुहोति।
4...अन्तरा—अन्तरेण युक्ते =आभ्यां योगे द्वितीया स्यात्। अन्तरा त्वां मां हरि :
अन्तरेण हरिं न सुखम्।
5.काल—अध्वनो : अत्यन्त—संयोगे =मासं कल्याणी। क्रोशं कुटिला नदी :। अत्यन्त संयोगे किम् ? मासस्य द्वि : अधीते। क्रोशस्य एकदेशे पर्वत :
6.अपवर्गे तृतीया =अपवर्ग—फल---प्राप्ति : तस्य द्योत्यायां काल—अध्वनो : अत्यन्त—संयोगे तृतीया स्यात्। अन्हा क्रोशेन वा अनुवाक : अधीत :। अप्वर्गे किम् ? मासम् अधीत : न आयात :
7.सप्तमी--पञ्चम्यौ कारक—मध्ये =शक्ति--द्वय--मध्ये काल—अध्वनो : अत्यन्त—संयोगे एतौ
स्यातां।अद्य भुङ्क्त्वा अयं भुङ्क्ते। द्व्यन्हे द्व्यन्हात् वा भोक्ता। इहस्थ : क्रोशे क्रोशात् वा लक्ष्यं विध्येत्।
8.कर्मप्रवचनीय---युक्ते द्वितीया =एतेन योगेन द्वितीया स्यात्। पर्जन्य : जपम् अनुप्रावर्षत्।
9.यस्मात् अधिकं यस्य च ईश्वर—वचनं तत्र सप्तमी =अत्र कर्मप्रवचनीय—युक्ते सप्तमी स्यात्।
उपपरार्धे हरे : गुणा :। अधिभुवि राम :। अधिरामे भू :। समासे राम—अधीना पृथ्वी। (सप्तमी शौण्डे :)
10.पञ्चमी अप—आङ्--परिभि : =एतै : कर्मप्रवचनीय—युक्ते पञ्चमी स्यात्। अपहरे : : , परिहरे :
संसार :।परि अत्र वजने। आयुक्ते : संसार :। आसकलात् ब्रह्म।
11.प्रतिनिधि---प्रतिदाने च यस्मात् =अद्य कर्मप्रवाचनीय—युक्ते प~ज्चमी स्यात्। प्रद्युम्न : कृष्णात्प्रति॥
तिलेभ्य : प्रतियच्छति माषान्।
12.गति--अर्थ--कर्मणि द्वितीया--चतुर्थ्यौ चेष्टायाम् अनध्वनि =अध्व—भिन्ने गति--अर्थायां कर्मणि एते
स्त : चेष्टायाम्। ग्रामाय ग्रामं वा गच्छति। चेष्टायां किम् ? मनसा हरिं गच्छति। अनध्वनि इति किम् ? पन्थानं गच्छति।
13.चतुर्थी संप्रदाने =विप्राय गां ददाति। अनभिहिते इति एव। दानीय : विप्र :
14.क्रिया--अर्थ--उपपदस्य च स्थानिन : =क्रिया उपपदं यस्य तस्य स्थानिन :अनुप्रयुज्यमानस्य
तुमुन :कर्मणि चतुर्थी स्यात्। फलेभ्य : याति। फलानि आहर्तुं याति। नृसिंहाय नमस्कुर्म :
15.तुम्--अर्थात् च भाव—वचनात् =भाव—वचन : च इति सूत्रेण य : विहित : तत्--अन्तात् चतुर्थी स्यात्। यागाय याति। यष्टुं याति।
16.नम : स्वस्ति--स्वधा--स्वाहा--अलं--वषट् योगात् च =एभि : योगे चतुर्थी स्यात्। हरये नम :
17.मन्य—कर्मणि अनादरे विभाषा अप्राणिषु =प्राणि--वर्जे मन्यते :कर्मणि चतुर्थी वा स्यात् तिरस्कारे। न त्वां तृणं or तृणाय मन्ये।
18.कर्तृ--करणयो : तृतीया =अनभिहिते कर्तरि करणयो : तृतीया स्यात्। रामेण बाणेन हत : वाली।
19.सह युक्ते अप्रधाने =सह—अर्थेन युक्ते अप्रधाने तृतीया स्यात्}। पुत्रेण श आगत :पिता।
20.येन—अङ्ग--विकार : =येन अङ्गेन विकार :लक्ष्यते तत : तृतीया स्यात्। अक्ष्णा काण :
21.इत्थं--भूत लक्षणे =कंचित्--प्रकारं प्राप्तस्य लक्षणे तृतीया स्यात्। जटाभि : तापस :
22.संज्ञ : अन्यतरस्यां कर्मणि =सं पूर्वस्य जानाते : कर्मणि तृतीया वा स्यात्। पित्रा पितरं वा संजानीते।
23.हेतु--अर्थे तृतीया स्यात् =दण्डेन घट :। पुण्येन हरि :। अध्ययनेन वसति। अलं श्रमेण। अलं भयेन आत्मयोने---राम्--उदन्तम्।
24.अकतर्यृणे पञ्चमी =कर्ट्रु--वर्जितं यत् ऋणं हेतु--भूतं अस्त्री--लिङ्गे पञ्चमी वा स्यात्। शतात् बद्ध :।शतेन बद्ध :
25.विभाषा गुणे अस्त्रियाम् =गुणौ हेतौ अस्त्री--लिङ्गे पञ्चमी वा स्यात्। जाड्यात् जाड्येन वा। गुणे किम् ? धनेन कुलम्। अस्त्रियां किम् बुद्ध्या मुक्त :
26.षष्ठी हेतु--प्रयोगे =हेतु शब्द—प्रयोगे हेतौ द्योत्ये षष्ठी स्यात्। अन्नस्य हेतो : वसति।
27.सर्वनाम्न : तृतीया च =सर्वनाम्न : हेतु--शब्दस्य च हेतौ द्योत्ये तृतीया स्यात् षष्ठी च। केन हेतुना वसति। कस्य हेतो : वसति।
28.अपादेन प‘ज्चमी =ग्रामात् आयाति। धावत : अश्वात् पतति।कारकं किम् ? वृक्षस्य पर्णं पतति।
29.अन्य—आरात्--इतर--ऋते--दिक्--शब्द---अञ्चूत्तर--पद--आच्--आहि युक्ते =एतौ योगे पञ्चमी स्यात्। आच् =दक्षिणा ग्रामात्। आहि =दक्षिणाहि ग्रामात्।
30.षष्ठी अतस्--अर्थ प्रत्ययेन =ग्रामस्य दक्षिणत :। पुर : =पुरस्तात्। उपरि- =उपरिष्टात्।
31.एनपा द्वितीया =एनप् अन्तेन योगे द्वितीया स्यात्। एनपा इति योग—विभागात् षष्ठी अपि। दक्षिणेन ग्रामं ग्रामस्य वा।
32.पृथक्--विना--नानाभि : तृतीया अन्यतरस्याम् =एभि : योगे तृतीया स्यात् पञ्चमी द्वितीया च।
33.करणे च स्तोक—अल्प--कृच्छ्र--कतिपयस्य –असत्व वचनस्य =एभ्य : अद्रव्य—वचनेभ्य : करणे तृतीया पञ्चमी स्त :। स्तोकेन//स्तोकात् मुक्त । द्रव्ये तु स्तोकेन विषेण हत :
34.दूर—अन्तिक---अर्थे षष्ठी अन्यतरस्याम् =एतै : योगे षष्ठी स्यात्। पञ्चमी च।दूरं निकटं ग्रामस्य ग्रामात् वा।
35.दूर—अन्तिक--अर्थेभ्य : द्वितीया च =एभ्य : द्वितीया स्यात् पञ्चमी--द्वितीये। ग्रामस्य दूरं दूरात् दूरेण वा।
36.सप्तमी अधिकरणे च =दूर—अन्तिक--अर्थेब्य : सप्तमी च स्यात् अधिकरणे । सर्वस्मिन् आत्मा अस्ति।
37.यस्य च भावेन भाव—लक्षणम् =यस्य क्रियया क्रिया--अन्तरं लक्ष्यते तत : सप्तमी स्यात्। Locative Absolute =गोषु दुह्यमानासु गत :
38.षष्ठी च अनादरे =भाव—लक्षणे षष्ठी--सप्तम्यौ स्त :। रुदति रुदत : वा प्राव्राजीत्। Genitive Absolute.
39.स्वामी--ईश्वर--अधिपति - दायाद—साक्षी---प्रतिभू--प्रसूतै : =एतै : सप्तभि : योगे षष्ठी--सप्तम्यौ स्त :
गवां गोषु वा स्वामी।
40.आयुक्त—कुशलाभ्यां च आसेवायाम् =आयुक्त : =व्यापारित :। आयुक्त : कुशल : वा हरि--पूजने। हरि--पूजनस्य वा। आसेवायां किम् ? आयुक्त : गौ : शकटे। ईषत्--युक्त : इति।
41.यत : च निर्धारणम् =जाति--गुण--क्रिया --संज्ञाभि : समुदयात् एकदेशस्य पृथक्--करणम् निर्धारणम् यत : तत : षष्ठी--सप्तम्यौ स्त :। नृणाम् नृषु श्रेष्ठ : ब्राह्मण :
42.पञ्चमी विभक्ते =विभाग : विभक्तम्। निर्धार्यमाणस्य यत्र भेद : तत्र पञ्चमी स्यात्। माथुरा : पाटलि--पुत्रकेभ्य: : आढ्यतरा :
43.साधु--निपुणभ्याम् अर्चायां सप्तमी अप्रते : =आभ्यां योगे स्यात् अर्चायां न तु प्रते :।मातरि साधु : निपुण ; वा। अर्चायां किम् ? निपुण : राजॅ : भृत्य :
44.प्रसित—उत्सुकाभ्यां तृतीया च =आभ्यां योगे तृतीया च सप्तमी स्त :। प्रसित : उत्सुक : वा हरिणा हरौ वा।
45.नक्षत्रे च लुपि =नक्षत्रे च प्रकृति--अर्थे य : लुप् संज्ञया लुप्यमानस्य प्रत्ययस्य अर्थ : तत्र वर्तमानात् तृतीया--सप्तम्यौ स्त : अधिकरणे। मूलेन आवाहयेत् देवीं श्रवणेन विसर्जयेत्। मूलॆ श्रवणे इति वा।
लुपि किम् ? पुष्ये शनि :
46.प्रातिपदिक---अर्थ--लिङ्ग--परिमाण---वचन--मात्रे प्रथमा =नियत—उपस्थितिक : प्रातिपदिक---अर्थ मात्र शब्दस्य प्रत्येकं: योग :। प्रातिपदिक---अर्थ--मात्रे , लिङ्ग—मात्र---अधिक्ये((आधिक्ये) ) , परिमाण –मात्रे , संख्या--मात्रे च प्रथमा स्यात्। उच्चै: नीचै : कृष्ण : , स्त्री , ज्ञानं वा।
47.संबोधने च =संबोधने च प्रथमा स्यात्।
48.सामन्त्रितम् =संबोधने या प्रथमा तत्--अन्तम् आमन्त्रित –सज्ञं स्यात्।
49.एकवचनं संबुधि : =संबोधने प्रथमाया : एकवचनं सम्बुद्धि--संज्ञं स्यात्।
50.षष्ठी शेषे =कारक—प्रातिपदिक----अर्थ--व्यतिरिक्त : स्वस्व—स्वामि---संबन्ध : शेष : तत्र षष्ठी स्यात्।सतां गतम्। सर्पिष : जानीते। मातु : स्मरति। छात्रस्य हसितम्----भाष्यम्।
51.ज्ञ : अवित्--अर्थस्य =जानाते : अज्ञान—अर्थस्य शेषत्वेन विवक्षिते षष्ठी स्यात्। सर्पिष : ज्ञानम्।
52.अधीगर्थ—दय--ईशां कर्मणि =एतेषां कर्मणि शेषे षष्ठी स्यात्।मातु : स्मरणम्। सपिष : ज्ञानं , ईशनं वा।
53.कृञ : प्रतियत्ने =कृञ : कर्मणि शेषे षष्ठी स्यात्।
54.रुज—अर्थानां भाव—वचनानाम् =ज्वर वर्जितानां रुज—अर्थानां कर्मणि शेषे षष्ठी स्यात्। चौरस्य रोगस्य रुजा।
55.आशिषि नाथ : =आशी : अर्थस्य नाथस्य शेषे कर्मणि षष्ठी स्यात्। सर्पिषि नाथनम्। आशिषि इति किम् ? माणवक---नाथनम्।
56.जासि--निप्रहण--नाट--क्राथ--पिषां हिंसायाम् =हिंसार्थानाम् एतेषां शेषे कर्मणि षष्ठी स्यात्। चौरस्य—उज्जासनम्। हिंसायां किम् ? धाना--पेषणम्।
57.व्यवहृ--पणो : समर्थयो : =शेषे कर्मणि षष्ठी स्यात्। शतस्य व्यवहरणं पणनं वा। समर्ययो : किम् ?
शलाका--व्यवहार :--व्यवहार : =गणनम्। ब्राह्मण—पणनम्। पणनम् =स्तुति :
58.दिव : तत्--अर्थस्य =द्यूत—अर्थस्य क्रय—विक्रया--रूप--व्यवहार--अर्थस्य च दिव : कर्मणि षष्ठी स्यात्।
शतस्य जीवति। तत्--अर्थस्य किम् ? ब्राह्मणं दीव्यति। स्तौति इति अर्थ :
59.विभाषा उपसर्गे =पूर्व—योग--अपवाद :। शतस्य शतं वा प्रतिदीव्यति।
60.द्वितीया ब्राह्मणे =ब्राह्मण—विषय— प्रयोगे दिव : तत्--अर्थस्य कर्मणि द्वितीया स्यात्। षष्ठी
अपवाद :। ग्रामस्य तत्--अह : सभायां दीव्येयु :
61.प्रेष्य—ब्रुवो : हविष : देवता--संप्रदाने =देवता--संप्रदाने अर्थे प्रेष्य—ब्रुवो : कर्मण : हविर्विशेषस्य वाचकात् शाब्दात् षष्ठी स्यात्। अग्नये छागस्य हविषा वपाया मेदस्य प्रेष्य अनुब्रूहि वा।
62.चतुर्थी अर्थे बहुलं छन्दसि =पुरुष—मृग : चन्द्रमसे। गोधा--काल-का--दार्वा--घटस्ते वनस्पतीनाम्। वनस्पतिभ्य : इति अर्थ :
63.यजे : च करणे =इह छन्दसि बहुलं षष्ठी। घृतस्य घृतेन वा यजते।
64.कृत्व—अर्थ--प्रयोगे काले अधिकरणे =कृत्व : अर्थानां प्रयोगे काल—वाचिनि अधिकरणे शेषे षष्ठी स्यात्। पञ्चकृत्व : अन्ह : भोजनम्। द्वि : अन्ह :भोजनम्। शॆषे किम् ? द्वि : अहनि अध्ययनम्।
65.कर्तृ--कर्मणो : कृति =कृत् योगे कर्तरि कर्मणि च षष्ठी स्यात्। कृष्णस्य कृति :। जगत : कर्ता
कृष्ण :
66.उभय—प्राप्तौ कर्मणि =उभयो : प्राप्ति : यस्मिन् कृति तत्र कर्मणि एव षष्ठी स्यात्। आश्चर्य : गवां
दोह : अगोपेन । refer 14th सूत्र of द्वितीय—पाद : this अध्याय।
67.क्तस्य च वर्तमाने =वर्तमान---अर्थस्य क्तस्य योगे षष्ठी स्यात्। राज्ञां मत : बुद्ध : पूजित : वा।
68.अधिकरण—वाचिन : : =क्तस्य योगे षष्टी स्यात्। इदम् एषाम् आसितं , शयितं , भुक्तं वा। refer 13th सूत्र of द्वितीय—पाद of this अध्याय।
69.न लोक—अव्यय---निष्ठा--खल्--अर्थ--तृनाम् =एषां योगे षष्ठी न स्यात्। कुर्वन् कुर्वाण : वा सृष्टिं
हरि :। शेषॆ षष्ठी भाति एव।
70.अकेनो : भविष्यत -आधमर्ण्ययो : =भविष्यति अकस्य भविष्यत्--आधमर्ण्य--अर्थनै : च षष्ठी न स्यात्। सत : पालक :। व्रजं गामी। शतं दायी।
71.कृत्यानां कर्तरि वा =षष्ठी वा स्यात्। मया मम सेव्य : हरि :। कर्तरि इति किम् ? गेय : माणवक :
साम्नाम्।
72.तुल्य—अर्थै : अतुल—उपमाभ्याम् तृतीया अन्यतरस्याम् =तुल्य : सदृश : सम : वा कृष्णेन कृष्णस्य वा। अतुल—उपमाभ्यां किम् ? तुला उपमा वा कृष्णस्य न अस्ति।
73.चतुथी च आशिष्य—आयुष्य--मद्र--भद्र--कुष ल—सुख-अर्थाहिते : =एतै : योगे चतुर्थी षष्ठी च स्यात्।
आयुष्यं कृष्णाय कृष्णस्य वा। आशिषि किम् ? देवदत्तस्य आयुष्यम् अस्ति।
अनभिहिते - इत्थं--यत : च प्रेष्य—ब्रुवो : त्रयोदश। Pro.Total =461+73 =534.
। इति द्वितीय –अध्यायस्य तृतीय : पाद : समाप्त :

अथ चतुर्थ : पाद :
1.द्विगु : एकवचनम् =द्विगु : एकवचनम्। द्विगु--अर्थ : समाहार : एकवत् स्यात्। सनपुंसकम् इति नपुंसकत्वम्। पञ्चानं गवानं समाहार : पञ्चगवम्।
2.द्वन्द्व : च् प्राणि--तूर्य--सॆना-अङ्गानाम् =एषां द्वन्द्व : एकवत् स्यात्। पाणि--पादम्। मार्दङ्गिक—पाणविकम्। रथिक-- अश्व---आरोहम्।
3.अनुवादे चरणानां =चरणानां द्वन्द्व : एकवत् स्यात्। सिद्धस्य—उपन्यासे।।
4.अध्वर्यु--क्रतु : अनपुंसकम् =यजुर्वेदे य : विहित : क्रतु : तत्--वाचिनां अनपुंसक—लिङ्गानां द्वन्द्व : एकवत् स्यात्।अर्क---अश्वमेधम्।अध्वर्यु--क्रतु : किम् ? इषु--व्रजौ सामवेदे। अनपुंसकं किम् ? राजसूय—वाजपेये।
5.अध्ययनत : अविप्रकृष्ट—अख्यानाम् =अध्यानेन प्रत्यासन्ना आख्या येषां तेषां द्वन्द्व : एकवत् स्यात्। पद—क्रमकम्।
6.जाति : अप्राणिनाम् =प्राणि--वर्ज--जात्ति--वाचिनां द्वन्द्व : एकवत् स्यात्। धाना--शष्कुलि। प्राणिनां तु विट्--शूद्रा :
7.विशिष्ट—लिङ्ग : नद्--देश अग्रामा : =ग्राम—वर्ज--नदी--देश--वाचिनां भिन्न—लिङ्गानामं समाहारे द्वन्द्व : एकवत् स्यात्। गङ्गा--शोणम्।
8.क्षुद्र—जन्तव : =एषां समाहार—द्वन्द्व : : एकवत् स्यात्। यूका--()लिक्षम्।
9.येषां च विरोध : शाश्वतिक : =एषां प्राक्--वत्। अहि--नकुलम्। गो--व्याघ्रम्। काक—उलूकम्।
10.शूद्राणाम् अनिरवसितानाम् =अबहिष्कृतानां श्द्राणां प्राक्--वत्। तक्ष—अयस्कारम्। पात्रात् स्बहिष्कृतानां तु चण्डाल—मृतपा :
11.गव—अश्व -प्रभृतीनि च =यथा--उच्चारितानि साधूनि स्यु :। गव—अश्वम्। दासी--दासम्।
12.विभाषा वृक्ष-मृग—तृण--धान्य--व्यञ्जन--पशु--शकुनि--अश्व--वडव--पूर्व--अपर--अधर--उत्तराणाम् =वृक्ष—आदीनाम् सप्तानां द्वन्द्व : अश्व—वडव इति आदि द्वन्द्व—त्रयं च प्राक्--वत् वा।वृक्ष--आदौ विशेषाणाम् एव ग्रहणम्।
13.विप्रतिषिद्धं च अनधिकरण—वाचि =विरुद्धानां अर्थानाम् अद्रव्य—वाचिनां द्वन्द्व : एकवत् वा। शीत—उष्णम्। शीतोष्णे।
14.न दधि-पय--आदीनि =एतानि न एकवत् स्यु :। दधि-पयसी। इध्म—पर्हिषी। ऋक्--सामे। वाङ्--मनसे।
15.अधिकरण एतावत्वे च =द्रव्य—संख्य--अवगमे एकवत् एव इति नियम : न स्यात्।
दश दन्त—ओष्ठा :
16.विभाषा समीपे =अधिकरण एतावत्वस्य सामिप्येन परिच्छेदे समाहार एव इति एवं रूप :
नियम : वा स्यात्। उपादशं दन्त—ओष्ठा :। उपदशा: : दन्त—ओष्ठा :
17.स नपुंसकम् =समाहारे द्विगु : द्वन्द्व : च नपुंसकं स्यात्। प~न्ज—गवम्। दन्त—ओष्ठम्।
18.अव्ययी--भाव : =अयं नपुंसकं स्यात्। अधिगोपम्।उपकृष्णम्।
19.तत्पुरुषे अनञ् कर्मधारय : =अधिकार : अयम्।
20.सज्ञायां कन्था--उशीनरेषु =कन्थानात् तत्पुरुष : क्लीबं स्यात् सा चेत् उशीनर—देश--उत्पन्नाया : कन्थाया : संज्ञा। सौशमि--कन्थम्। संज्ञायां किम् ? वीरण—कन्था। उशीनरेषु कन्था दाक्षी--कन्था।
21.उपज्ञ—उपक्रम तत्--आदि--अख्यायाम् =उपज्ञ अन्त उपक्रम—अन्त : च तत्पुरुष : नपुंसकं स्यात् तयो : उपज्ञायमान : , उपक्रम्यमाणयो :आदि प्राथम्यं चेत् आख्यातुम् इष्यते। पाणिन---उपक्रमं
ग्रन्थ :। नन्द—उपक्रमं द्रोण :
22.छाया बाहुल्ये =इक्षुच्छायम्।
23.सभा राजा अमनुष्य—पूर्वा =इन—सभम्। ईश्वर—सभम्। अमनुष्य—पूर्वा किम् ? राज—सभा। चन्द्रगुप्त—सभा।
24.अशाला च =संघात—अर्था या सभा तत्-- -अन्त : तत्पुरुष : क्लीबं स्यात्। स्त्री--सभम्। स्त्री--
संघात : इति अर्थ :
25.विभाषा सेना--सुरा--छाया--निशानाम् =ब्राह्मण—सेना। ब्राह्मण—सेनम्।न्वा
26.परवत्--लिङ्गं द्वन्द्व—तत्पुउषयो : =एतयो : पर—पदस्य एव लिङ्गं स्यात्। कुक्कुट -मयूरी इमे। मयूरी--कुक्कुटौ इमौ।
27.पूर्ववत् अश्व—वडवौ =द्विवचनम् अमन्त्रम्। अश्व--वडवौ।
28.हेमन्त—शिशिरौ अहो --रात्रे च छन्दसि =द्वन्द्व : पूर्ववत् लिङ्ग :। हेमन्त—शिशिरौ। अहोरात्रे।
29.रात्र—अन्ह--अन्हा : पुंसि =एतत् अन्तौ द्वन्द्व—तत्पुरुशौ पुंसि एव। अहोरात्र :। पूर्व—रात्र :। पूर्वाण्ह :(पूर्व—अन्ह :)
30.अपथं नपुंसकम् =तत्पुरुष : इति एव। अन्यत्र अपथ : देश :। कृत—समास--अन्त--निर्देशात् न इह अपन्था :
31.अर्दर्चा : पुंसि च =अर्धर्च : , अर्धर्चम्।
32.इदम : अन्वादेश : अश् अनुदात्त : तृतीय—आदौ =अन्वादेश—विषयस्य इदम : अनुदात्ते अश् स्यात् तृतीय—अदौ। अश् वाचनं साकच्कार्थम्।
33.एतद : त्रतस :--अस्त्रतसौ च अनुदात्तौ =अन्वादेश---विषये एतद : अश् स्यात् स च अनुदात्त :त्रतस :
परत : तौ।च अनुदात्तौ स्त :।एतस्मिन् ग्रामे सुखं वसाम :। अत : अत्र अधीमहे। अत्र न गन्ता स्म :
एतस्मात् ग्रामात् इति अर्थ :
34.द्वितीया टौस्वे अन : =द्वितीयायां टौ सो : च परत : इदम्--एतदो : अन् आदेश : स्यात् अन्वादेशे।
किंचित् कार्यं विधातुम् उपात्तस्य कार्य—अन्तरं विधातुं पुन : उपादानम् अन्वादेश । यथा--व्याकरणम् अधीतम् एनं छन्द : अध्यापय। अनयो : पवित्रं कुलम् एनयो : प्रभूतं स्वम् इति।
35.आर्धधातुके =इति अधिकृत्य।
36.अद : जग्धि : ल्यप्ति किति =अद : जग्धि :स्यात् ल्यपि त—आदौ किति च। जग्ध :
37.लुङ्--सनो : घस्ऌ =अद : घस्ऌ स्यात् लुङि सनि च। ऌ-- इत्वात् अङ्---अघसत्।जिघांसा।
38.घञ्--अप : =अदे : घसॢ स्यात्। घास :। प्रघस :। विघस :
39.बहुलं छन्दसि =घस्तात् नूनम्। लुङि मन्त्रे घस इति च्ले : लुक्। अट् अभाव :। सग्धि : च मे।
40.लिटि अन्यतरस्याम् =जघास or आद।
41.वेञ :फ् वयि : =वा स्यात् लिटि। इकार उच्चारण—अर्थ :। उवाय।
42.हन : वध लिङि =वध आदेश : अत्--अन्त :। वध्यात्। आर्धधातुके किम् ? प्रहण्यात्। हन्ते :
इति णत्वम्।
43.लुङि च =अवधीत्। अत्--लोपस्य स्थानिवत्वातत : हल्--आदे : इति न वृद्धि :
44.आत्मनेपदेषु अन्यतरस्याम् =हन : वध आदेश वा लुङि आत्मनेपदेषु परेषु । अवधिष्ट। अवधिषताम्।
45.इण : गा लुङि =गति--स्था इति सिच : लुक् स्यात्। अगात्। अगाम्। अगु :
46.णौ गमि : अवबोधने =इण : गमि : स्यात् णौ। गमयति।बोधने तु प्रत्यायति। इण्वदिक :
47.सनि च =इण : गमि : स्यात् सनि च न तु बोधने। जिगमिषति। बोधने तु प्रतिषिषति।
इण्वदिक :
48.इङ : =अधिजिगांसति।
49.गाङ् लिटि =इङ : गाङ् स्यात् लिटि। अधिजगे। अधिजगाते। अधिजगिरे।
50.विभाषा लुङ्--ऌङो : =इण :/इङ : गाङ् वा स्यात् लुङ्--लृङो :। लृङ्--lrung
51.
णौ च संश्चङो : =णौ परे सन् परे च इङ : गाङ् वा स्यात्।
52.अस्ते : भू : =बभूव। भवतु। अस्तु। स्तात्। स्ताम्। सन्तु।
53.ब्रुवो : वचि : =उवाच। ऊचतु :। ऊचु :
54.चक्षिङ : ख्याञ् =चख्यौ , चख्ये वा लिटि।
55.अजे : वी अघञ्--अपो : =अजे : वी इति अयम् आदेश : स्यात् आर्धधातुक विषये घञ्--अपं च वर्जयित्वा । विवाय। विव्यतु :। विव्यु :
56.वा यौ =अजे : वी वा स्यात् यौ। प्रवयणम्। प्राजनम्।
57.ण्य क्षत्रिय—आर्ष---‘ञित : यूनि लुक् अण्--इञो : =ण्य प्रत्यय—अन्तात् क्षत्रिय—प्रत्यय----अन्तात्
ञित : परयो : युव—अभ्धायिन : अण्--इञो : लुक् स्यात्। कौरव्य : पिता। कौरव्य : पुत्र :। एभ्य :
किम् ? कौहड : पिता। कौहडि : पुत्र :। यूनि किम् ? वाम—रथस्य छात्रा : वाम—रथा :
58.पैल—आदिभ्य : =पैल : पिता पुत्र : च।
59.इञ : प्राचाम् =गोत्रे य : इञ् तत्--अन्तात् युव प्रत्ययस्य लुक् स्यात्। तत् चेत् गोत्रं प्राचां भवति। पन्नग—राजस्य अपत्यम्। अत : इञ् अञ्--इञो : च इति फक्। तस्य लुक्।पन्नग—अरि : पिता पुत्र : च। प्राचां किम् ? दाक्षि : पिता। दाक्षायण : पुत्र :
60.न तौल्वलिभ्य : =तौल्वल्य—आदिभ्य : परस्य युव प्रत्ययस्य न लुक् स्यात्। तुल्वल :---तौल्वलि : पिता।
61.तत्--राजस्य तेन एव अस्त्रियां =बहुषु अर्थेषु तत्--राजस्य लुक् स्यात् तत्--अर्थ--कृते बहुत्वे न तु स्त्रियाम्। इक्ष्वाकव : । पञ्चाला : इति आदि। examples of रघु--वंश & यदु--वंश are also quoted here as अपत्य—अन्वयम्।
62.यस्क—आदिभ्य : गोत्रे =एभ्य : अपत्य प्रत्ययस्य लुक् स्यात्- तत्--तत्--कृते बहुषु न तु स्त्रियाम्। मित्रयव :। गर्गा :
63.यञ्--अञो : =गोत्रे यञ्--अन्तं अञ्--अन्तं च तत्--अवयवो : एतयो : लुक् स्यात्। तत्--तत्--कृते
बहुषु न तु स्त्रियाम्। वत्सा :। ऊर्चा :। तत्--कृत इति किम् ? प्रिय—गार्ग्या :।स्त्रियां तु गार्ग्य : स्त्रिय :। गोत्रे किम् ? द्वैप्या : औत्सा :। प्रवर—आध्याय सिद्धम् इह गोत्रम्। तेन इह न—पौत्रा :। दौहित्रा :
64.अत्रि--भृगु--कुत्स--वसिष्ठ--गोतम--अङ्गिरोभ्य : =एभ्य : गोत्र—अपत्यस्य लुक् स्यात् तत्--कृते बहुत्वे न तु स्त्रियाम्।
65.बहु--अच : इञ : प्राच्य—भरतेषु =बहु--अच : पर : : इञ् प्राच्य—गोत्रे च वर्तमान : तस्य लुक् स्यात्। पन्नागारा :। युधिष्ठिरा :
66.न गोप—वन आदिभ्य : =एभ्य : गोत्र—प्रत्ययस्य लुक् न स्यात्। बिद—आदि--अन्तर्गत : ग ण : अयम्। गौप—वना । शैग्रवा :
67.तिक—कितव---आदिभ्य : द्वन्द्वे =एभ्य : गोत्र—प्रत्ययस्य बहुत्वे लुक् स्यात् द्वन्द्वे--तैकायन + कैतवायन =तिक---कितवा :
68.उपक—आदिभ्य : अन्यतरस्याम् अद्व्न्द्वे =एभ्य : गोत्र—प्रत्ययस्य बहुत्वे लुक् वा स्यात्। द्वन्द्वे अद्वन्द्वे च। औपकायन +लामकायन =औपकायन –लामकायना :। उपक—लमका :। अद्वन्द्वे--भ्राष्टकि---कपिष्ठलय :
69.आगस्ति--कौण्डन्ययो : अगस्ति--कुण्डिनच् =एतयो : अवयवस्य गोत्र—प्रत्ययस्य अण : यञ : च बहुषु लुक् स्यात् अवशिष्टस्य प्रकृति--भागस्य यथा--संख्यस्य अगस्ति--कुण्डिनच् आदेशौ स्त :
अगस्तय :। कुण्डिना :
70.सुप : धातु--प्रातिपदिकयो : =एतयो : अवयवस्य सुप : लुक् स्यात्। भूत—पूर्वे चरट् इति निर्देशात् भूत शब्दस्य पूर्व—निपात :। पूर्वं भूत : भूत—पूर्व :
71.अदि प्रभृतिभ्य : शप =लुक् स्यात्। अत्ति। अत्त :। अदन्ति।
72.बहुलं छन्दसि =वृत्रं हन्ति वृत्रहा। अहि : शयत उपपृक्त-- अत्र लुक् न। अत्--आदि भिन्ने अपि क्वचित् लुक्। त्राध्व : : देवा :। जुहोति--आदिभ्य : श्लु।
73.यङ : अचि च =अच् प्रत्यये लुक् स्यात्। चकारात् तं विना अपि लुक् स्यात्। अनैमित्तिक : अयम् अन्तरङ्गत्वात् आदौ भवति। तत : प्रत्यय—लक्षणेन यङ्--अन्तात् वित्वम्।अभ्यास—कार्यम्। धातुत्वात् लट्--आदय :
74.जुहोति आदिभ्य : श्लु =शप : श्लु स्यात्। जुहोति।
75.बहुलं छन्दसि =दाति प्रियाणि चित्--वसु। अन्यत्र—अपि। पूर्णां विवष्टि।
76.गाति--स्था--आप्--घु--पा--भूभ्य : सिच : परस्म देषु =एभ्य : सिच : लुक् स्यात् परस्मैपदेषु। इह इण—आदेश—अपि वती गृह्येते। (गृह्यते ?)
77.विभाषा घ्रा--धेट्--शाच्शास : =अधात्।अधाताम् । अधु :
78.तन—आदिभ्य : त—थासो :=तन—आदे : सिच : वा लुक् स्यात्। त—थासो : परत :। थासा साहचर्यात् एकवचनं त शब्द : गृह्यते।
79.मन्त्रे घस—ह्वर----णाश--वृ--दह--आत्--वृचृ--कृ--गमि--जनिभ्य : ले : =एभ्य : ले : लुक् स्यात्। अक्षन्नमीम दन्त हि माह्व : मित्रस्य धूर्ति :। प्रणङ्मर्त्यस्य। नशे : वा इति कुत्वम्। सुरुचो वेना आव :। मा न आधक्।आत् इति आकार—अन्त--ग्रहणम्। आ (प्रा) द्यावा--पृथिवी। परावग्भारभृद्यथा। अक्रन्नुषास :। त्वं रयिं जागृवांस : अनुग्मन्। अज्ञात वा अस्य दन्ता :। विभाषा अनुवृत्ते : न इह। न ता अगृभ्णन् अजनिष्ट हि ष :। घस—अत्ते : आदेश। ह्व—कौटिल्ये---ह्वर--उच्चारन--अर्थ :। णाश दर्शने।वृञ् वरणे। वृङ् संभक्तौ। (वृच् )। डु कृञ् करणे।
80.आम : =आम : परस्य लुक स्यात्।
81.अव्ययात् आप् सुप : =अव्ययात् विहितस्य आप : सुप : च लुक् स्यात्।
82.न अव्ययीभावात् अत : अमूत्व—पञ्चम्या : =अत् अन्तात् अव्ययीभावात् सुप ळ् न लुक् किन्तु तस्य पञ्चमी विना अम् आदेश :। दिश : मध्ये अपदिशम्।
83.तृतीया--सप्तम्य : बहुलम् =अत् अन्तात् अव्ययीभावात् तृतीया--सप्तम्य : बहुलं : अम् भाव : स्यात्।
अपदिशम्। अपदिशेन। अपदेशे।
84.लुट : प्रथमस्य डा--रौ--रस : =डा रौ रस्---एते क्रमात् स्यु :। डित्व सामर्त्यात् अभ्यासस्य्य अपि
टे : लोप :
द्विगुपज्ञोक्रमंवेञोवयिनतौल्वलिभ्य : आम :पञ्च च। Pro.Total =534 + 84 =618.

। इति चतुर्थ : पाद : समाप्त :

। इति द्वितीय : अध्याय : समाप्त :

No comments:

Post a Comment