Saturday, February 21, 2015

श्री ताम्रपर्णीमाहात्म्यम् - Sri Tamraparni Mahaatmiyam - chapter 51 to 58

एकपञ्चाशत्तमोऽध्याय :
            ज्योतिर्वने श्रीबलधिर्नाम्न : राज्ञा लिङ्गत्रयप्तिष्ठा श्यामानदीसङ्गमे
१.श्री शङ्ख : --इत्थमाकर्णैकपीयूषाम्भोधिसंप्लवाम् । कथां कलिमलापायां काङ्क्षितोदयनैष्ठिकीम् ॥ 
२.दुष्कर्मव्रातशमनीं राजा पाण्ड्येन्द्रनन्दन : । प्रसाद्य मूर्ध्ना भूयोऽपि सनातनमिदं जगौ ॥
३.राजोवाच --भगवन् योगिनां श्रेष्ठ दृष्टलोकपरावर । भवता जगतीचक्रे परित्राणपरात्मना ॥
४.जन्तवो जन्मसंसारघोरार्णवपरिभ्रमात् । परिपश्यन्ति सिद्धार्था नैव पश्यन्ति दुर्गतिम् ॥
५.तरन्त्यन्धंतम: सूर्यात् परितापं निशाकरात् । परितापं तमस्तोमं तरन्ति भवतो जना : ॥
६.तस्मात् त्वां करुणामूर्तिं गुरुमासाद्य निर्मलम् । न भवाब्धेर्न संसारात् परिपश्याम्यहं क्वचित् ॥
७.दूरीकृतानि दु;खानि चिन्तासन्तापवन्त्यपि । ऊरीकृतमहो श्रेय : प्राप्तसर्वमनोरथम् ॥
८.अनया कथया ब्रह्मन् ब्रह्मज्योतिप्रकाशया । कृतकृत्योऽस्म्यहं ब्रह्मन् कृतार्थोऽस्मि हि केवलम् ॥
९.भूमि : परिमिता व्योम्नि मितं तारकदम्बकम् । मिता हिमानी कालेन मिता चैव कुलाचला : ॥
१०.मन्यामहे वयं ब्रह्मन् कथया भूरिसंपद : । महामहार्थकलिका ह्यमिता व्योमचक्रवत् ॥
११.इत:परमहं ब्रह्मन् तेज:पुञ्जमकल्मषम् । द्रष्टुमिच्छामि भवतां मास्तु कालविलम्बनम् ॥
१२.स्नातव्यानि च तीर्थानि द्रष्टव्यानि स्थलान्यपि । पूजितव्याश्च तत्रत्या : देवताश्च यथाक्रमम् ॥
१३.गुरूपदिष्टमार्गेण स्थाप्य लिङ्गमनुत्तमम् । पूजयिष्यामि विश्वेशं सोमं सोमविभूषणम् ॥
१४.सा तेन महाभाग मन्त्रिण : सपुरोहिता : । सेनाध्यक्षा : च निर्यान्तु सवाजिरथकुञ्जरा : ॥
१५.धनाध्यक्षा : समादाय पुष्कलानि धनान्यपि । इति भूपवचश्श्रुत्वा सर्वे संहृष्टमानसा : ॥
१६.नगरात् निर्ययु : तूर्णं विचित्रं द्रष्टुमुत्सुका : । सुधानीतं तथा दिव्यं स्यन्दनं कामचारिणम् ॥
१७.विनीताश्वसमायुक्तं गन्धर्वनगरोपमम् । सनातनं पुरस्कृत्य समारोहन्नृपात्मज : ॥
१८.काश्यपो जमदग्निश्च पर्णादो रैब्यरैवतौ । लोपामुद्रापति : श्रीमान् अगस्त्य : साग्निहोत्रक : ॥
१९.नारद : पर्वतश्चैव कौशिकश्च पराशर : । वसिष्ठाद्या : तथा तस्मिन् समवायमकल्पयन् ॥
२०.शङ्खभेरीनिनादैश्च पणवानकगोमुखै : । वीणावेणुनिनादैश्च जयशब्दैश्च वन्दिनाम् ॥
२१.पूर्यमाणमिव व्योम भू : चचलेव सर्वश : । एवं प्रहृष्टै : मुनिभि : जनमन्त्रिपुरोहितै : ॥
२२.प्रपूज्यमानो योगीन्द्रो राजापाण्ड्येन्द्रसूनुना । प्रविवेश महाक्षेत्रं भास्कराकारदर्शनम् ॥
२३.समन्तात् योजनायामं सर्वसिद्धनिषेवितम् । नीलजीमूतसङ्काशै : महापादपसञ्चयै : ॥
२४.व्याप्तं दिग्व्योमभागैश्च सपुष्पफलपल्लवै : । चूतकेतकतालाम्रतङ्कोलामलकेतकै : ॥
२५.माक्न्दकुन्दमन्दारचन्दनातङ्कतिन्दुकै : । केरनारङ्गकङ्केलिकलिमालूरमागधै : ॥
२६.नमेरुपूगनागाद्यै : शाखारुद्धातपच्छदै : । अनभिज्ञातपापौघभूभागपरमोदय : ॥
२७.कासारशतसंपातकल्हारकुमुदोज्ज्वलम् । ज्वलत्पावकसङ्काशै : सूर्यताराधिपप्रभै : ॥
२८.तपस्यद्भि : महासिद्धै : यतिभि : ब्रह्मचारिभि : । वनाश्रमिजनैरन्यै : ब्राह्मणै : गृहमेधिभि : ॥
२९.क्वचित् समाधिमापन्नै : अर्धोन्मीलितलोचनै : । क्वचित् आराधयद्भि : च देवदेवमुमापतिम् ॥
३०.पञ्चयज्ञपरैर्दान्तै: क्वचित् स्मृतिविशारदै:। क्वचित् सामानि गायद्भि : क्वचित् चापि ऋचां गणै : ॥
३१.यजूंषि वाचा विस्तार्य तदर्थान्वेषणातुरै : । ब्राह्मणैरध्वरोद्युक्तै : आथर्वणपरै : परै : ॥
३२.जुह्वद्भिरग्निमन्यत्र क्वचित् योगपरायणै : । सर्वतश्शोभनाकारं सालङ्कारमिव स्थितम् ॥
३३.क्षेत्रमक्षिपथे लब्ध्वा आदिसिद्धनृपादय : । अवतीर्य स्वयानेभ्य : कृताञ्जलिपुटोज्ज्वला : ॥
३४.प्रणेमु : शिरसा क्षेत्रं प्रजापतिमिव प्रजा : । सह राजेन्द्रपुत्रेण प्रीतो विप्रै : सनातन : ॥
३५.प्रविवेश महाक्षेत्रं भक्त्या प्रणतकन्धर : । इत्थमायान्तमधुना राज्ञा राजेन्द्रसूनुना ॥
३६.तत्रत्या : सहसा सिद्धा : ज्ञात्वा प्रीतिपुरस्सरम् । प्रत्युज्जग्मुर्यथान्यायं मधुपर्कार्हणादिभि : ॥
३७.परस्परं समभ्यर्च्य त एते स्वागतादिभि : । तै: पूजितो यथान्यायं हृष्टा क्षेत्रमुपागमन् ॥
३८.प्रविश्य सुमहत्क्षेत्रं विनीतो राजनन्दन : । आदिसिद्धोपदिष्टेन विधिना भैरवं विभु : ॥
३९.प्रथमं पूजयित्वा तु गणेशवटुकौ तथा । तीर्थदेवीं समभ्यर्च्य ताम्रां मलयनन्दिनीम् ॥
४०.स्नात्वा क्रमेण तीर्थेषु वापीकूपह्रदादिषु । देवान् पितॄन् ऋषीन् चैव तर्पयित्वा द्विजान् अपि ॥
४१.क्षेत्रोपवासं विधिवत् रात्रौ जागरणं तथा । कृत्वा धर्मकथां श्रुत्वा निनाय रजनीं नृप : ॥
४२.अपरेद्युस्समुत्थाय कृत्वा स्नानादिका : क्रिया : । ब्राह्मणान् भोजयित्वा तु पारणामभ्यवर्तयत् ॥
४३.तत : कतिपयाहेषु गतेषु नृपनन्दन : । दीनेशे मकरारूढे पूर्यमाणे निशाकरे ॥
४४.सप्तम्यां गुरुवारे च शुभयोगसमन्विते । गार्हस्थ्यमिन्द्रावश्विन्याम् कर्म कुर्वति निमले ॥
४५.गुरुणाधिष्ठिते लग्ने कविना च निरीक्षिते । एकादशगते मन्दे मुहूर्ते मैत्रसंज्ञिते ॥
४६.राजा श्रीमान् आगमोक्तेनवर्त्मना । महामन्त्रेण शैवेन नवकूटाणुना सह ॥
४७.स्थापयामास तल्लिङ्गं यत्र ज्योति : प्रवर्तते । उच्चावचेषु मन्त्रेषु ईरितेषु महर्षिभि : ॥
४८.भेरीमृदङ्गशङ्खेषु निनदत्सु समन्तत : । विमानस्था : ततो देवा : ब्रह्मनारायणादय : ॥
४९.आसन् प्रसन्ना ककुभ : सामोद : मरुत् ववौ । देवदुन्दुभयो व्योम्नि सस्वनुर्देवचोदिता : ॥
५०.जपन्तो मन्त्रवैशिष्यं शतरुद्रीयसंज्ञितम् । तुष्टुवु : परमेशानं सिद्धैश्च परमर्षिभि : ॥
५१.देवदुन्दुभयो व्योम्नि सस्वनुर्देवचोदिता : । ववर्षु : पुष्पवर्षाणि सिद्धैश्च परमर्षिभि : ॥
५२.ववर्षु : पुष्पवर्षाणि परित : कल्पशाखिन : । एवं प्रतिष्ठाप्य शिवं पूजयामास भूपति : ॥
५३.धूपैर्दीपैश्च नैवेद्यै : गन्धपुष्पाक्षतादिभि : । एतस्मिन् अन्तरे व्योम्ना समादिष्ट : सुरोत्तमै : ॥
५४.महाचूडामणिकृतामादाय प्रथिमां शुभाम् । गौरीं नीलोत्पलप्रख्यां नानामणिविभूषिताम् ॥
५५.विश्वकर्मा समासाद्य ददौ राज्ञे च संसदि । हृष्टात्मा स महीपाल : तां प्रगृह्य मणिप्रभाम् ॥
५६.देवीं संस्थापयामास मन्त्रेण गुरुचोदित : । एवं देवं च देवीं च प्रतिष्ठाप्यागमात्मना ॥
५७.नमस्कृत्य महादेवं त्रि:परिक्रम्य साञ्जलि : । पूजान्ते पुरत : स्थित्वा साम्बं स्तोतुं प्रचक्रमे ॥
५८.राजा --ओम् तद्वाच्यं द्योतमानं महान्तं ज्योतिर्नित्यं सत्समाधेयरूपम् ।
   मान्यं मोहापायहेतुं प्रपद्ये प्राय : श्रेय : प्राप्तुमैशं महिम्ना ॥
५९.यातायातश्रान्तिसन्तारहेतो : हातुं मायाजालिकाबन्धनानि ।
   सन्धातुं वै जीवलेखां महिम्ना साक्षात् ईशं संश्रये तत्वरूपम् ॥
६०.कर्माकारं तत्फलाकाररूपं कर्तृत्वे च व्यक्तिमभ्येषि वासम् ।
   इज्याकारं देवताकारमन्त : शैवं भावं यातुमीहे महान्तम् ॥
६१.तीर्थाकारो य : परित्रातुमेतत् मन्त्रार्णात्मा नैगमान्तर्विलासी ।
   साक्षी दाता कर्मणासौ फलानां देवो भूयात् अग्रतो न : पुराण : ॥
६२.यन्नामर्णान् वाचि कुर्वन् प्रमादात् अभ्यर्थात्वा पापतो मुक्तिमेति ॥
   तं त्वामन्त : चन्द्रचूडं प्रपद्ये नीलग्रीव त्राहि न : कर्मबन्धात् ॥
६३.अन्त:करणा नेडमूकाकनाथा : यत्ते किञ्चित् वृत्तमुल्लास्य शम्भुं ।
   पापात् मुक्ता यान्ति तज्ज्योतिरैशं पाशापायं नौमि नाथं पशूनाम् ॥
६४.हेतुस्साक्षी तन्नियन्तापहन्ता जन्तोरन्तर्जीवरूपो च भूय : ।
   येऽस्पृश्यात्मा कथ्यते ब्रह्मविद्भि : सोऽयं शम्भु : पातु न : कर्मबन्धात् ॥
६५.विश्वात्मा यो विश्वरूपो नियन्ता काले काले योजयित्वा स्ववृत्या ।
   कालक्षेपं कल्पयत्येष नित्यं तस्मै धाम्ने कल्पये चित्तमद्धा ॥
६६.युक्त्या मन्त्रैर्वेदतत्वार्थदृष्टै : बुद्ध्या शुद्ध्या वाग्विलासाद्गुरूणाम् ।
   अन्वेषन्ते योगिनो यत्पदाब्जं तस्मिन् आशा भूयसी मेऽस्तु नित्यम् ॥
६७.नित्यं शुद्धं निर्विकल्पं पुराणं सत्यं सूक्ष्मं सर्वसंकल्पहीनम् ।
   श्रद्धामात्रं शम्भुमाद्यं विनोदात् सालङ्कारं कारयेन्नीलकण्ठम् ॥
६८.देव प्रसीद परमेश्वर चन्द्रमौले लीलाविशेषपरिकल्पितपञ्चकृत्य ।
   पश्यन् त्रिकालभवभूतपते दयालो मां पाहि मोहकुहरात् गहनात् प्रपन्नम् ॥
६९.इति तस्याग्रत : स्थित्वा स्तुवत : स्तुतिसंपदा । लालिताञ्जलिनालस्य भक्तिनम्रात्ममूर्तिन : ॥
७०.तल्लिङ्गात् अक्षिपदवीमभूत् तस्मात् शुभोदया । अपारा पूरिताशेषभुवना भास्करोपमा ॥
७१.दैव तेजस : कोऽपि पुमान् आगत्य सत्वरम् । एहि वत्सेति संभाष्य करेणालम्ब्य भूपतिम् ॥
७२.अन्तर्निनाय वै तस्मिन् तेज:पुञ्जे महत्तरे । ददर्श महतीं भूमिं तदन्त : काञ्चनारुणाम् ॥
७३.तन्मध्ये नगरीं पुण्यां मधुरां राजनन्दन : । महाप्राकारसंयुक्र्तां महापरिघवेष्टिताम् ॥
७४.महाजनसमाकीर्णां नरनारीसमाकुलाम् । विभक्तरथ्यां विततां गजवाजिरथाकुलाम् ॥
७५.महाराजगृहोपेतां प्रासादशतसंकुलाम् । पुरीं विचित्रामालोक्य स्मयमानो महीपति :॥
७६.तत्रत्यैर्बन्धुभिस्स्निग्धै : मन्त्रिसामन्तबन्धुरै : । प्रत्युद्यत : पूज्यमान : स्तूयमानश्च बन्धुभि : ॥
७७.कैलासशिखराकारां ददर्श भवनं पितु : । अतीत्य कक्ष्या : विविधा : मणिकाञ्चनकुट्टिमा : ॥
७८.अधिष्ठितद्वारपाला : रक्ष्यमाणाश्च रक्षिभि : । अक्षिप्राघुणिकीजातां सभामासाद्य वै शनै : ॥
७९.ददर्श पितरं तत्र मणिसिंहासने स्थितम् । दीप्यमानं स्वया कान्त्या महेन्द्रवरुणोपमम् ॥
८०.चामराभ्यां वीज्यमानं श्वेतच्छत्रसमन्वितम् । स्तूयमानं पुरोभागे सूतमागधवन्दिभि : ॥
८१.पार्श्वे मरकतश्यामां मातरं चारुदर्शनाम् । तत्र स्थिता :मन्त्रिवृद्धा : ऋषयो ब्रह्मवादिन : ॥
८२.सभ्या : परमोदारा : सूक्ष्मज्ञा : दीर्घदर्शिन : । उपतरस्थुर्महात्मानं देवराजमिवामरा : ॥
८३.तं दृष्ट्वा पितरं प्रीतो मातरं च यशस्विनीम् । प्रणम्य पादयोर्भक्त्या व्युपतस्थे तदन्तिके ॥
८४.तमेनमागतं पुत्रं कौतुकात् परमेश्वर : । स्नेहात् अमुं समाश्लिष्य मूर्ध्न्युपाघ्राय वै मुहु : ॥
८५.अङ्के पुत्रं समारोप्य स्नेहात्त् वचनमब्रवीत् । पिता --जय जीव चिरं वत्स तातायुष्मन् महामते ॥
८६.प्रीतोऽस्मि तव कृत्येन स्तोत्रेणानेन पूजया । एषा ते जननी प्रीता तव शुश्रूषयाऽनघ ॥
८७.धर्मेण पालय महीमधर्मं परिवर्जय । मा तवाहङ्क्रियां क्वापि गुरून् आराधयानिशम् ॥
८८.सर्वमीश्वरभावेन कर्माणि परिवर्तय । अलङ्घनीया गुर्वाज्ञा मन्त्रयन् मन्त्रिभिस्सह ॥
८९.ब्राह्मणेषु च देवेषु सदा तुल्यमतिर्भव । पाषण्डानामनार्याणां विमुखो भव सर्वदा ॥
९०.नित्यमावां च पितरौ भक्त्या शुश्रूषया सदा । धर्मं संस्थापयन् भूमौ शत्रून् जहि महामते ॥
९१.यज्ञेन देवानभ्यर्च्य पितॄन् चैव यथोचितम् । स्वदारनिरतो भूत्वा चिरं जीवितुमर्हसि ॥
९२.काठिन्यं नानुवर्तस्व स्वशत्रुषु जयोत्सुक : । मार्दवात् गुरुवर्गेषु भृत्येषु समवर्तिना ॥
९३.अहमत्रैव वत्स्यामि तव मात्रानया सह । सर्वेषामेव जन्तूनां हिताय च महामते ॥
९४.इत्थं सुन्दरपाण्ड्योऽयं साक्षात् गौरीसखश्शिव : । पुत्रं समनुशास्यैव तत्रैवान्तरधीयत ॥
९५.तावत् श्रीबलधिश्श्रीमान् प्रसन्नात्मातिविस्मित:।लिङ्गं पुरस्तात् आलोक्य ब्राह्मणानां च समन्तत : ॥
९६.पृष्ट : सनातनेनासौ किं चक्रमिति भूपते । कथयामास वृत्तान्तं यथावत् दिव्यदर्शनम् ॥
९७.श्रुत्वा सर्वे मुनिगणा : राजानोऽन्ये च मन्त्रिण : । जहर्षु : परमानन्दात् पूर्यमाणा इवापगा : ॥
९८.ततो राजसुतो देवमभ्यर्च्य च सनातनम् । तेनानुशासित : चक्रे नगरीं तत्र विस्तृताम् ॥
९९.मधुराया : तुल्यरूपां देवागारशतोज्ज्वलाम् । चण्डाख्य : पूर्वभागे तु वीरभद्रं महाबलम् ॥
१००.पुरस्य रक्षणार्थं स्थापयामास भूपति : । आग्नेय्यां वीरशास्तारं दक्षिणे च मदोत्कटम् ॥
१०१.नैरृत्यां देवदेवेशं सुन्दराख्यं जनार्दनम् । पश्चिमे मुचुकुन्दाख्यं भगवन्तं गणेश्वरम् ॥
१०२.वायव्यां वैनतेयं च गन्धर्वं च तथोत्तरे । ऐशान्यां च गणेशानं सिद्ध्याख्यं सिद्धिदायकम् ।
१०३.एवं कृत्वा पुरीं पुण्यां तुल्यरूपां महीपति : । चकार वासं तत्रैव देवमाराधयन् सदा ॥
१०४.स्नात्वा स्नात्वा च तीर्थेषु दृष्ट्वा दृष्ट्वा च देवता: । ईजे बहुविधैर्यज्ञै : विपुलै : आप्तदक्षिणै : ॥
१०५.पुत्राभ्यां स्थापयामास शिवलिङ्गद्वयं नृप : । धर्मसेनाभिधस्तस्य पुत्रे ज्येष्ठोऽतिधार्मिक : ॥
१०६.तत्र दत्तं च तल्लिङ्गंस्थापयामास शास्त्रत : । वामनाश्रमतोऽप्यग्रे पूर्वभागे वृषाश्रमे ॥
१०७.स्थापितं तु महालिङ्गं नाम्ना श्रीबलधीश्वरम् । ये च पश्यन्ति तेषां तु मोक्षलक्ष्मी : करस्थिता ॥
१०८.तद्भ्रात्रा ब्रह्मदत्तेन स्थापितोऽभूत् महेश्वर : । मायालास्यात् पूर्वभागे ताम्राया उत्तरे तटे ॥
१०९.स्थापित : सुमहालिङ्गो दर्शनात् भुक्तिमुक्तिदम् । इत्थं स राजा संस्थाप्य लिङ्गत्रयमनुत्तमम् ॥
११०.ब्राह्मणान् भोजयित्वा च धनै : सन्तर्प्य भूपति : । विवेश नगरीं पुण्यां मुहूर्ते शुभसंयुति ॥
१११.वर्धितस्तु मुनीन्द्रेण तथाशीर्भिर्द्विजोत्तमै : । पूर्णकामो महातेजा : परमानन्दमेयिवान् ॥
११२.पूजिता: पुष्कलै : विप्रा : धनै : आपृच्छ्त तं नृपम् । प्रशंसन्तो महातेजा : जग्मुरेव यथागतम् ॥
११३.अस्मै वरान् वितीर्यैव देवा इव पुरोगमा : । स्वर्गादपि परां दृष्ट्वा पुरीं भुवनभूषणाम् ॥
११४.समापृच्छ्य ययु : सर्वे हृष्टात्मानो दिवैकस : । इत्थं गतेषु सर्वेषु देवेषु मुनिभिस्सह ॥
११५.राजा परमसंहृष्ट : तत्रैव वसतिं व्यधात् । इत्थं ज्योतिर्वनस्यास्य माहात्म्यं विस्मयावहम् ॥
११६.कथयित्वा महायोगी विचित्रं परमाद्भुतम् । भूय : कीर्तिसुधामस्मै ताम्राया : पापनाशिनीम् ।
    वक्तुं प्रचक्रमे श्यामासङ्गमेऽभ्युदयोज्ज्वलाम् ॥
११७.इति कलिकलुषापाहामपारामभिनवकालकथारसाभिरामाम् ।
    श्रुतिपदमुपलभ्य धूतपापा परमुपयान्ति परं पदं हि लोका : ॥
                              इति एकपञ्चाशोऽध्याय :  Pro.Total = 4709 + 117 =4826. 
                       द्विपञ्चाशोऽध्याय :  --  मन्त्रतीर्थमहिमा
१.शङ्ख : --श्रुणु राजन् प्रवक्ष्यामि मन्त्रतीर्थस्य वैभवम् ।
          श्रवणात् अस्य वै मर्त्या : न शोचन्ति पुनर्भवम् ॥
२.यत्र भैरवती पुण्या भैरवाचलनन्दिनी । आर्द्रापगेति विख्याता सङ्गता ताम्रया सह ॥
३.यत्र भक्तजनापायव्यपोहनविचक्षणा । शिवस्तारकवर्णात्मा लिङ्गमूर्तिरभूत् यत : ॥
४.तस्य तीर्थस्य माहात्म्यं महान्तं सागरोपमम् । श्रवणात् कीर्तनात् अस्य नरो मुच्येत बन्धनात् ॥
५.इति गाथां समाकर्ण्य मुनिना कथितां शुभाम् । कौतूहलसमाविष्टो वीरसेनो महीपति : ॥
६.प्रणम्य भूयो योगीन्द्रं पप्रच्छ विनयोज्ज्वल : । भगवन् का नदी पुण्या कथं भैरवीतीरिता ॥
७.आर्द्रापगाख्या केनासीत् केन वा भैरवाद्रिजा । सर्वं विस्तार्य मे ब्रूहि सर्वज्ञोऽसि महामते ॥
८.इति पृष्टो महीपेन भक्तेन प्रणतेन स : । स्नेहात् विस्तार्य तां पुण्यां कथामकथयत् मुनि : ॥
९.शङ्ख : --राजन्कथयतो मे त्वं काममाकर्णयाधुना । कन्दर्पशिखरो नाम महान् आसीत् महीधर : ॥
१०.यत्र तप्त्वा तपस्तीव्रं वसिष्ठो भगवान् मुनि : । पुत्रशोकात् विमुक्तोऽभूत् अतो लोके प्रतीयते ॥
११.आयामात् क्रोशमात्रेण दिशमैन्द्रीं च वारुणीम् । अवष्टभ्योच्छ्रितै : शृङ्गै : व्यावृण्वानमिवाम्बरम् ॥
१२.नानातरुलताकीर्णं नानाप्रस्रवणोज्ज्वलम् । समन्तात् योजनायामं वनं चैत्ररथोपमम् ॥
१३.तत्र सौमनसा नाम ऋषय : चोर्ध्वमन्थिन : । वसिष्ठगोत्रसंभूता नित्यं व्रतपरायणा : ॥
१४.पुत्रै : पौत्रै : च शिष्यै : च साग्निहोत्राक्रियान्विता : । परित : शैलमुख्यस्य कृत्वाश्रमपदं महत् ॥
१५.ऊषुस्स्वाध्यायनिरता : शिवध्यानपरायणा : । तेषां मध्ये महातेजा : हिरण्वान् इति विश्रुत : ॥
१६.तपसा विद्यया ब्रह्मज्ञानेनाप्यधिकोऽभवत् । मायावत्या समं चक्रे गार्हस्थ्यं धर्मभार्यया ॥
१७.अस्यां पुत्रशतं प्राप्य पुत्रीमन्चिच्छतामुना । तपसाराध्य देवेशं प्राप्तं पुत्रीचतुष्टयम् ॥
१८.कुमुदा रोहिणी भद्रा तुरीयार्द्रा समीरिता । एता देवांशसंभूता कुमार्या देववर्चस : ॥
१९.क्रमात् शैशवभावेन वियुक्ता प्राप्तयौवना : । दृष्ट्वा गुणोत्तरा : कन्या : पिता दृष्ट्वाति हृष्टवत् ॥
२०.वरेभ्य : चानुरूपेभ्य : दातुमैच्छत् महामति :। कुमुदामेकतायादात् द्वितीयाहूय रोहिणीम् ॥
२१.तृतीयभद्रां प्रायच्छत् ब्राह्मेण विधिना मुनि : । तासामुद्वाहसमये समाजे ब्रह्मवादिनाम् ॥
२२.अभ्यायौ महातेजा : भैरवाद्रि : सुहृज्जनै : । तमेनमागतं दृष्ट्वा हिरण्वान् प्रीतिपूर्वकम् ॥
२३.प्रत्युद्गम्य प्रसाद्यैनं समाश्लिष्य मुहुर्मुहु : । समानीय गृहं पत्न्या सत्कारेणार्चितेन तु ॥
२४.आथित्येनार्हयामास सर्वानभ्यागतान् मुनीन् । अभयर्चित : तदा तेन मुनिना सुहृदाद्रिराट् ॥
२५.तं प्रसाद्य मुनिश्रेष्ष्ठं प्रीत्या वचनमब्रवीत्।अद्रिराज: --सखे संभावितोऽस्म्यत्र त्वया स्नेहार्द्रचेतसा ॥
२६.इदानीं हृद्गतं तापं तुभ्यमत्र निवेदितुम् । आगतोऽहं त्वया ब्रह्मन् पूर्यतां मे मनोरथ : ॥
२७.भद्रावतीयं मे भार्या चित्रसेनस्यकन्यका । प्राणै : प्रियतरा नूनं छायेव सहचारिणी ॥
२८.अनपत्योऽहमस्यां तु न लब्ध्वा पुत्रिकामपि । तस्मात् कुरु कृपां ब्रह्मन् दातुमर्हसि पुत्रिकाम् ॥
२९.एनामार्द्राभिधां कन्यां त्व्द्दत्तां प्राप्य पुत्रिकाम् । लब्ध्वा निधिमिवाकल्पं हृष्यामि सह भार्यया ॥
३०.तथा प्रसीद मे ब्रह्मन् स्मृत्वा सौहृदमावयो : । इति तद्वचनं श्रुत्वा हिरण्वान् अभिनन्दित : ।
३१.प्रदायास्मै सपत्नीको कन्यामार्द्राभिधामिमाम् । इत्थं तां पुत्रिकां लब्ध्वा प्रहृष्टेनान्तरात्मना ॥
३२.तमापृच्छ्य मुनि: प्रायात् अद्रीश: स्वगृहं पुन:।लालयन् पोषयन् कन्यां स्नेहात् अङ्के निधाय ताम् ॥
३३.निनाय कतिचित् कालं सन्तोषात् निमिषोपमम् । एवं सा वर्धिता पित्रा मात्रा चाप्युपलालिता ॥
३४.सखीभिस्सह संयुक्ता विजहाराद्रिसानुषु । लीलोपकरणैर्दिव्यै : मणिपुत्तलिकादिभि : ॥
३५.कन्दुकै : चित्रझषकै : शारीशुकमयूरकै : । रत्नकन्दकरण्डैश्च स्नेहकुड्मलमण्डितै : ॥
३६.फलै : पुष्पै : पल्लवैश्च परै : क्रीडापरिच्छदै : । एवं सखीभि : संभूय स्वपाणिग्रहणोत्सवम् ॥
३७.शिवेन कल्पितं नित्यं मानसं कन्यकाकरोत् । कल्पयन्त्या शिवं ध्यात्वा स्वपाणिग्रहणक्रियाम् ॥
३८.हायनत्रितयं पूर्णमेकदिनेन तु । एकदा सा तु पूजान्ते मालामादाय पाणिना ॥
३९.शिवं पुरस्तात् ध्यायन्ती तत्कण्ठे तामकल्पयत् । एवं तया कृतां पूजामूरीकृत्यानुरागतम् ॥
४०.एवं सखीभि : संभूय क्रीडन्ती च पदे पदे ।  कुसुमानि विचिन्वन्ती बध्वा मालां महात्मने ॥
४१.ताभिराराधयामास देवदेवं पिनाकिनम् । प्रसाद्य देवदेवेशं कृत्वा चापि प्रदक्षिणम् ॥
४२.लब्ध्वा वागञ्जलारूपै: स्तोत्रै: स्तुत्वा दिने दिने। कण्ठे व्यासज्ययामास ध्यात्वा देवस्य तां स्रजम् ॥
४३.शिव : प्रत्यक्षतां कृत्वा कण्ठे तामाददे स्रजम् । एवं च लोकास्सुखिन : मातापित्रोश्च संभ्रमात् ॥
४४.अम्बरात् अमलाकारा वागभूत् अशरीरिणी । पुष्पाणि ववर्षु : देवा : तुष्टुवुर्नारदादय : ॥
४५.करे गृहीत्वा तां कन्यां तावत् अन्तर्दधे शिव : । तिरोहितामिमां सर्वे विद्युल्ल्र्खामिवाम्बरे ॥
४६.अपश्यन्त्य : शुचा सख्य : हाहेति परिचुक्रुशु : । सख्यो वयस्यो दु:खार्ता :तद्वियोगान्धतातुरा : ॥
४७.बभ्रमु : स्रवतास्राक्षा : क्व याता हा सखीति च । तदा शैलराज : तु दृष्ट्वा वृत्तान्तमीदृशम् ॥
४८.सपत्नीक : शुचा राजा रुरोदोच्चैर्लुठन् भुवि । हा वत्से क्वासि चन्द्रास्ये केन नीतासि मायया ॥
४९.पुत्रि प्राणाधिके बाले किं मां त्यक्त्वा तु मातरम् । इति शोकपरिद्यूनं क्रोशन्तमचलेश्वरम् ॥
५०.दृष्ट्वा दयालुर्भगवान् वामदेवो महामुनि : । आगत्य हेतुभिर्वाक्यै : सान्त्वयित्वा तु दम्पती ॥
५१.उवाच वचनं धीमान् तयो : प्रियचिकीर्षया । मास्तु शोकेन शैलेन्द्र मोहेनालमिहेदृशा ॥
५२.कुरु धैर्यं मनस्याग्र्यं बुद्धिं वेशय सत्पते । वक्ष्याम्युपायं ते पुत्र्या पुनर्दर्शनदायकम् ॥
५३.सा साक्षात् जगन्माता गौरी शैलेन्द्रकन्यका । हिरण्वता मुनीन्द्रेण प्रार्थिता पूजिता भृशम् ॥
५४.भक्तानुकम्पिनी तस्य पुत्री जाता महात्मन : । त्वया चिरतरं कालं तपसा तोषिता पुन : ॥
५५.कृपाविधायिनी तुभ्यं पुत्रीभूता दयावती । देवदेवस्य वामाङ्गे संप्राप्तैषा त्रिशूलिन : ॥
५६.यदि भूयो मनीषा ते तद्दर्शनसमुत्सुका । यत्नं कुरु यथान्यायं मयादिष्टेन वर्त्मना ॥ ५७
५७.गत्वा मलयजां पुण्यां तत्तीर्थेऽवाप्तमज्जनात् । समाराधय देवेशं भवनीसहितं शिवम् ॥
५८.इति तस्मै महामन्त्रमुपदिश्य यथाविधि । तेन सार्धमनुप्राप्य मालेयीं तीर्थदेवताम् ॥
५९.विधिना स्नापयामास शैलराजं च तत्प्रियाम् । मालेयि मात : पापघ्नि भक्ताभीष्टप्रदायिनि ॥
६०.प्रसीद तीर्थे स्नास्येऽहं पूरयास्मन्मनोरथम् । इति तां तीर्थजननीं प्रार्थयित्वा प्रसाद्य स : ॥
६१.नद्या : तूदक्तरे कूले ज्योतिश्चक्रस्य पूर्वत : । कन्दर्पशिखरात् शैलात् उदीच्यां क्रोशमात्रत : ॥
६२.कृत्वाश्रमपदं राजा भूधराणां यतेन्द्रिय : । मुनिनादिष्टमार्गेण साम्बमीशं समर्हयन् ॥
६३.तुष्टाव नित्यं पूजान्ते स्तोत्रै : श्रुत्यन्तचोदितै : । इत्थमर्चयत : तस्य विधिना नियतात्मन : ॥
६४.अपूर्णेऽह्ना हायनोऽभूत् एकेन पृथिवीपते । अपरेद्यु : कृतस्नानो वामदेवेन चोदित : ॥
६५.मनसा पूजयामास षोडशै : उपचारकै : । भावनासाधितै : द्रव्यै : मन्त्रेण प्रणवात्मना ॥
६६.तेन पूजाविधानेन तोषित : परमेश्वर : । प्रादुरासीत् लिङ्गरूपी साक्षात् ज्योतिर्मय : प्रभु : ॥
६७.तं दृष्ट्वा विस्मयाविष्टो हृष्टरोमा धराधर : । समुत्थायासनात् तूर्णं बद्धाञ्जलिपुटोज्ज्वल : ॥
६८.अस्तौषीत् अग्रतो देवं साम्बमभ्युदयात्मकम् । नमश्शिवाय देवाय सर्वातीताय वेधसे ॥
६९.गुणत्वाकृति मानाय गुणाकाराय हेतवे । मन्त्रतन्त्रस्वरूपाय पञ्चतन्मात्रसाक्षिणे ॥
७०.अपञ्चीकृतभूताय पञ्चभूतात्मने नम : । तीर्थमूर्त्या जगत्सर्वं पापात् त्रातात्मसेविनाम् ॥
७१.योऽसौ सीदन्तमशुचौ मां पालयतु भूतभृत् । गङ्गाधर : शशिधरो भवो भीमो भवान्तक : ॥
७२.अन्तकस्यान्तस्सोऽयं अवतात् अंहसो विभु : । यमेनमकृताकारमेकद्वित्रिभेदत : ॥
७३.एकमेव परं प्राहु : तस्मै सोमाय ते नम : । सर्वेषामेव जन्तूनामन्तर्जीवकलात्मकम् ॥
७४.प्रवृत्तिश्चोपलब्धिश्च कथित : तमुपास्महे । नादबिन्दुकलाभेदै : क्षराक्षरविकल्पनै : ॥
७५.स्तूयते निगमैर्योऽसौ सदा भवतु मे गति : । यदेकदेशात् अर्काद्या : द्योतन्ते हि नभस्थले ॥
७६.यदाज्ञया ब्रह्ममुखा : तस्मै ब्रह्मात्मने नम : । केचित् तरन्ति वै मृत्युं केचित् अंहो दुरत्ययम् ॥
७७.केचित् तरन्ति दारिद्र्यं नमस्तस्मै दयात्मने । अष्टमूर्तिरनेकात्मा निगमान्त : प्रदर्शित : ॥
७८.सर्वात्मा शङ्कर : साक्षी क्षेमाय पुरतोऽस्तु मे । त्वां देवदेवं पुरुषं सद्योजातमनामयम् ॥
७९.क्षेमङ्करं वामदेवमघोरं प्रणतोऽस्म्यहम् । ईशान : शाश्वत : साक्षी सोऽयं तत्पुरुषो विभु : ॥
८०.स मेऽसौ भाग्यदातास्तु पुरत: पूर्वपूजित:।नमो नमश्शाश्वतशान्तिकरिन् शमांवतां भूरिकरप्रियाकर: ॥
८१.स न: समस्ताभ्युदयैकहेतुको भवेद्भयानामुपशान्तिकृत् विभु : ।
   ऋषि : --इति स्तवेन पुण्येन भक्त्या चाभिष्टुताऽमुना ॥
८२.दयानिधि : प्रादुरभूत् गौरीनाथ : त्रिलोचन : । कोटिकन्दर्पलावण्यसंसृष्टो यौवनश्रिया ॥
८३.कर्पूरपाण्डुरश्रीमान् नीलकण्ठो जडाधर : । वामानुषक्तया गौर्या समाश्लिष्टोत्पलश्रिया ॥
८४.आरुह्य वृषभश्रेष्ठमादिसिद्धैर्निषेवित : । आहूय शैलराजानं व्याजहार महेश्वर : ॥
८५.शिव: --प्रीतोऽस्मि तव शैलेन्द्र स्तोत्रैरेभिस्सपर्यया । वरान् वृणीष्व भद्रं ते दास्यामि च मनोरथान् ॥
८६.शिववामाङ्कगां बालां स्वपुत्रीं चारुदर्शनाम् । आनन्दाश्रुपरीताभ्यां लोचनाभ्यां विलोकयन् ॥
८७.मन्दं मन्दमुवाचेदं स्नेहसाध्चसविह्वल : । शैलराज : --यद्यहं वरयोग्योऽस्मि वरदौ मे युवां यदि ॥
८८.वधूवरौ भवन्तौ मे गृहे नित्यनिवासिनौ । आकल्पमस्मद्रक्षार्थं भवतां भद्रदायिनौ ॥
८९.एष एव वर : श्लाघ्य : नान्यत् काङ्क्षे कदाचन । एवं जामातरं त्वां भो पुत्रीमेनां च दारिकाम् ॥
९०.नित्यमस्मत्स्नेहस्निग्धौ पश्याम्याकल्पमञ्जसा । प्रसीद देवदेवेश प्रसादं कर्तुमर्हसि ॥
९१.इत्थं संप्रार्थिताम् श्रुत्वा धराधीशस्य शङ्कर : । भूयस्तमाह सुप्रीत : सानुरागोऽक्षिरोचिषा ॥
९२.अहं त्वद्भवने नित्यमनया सह संवसन् । तव श्रेयो विधास्यामि भूम्यां जीमूतताट् इव ॥
९३.तवेयं पुत्रिका तन्वी गङ्गेवाघौघनाशिनी । महाप्रवाहरूपेण सङ्गमीयात् तु ताम्रया ॥
९४.भैरवाचलपुत्रीयं लोके विख्यातिमेष्यति । श्यामवर्णतया श्यामानदीति ख्यातिमृच्छतु ॥
९५.हिरण्वत : कुमारीयं नाम्ना हैरण्वतीति च । आर्द्रायामेव सञ्जाता तस्मात् आर्द्रापगेति च ॥
९६.रुद्राणीति च सिद्धेयं रुद्रपत्नी यतोऽभवत् । एवमेभि : पुण्यगन्धै : नामभि : लोकपूजितै : ॥
९७.स्तुतेयं प्राणिभिर्नित्यं भूयात् पापप्रणाशिनी । यत् त्वदर्थे महालिङ्गरूपी विश्वाक्षिगोचर : ॥
९८.तस्मिन् करिष्ये सततं सान्निध्यमनया समम् । तत्र स्थितानां जन्तूनामन्ते तारकदेशिक : ॥
९९.सर्वान् कामान् प्रदास्यामि सान्निध्यं तव मे चिरम् । ये मज्जन्ति महातीर्थे ताम्राश्यामानदीयुगे ॥
१००.निर्मुक्तपापा : ते सद्य : भवन्तु सुखिनो जना : । इत्युक्त्वान्तर्हिते देवे शैलराज : सहानुग : ॥
१०१.सान्त:पुर : क्षणं तस्थौ विस्मयेनान्तरात्मना । तावद्भैरवशैलेन्द्रमहानिर्झररूपिणी ॥
१०२.तटारामाद्विनिष्क्रम्य ताम्रामाप महानदीम् । तरङ्गिणी शैवलिनी महापूरप्रवाहिनी ॥
१०३.मत्स्यकच्छपसंपाता फेनावर्तशतोज्ज्वला । पापघ्नी तापशमनी मज्जतां भाग्यदायिनी ॥
१०४.आयोजनं पूर्वमुखी ततोऽप्युत्तरवाहिनी । ताम्रामापूरयामास गङ्गामिव कलिन्दजा ॥
१०५.ततो देवा ब्रह्ममुखा नारदाद्या : सुरर्षय : । विस्मिता : ते समागत्य सिद्धैश्च परमर्षय : ॥
१०६.स्नात्वा विधिवत् अभ्यर्च्य ताम्राश्यामासमागमे । मन्त्रतीर्थमिति स्तुत्वा प्रयागसदृशं विदु : ॥
१०७.प्रणवेशं ततो दृष्ट्वा प्रसाद्य गिरिजासखम् । तत्प्रसादं समासाद्य कृतकृत्या : सुरासुरा : ॥
१०८.प्रशंसन्त: स्तुवन्तश्च स्वानि स्वानि पदान्यगु : । शङ्ख: --राजन् अद्यापि गौरीशो भैरवाचलपत्तने ॥
१०९.श्वशुरस्य गृहे प्रीत्या भैरवत्या समन्वित  : । पूजित : तेन सान्निध्यं कुरुते भक्तवत्सल : ॥
११०.आपातालं रूढमूल : तेजोरूपी सदाशिव : । नित्यं करोति सान्निध्यं प्रणवेश इतीरित : ॥
१११.तस्मादस्मिन् मन्त्रतीर्थे स्नात्वा ये विधिपूर्वकम् । पश्यन्ति प्रणवेशानं ते यान्ति परां गतिम् ॥
११२.इत्थं ते कथितं राजन् श्यामानद्या : समुद्भवम् । तीर्थमाहात्म्यमप्युक्तं महिमा परमेशितु : ॥
११३.अत : परं महाराज वह्नितीर्थचतुष्टयम् । सैषा दर्शनमात्रेण भवतापप्रभञ्जनी ॥
११४.हत्वा पाण्ड्य : पुरा विप्रं पूजारक्षणहेतवे । अवाप्तहत्यासन्ताप : कुम्भयोनेरनुग्रहात् ॥
११५.निर्मुक्तपाप : स्नानेन सुखमाप महीपति : ।
    इत्थं मुनेरभिनवां कलिकल्मषघ्नीं कीर्तिच्छटामिवगतां मलयस्य पुत्र्या : ।
    आकर्ण्य भूतलशतक्रतुराप हर्षं चान्द्रीं सुधामिव चकोर पतङ्गराज : ॥
                                    इति द्विपञ्चाश : अध्याय :      Pro.Total = 4826 + 115 =4941.
                             त्रिपञ्चाश : अध्याय :
१.अथाकर्ण्य सुधाधारां कथामेनौघघातिनीम् । हृष्ट : श्रुतिमुखात् राजा पीतोऽतीव प्रसन्नधी : ॥
२.भूय : शुश्रूषया चित्तमुल्लास्यानन्दमन्दिरे । पप्रच्छ मुनिशार्दूलं पय:पातुमिव प्रसूम् ॥
३.राजा --भगवन् को महीपाल : पाण्ड्यो हत्यामवाप्तवान् । कथं तीर्थावगाहेन शुद्धिमाप गुरोर्गिरा ॥
४.इति संप्रार्थितो योगी प्रसन्नात्मा महीभुजे । कथामावेदयामास पुण्यामिव तरङ्गिणीम् ॥
५.राजन् मुनिवरादिष्टमितिहासं पुरातनम् । श्रवणात् यस्य मुच्यन्ते जन्तव : पापबन्धनात् ॥
६.पुरा पुरञ्जयो नाम राजा पाण्ड्यकुलोद्भव : । धर्मज्ञ : सत्यसन्धश्च वदान्य : शूरसंमत :॥
७.धर्मेण पालयामास महीं निष्कण्टकामिमाम् । तस्य पुत्रो महातेजा : धर्मकेतुरितिश्रुत : ॥
८.जात : तस्मात् कलावत्यां सोऽयं पितृसमोऽभवत् । याज्ञवल्क्य : पुरोधाभूत् तपस्वी तस्य भूपते : ॥
९.एवं संवर्धिताशेषसभाग्योदयसाधन : । सभायामास्थितो राजा मन्त्रिसामन्तसेवित : ॥
१०.निनाय समयं सद्भि : धर्मज्ञै : च सुहृत्तमै : । एतस्मिन्नन्तरे तत्र जना नागरिका नृपम् ॥
११.एत्य विज्ञापयामासु : सर्वेषां हितकाम्यया । प्रजा ऊचु : --जय जीव महाराज प्रसीद करुणानिधे ॥
१२.त्रातारं त्वां समासाद्य जीवाम : सुखिनो वयम् । अद्य वो मृगयाभावात् मृगा : सिंहादयो वने ॥
१३.नाशयिष्यन्ति सस्यानि यक्ष्मेव तनुसौष्ठवम् । तास्मात् आखेटकरणै : हत्वा दुष्ट्मृगान् वने ॥
१४.त्रातुमर्हसि धर्मज्ञ न कार्यं भो विलंबनम् । इत्थं संप्रार्थितो राजा जनै : तद्दीनमानसै : ॥
१५.हयरत्नं समारुह्य भटै : तद्गीर्मवेदिभि : । सहितो नगरात् तूर्णं निर्ययौ चित्रकार्मुख : ॥
१६.तद्रक्षणार्थं स्नेहेन याज्ञवल्क्य : पुरोहित : । जगाम विपिनं घोरं नानाद्विजगणायुतम् ॥
१७.हत्वा दुष्टमृगान् भूरि वनं निष्कण्टकमवर्तयत् । मध्यं प्राप्ते दिनकरे परिश्रान्ता क्षुधातुरा : ॥ १८.कस्मिंश्चित् विपुले पुण्ये कासारे सागरोपमे । स्नात्वा पीतोदका : तीरे निविष्टा श्रमशान्तये ॥
१९.पुरोधसा समं राजा स्नात्वा माध्याह्निकां क्रियाम् । कृत्वा तं रुचिरस्निग्धमूषतु : परवेश्मनि ॥
२०.तावताददृशतु : दूरे विचरन्त्यौ मनोहरे । युवत्यौ तुल्यसौभाग्ये विद्युच्चलितवर्चसौ ॥
२१.क्षाणात् अन्तिकमागत्य तावत् राजपुरोधसो : । तयो : चिक्षिपतु : स्कन्धे चाम्लाने पुष्करस्रजौ ॥
२२.ते च दृष्ट्वा वरारोहे राजा परपुरञ्जय : । तद्दत्तमुद्वहन् मालां कन्यके व्याजहार स : ॥
२३.राजा --के युवां कस्य पुत्र्यौ किं वनं प्राप्ते सुदुर्गमे । अनपेक्षाविह नरावावां कान्तारसमन्वितौ ॥
२४.वक्तुमर्हस्यतोऽभीष्टं सर्वं वक्तव्यमित्यशात् । तयोरेकतरा कन्या स्मयमानं महीपतिम् ॥
२५.आशां जनयती कामं व्याजहार मनोहरम् । आवां विश्रवस : पुत्र्यौ पित्रादिष्टेन वर्त्मना ॥
२६.अर्चयन्तौ महेशानं महेशानीसमन्वितम् । नयाव : कालमेतावत् काङ्क्षन्त्यावुचितं पतिम् ॥
२७.आवयोर्जननी नास्ति(शास्ति) विशाला धर्मचारिणी । ज्येष्ठाहमनुजा मह्यं नाम्ना विशारदा ॥
२८.इमां बिन्दुमतीं प्राहु : सर्वलक्षणशालिनीम् । दैवात् इहागतौ योग्यौभर्तारावावयोर्युवाम् ॥
२९.उपेक्ष्येते भवन्तौ यत्प्राणान् त्यक्ष्यावहे ध्रुवम् । इति ताभ्यां वृतावेतौ युक्तौ राजपुरोहितौ ॥
३०.विचार्य धर्मसूक्ष्मं तु तथास्त्वित्यूचतुर्मुदा । उवाह विधिना राजा कन्यकां तां विशारदाम् ॥
३१.याज्ञवल्क्यो बिन्दुमतीं पाणिं जग्राह पाणिना । कृतोद्वाहौ तावेतौ प्रीतौ राजपुरोहितौ ॥
३२.सस्त्रीकौ रथमारुह्य जग्मतु : स्वां पुरीं शुभाम् । नृप : स्वगृहमासाद्य द्वितीयां तां विशारदाम् ॥
३३.महिष्या स्तबकावत्या चकार सदृशोदयाम् । सोऽपि बिन्दुमतीं प्राप्य याज्ञवल्क्य : प्रसन्नधी : ॥
३४.चक्रे गार्हस्थ्यधर्मस्य द्वितीयां धर्मचारिणीम् । एवं बहुतिथे काले राजपत्नी विशारदा ॥
३५.समये सुषुवे वीरं पुरुधामानमात्मजम् । बिन्दुमत्यामभूत् पुत्र : श्रुतकीर्तिरिति विश्रुत : ॥
३६.तावेतौ पोषितौ काले वर्धितौ गतशैशवौ । अधीतवेदवेदाङ्गौ शस्त्रास्त्रेष्वभिशिक्षितौ ॥
३७.पित्रो : प्रीतिं कुर्वाणौ संमतौ च बभूवतु : । नित्यमेतौ निशाकाले गृहात् निष्क्रम्य मायया ॥
३८.परीत्य नगरीं सर्वां तथा जनपदानपि । अपरैरपरिज्ञातं हत्वा बालान् ततस्तत : ॥
३९.तन्मांसैर्विहितारौ दत्वा मात्रे च तावुभौ । निन्यतु : समयं मूर्खौ विचरन्तौ हि चोरवत् ॥
४०.क्रमात् वृत्तान्तमखिलं प्रथितं हि शनै : शनै : । कर्णाकर्णिजनास्सर्वे जजल्पु : सर्वतो मिथ : ॥
४१.हत : कुमारो बालो मे स्वस्रीयो निहतो मम । पौत्रो हत : कुत : कन्या जामाता निहतो मम ॥
४२.इत्थमन्वेषमाणा: ते शोचन्त : प्राणिनो भृशम् । न पश्यन्तो गतिं भूय : चुक्रुशु : सर्वतो मिथ : ॥
४३.मणलूरुपुरे श्रुत्वा राजा चारमुखात् सुधी : । पुरोहितं समाहूय मन्त्रयामास मन्त्रिभि : ॥
४४.तत्र वैतानिको नाम त्रिकालज्ञो महामुनि : । राज्ञे विज्ञापयामास प्रजानां विप्लवं महत् ॥
४५.राजन् द्वितीया महिषी मायाच्छन्ना तु राक्षसी । याज्ञवल्क्यस्य भार्यापि तथैवेह न संशय : ॥
४६.कण्ठासक्तामिमां भार्यां व्यालीमिव विषोल्बणाम् । उत्सार्य पुरात् शीघ्रं यदि जीवितुमिच्छसि ॥
४७.हतानामिह बालानां पुरे जनपदे विभो । सहस्रात् अधिकं मन्ये नात्र कार्या विचारणा ॥
४८.इति तस्य मुनेर्वाक्यं श्रुत्वा पाण्ड्यमहीपति : । विशारदां स्वमहिषीं सह पुत्रां सहानुजाम् ॥
४९.रथमारोप्य वै तूर्णं निनाय विपिनान्तरम् । तावत् विशारदा पुत्र : पुरुधामा वने स्थित : ॥
५०.भ्रात्रा सन्चिन्तयामास सहित : श्रुतकीर्तिना । राज्याद्भ्रष्ट : सुखाद्भ्रष्ट : कथं जीवितुमुत्सहे ॥
५१.येन केनाप्युपायेन प्राप्यं राज्यार्धमोजसा । परं यत्नं करिष्यामि माभूत् कालविलम्बनम् ॥
५२.इति निश्चित्य मनसा पुरुधामा नृपात्मज : । याज्ञवल्क्यसुतश्चापि विनिद्रौ ध्यानतत्परौ ॥
५३.याज्ञवल्क्योपदेशेन तावाराधयतां विधिम् । इत्थमब्दत्रये पूर्णे सुप्रीतो भगवान् विधि : ॥
५४.वरेण छन्दयमास तावेतौ तपसि स्थितौ । वव्राते विधिमालोक्य प्रयतौ काङ्क्षितं वरम् ॥
५५.यदि प्रीतोऽसि भगवन् यदि देयो वरो मम । अर्धं मे पाण्ड्यराज्यस्य देहि राजसुतोऽस्मि यत् ॥
५६.ब्रह्मा -- अब्रह्मण्यै : अजय्यस्त्वं राज्यार्धं प्राप्य दुर्लभम् । पुरोधसा मन्त्रविदा सहित : श्रुतकीर्तिना ॥
५७.इति मायाशतं तस्मै दत्वा कमलभूर्विभु : । श्रुतकीर्तिमत : प्राह ब्राह्मणं बहुमान्य तम् ॥
५८.तपसा ते प्रसन्नोऽस्मि याज्ञवल्क्यसुतो यत : । पुरोधा भविता तस्य पुरुधाम्न : तु भूपते : ॥
५९.वरमेनं वितीर्यास्मै दत्वा मायाशतं पुर : । तत्रैवान्तरधात् वेधा तौ च प्रीतौ बभूवतु : ॥
६०.मयेन निर्मितायां वै पुर्यां मलयभूधरे । उवास तस्यां सुप्रीत : तेन साकं पुरोधसा ॥
६१.तमेनं बान्धवा : भूपमुपतस्थु : निशाचरा : । तैरेतै : घोरसंकाशै : नानाप्रहरणान्वितै : ॥
६२.गजवाजिरथोपेतै : मायागीतविशारदै : । सेवितो मन्त्रिभिर्विज्ञै : कार्याकार्यविचारणै : ॥
६३.एवं बली बलोपेतो बाधयामास वै प्रजा : । भक्षिता : च हता : चान्ये जना : भयनिपीडिता : ॥
६४.राजानं च प्रजा प्राप्य त्राहि त्राहीति चुक्रुशु : । राजा पुरञ्जय : श्रीमान्  सान्त्वयित्वा तदा जनम् ॥
६५.रथमारुह्य वेगेन सविनीतहयं महत् । चापबाणधर : खड्गी महाकवचसंवृत : ॥
६६.सैन्येन महता सार्धं संग्रामाय समाह्वयत् । तदा ते राक्षसा : दृष्ट्वा समायान्तीमनाकिनीम् ॥
६७.पितु : पुत्रस्य वै जन्यमद्बुभुतं समजायत । पुरञ्जयो दयाविष्टो मृदुयुद्धो निशाचरे ॥
६८.तमेनं विरथं कृत्वा त्यक्तचापशरं शरै : । तत्सैन्यं नाशयामास शतशोऽथ सहस्रश : ॥
६९.भग्नायुधं भग्नरथं भग्नकुञ्जरवाजिमत् । पलायिते हते सैन्ये क्रोशमानेऽप्यनाथिवत् ॥
७०.पुरुधामा सह भ्रात्रा मायामास्थाय दुस्सहाम् । राजानं मोहयामास महाप्रलयकर्मकृत् ॥
७१.आयोधनमभूत् घोरं विष्वगञ्जनसन्निभम् । अजानन्तो निजास्सर्वा बभ्रमुश्च पदातय : ॥
७२.मोहमाप तदा राजा निद्रापरवशो यथा । अदृश्यमनौ तौ तत्र हत्वा राजानमोजसा ॥
७३.निहत्य याज्ञवल्क्यं च क्षणात् अन्तरधीयत । हते तस्मिन् महाराजे हते तस्मिन् पुरोहिते ॥
७४.राक्षसे स्वपुरं याते हतशेषा : तु सैनिका : । पुरं प्रविविशु : सर्वे भग्नवर्मायुधध्वजा : ॥
७५.समेत्य मन्त्रिण: तस्य सेनाध्यक्षा: च भूपते : । इत : परं न : किं कृत्यं क्षेमयुक्तमत : परम् ॥
७६.प्रजा : समस्ता : येनेह कर्मणा सुखमाप्नुयु : । एवं चिन्तयमानेषु भयाविष्टेषु मन्त्रिषु ॥
७७.चमसो नाम मेधावी याज्ञवल्क्यमुने : सुत : । तानुवाच महायोगी समागत्य गभीरवत् ॥
७८.रोषात्पितृवधामर्षी कर्तुमिच्छुरराक्षसम्।चमस : --भो भो बलाधिका : शूरा : मन्त्रिणो बुद्धिसत्तमा : ॥
७९.पराक्रमस्य समये प्राप्ते शूरजनेप्सिते । किमियं जन्तुता भीरु जनालम्बातिकुत्सिता ॥
८०.अहमेतौ हनिष्यामि निशाचरकुलाधमौ । राजानमभिषेच्यामि हरिकेतुमिमं ध्रुवम् ॥
८१.मास्तु वो भयमत्रेति तानाहासौ सभासद : । राक्षसा निहतं संख्ये पितरं च नराधिपम् ॥
८२.आनयित्वा भृत्यजनैस्तैलद्रोण्यां निधाय तु।आप्तै:संरक्षयामास यथा न स्यात्विशीरितम् ॥
८३.पुरस्यस्यापि रक्षार्थं भटानादिश्य सर्वत:।हरिकेतुममुं स्नेहात् करेणालम्ब्य सान्त्वयन् ॥
८४.एकान्ते राजभवने स्थित्वा जनविवर्जिते । चमसो राजपुत्रश्च पूजयामासतुर्मुदा ॥
८५.एकीकृत्य मनोबुद्धिं तस्मिन्कारुणिके शिवे । निराहारौ यतात्मानौ विनिद्रौ कॢप्तनिश्चयौ ॥
८६.जपतु : परमं मन्त्रं शिवप्रीतिकरं क्षणात् । एवं त्रिरात्रे निर्याते शिव : कारुणिको विभु : ॥
८७.प्रादुरासीत् तयोरग्रे वरदानाय केवलम् । युगपत्सान्त्वयन् वाचा व्याजहार महेश्वर : ॥
८८.श्री शिव : --पूजितोऽहमिहेदानीं भक्तिप्रवणया धिया । वरान् दातुमिहेच्छामि वृणुतं हि मनीषितम् ॥
८९.इत्थं प्रसन्नं वरदमागतं परमेश्वरम् । स्तुत्वा प्रणम्य चमसो वरमेनमयाचत ॥
९०.चमस: --तव प्रसादात् अद्यैव पिता मे मुनिसत्तम: । राजा पुरञ्जय : चापि युज्येतां जीवितेक्षणात् ॥
९१.एष वरोऽस्माकं काङ्क्षित : कार्यसाधन : । इति तं चमसं भक्तं पूर्णकामं विधाय स : ॥
९२.हरिकेतुं समाहूय देवो वचनमब्रवीत् । राजपुत्र महाभाग तुष्टोऽस्मि तपसा तव ॥
९३.वरं वृणीष्व भद्रं ते सर्वान् कामान् ददामि ते।हरिकेतु: -अनुग्रहादहं शत्रून् हन्तुमिच्छामि राक्षसान् ॥
९४.एष वै परम : काम : प्रसादीक्रियतां मयि । ईश्वर : --याज्ञवल्क्यो मुनिश्रेष्ठ : राजा परपुरञ्जय : ॥
९५.क्षणात् संसक्तसर्वाङ्गौ तेजोवीर्यबलान्वितौ । निर्व्रणौ नीरुजौ सद्य : प्रीतावुत्तिष्ठतां नृप ॥
९७.स्वफाललोचनात् वह्ने : आदाय स्यन्दनोत्तमम् । नानाप्रहरणोपेतं साश्वरत्नचतुष्टयम् ॥
९८.अक्षयं चापि तूणीरं चापं चामीकरप्रभम् । रथचर्यागमाम्भोधिभारणं सूतमुत्तमम् ॥
९९.अभेद्यं कवचं तस्मै शस्त्रास्त्रैरमरैरपि । पापशत्रून् जयेत्युक्त्वा शिवोऽप्यन्तरधात् विभु : ॥
१००.एवं देवेशदत्तानि संप्राप्य नृपनन्दन : । सहैव गुरुपुत्रेण परम् हर्षमवाप्तवान् ॥
१०१.एतस्मिन्नन्तरे राजा याज्ञवल्क्य : च धर्मवित् । अक्षताङ्गौ बलोपेतवास्तां सुप्तोत्थिताविव ॥
१०२.तावुपेत्य सुतौ प्रीत्या परिष्वज्य मुहुर्मुहु : । आनन्दाश्रुपरीताभ्यां पिबन्ताविव पुत्रकौ ॥
१०३.लोचनाभ्यां समालोक्य भूयो हर्षमवापतु : । हरिकेतु : धीरमना : प्रणम्य स्वगुरुं निजम् ॥
१०४.पितरं च यथान्यायं ताभ्यां संवर्धितौ मुदा । आशीर्भि : संप्रयुक्ताभि : अनुशिष्ट : च संभ्रमात् ॥
१०५.चमसेनाभ्यनुज्ञात : संग्रामाय प्रतस्थिवान् । देवदत्तं रथवरं सूतेनाप्तेन संयुतम् ॥
१०६.आरुह्य कवची धन्वी बाणं बाणासनोज्ज्वल : । सैन्येन महता सार्धं गत्वा रक्षोगणोषिताम् ।
१०७.पुरी मयेन विहितां मायाजालै : दुरासदाम् । बिभेद बाणैर्विविधै : रुद्रदत्तै : सुदुस्सहै : ॥
१०८.अस्त्रेण बध्वा रक्षांसि रौद्रास्त्रेणादहद्रुषा । भस्मसात् अभवत् क्षिप्रं पुरं सह निशाचरै : ॥
१०९.अतो वै पुरुधामापि सह मात्रास्त्रवह्निना । साकं सवित्र्या दुष्टात्मा श्रुतकीर्ति : तया हत : ॥
११०.एवं निहत्य हरिकेतुरसौ महात्मा रुद्रौजसा गणमशेष निशाचराणाम् ।
    वीरो जयश्रियमवाप विशालकीर्ति : भूय : पुरीमपि निजां सरथो जगाम ॥
१११.तं तुष्टुवु : ब्वियदि सिद्धगणास्समन्तात् देवाश्च पुष्पनिचयैरभिषिच्य हर्षात् ।
    संभावितो निजजनै : गुरुभि : स्वपित्रा संवर्धित : परमवाप मुदं तदानीम् ॥
                           इति त्रिपञ्चाश : अध्याय : Pro.Total = 4941 + 111 = 5052.
                             चतु:पञ्चाश : अध्याय :
१.इत्थं राजसुतो धीर : जित्वा शत्रुगणं महत् । पूजितो नागरैस्सर्वै : प्रविश्य निजमन्दिरम् ॥
२.अभिवाद्य स्वपितरं गुरुं मातरमेव च । आशीर्भि : वर्धित : श्रीमान् गुरुपुत्रेण संयुत : ॥
३.निजं संप्राप भवनं हृष्टचित्तोऽभवत् तदा । याज्ञवल्क्यसुतो यस्मात् ब्राह्मणो निहतो रणे ॥
४.माता च गुरुपत्नी च निहते नृपसूनुना । तेन हत्या महाघोरा दुस्सहा ज्वररूपिणी ।
५.जग्राह राजतनयं कक्षमग्निशिखा यथा । तेन तापेन दग्धाङ्गो भ्रान्तचित्त इव स्फुरन् ॥
६.न निद्राति न चाश्नाति न वक्ति वचनान्यपि । एवं सङ्क्लिश्यमानाङ्गं दृष्ट्वा राजात्मसंभवम् ॥
७.शोकेन महताविष्टो गुरुमाह कृताञ्जलि : । राजा --भगवन् पश्य मे पुत्रं गरीयांसमसोरपि ॥
८.दह्यमानं ज्वरेणैव त्रायसे न किमग्रत : । आश्वास्य गुरो शीघ्रं त्रातुमर्हसि किल्बिषात् ॥
९.एवं दु;खितमासाद्य याज्ञवल्क्यो महीपतिम् । मुहूर्तं चिन्तयित्वा तु प्राज्ञो वचनमब्रवीत् ॥
१०.याज्ञवल्क्य : -मा भैषीस्त्वं महाराज हत्या मातृवधादमुम् । बाधते ज्वररूपेण प्रायश्चित्तेन शाम्यति ॥
११.पाणड्यानामिह भूपानां त्राता दु;खाम्बुधेर्गुरु : । लोपामुद्रापति : श्रीमान् नान्या गतिरिहास्ति व : ॥
१२.स एव परमो देव : शरणं याहि तं गुरुम् । इति तेनोक्तमार्गेण व्रतेन पृथीवीपति : ॥
१३.उपतस्थे मुनिश्रेष्ठं प्रीत : प्रादुरभूत् मुनि : । तं दृष्ट्वा मुनिशार्दूलं सूर्यवैश्वानरप्रभम् ॥
१४.समुत्थायासनात् राजा प्रणिपत्य कृताञ्जलि : । सर्वं विज्ञापयामास तदेतत् विप्लवं निजम् ॥
१५.इत्थां संप्रार्थित : तेन राज्ञा पाण्ड्येन कुम्भभू : । बभाषे वचनं धीमान् सर्वान् आह्लादयन् मुनि : ॥
१६.अगस्त्य : --व्यसनं त्वपकर्षामि श्रुणु राजन् महामते । स्त्रीहत्या ब्रह्महत्या च युगपत् समुपागता ॥
१७.तस्मात् तव सुतस्यास्य प्राप्त : परिभवो महान् । तथापि लोकरक्षार्थं विहितोऽयं वधो महान् ॥
१८.अपि पापसहस्रं वा प्रजारक्षणहेतवे । कर्तव्यं राजपुत्रेण एष धर्म : सनातन : ॥
१९.तदेव हि राजसुत : च करोति स्म भूपते । पश्चात् तापस्य शान्त्यर्थं प्रायश्चित्तं समाचरेत् ॥
२०.इति मन्वादिभि : प्रोक्तं तत्तथा कार्यमेव व : । इति राजानामाभाष्य सर्वान् संप्रीणयन् गिरा ॥
२१.राजपुत्रान्तिकं गत्वा तैरेभिस्सह बन्धुभि : । ददर्श हरिकेतुं तं लुठन्तमवनीतले ॥
२२.त्वगस्थिशेषं निर्मांसं दह्यमानं ज्वराग्निना । शोको मास्त्विति चाभाष्य तमामृज्य स्वपाणिना ॥
२३.तत्तापाग्निं समाधाय राजसूनो : कलेवरात् । क्षणात् आवाहयामास स्वकमण्डलुवारिण ॥
२४.तावन्निर्मुक्तसन्ताप : समुत्तस्थौ नृपात्मज : । सर्वे मुमुदिरे तत्र तं दृष्ट्वा विगतज्वरम् ॥
२५.पुरञ्जयो याज्ञवल्क्य: मन्त्रिण : च तथापरे । तुष्टुवु : स्तुतिभि : प्रीता : मुनिं चुलुकिताम्बुधिम् ॥
२६.तापान्मुक्तं कुमारं तं करेणामृज्य कुम्भभू : । इदमाह वच : प्रीत : राजानं तं पुरञ्जयम् ॥
२७.अगस्त्य: --राजन् तव कुमारेण पापस्यास्योपशान्तये । स्नातव्यममले तीर्थे ताम्राया : पापहारिणि ॥
२८.तीरे पुण्यतमे देवं प्रतिष्ठाप्य महेश्वरम् । पूजयित्वा यथान्यायं ध्यानहोमजपादिभि : ॥
२९.निश्शेषं शोषितं यावत् भवेत् तावत् घटोदकम् । आराधनीयो विधिनाप्युद्योगं क्रियतां त्वया ॥
३०.तदर्थं भवता राजन् सह पुत्रेण मन्त्रिभि : । पुरोधसा ब्राह्मणैश्च गन्तव्यं हि मया सह ॥
३१.इत्थमुक्त्वा मुनिवर : तैरेभिस्सह संगतै :। हैरण्वत्या : संगमत : प्राच्यां क्रोशात् महीपतिम् ॥ ३२.स्नापयित्वा नृपसुतं मन्त्रेण विधिपूर्वकम् । ताम्राया : दक्षिणे तीरे मङ्गुणस्याश्रमान्तिके ॥
३३.लिङ्गं संस्थापयामास विधिना हरिकेतुना । पूजयामास देवेशं षोडशैरुपचारकै : ॥
३४.प्रादात् धनं द्विजादिभ्य : गोसहस्रसमन्वितम् । ब्राह्मणान् भोजयित्वा तु दक्षिणाभिरतोषयत् ॥
३५.एवं कृतायां पूजायां देवस्य राजसूनुना । सन्तप्ततैलसंकाशं तदेतत् कलशोदकम् ॥
३६.क्षीणमाप तुरीयांशं ब्रह्महत्यात्मकं तदा । पुन : क्रोशात् परं गत्वा ताम्राया : पूर्वरोधसि ॥
३७.हरिकेतोराश्रमाग्रे दर्शनात् अघनाशने । स्नापयित्वा नृपसुतं मालेयीतीर्थवारिणि ॥
३८.तत्रापि शाम्भवं लिङ्गं स्थाप्य पूजामकल्पयत् । गवां सहस्रं विप्राणां ददौ हेमाम्बरान्वितम् ॥
३९.क्षीणमासीत् तृतीयांशं तावत् तत्कलशोदकम् । ततो मुनिवर : प्रीत : तैरेभिस्सह विस्मितै : ॥
४०.किञ्चित् उत्तरतो गत्वा पुण्ये वैखानसाश्रमे । विधिना स्नापयित्वा तं ताम्रायां नृपनन्दनम् ॥
४१.तत : शैवं महालिङ्गं प्रतिष्ठाप्य विधानत : । पूजयामास तन्त्रेण महापञ्चक्षरात्मना ॥
४२.प्रदक्षिण नमस्कारै : स्तोत्रै : सन्तोष्य शङ्करम् । गवां सहस्रं तत्रापि प्रददौ स नृपात्मज : ॥
४३.तावत् द्वितीयकुम्भस्यमंशं क्षीणमभूत् जलम् । तत : सन्तुष्टहृदया : सर्वे राजमुखा जना : ॥
४४.स्तुवन्तो मुनिशार्दूलं प्रणेमु : शिरसा मुदा । तद्दोषशेषसान्त्यर्थं तानाहूय मुनीश्वर : ॥
४५.बभाषे वचनं श्रीमान् लोपामुद्रापतिर्मुनि : । अगस्त्य : --राजन् तव कुमारस्य शेषदोषस्य शान्तये ॥
४६.प्रायश्चित्तं मया दृष्टं वक्ष्यामि श्रुणु सादरम् । पुरासीत् चमसो नाम मुनिराङ्गिरसाह्वय : ॥
४७.सोऽधीत्य वेदानखिलान् साङ्गानन्यान् गुरोर्मुखात् । अर्थमालोच्य शास्त्राणां पूर्वं सिद्धान्तमेव च ॥
४८.निश्चितार्थो मोक्षधर्मे तपस्तप्तुं मनो दधे । अर्णवात् पश्चिमे भागे ताम्राया उत्तरे तटे ॥
४९.दक्षिणे कुन्दाटव्यास्तु मायालास्यात्तु पूर्वत : । मनोज्ञे भवने देशे विधाय निजमाश्रमम् ॥
५०.तप : चकार मेधावी प्राणायामपरायण : । ततो वर्षशते पूर्णे तपस्यन्तं महामुनिम् ॥
५१.उपतस्थु : क्रतुशतमूचु : विनयोज्ज्वलम् । क्रतव : --वयं सर्वे पुरा ब्रह्मन् ब्रह्मणा लोकहेतवे ॥
५२.सृष्टा : सकलजन्तूनां चतुर्वर्गफलोदये । तदादि देवता विप्रा : ज्ञात्वा ज्ञात्वा श्रुतीरिता : ॥
५३.यागैरेभिर्यथान्यायं यजन्ति सकलान् सुरान् । त्वमेव सर्वधर्मज्ञ : गुरुभूत : तपोऽधिक : ॥
५४.अस्मान् विहाय भूयिष्ठान् क्रतून् कृत्यविदां वर । तपोभिरेभिर्मोक्षार्थं प्रयत्नं करोषि किम् ॥
५५.त्वया नादृतान् अस्मान् ज्ञात्वा सर्वेऽपि भूसुरा : । त्वयैवाचरितेनार्ये मार्गेणास्मान् विहाय भो ॥
५६.श्रेयांसि साधयिष्यन्ति नात्र कार्या विचारणा । तस्मात् त्वयापि कर्तव्यं अस्मत् संग्रहहेतवे ॥
५७.कृतकृत्योऽपि तपसा मुनेह्यस्मान् यथाविधि । अङ्गीकुरुष्व विप्रर्षे वयं त्वां शरणं गता : ॥
५८.इति तेषां वच : श्रुत्वा स मुनि : प्रीतमानस : । चकार मानसं धीमान् क्रमात् क्रतुशतं पर : ॥
५९.अग्निष्टोमादिक्रतून् राजन् अश्वमेधावसानकान् । मानसैरेव संभारै : चकारात्मविदां वर : ॥
६०.अन्ते ज्ञानाग्निकुण्डे तु ज्वालामालाशताकुले । अवभृत्यविधिं कृत्वा कृतकृत्योऽभवत् मुनि : ॥
६१.भूयोऽपि प्रार्थितो यागै : एवमेव समापयन् । तत्रावभृत्यं दत्वा महासंविद्धुताशने ॥
६२.तृतीयवारमेवं तु विधायाग्नौ तु मज्जनम् । सशरीरो दिवं यात : पुनरावृत्तिवर्जितम् ॥
६३.तस्मिन् गते मुनिवरे तेनाग्नेर्विहिताग्नय : । ज्वलन्त : तापयन्तश्च बाधन्ते पृथिवीमिमाम् ॥
६४.तेषु ध्येयं शिवं स्थाप्य शुद्धात्मा स नृपात्मज : । भविष्यति न सन्देह : दीर्घायु : कीर्तिमान् इति ॥
६५.इति तेषां कथां पुण्यां कीर्तयन् कुम्भसम्भव : । तैरेभिस्सार्धमासाद्य मुने : पुण्यतपोवनम् ॥
६६.ददृशु : च तथाप्यग्नीन् दुर्दर्शं मुनितेजसा । तत्र स्नात्वा तु ताम्रायां तर्पयित्वा पितॄन् सुरान् ॥
६७.विधिना स्थापयामास शिवलिङ्गं पृथक् पृथक् । तदग्नि गर्भे प्रथमं स्थापितं राजसूनुना ॥
६८.तदुत्तरेऽग्निकुण्डे तु राज्ञा संस्थापित : शिव : । तृतीयेऽपि तथा कुण्डे स्वयं कलशजन्मना ॥
६९.एवं लिङ्गेषु देवेशं विधिनावाह्य मन्त्रवित् । पूजयामास गन्धाद्यै : नैवेद्यै : धूपदीपकै : ॥
७०.स्तोत्रै : प्रदक्षिणैर्गीतै : नमस्कारजपार्चनै : । गोसहस्रं द्विजातिभ्य : सालङ्कारं सदक्षिणम् ॥
७१.प्रददौ नृपशार्दूल : शिवो न : प्रीयतामिति । ब्राह्मणान् भोजयामास भक्ष्यैरन्नैर्विशेषत : ॥
७२.इत्थं तेनार्चिता : विप्रा : प्रीणयन्त : पुन:पुन :। राजानं वर्धयामासु : प्रयुञ्जान : सदाशिष : ॥
७३.तावदामोदभूयिष्ठा : पुष्पवृष्टिरभूद्दिव ; । देवदुन्दुभयो नेदु : गन्धर्वाश्च जगुर्मुदा ॥
७४.प्रादुरासीत् महादेवो गौरीनाथ : त्रिलोचन : । सेव्यमान : सिद्धगणै : भूतप्रमथगुह्यकै : ॥
७५.गौरीसहायो भगवान् व्याजहार घटोद्भवम् । शिव : --साधु साधु मुनिश्रेष्ठ तुष्टोऽस्मि तव कर्मणा ॥
७६.अयं राजसुत : श्रीमान् क्षीणपापो न संशय : । एतं राजसुतं नित्यं पात्रं सकलसंपदाम् ॥
७७.वर्षाणामयुतं राजन् पालयन् पृथिवीमिमाम् । पुत्रे राज्यं समाधाय मम सायुज्यमेष्यति ॥
७८.एषु तीर्थेषु ये स्नानं विधिना तत्र तत्र हि । तत् तत्लिङ्गेषु मां दृष्ट्वा पूजयन्ति विधानत : ॥
७९.तेषां पुनर्भवो नास्ति सत्यं मद्व्याहृतं मुने । इत्युक्त्वा मुनिशार्दूलमाभाष्य च पुरञ्जयम् ॥
८०.हरिकेतोर्वरान् दत्वा पुनरन्यान् च शङ्कर : । सर्वेषु हृष्यमाणेषु तत्रैवान्तरधात् विभु : ॥
८१.इत्थं राजसुतं पापात् मोचयित्वा घटोद्भव : । आशिषा वर्धयित्वा तं राजानं च पुरञ्जयम् ॥
८२.प्रेषयित्वा सह सुतं मणलूरुपुरं प्रति । प्रेम्णा व्यापृच्छय तान् सर्वान् स मुनि : कुम्भसम्भव : ॥
८३.जगाम मलयं शैलम् यत्राश्रमपदं निजम् । गते तस्मिन्मुनिवरे हृष्टचेता : पुरञ्जय : ॥
८४.राजधानीं निजं प्राप्य संमन्त्र्य च पुरोधसा । अथ राज्ये सुतं प्रीत्या बन्धुभि : चाप्यभिषेचयत् ॥
८५.तत : चिरतरं कालं ऐहिकान् विषयान् सुखी । अन्ते शिवपदं पाप योगिनामपि दुर्लभम् ॥
८६.इत्थं मुनि : कलशभूरनुगृह्य हत्यातापोपशान्तिमुपदाय  नृपात्मजस्य ।
   शम्भोरवाप्य च वरान् जगतां हिताय प्राप्याश्रमं परमवाप मुदं महात्मा ॥
                           इति चतु:पञ्चाशोऽध्याय :       Pro.Total = 5052 + 86 =5138
                            पञ्चपञ्चाश : अध्याय :
                         रामतीर्थ---जटायुतीर्थमाहात्म्यम्
१.शङ्ख : --अथापरं महाराज रामतीर्थस्यवैभवम् । आकर्णय कलिक्लेशविनाशनविचक्षणम् ॥
२.यत्तीर्थस्मरणात् एव मुच्यन्ते जन्तवो भयात् । यत्र भक्त्या पुरा राजा केकयो भीमकार्मुक : ॥
३.गुरुणादिष्टमार्गेण स्नात्वा मालेयवारिणि । निर्मुक्तदोषस्सन्तानं लेभे त्रैलोक्यविश्रुतम् ॥
४.राजा --कोऽसौ केकयभूपाल : भीमधन्वा बहुश्रुत : । अधर्ममकरोत् केन कुलसन्तानरोधनम् ॥
५.ज्ञात्वात्र तीर्थे गुरुणा तद्दोषविनिवृत्तये । कथं वा लब्धसन्तान : कृतकृत्योऽभवत् नृप : ॥
६.एतत् विज्ञातुमिच्छामि मुने कथय विस्तरात् । इति पृष्ट : तदा तेन शङ्खयोगी महीभुजा ॥
७.तस्मै स कथयामास कथामेनां पुरातनीम् । शङ्ख : --आकर्णय कथां राजन् केकयस्य महात्मन : ॥
८.यस्य श्रवणमात्रेण नानपत्यो भवेत् नृप । वन्ध्यापि लभते पुत्रमायुष्मन्तं यशस्विनम् ॥
९.पुरा केकयदेशेषु नाम्ना भीमशरासन : । आसीदशेषधर्मज्ञ : सत्यवादी महीपति : ॥
१०.धर्मज्ञ : वदान्यश्च यज्वा व्रतपरायण : । गुरुसेवी गुणावासो जेता निखिलभूभुजाम् ॥
११.मालवी मधुगन्धाख्या तस्यासीत् प्राणवल्लभा । तया सह चिरं राजा कृत्वा धर्मान् अनेकश : ॥
१२.न सन्तानमसौ लेभे राजसूयादिभिर्मखै : । कदाचित् अश्वमेधान्ते कृत्वावभृथमज्जनम् ॥
१३.चिन्तयान : सभां राजा प्रविश्य सह मन्त्रिभि : । पुरोहितैश्च सामन्तै : विद्वद्भि : ब्राह्मणैस्सह ॥
१४.निषसादासने मुख्ये महरत्नपरिच्छदे । तमेनं धर्मनिपुणं राजानं राजसत्तमा : ॥
१५.उपतस्थुर्महाराजं वसवो वासवं यथा । तावत् अत्रिर्भृगु : कण्व : कपिल : शतजित् वसु : ॥
१६.शातातप : शतानन्द : सुमन्थु : कुम्भसम्भव : । एते चान्ये च मुनयो राजानं द्रष्टुमाययु : ॥
१७.एतान् समागतान् दृष्ट्वा प्रत्युचाच कृताञ्जलि : । विधिना पूजयामास पाद्यार्घ्याद्याभिवन्दनै : ॥
१८.उपविष्टेषु सर्वेषु पूजितेषु यथासुखम् । कृताज्जलिरभिष्टूय वचनं चेदमब्रवीत् ॥
१९.भवन्तो हि महाभागा : मुनय : संश्रितव्रता : । भवतां पादरजसा गङ्गाद्या : तीर्थतां ययु : ॥
२०.युष्मज्जिह्वाग्रनटनाविभ्रमाश्श्रुतयोऽप्यमी । पवित्रयन्ति भुवनं पुराणानि मुहुर्मुहु : ॥
२१.यदालोकनपुण्येन श्रद्धया परया कृतम् । ब्रह्महत्यादि पापानां प्रायश्चित्तं भविष्यति ॥
२२.अपि पापस्य मे नूनं भवन्तो दृष्टिगोचरा : । अनपत्यमहापापप्रायश्चित्ताय नोद्यता : ॥
२३.भवत : शरणं प्राप्तं दीनं मां भृत्यमास्थितम् । त्रातुमर्हत सर्वज्ञा : गुरवो दीनवत्सला : ॥
२४.इति ब्रुवति राजेन्द्रे दीने चाश्रुपरिप्लुते । व्याजहार महायोगी मुनि : कलशसंभव : ॥
२५.राजन् जहीहि सन्तापमनपत्याघसंभृतम् । अचिरेणैव कालेन भविता ते तनूद्भव : ॥
२६.चक्रवर्ती महातेजा : सर्वज्ञो लोकसंमत : । अस्यान्तरायो मध्ये तु वर्तते वज्रकर्कश : ॥
२७.पुरा चोलस्य विषये काचित् सामन्त भूपति : । धनकेतुरितिख्यात : सर्वशास्त्रार्थतत्ववित् ॥
२८.तस्य पुत्रावुभावास्तां धीमान् ज्येष्ठोऽनुज : क्रतु : । तौ वीरौ धर्मिणां श्रेष्ठौ पिता दृष्ट्वा महोत्सवौ ॥
२९.आधिपत्ये सुतं ज्येष्ठं निधायान्यं तथोचिते । सन्त्यक्तरागो नितरां वसन् अत्र गृहे निजे ॥
३०.शिवमाराधयन् नित्यमवाप परमां गतिम् । ततो धीमान् महातेजा : भ्रात्रा सह कनीयस : ॥
३१.पितुश्चकार विधिना गुरुणा चोर्ध्वदेहिकम् । ततस्तौ भ्रातरौ सर्वधर्मज्ञगुरुचोदितौ ॥
३२.काले काले च कार्याणि पैतृकानि प्रचक्रतु : । पितृश्राद्धादिकं सर्वं प्रत्येकं भ्रातृभिस्सदा ॥
३३.एवं धर्मसमाचारे श्रुतिस्मृत्यनुवर्तिभि : । इत्थं गुरुजनैर्विप्रै : सबहुज्ञैरपि भूपति : ॥
३४.अनुशिष्टोऽप्यसौ लोभात् सहैव च कनीयसा । एवं विज्ञातशास्त्राभ्यां द्रव्यलोभेन भूपते ॥
३५.न चकार पितु : श्राद्धं क्रतुर्ज्येष्ठवशं गत : । एवं बहुतिथे काले तावेतौ शूरसंमतौ ॥
३६.युद्धे शत्रुवशं प्राप्तौ युगपत् मृतिमापतु : । वीरस्वर्गाय निष्क्रान्तौ विमानवरमास्थितौ ॥
३७.उद्भिद्यमण्डलं भानो : तेजोराशिरकल्मष : । जगाम परमान् लोकान् धीमान् कर्मानुरूपकान् ॥
३८.क्रतुरर्वाक् सूर्यबिम्बात् निरुद्धोऽभूत् सुरोत्तमै : । क्रतु : तावत् स्मयमान : चिन्तामाप दुरत्ययाम् ॥
३९.आवामेकत्र सञ्जातौ एकधर्मपरायणौ । धर्मानुरक्षां कुर्वन्तौ मार्गे नियमवर्तिनौ ॥
४०.अत्रैवं स्वर्गयोग्योऽभूत् अहं नाभूवमत्र किम् । इति संशयमापन्ने तस्मिन् धर्मपरायणे ॥
४१.यदृच्छयागतो योगी नारदो व्योमवर्त्मना । क्रतुमाह समाहूय मा ते चिन्ता महीपते ॥
४२.नारद: --त्वया पितृदिने श्राद्धं न कृतं धर्मवर्त्मना। तस्मात् तव गति : स्वर्गे नास्ति पुण्यशतैरपि ॥
४३.इति श्रुत्वा परिश्रान्तो भीत : क्रतु : महीपति : । पुन : प्रणम्य देवर्षिं पप्रच्छ विनयान्वित : ॥
४४.कथं कर्मगतिर्ब्रह्मन् पवित्री पुरतो मम । कथं निर्वृत्तो दु;खात् मां कृपया वक्तुमर्हत ॥
४५.नारद : --राजन् तव गति: पुण्या पुण्यशीलस्य भूयसी।वक्ष्यमाणान् मयेदानीं श्रुणु वत्स यथातथम् ॥
४६.दानैर्यज्ञै : तपोभि : च भक्त्या च गुरुसेवया । देहत्यागेन सङ्ग्रामे भवता सुकृतं कृतम् ॥
४७.नान्तं पश्यामि भोगस्य कर्मभि: स्वार्जितैश्शुभै : । लोभात् पितृदिने श्राद्धमकर्तु : ते न निष्कृति : ॥
४८.विनिरुद्धोर्ध्वगति : भूय : कुरुते जन्म मानुषे । केकयस्य कुले जन्म भाव्यं धर्मभृत : तव ॥
४९.भीमधन्वेति विख्यातो यज्वा दाता बहुश्रुत : । समस्तराजसामन्तवन्द्यमानपदाम्बुज : ॥
५०.दारै : तथानुरूपै : तु भृत्यैर्मित्रैश्च सेवित : । महेन्द्रतुल्यभाग्योऽपि पापात् सन्तानवर्जित : ॥
५१.शोचमानो दिवारात्रं दैवात् सत्संगमेष्यसि । उपदेशेन सदसि कुम्भयोनेर्महात्मन : ॥
५२.प्रायश्चित्तं विधायैव तत : सन्तानमेष्यसि । इत्युक्त्वा नारदो योगी कैलासाय प्रतस्थिवान् ॥
५३.क्रतु नामा भवान् राजा पूर्वजन्मनि पुण्यत : । जातोऽसि केकयकुले प्रशस्त : सर्वसंमत : ॥
५४.एतत् ते कथितं राजन् वृत्तान्तं पूर्वजन्मजम् । जानन्त्येते च मुनय : त्वं न जानासि मायया ॥ 
५५.इत : परं प्रवक्ष्यामि प्रायश्चित्तं तवाधुना । यत्कृत्वा  मुक्तपाप : त्वं प्राप्य पुत्रान् महौजस : ॥
५६.अनुभूयश्चिरं भाग्यममानुष्यमतर्कितम् । पञ्चवर्षसहस्रान्ते सनातनात् प्राप्योपदेशत : ॥
५७.सनातनमुनेर्भूम्ना कल्पान्ते द्रष्टुमर्हसि । इत्थमाकर्ण्य सिद्धस्य विन्ध्यमानप्रमाथिन : ॥
५८.सर्वे मुमुदिरे सभ्या : हर्षरोमाञ्चमञ्जुला : । तुष्टुवु : कुम्भजन्मानं स्तोत्रै : तत्कीर्तिभूषितै : ॥
५९.समुत्थायासनात् राजा हर्षनिर्भरमानस : । मुञ्चन् आनन्दजं वारि लोचनाभ्यां सुशीतलम् ॥
६०.हर्षगद्गदया वाचा व्याजहार महामुनिम् । कृताञ्जलिपुटो भूत्वा संस्पृशन् तत्पदाम्बुजम् ॥
६१.नमस्ते मुनिशार्दूल नमस्ते करुणानिधे । धन्योऽस्मि कृतकृत्योऽस्मि तव पादाब्जसेवया ॥
६२.इत : परं न शोचामि कर्मणा केन वा मुने । तत्मे कथय विस्तीर्य त्वामहं शरणं गत : ॥
६३.अगस्त्य : --श्रुणु राजन् प्रवक्ष्यामि तव सौभाग्यहेतुकम् । प्रायश्चित्तमशेषाणामघानामुपशान्तये ॥
६४.पुरा नारायण : साक्षात् भगवान् करुणानिधि : । हिताय जगतां धात्रा प्रार्थितो देवतैरपि ॥
६५.भूत्वा दाशरथि : श्रीमान् भ्रात्रा सौमित्रिणा सह । मैथिलीसहित : प्राप्य दण्डकां मुनिसेविताम् ॥
६६.चकार वसतिं तत्र पञ्चवट्यां जटायुषा । अनुयाते चित्रमृगं रामे सौमित्रिनन्दने ॥
६७.जहार रावण : सीतां कुहना यतिवेषभृत् । तदा निरुध्य तं पक्षी जटायुर्वीरवत्तर : ॥
६८.बभञ्ज रावणरथं तं च संमोहयन् बलात् । ततो हत्वा दशग्रीवो गृध्रराजं जटायुषम् ॥
६९.प्राप्य लङ्कां समादाय मैथिलीं जनकात्मजाम् । ततो रामस्समागत्य हृतां श्रुत्वा च मैथिलीम् ॥
७०.पितु:सखं पक्षिराजं प्रापयित्वा निजं पदम् । तद्देहं पितृमेधेन संस्कृत्य विधिपूर्वकम् ॥
७१.निवापाञ्जलिमम्भोभि : ताम्राया उत्तरे तटे । तावद्ब्रह्ममुखैर्देवै : सनकाद्यैश्च योगिभि : ॥
७२.आविरासीत् महादेवो भवान्या : सहित : तदा । प्रशस्य राममात्मानं व्याजहार वच : शुभम् ॥
७३.भगवान् --राम राम महाभाग भवता तारितो महान् । प्राप्तवान् अक्षयं स्थानं तोषितेयं जगत् त्वया ॥
७४.त्वयात्र कल्पितं तीर्थं महापातकनाशनम् । ये सेवन्ते भक्तियुक्ता : तेषां मुक्ति : करे स्थिता ॥
७५.जटायुसंज्ञिते तीर्थे रामाख्ये च भवत्प्रिये । शिवतीर्थे मदीये च ये मज्जन्त्यपि वा सकृत् ॥
७६.तेषां पापानि नश्यन्ति शतजन्मार्जितान्यपि । भवन्तु संपद : तेषां भवन्तु च मनोरथा : ॥
७७.सन्तति : धर्मसंवृद्धा निष्पापा चिरभोगिनी । प्रायश्चित्तमिदं रामतीर्थेऽस्मिन् मज्जनं नृणाम् ॥
७८.इत : परं महाबाहो हत्वा रावणमाहवे । सीतासमेतं सन्तुष्टं त्वां पश्यामि सलक्ष्मणम् ॥
७९.इत्युक्त्वामन्त्र्य तं देवो रामभद्रं वृषध्वज : । जगाम सहसा देवै : कैलासमुमया सह ॥
८०.तदादिमुनय : सिद्धा : ऋषयश्च तपोधना : । अद्यापि किल सेवन्ते रामतीर्थमनुत्तमम् ॥
८१.तस्मात् त्वया महाराज गन्तव्यं सह भार्यया । अत्र स्नात्वा महातीर्थे तर्पयित्वा पितॄन् सुरान् ॥
८२.सन्तर्प्य च ऋषीन् विप्रान् धनधान्यभूतिलै : । प्राप्स्यसि त्वं सुतान् नूनं मर्मज्ञान् भूरिवर्चस : ॥
८३.इत्युक्त्वोपरते तस्मिन् मुनौ वातापिवैरिणि । सा सभा विस्मयाविष्टा सराजमुनिसंकुला ॥
८४.उच्चै : कलाकलारावा मुहूर्तं समपद्यत । ततो राजा भीमधन्वा तान् ऋषीन् अभिवाद्य च ॥
८५.गुर्वर्थे प्रार्थयित्वा तं लोपामुद्रापतिं मुनिम् । सान्त:पुरे पुरात्तस्मात् निर्ययौ सदनोच्चय : ॥
८६.अतीत्य दूरमध्वानं सवाहनपरिच्छद : । दिनै :कतिपयै : प्राप्त : तां नदीं मलयात्मजाम् ॥
८७.रामतीर्थं समासाद्य सदार : कृतमज्जन : । ऋष्यादिष्टेन विधिना तोषयित्वा धनैर्द्विजान् ॥
८८.ऋषीन् देवान् पितॄन् चापि क्षेत्रपिण्डविधानत : । उपोष्य तीर्थसिद्ध्यर्थं तीर्थश्राद्धं परेऽहनि ॥
८९.स्नात्वाग्रे रामतीर्थं च शिवतीर्थमनन्तरम् । जटायुतीर्थे तथा स्नात्वा राजा यथाविधि ॥
९०.तीरमासाद्य धर्मात्मा धृत : शुद्धाम्बरद्वय : । न्यषीदत् ऋषिभि : तीरे कृतकृत्य : कृतात्मवान् ॥
९१.एवं स्थितेषु सर्वेषु मुनिबृन्देषु भूपते । अम्बरात् उदभूत् तावत् वार्ता काप्यशरीरिणी ॥
९२.निर्मुक्तपाप : त्वं राजन् शुद्धात्मा सूर्यबिम्बवत् । त्वं लप्स्यसे सुतान् वीरान् पज्च पञ्चाननोपमान् ॥
९३.आयुष्मद्भि : कीर्तिमद्भि : पुत्रै : धर्मपरायणै : । अनुभूय सुखं ब्रह्मन् जीवन्मुक्तो भविष्यसि ॥
९४.इत्याकर्ण्य गिरं राजा संप्रहृष्टतनूरुह : । आशीर्भिर्वर्धितो विप्रै : मुनिना कुम्भजन्मना ॥
९५.प्रेषित : स्वपुरं प्राप सान्त:पुरपरिच्छद : । राजधानीं निजां प्राप्य हृष्टपुष्टजनाकुलाम् ॥
९६.धर्मेण पालयन् आस्ते प्रतीक्षन् आत्मजोदयम् । एतस्मिन्नन्तरे तस्य महिषी मृदुगन्धिनी ॥
९७.क्रमेण सुषुवे पुत्रान् प्रत्यब्दं भूरिवर्चस : । हिरण्यबाहु : शालीक : सिंहकेतु : बृहद्ररथ : ॥
९८.चन्द्रधामेति विख्याता : पुत्रा : पञ्चमहैजस : । सर्वज्ञा : कीर्तिमन्तश्च पितुरानन्दवर्धका : ॥
९९.तैर्वीरसंमतै : पुत्रै : धर्मज्ञै : श्रुतिपारगै : । अवापु : परमां तुष्टिं चन्द्रांशुभिरिवार्णव : ॥
१००.पञ्चवर्षसहस्राणि राज्यं कृत्वा महीपति : । अभिषिच्य सुतं ज्येष्ठं आदिराज्ये गुणोत्तरम् ॥
१०१.आदिसिद्धात् अनुप्राप्य सिद्धिमायुष्करीं पराम् । अद्यापि वर्तते राजा कृतकृत्यो हिमाचले ॥
१०२.इत्थं मलयजा पुण्या सर्वपापप्रणाशिनी । अनपत्यत्वसन्तापात् मोचयामास भूपतिम् ।
    भूयोऽपि सिद्धिमतुलां प्रादात् भक्तानुकम्पिनी ॥
१०३.यस्त्वेनामघशमनीमशेषजन्तो : आश्चर्यात् अमृतमयीं कथां पुराणीम् ।
    ये शृण्वन्त्यपि च पठन्ति भक्तियुक्ता : संकल्पोदयकरणी तथैव तेषाम् ॥
१०४.श्रीमद्राघवतीर्थकलिकामायुष्करीमन्वहं ये शृण्वन्ति कथामिमां कलिमलधंसनैकोक्ताम् ।
    तेषां दोषविवर्जिता भवति सत्सन्तानसंपत्कला भोगान्ते परमागतिश्च नियता निर्वाणसौख्यावहा ॥
                          इति पञ्चपञ्चाश : अध्याय : Pro.Total = 5138 + 104 = 5242.  
                               षट्पञ्चाश : अध्याय :
                               विष्णुवनमहिमवर्णनम्
१.श्री शङ्ख : --अथान्यदपि वक्ष्यामि ताम्राया : तीर्थवैभवम् । यस्यैकदेशश्रवणादपि मर्त्यो न शोचति ॥
२.यदेतत् शृण्वतां पुण्यमाख्यानमममृतोदयम् । न मनो याति मालिन्यमाशापाशे न रज्यते ॥
३.तामिमां कलिदोषघ्नीं कथामादिगुरोर्हरे : । उच्यमानं मया भक्त्या समाकर्णय भूपते ॥
४.तस्मात् किञ्चित् पुरोभागे क्रोशमात्रमतीत्य तु । क्षेत्रमभ्युदयाकारं जन्तूनां श्रान्तिनाशनम् ॥ 
५.समन्तात् योजनायातं तेजिष्ठमिति कीर्तितम् । यत्र चित्रा नदी पुण्या ताम्रामभ्येति पावनीम् ॥
६.यत्र पाशावती नाम पुत्री सान्तपनस्य सा । तपस्तप्त्वा चिरं कालं नदीभूता शिवाज्ञया ॥
७.संगता मणिमात्रासीत् लोकानां हितकाम्यया । यत्र विष्णु : तपस्तप्त्वा त्रिविक्रमकृतोद्यम : ॥
८.ब्रह्माण्डकुहरीपूर्तिं स्वया मूर्त्याव्यवर्त स : । तदादि मुनय : क्षेत्रं जगुर्विष्णुवनमिति ॥
९.तस्यास्य क्षेत्रमुख्यस्य माहात्म्यं सागरोपमम् । वाचामगोचरं मन्ये बहुत्वात् पृथिवीपते ॥
१०.इति व्याहरत : तस्य महत : शङ्खयोगिन : । वीरसेन : समाकर्ण्य विस्मितो वाक्यमब्रवीत् ॥
११.अत्र कश्चित् महायोगिन् चित्रं चित्रादिवेदितम् । ब्राह्मणस्य सुता केयं नाम्ना पाशावतीरिता ॥
१२.कथं तपस्समाधत्ते नदीभूता शिवाज्ञया । एतत्सर्वमशेषेण विस्तरात् वक्तुमर्हसि ॥
१३.शङ्ख : --श्रुणु भूमिपते चित्रमाख्यानमघनाशनम् । इदं विष्णुवनं नाम ख्यातं क्षेत्रमनुत्तमम् ॥
१४.अत्र विष्णु : तपस्तप्त्वा वर्षाणामयुतं त्रयम् । देहवृद्धिकरीं शक्तिं संप्रापाभीप्सितोदयाम् ॥
१५.तदा ब्रह्ममुखा : देवा : ऋषयश्च सनातना : । प्रशशंसुर्विष्णुवनं तेजिष्ठमिति विस्मिता : ॥
१६.उपाख्यानमिदं नद्या : पाशावत्या : श्रुणु प्रभो । पुरा वसिष्ठो भगवान् कदाचित् कार्यगौरवात् ॥
१७.वरुणस्यान्तिकं गत्वा पितरं तं प्रणम्य स : । उवास कतिचित् कालं वरुणेनानुमोदित : ॥
१८.स तं दृष्ट्वा कोशगृहं वरुणस्य महात्मन : । असङ्ख्येयधनाविष्टमपारमणिसञ्चयम् ॥
१९.यस्यैकस्यस्पर्शनेन भवेत् मर्त्यो निरामय : । यच्छायासङ्गमात् एव नरो भूरिबलो भवेत् ॥
२०.यत्र स्थितेन मणिना कर्णासक्तेन मानव : । आकल्पजीवी भवति रूपयौवनसंपदा ॥
२१.एवं भूतैर्महारत्नै : पुञ्जीकृतमितस्तत : । दृष्ट्वा रागाभिविष्टेन मनसा मुनिपुङ्गव : ॥
२२.रत्नानि कतिचित् दिव्यान्यादाय स्वकमण्डलौ । विनिष्क्रान्त : कोश्गृहात् स्वाश्रमाय प्रतस्थिवान् ॥
२३.पाशशक्ति : पाशपाणे : दृष्ट्वा चौर्येण तद्धनम् । गृहीत्वा प्रतियान्तं तं बबन्ध मुनिपुङ्गवम् ॥
२४.बद्धो वरुणपाशेन निश्चेष्ट : समपद्यत । एवं व्यावेष्टमानं तं क्लिश्यमानं ततस्तत : ॥
२५.यदृच्छयागतो देवो वरुणो यादसां पति : । अदृश्यत ततो भूमौ लुठन्तं स्वसुतं मुनिम् ॥
२६.तस्मै ऋचमिमं दत्वा पुण्यां पापविमोचनीम् । ऋग्वेदसमुद्भूतशाखास्थानविहारिणीम् ॥
२७.कृपया मोचयामास तद्बन्धात् भूरिकर्शनात् । इदमाह वचो धर्म्यं श्रुत्यन्तोल्लासितं हितम् ॥
२८.तात वत्स कृतं दोषं चौर्यं परधनस्य हि । लघिष्ठं कुरुते मर्त्यं निरयावासकारकम् ॥
२९.ईदृशं नैव कर्तव्यं गच्छ तात यथासुखम् । इत्थं समनुशास्यैनं दत्वा रत्नानि भूरिश : ॥
३०.प्रेषयामास सस्नेहं परिष्वज्य स्वमाश्रमम् । ततो दीनमना भूत्वा ह्रिया क्ञ्चित् अवाङ्मुख : ॥
३१.तस्मात् लोकात् विनिष्क्रम्य संप्राप निजमाश्रमम् । दिवानिशं चिन्तयानो विनिद्र: सौख्यवर्जित : ॥
३२.चकार चिन्तां भूयोऽपि स्वाश्रमान्त : स्वयं वसन् । पितुर्धनं हि पुत्राणां साधारणमिति स्मृतम् ॥
३३.पितुर्धनापहरणदोषो नास्ति सुतस्य हि । इति शंसन्ति मुनय : सर्वत्र ब्रह्मवादिन : ॥
३४.तस्मात् निरागसमहो मां दण्डयति तामसी । पाशशक्ति : इयं दुष्टा तत्फलं प्राप्नुयात् इति ॥ ३५.निश्चित्य मनसा चैवं वसिष्ठ : तां शशाप स : । अयि पापे मूढचित्ते स्वधनाहरणेन माम् ॥
३६.पापं मत्वा तु दुर्धर्षे निबन्धयसि निर्दया । तेन पापेन घोरेण मर्त्या भव मूढधी : ॥
३७.इत्थं वसिष्ठशापेन कर्शिता पाशदेवता । निर्गत्य वरुणाल्लोकात् भूमिमापात्र भारतीम् ॥
३८.भारद्वाजात्मजो भूत : मुनि : सान्तपनाभिध : । ददर्श दु:खितामेनामस्रवाराम्बुनिर्झराम् ॥
३९.सान्तपन : -का त्वं कुतस्समायाता का चिकीर्षा तवापरम्।इति पृष्टा पाशशक्ति:शोकं तं विनिगृह्य सा ॥
४०.तस्मै वै कथयामास शापात् अभ्यागतं भयम् । तदशेषं समाकर्ण्य प्रीणयित्वा पुन:पुन : ॥
४१.उवाच वचनं धीमान् तस्या : प्रियचिकीर्षया । मुनि : --मास्तु शोकरयो भद्रे प्रीता भव शुचिस्मिते ॥
४२.मत्पुत्री भव माधव्यां शोकमोक्षं करोम्यहम् । इत्युक्ता मुक्तशोका सा तत्पुत्री समजायत ॥
४३.ववृधे सा पितुर्गेहे मात्रा पित्रानुलालिता । कृपया गुरुणा दत्ता विद्येव परिवर्धिता ॥
४४.अवाप शैशवात् किञ्चित् आमृष्टनवयौवना । विजहाराश्रमारामे सखीभिश्च समन्विता ॥
४५.अद्राक्षीत् कोटरात् कोऽपि व्याल : विषबलोल्बण : । अभ्येत्य बालामदशत् तेन तस्या : कलेवरम् ॥
४६.दुर्वर्णं कर्कशं कुब्जं शवपीठमभूत् नृप । तं दृष्ट्वा स मुनिर्दु;खात् क्षणं सन्तप्य चात्मनि ॥
४७.गृहमानीय तां बालां सान्त्वयामास पुत्रिकाम् । चिन्तयामास मतिमान् किं कर्तव्यमत : परम् ॥
४८.एनां कुरूपिणीं कन्यां नेच्छन्ति मुकिपुत्रका : । भवितव्यमिदं कर्म फलमस्या निरूपितम् ॥
४९.तस्मादिमामुपायेन तारयाम्यापदस्सुताम् । इति निश्चित्यचित्तोऽसौ मुनि : सान्तपन : सुधी : ॥
५०.तस्यै स दीक्षाविधिना शैवीं पञ्चाक्षरां शुभाम् । विधिनोपादिशत् साङ्गां ध्यानसंकल्पपूर्विकाम् ॥
५१.सापि पित्रेरितां विद्यां प्राप्य शोकपराङ्मुखी । उपासताश्रमे तस्मिन् निद्राहारविवर्जिता ॥
५२.तपस्यन्त्या : शिवध्यानात् निर्धूताशेषकल्मषे । स्वात्मानं दर्शयामास तस्या : स्वान्ते सदाशिव : ॥
५३.एवं वर्षशते पूर्णे शरीरात् रोमकूपत : । मज्जन्त : रशनादीर्घा : कृष्णवर्णा : ततस्तत : ॥
५४.तामेवं मुनयो दृष्ट्वा विस्मिता : दीर्घदर्शिन : । पाशशक्तिमिति प्रोचु : स्तुवन्त : तां तपोबलात् ॥
५५.वरं दातुमभूत् अग्रे तत्तपस्सदृशं फलम् । अयि पाशवति महातपोनिर्धूतकल्मषे ॥
(ईश्वर : समारूढ : देवगणै : प्रमथैश्चसमन्वित : ।)
५६.प्रीतोऽस्मि तपसेदानीं तव सन्तु मनोरथा : । त्वं पुरा पाणिपद्मस्थारशना पाशपाणिन : ॥
५७.वसिष्ठशापात् संप्राप्तमर्त्यत्वमविदुस्सहा । मद्दर्शनमिदं भद्रे शापान्तं विद्धि निश्चयम् ॥
५८.इत : परं त्वया कार्यं अस्मत्प्रीतिवर्धनम् । द्रोणाख्यस्य मुने : पत्नी देवलेति पतिव्रता ॥ 
५९.कुबेरभवनं याते यज्ञार्थं च निमन्त्रिते । स्वभर्तरि व्रतपरे तिष्ठन्ती सा निजाश्रमे ॥
६०.शापात् बृहस्पते : कोपि गन्धर्व : चित्रकार्मुख : । रक्षोभूत्वा चचारेमां पृथिवीं काममोहित : ॥
६१.कदाचित् स्वाङ्गणे सुप्ता बन्धुभि : सह लालसा । यदृच्छयैनामालोक्य सद्य : कामवशं गत : ॥
६२.आदाय तामङ्केन रावणो जानकीमिव । अश्वारूढ : पथा रात्रौ तरसा निर्जगाम स : ॥
६३.शिलाकर्कशतद्गात्रं स्पृशन् वेदनया भृशम् । निर्मुक्तनिद्रा सा तन्वी वेपमाना भृशातुरा ॥
६४.कोपाग्निदीप्तज्वालाभ्यां लोचनाभ्यां विलोकयन् । तद्दृष्टिपातमात्रेण तद्रक्षो भस्मसादभूत् ॥
६५.सा निर्जने घनारण्ये तमस्तोमानुरञ्जिते । विचार्य बुध्या धर्मज्ञा तपोमूर्तिमभीप्सती ॥
६६.अयोग्यमशुचिप्रायमेतदस्थिकलेबरम् । रक्षसा पापरूपेण दृष्ट : कामातुरेण हि ॥
६७.तस्माद्भर्तुर्धर्ममूर्ते : अयोग्या नात्र संशय : । शुनालीढं हि पर्युष्टं नैव योग्यं यथा भवेत् ॥
६८.इति निश्चित्य सा तन्वी योगज्ञा योगविद्यया । विसृज्य देहं कलुषं वातस्कन्धात्र वर्तते ॥
६९.मत्प्रियार्थं त्वया भद्रे तस्या : प्रीतिविधित्सया । तव धर्माभिवृद्ध्यर्थं कुरु मे वचनं शुभम् ॥
७०.प्रवाहबहुला भूत्वा नदी पापप्रणाशिनी । पतिव्रताया : तस्यैतत् आदाय च कलेबरम् ॥
७१.पुण्ये मलयजातोये क्षणात् पापापहारिणि । व्युक्षिप त्वं वेगवती भूत्वा तोयप्रवाहिनी ॥
७२.तत्तीर्थसङ्गात् भूयोऽपि देहं प्राप्य मनोहरम् । अनुगच्छतु भर्तारं शुचिभूता मुने : सती ॥
७३.त्वं चापि पूता तीर्थेन ताम्राया : दिव्यरूपिणा । वरुणस्य करं प्राप्ता सन्तोषमधिगच्छसि ॥
७४.शङ्ख : --इति देवगिरा राजन् सैषा पाशवती वधू : । तोयरूपाभवत् सद्यो नानायादोगणावृता ॥
७५.तरङ्गिणी शैवलिनी सफेनावर्तमण्डला । मुनिपत्न्या : समाधाय वपु : शुष्कतरं तदा ॥
७६.स्रोतसाकृष्य देहेन ताम्रायां सा व्यचिक्षपत् । सद्य : तत्तीर्थसङ्गेन पवित्रितमिदं वपु : ॥
७७.अङ्गीचकार सा पत्नी द्रोणाख्यस्य महात्मन : । रूपयौवनसंयुक्ता समुत्तस्थौ महाजलात् ॥
७८.तावदाविरभूत् व्योम्ना सुगन्धा पुष्परूपिणी । वृष्टिर्नानागुणच्छाया नानामोदैकमेदुरा ॥
७९.ब्रह्मरुद्रमुखा : तावद्देवा : च सह गुह्यकै : । गन्धर्वयक्षप्रमुखा : सिद्धविद्याधरादय : ॥
८०.देवर्षयो नारदाद्या : सनकाद्या : च योगिन : । विस्मिता : ते समाजग्मु : प्रशंसन्त : परस्परम् ॥
८१.त्रिणदीसङ्गमं दृष्ट्वा महापूरप्रवर्तितम् । निर्ममज्जु : तथा तीर्थे पावने परमाद्भुते ॥
८२.समवायोऽपि मर्त्यानां स्वनतामुदपद्यत । द्रोणोऽपि मुनिशार्दूल : प्राप्य पत्नीं पतिव्रताम् ॥
८३.हरेरादिगुरो : तावत् आविर्भूतात् वरान् बहून् । आदेशात् देवदेवस्य सपत्नीको ययौ गृहम् ॥
८४.वरुणस्य करं प्राप शुद्धाङ्गी पाशदेवता । इत्थमत्यद्भुतं दृष्ट्वा माहात्म्यं विस्मयावहम् ॥
८५.मूर्ध्नावगाह्य तत्तीर्थं पूतात्मान : सुरासुरा : । कृतार्थयन्त : चात्मानं जग्मुरेव यथागतम् ॥
८६.ब्रह्मरुद्रौ हरिं तत्र संपूज्य सह देवतै : । ययतु : स्वं पदं हृष्टौ सह देवै : सहागतै : ॥
८७.तेषां समीप्सितान् कामान् दत्वा तत्रान्तराविशत् । एवं पाशवती नद्या : चरित्रं कथितं विभो ॥
८८.भूयोऽप्यभिनवा पुण्या कथा तत्तीर्थशंसिनी । उच्यमाना मयेदानीं श्रोतव्या श्रुतिचोदिता ॥
८९.इत्थं निगत्य महता त्रिणदीसमाजसौभाग्यकीर्तिकलिकामिव कल्पवल्ली ।
   योगीश्वर : पुनरपारकृपाब्धिरुच्चै : गाथामिमामकथयत् कलुषैकहन्त्रीम् ॥
९०.अस्य क्षेत्रस्य माहात्म्यं राजन् वाचामगोचरम् । यतो नारायण : साक्षात् क्षेत्ररूपेण वर्तते ॥
९१.ताम्रापि सर्वपापघ्नी नारायणपरायणा । आमोदवर्णवैशिष्यं मार्दवं च रसोच्चयम् ॥
९२.एकस्मिन् कुसुमे भाति यथा पुण्यस्य वैभवात् । तथैव हरिणाविष्टं ताम्रातोयविभूषितम् ॥
९३.सिद्धानां निलयं साक्षात् महामुनिजनास्पदम् । गुणोत्कृष्टमिदं मन्ये क्षेत्रं पापप्रणाशनम् ॥
९४.यत्र विष्णुकराम्भोजभूषणोऽपि सुदर्शनम् । स्त्रियं हत्वा तदा हत्याक्लेशितो गुरुचोदित : ॥
९५.अश्वमेधावभृथ्येन स्नानेनापास्तकल्मष : । भूयो नारायणकरं संप्राप परमाद्भुतम् ॥
                       इति षट्पञ्चाश : अध्याय : Pro.Total = 5242 + 95 =5337.
                           सप्तपञ्चाश : अध्याय :
१.राजा --भगवन् योगिनां वर्य सर्वज्ञ करुणानिधे । कदा सुदर्शन : साक्षात् नारायणकलात्मक : ॥
२.किमर्थमवधीत् नारीं सा हत्या विश्वधारिणम् । कथमक्लेशयत् वह्निं पालिकेव पिपीलिका ॥
३.एतद्विस्तार्य वृत्तान्तं ब्रह्मन् आख्यातुमर्हसि । इत्थमादृत्य तेनैव प्रणतेन महीभुजा ॥
४.पृच्छ्यमानो मुनि : प्रीतो राजानमिदमब्रवीत् । मुनि : --राजन् तव मति : शुद्धा कथापीयूषतर्पिता ॥
५.न तृप्तिमुपयात्येषा बालिकेव रसायने । नैतत् चित्रमिदं मन्ये शुद्धचित्तस्य ते विभो ॥
६.पुनर्धर्मेऽपि शुश्रूषा हूयमानहुताशवत् । शुद्धो विशुद्धचित्तोऽसि धर्मासक्तोऽपि धर्मज : ॥
७.तस्मात् मनो हि राजेन्द्र धर्मेषु परिवर्तते । बहुभि : जन्मभि : प्राप्तै : सुकृतै : श्रद्धया कृतै : ॥
८.लभते जन्म मर्त्यानां सत्कुले लोकविश्रुते । तमेनमनुयात्येव श्रद्धा पत्नीव धर्मत : ॥
९.सन्तुष्टोऽस्म्यनुरक्तोस्मि तव शुश्रूषयानया । वक्ष्यामि राजन् कल्याणीं कथामेनां पुरातनीम् ॥
१०.यस्यां श्रुतिगतायां तु न पापो मर्त्यमाविशेत् । पुरा देवासुरयुद्धे निहता दैत्यदानवा : ॥
११.नि:शेषा : सागरं जग्मु : हतशेषा : च केचन । दितिर्माता दु;खितार्ता शुक्रं शरणमाविशत् ॥
१२.दिति : --भगवन् करुणामूर्ते भृगुवंशशिखामणे । त्वं गुरु : सर्वदैत्यानां त्वमेव परमागति : ॥
१३.त्वदनुग्रहपीयूषरक्षिता दानवा : पुरा । अकारणमिदं जातं नैराश्यं तेषु ते गुरो ॥
१४.पतित्वा घोरदुष्पारे गम्भीरे शोकसागरे । त्रातुमर्हसि मां दीनामनाथामिव कर्शिताम् ॥
१५.इति शोकातुरां देवीं दृष्ट्वा सकरुणं मुनि : । हेतुभि : सान्त्वयामास महीमिव वलाहक : ॥
१६.तावदन्तर्गृहगता काव्यमाता यशस्विनी । शरद्वतीति विख्याता वृद्धातीव तपस्विनी ॥
१७.आकर्ण्य कर्णविषमां नाराचादपि दु:सहाम् । मर्मैककृन्दनी तस्या : प्रलापरचनां गिरम् ॥
१८.कोपाविष्टा काव्यमाता कम्पमाना घनोपमा । उन्निद्रै : धवलै : दीर्घै : केशजालै : इतस्तत : ॥
१९.उद्यन् निशाकरकरै : उदयाद्रितटी यदा । कुचाभ्यामतिपीनाभ्यां कम्पिताभ्यां मुहुर्मुहु : ॥
२०.तटीव मन्थराद्रे : तु भ्राम्यमाणा सुरासुरै : । कोपारुणाभ्यां मुञ्चन्ती बाष्पनिर्झरम् ॥
२१.दितिमाहूय सन्तोष्य व्यामृज्यास्यास्तु लोचने । कराभ्यां परिमृज्याङ्गं प्रीणयन्ती जगाद ताम् ॥
२२.अलं वत्से शुचा मोहं जहि कार्यार्थदर्शनम् । निहता येन ते पुत्रा : चक्रेणातिबलीयसा ॥
२३.तमहं नाशयिष्यामि सह सैन्यैर्मरुद्गणै : । नालं त्रिलोकी मे दग्धुं कबलाय भविष्यति ॥
२४.चराचरगणं जीर्णं ब्रह्माण्डं सचतुर्मुखम् । उत्सहे कबलीकर्तुं पश्य मे तपसो बलम् ॥
२५.करोत्यनिद्रं भुवनं मा सन्तु मरुद्गणा : । दैतेयान् दानवान् शिष्टान् भीतानग्रे पलायितान् ॥
२६.पुन्रेवानयिष्यामि तेषां दास्यामि वै जगत् । भवन्तु दैत्या : स्वर्गस्था : दिगीशा : चाधिकारिण : ॥
२७.इन्द्रत्वमपि चन्द्रत्वं प्राप्नुवन्तु सुता : तव । त्वां त्रैलोक्याधिपत्यश्रीरुपतिष्ठत्वनामया ॥
२८.इत्युक्त्वा योगिनी वृद्धा काव्यमाता तपोबलात् । ववृधे दिव्यसंकाशा पूरयन्ती दिशो दश ॥
२९.आच्छाद्य गगने व्याप योजनानां सहस्रश : । व्याप्य लोकमिदं कृत्स्नमुपविष्टा समन्तत : ॥
३०.चन्द्रादित्यौ सनक्षत्रौ कालचक्रानुवर्तिनौ । अभूतामपि संवृत्तावतस्थात् कुचयोर्विभो ॥
३१.अनेकयोजनायाममास्यं विस्तार्य रोधसी । इन्द्रादीनां दमं चक्रे भक्षितं बडवाग्निवत् ॥
३२.एतद्दृष्ट्वा तदा भीता : देवा इन्द्रपुरोगमा : । चतुर्मुखं पुरस्कृत्य वैकुण्ठाय प्रतस्थिरे ॥
३३.तत्र गत्वा जगन्नाथं पुरुषं पूर्वपूर्विकम् । शयानं शेषपर्यङ्के सनकाद्यै : महात्मभि : ॥
३४.श्रिया भूम्या च गायत्र्या वाक्यैरुपनिषद्गणै : । इतस्तत : स्तूयमानं योगिनामङ्घ्रिपङ्कजम् ॥
३५.दृष्ट्वा प्रणम्य ते सर्वे स्तुत्वा स्तोत्रै : श्रुतीरितै : । उपस्थितमिदं घोरं भयं तस्मै व्यजिज्ञपन् ॥
३६.तच्छ्रुत्वा भगवान् विष्णु : अनुकम्पामृतार्णव : । व्याजहार गिरा राजन् मेघनादगभीरया ॥
३७.श्री भगवान् --नाथे मयि कथं देवा: यतो वै भयमागतम्। क्षणं नाशमियं यातु काव्यमातातिकर्कशा ॥
३८.युष्माकमचिरादेव भविष्यन्तु मनोरथा : । इत्युक्त्वा स्वकराग्रस्थं चक्रराजं सुदर्शनम् ॥
३९.प्रेषयामास तरसा तस्या : शमनहेतवे । अनन्तकालानलसूर्यतेज : प्रकाशिताशेषदिगन्तराल : ॥
४०.जगाम वेगादिव यत्र सैषा विन्ध्यायमाना ववृधे समन्तात् ।
   छित्वा शिरोऽस्यास्सहसातिशीघ्रं कैलासविन्ध्याचलकूटतुल्यम् ॥
४१.व्योम्नोज्जहारार्कनिभो महात्मा स चक्रराजोऽशनितुल्यवेग : ।
   हा हेति जल्पो परितोज्जजृम्भे भयातुराणां जगतां समन्तात् ॥
४२.क्रोशत्सु भूतेषु भयाकुलेषु नदत्सु देवेषु मुनीश्वरेषु ।
   नीत्वा हि चरमाद्रिसानौ निक्षिप्य मूर्धानमतीव भिन्नाम् ॥  
४३.भूयोऽपि वकुण्ठमगात् क्षणेन स चक्रराजो दनुजान्तकारी ।
   इत्थं हतायां तस्यां तु लोकाश्च सुखिनोऽभवन् ॥
४४.प्रसाद्य तमभिष्टूय पुरुषं शेषशायिनम् । अनुज्ञाता ब्रह्ममुखा : स्वानि स्वानि पदान्यगु : ॥
४५.इन्द्रोऽपि सह देवैश्च त्रिलोकीमन्वशात् विभु : । कृतकृत्यो महातेजा : चक्रराज : सुदर्शन : ॥
४६.पुन:प्रतस्थे हृष्टात्मा वैकुण्ठायां पराध्वना । उल्लङ्घ्य सूर्यपदवीं सोमादीनां तथा पदम् ॥
४७.अतीत्य च ध्रुवं वर्त्म तथा सप्तर्षिमण्डलम् । न शाशाक परं गन्तुमास्कन्ध : पक्षिराट् इव ॥
४८.स्तब्धोऽभूत् चक्रराजोऽपि वृथाभूतमनोरथ : । चिन्तां चकार दु;खेन मार्गभ्रष्ट इवाध्वग : ॥
४९.गतिर्मे किमियं रुद्धा केन वा हन्तु दुर्बल : । कृतं मया स्वकृत्यं किमाघ : कृतमद्य वा ॥
५०.कर्मणा स्वेन भगवान् सन्तोषमधिगच्छति । इति चिन्तयत : तस्य पर्वतो भगवान् ऋषि : ॥
५१.कपिलाख्यो वासुदेव : दैवात् आविरभूत् महान् । तं दृष्ट्वा परमं क्लान्तं साक्षात् नारायणात्मकम् ॥
५२.प्रणम्य पादयोर्भक्त्या जगाम विनयोज्ज्वल:।चक्रराज: -भगवन् स्वागतं तेऽस्तु त्वामहं शरणं गत: ॥
५३.उपरिष्टात् गति : केन निरुद्धा हेतुना मुने । एतत्सर्वमशेषेण वक्तुमर्हसि सांप्रतम् ॥
५४.इति पृष्ट : तदा तेन त्रिकालज्ञो महामुनि : । व्याजहार पुनर्वाक्यं चक्रराजाय धीमते ॥
५५.कपिल : --साधु सर्वजगत्कर्त्रा नियुक्त : कार्यगौरवे । त्वया तत्साधितं सर्वं लोकानामुपकारकम् ॥
५६.तथापि गर्हितं कर्म भवता स्त्रीवधं प्रभो । कृतं यत्तेन हत्या त्वामुपविष्टा भयावहा ॥
५७.तस्मात् तत्पापशान्त्यर्थं प्रायश्चित्तं यथोचितम् । कृत्वा विधानत : तस्मात् शुद्धिमाप्तो महामते ॥
५८.अनुग्रहात् मुने : स्थानं वैकुण्ठं गन्तुमर्हसि । इति तेनेरितां वाणीं समाकर्ण्य स चक्रराट् ॥
५९.भूय: प्रणम्य पप्रच्छ कपिलं योगिनां वरम्।सुदर्शन : --कथं ब्रह्मन् विधातव्यं पापस्यास्योपशान्तये ॥
६०.केन वा विधिना तत्र प्रायश्चित्तं ममाधुना । एतत्सर्वमशेषेण दानहोमाग्निपूजनै : ॥
६१.जपेन वाथ ध्यानेन केन वा मनुना मुने । इत्युक्त : चक्रराजेन कपिलो योगिनां वर : ॥
६२.तमब्रवीत् महातेजा : प्रायश्चित्तं तथोचितम् । कपिल : --श्रुणु चक्रेश्वर विभो श्रोतव्यं सावधानत : ॥
६३.या परा परमा शक्ति : जगत्कारणरूपिणी । उमा गौरीति विख्याता कमला भारतीति च ॥
६४.सर्वमन्त्रमयी शक्ति : सर्वतीर्थैकरूपिणी । भक्तिभाजां फलाकारा सूक्ष्माकारा दुरत्यया ॥
६५.ब्रह्मरुद्रमुखैर्देवै : पूज्यमाना दिने दिने । सैषा भगवती शक्ति : मूलप्रकृतिसंज्ञिता ॥
६६.क्लिश्यमानं जनं दृष्ट्वा कर्मपाशानुपाशितम् । यातायातं प्रकुर्वन्तं जन्मं मृत्युजरातुरम् ॥
६७.परित्राणाय वै तस्य कर्मविच्छेदहेतवे । प्रार्थिता शङ्करेणापि हरिणा वेधसा पुन : ॥
६८.तेषामभीप्सितं कामं पूरयन्ति दयात्मिका । कृत्वात्मानं तीर्थरूपं जाता मलयनन्दिनी ॥
६९.तदम्बुपानात् स्नानात् वा दर्शनात् स्पर्शनादपि ।  मोचयिष्ये जनं पापात् मुक्तिं दास्याम्यस्संशयम् ॥
७०.इति कल्पित दीक्षा सा वर्तते दक्षिणापथे । तस्या : तीरे विष्णुवने विष्णुसान्निध्यकारके ॥
७१.इष्ट्वा विष्णुं यथान्यायं स्नात्वा तस्यापि वारिणि । निर्मुक्तपापो भविता नात्रकार्या विचारणा ॥
७२.यत्र पुत्रा : काश्यपस्य विश्वेदेव इतीरिता : । पितॄणामवमन्तारो नष्टवीर्याभवन् पुरा ॥
७३.स्वर्गात् च्युता : दु;खेन गुरुं प्राप्य बृहस्पतिम् । पप्रच्छु : पापशान्त्यर्थं प्रायश्चित्तमनुत्तमम् ॥
७४.सर्वानाहूय दयया सर्वज्ञो गीष्पतिर्गुरु : । अभ्यषेचयत् अत्रैव ताम्राया : तीर्थवारिणा ॥
७५.ततो निर्मुक्तपापा : ते स्वर्गं प्रापु : सुखोत्तरम् । त्रिणदी सङ्गम : तस्मात् पुण्ये विष्णुवनान्तरे ॥
७६.दुर्लभं खलु मर्त्यानां पापिनामकृतात्मनाम् । इति ब्रुवति वै देवेशे कपिले योगिसत्तमे ॥
७७.अतीव विस्मयाविष्ट : चक्रराज : प्रसन्नधी : । मन : प्रसाद्य तं शान्तं वासुदेवमभाषत ॥
७८.चक्रराज: --कथं वै काश्यपसुता: विश्वेदेवा: च संमता : । सर्वज्ञा : चाविशेषेण कथं पापमकारयन् ॥
७९.आग : पितॄणां सर्वेषां किं कृतं तै : कृतात्मभि : । कथं तत्पापशान्त्यर्थं ताम्रायां स्नानमाचरन् ॥
८०.श्रोतुं काङ्क्षे महाभाग सर्वज्ञ वद विस्तरात् ।
   इत्थं श्रीमच्चक्रदेवेन पृष्टो योगी साक्षात् विष्णुरध्यात्मदीप : ।
   वाचा देवं पूजयित्वा च चक्रं प्रीत : तस्मै व्याजहाराघशान्तिम् ॥
                             इति सप्तपञ्चाश : अध्याय : Pro.Total = 5337 + 80 =5417. 
                                अष्टपञ्चाश : अध्याय :
१.कपिल: --साधु पृष्टो महाभाग त्वया नारायणांश भो।प्रीतोऽस्मि कृतकृत्योऽस्मि यं मामादृत्य पृच्छसि ॥
२.त्वमात्मा जगतां साक्षी मनोबीजेन्द्रियात्मक : । नियन्ता पालको हर्ता मर्यादानां प्रवर्तक : ॥
३.त्वन्नामस्मरणादेव पापशान्तिर्नृणां भवेत् । स एक : पुरुषो विष्णु : प्राप चक्रात्मनात्मवान् ॥
४.दैत्यदानवरक्षांसि काले काले निबर्हयन् । पालयिष्यसि दु:खाब्धे : जगदेतच्चराचरम् ॥
५.लोकसंग्रहमन्विच्छन् पापस्यास्य प्रशान्तये । करोषि निष्कृतिं देव स्वाज्ञासंरक्षणक्षमम् ॥
६.तस्मात् अत्र महाभाग त्वदाज्ञाकारिणा मया । उच्यते विस्तरात् नाथ यथोक्तं श्रीमता तथा ॥
७.भवता तत्तथा श्रुत्वा कर्तव्यमघशान्तये । आसन् अदित्यां वै पुत्रा : काश्यपस्य प्रजापते : ॥
८.विश्वेदेवा : इति ख्याता : दश धर्मभृतां वरा : । क्रतु : ज्येष्ठो महातेजा द्वितीयो दक्षसंज्ञक : ॥
९.तृतीयो वसु नामा स्यात् सत्याख्य: तदनन्तर: । पञ्चम: काल संज्ञ :स्यात् षष्ठ : काल इतीरित : ॥
१०.सप्तमो धुरी नामाभूत् रुचिरष्टम उच्यते । पुरूरव : स्यात् नवमो दशमो आर्द्रवाभिध : ॥
११.एते समेता : सुस्निग्धा : विचिन्त्यैवं हृदा तथा । सर्वेषामेव देवानां पितॄणां च विशेषत : ॥
१२.यथा वैशिष्ट्यमस्माकं भविष्यति तपोबलात् । करिष्याम : तथाव्यग्रा : तपोयत्नं समास्थिता : ॥
१३.इति निश्चित्य ते सर्वेऽप्यनुज्ञां प्राप्यैव पितु : । मेरो : तु पूर्वभागे तु चन्द्रकूटस्य चोत्तरे ॥
१४.सिद्धयोगिमुनीन्द्राणां योजनायामविस्तृता : । यत्र स्थितानां जन्तूनां धर्मान्न च्यवते मन : ॥
१५.आधयो व्याधयश्चापि क्षुत्पिपासा दुरत्यया । क्लेशयन्ति न तत्रस्थं घर्मे गङ्गोदकं यथा ॥
१६.हरिद्रवा नाम नदी वहते यत्र पार्श्वत : । आधिव्याधिं च मुञ्चन्ति यत्तोयस्पर्शमारुतै : ॥
१७.सिद्धिं लभन्ते निर्विघ्नं तिर्यञ्चोऽपि न संशय : । एतन्माहात्म्यं आकर्ण्य पितुरेकाग्रचेतस : ॥
१८.तदाश्रमपदं कृत्वा तपस्तेपुस्सुदारुणम् । वायुभक्षा निराहारा प्राणायामपरायणा : ॥
१९.ध्यायन्त : परमं धाम जपन्त : परमं मनुम् । सन्नियम्येन्द्रियसंग्राममेकरूपा ह्यवर्तयन् ॥
२०.एवं तपस्यतां तेषामन्तरायविवर्जित : । अत्यगान् निमिषप्रायं वर्षाणामयुतं त्रयम् ॥
२१.वस्वाद्या : पितर : तावत् सानुरागानुकम्पया । तेषां पुरस्तात् आगत्य वचनं चेदमब्रुवन् ॥
२२.पितर : --वत्सा : भवन्त : क्लिष्टाश्च तपसा नियमैर्यमै : ।
           कुतो हि करुणावद्भि : युष्मत्प्रियचिकीर्षुभि : ॥
२३.अत्रैवाभ्यागतं प्रीत्या पितृभिर्लोकपूजितै : । वरान् वृणीध्वं दास्याम : श्रमैरेभिरलं सुता : ॥
२४.इति तेषां वच : श्रुत्वा पितॄणां स्नेहपूर्वकम् । कुपिता : ते पुन : प्राहु : असूयाकृष्टमानसा : ॥
२५.विश्वेदेवा : --रे रे मदान्धा : निर्लज्जा : मूढा : पण्डितमानिन : ।
              भवन्तो वरदातारो न ह्यस्माकं तपस्यताम् ॥
२६.वरदाता प्रभु : साक्षात् दातास्माकं जगद्गुरु : । अस्मान्मनोरथापूर्ति : क्रियते येन केन वा ॥
२७.किं बिडाल : प्रभुर्लोके कलभान् नु रक्षणे । वयं देवा : श्रेष्ठतमा : पूज्या : तपसाधिका : ॥
२८.अपूज्यै: तामसै: मूढै: न हि रक्ष्या वयं त्विह।गच्छध्वमाश्रमादस्मात् मा विलम्बोऽस्तु निर्गुणा: ॥
२९.ऋषि : -इत्थमाक्षेपिता देवै: तैरेतै: पितर: तदा।भूयो दयालव: क्षान्ता: प्रत्यूचु : विनयोज्ज्वला : ॥
३०.पितर: --भवन्त : पुत्रकास्माकं पोष्या रक्ष्याश्च केवलम् । पितरो गुरवो ज्ञेया : तथास्तु गुरुपूज्यता ॥
३१.अवमन्य पितॄन् लोके क : प्राप्नोति परं गतिम् । ब्रह्माद्या : श्राद्धधर्मेण श्रुत्यादिष्टेन वर्त्मना ॥
३२.तस्मान् पितॄन् समभ्यर्च्य प्राप्ता माहात्म्यमुत्तमम्।यूयं लघिष्ठा : पापिष्ठा : बालिशा : पापकारिण : ॥
३३.भूयोऽपि कृपया युष्मान् आग : कृत्वातिदुस्सहम् । तप:फलं प्रदास्यामो मास्तु मन्युरघोदय : ॥
३४.ऋषि : --इत्थं पितॄणां तद्वाक्यमाकर्ण्य विनयोत्तरम् । तामसाविष्टचित्ता : ते मदमात्सर्यदूषिता : ॥
३५.धिक्कृत्य तान् पुन : तप्तुं कृत्यामारेभिरे च ते । निराशया प्रयातेषु तेषु वस्वादिषु क्षणात् ॥
३६.अवमानात् अघात्तस्मात् क्षीणमासीत्तप:फलम् । विश्वेदेवेषु तेष्वत्र प्राविशन् मतिविभ्रम : ॥
३७.मतिभ्रमात्तपो नष्टं नष्टे तस्मिन् कुत : क्रिया । क्रियाहीनेषु जागर्ति पुरुषेषु दुरत्यया ॥
३८.निद्रा कलिप्रसूर्घोरा क्षुत्तृट्योये यथाक्रमम् । भ्रष्टाचारा परिद्यूना नियमध्यानवर्जिता : ॥
३९.बभ्रमुर्विपिने तस्मिन् अनाथमिव गोकुलम् । एतद्विज्ञाय भगवान् काश्यप : कालधर्मवित् ॥
४०.बृहस्पतिं समाहूय समाभाष्य दिवो गुरुम् । आचचक्षे वचो धर्म्यं पुत्राणां हितकाम्यया ॥
४१.काश्यप : --भगवन् भवता रक्ष्या: विपद: त्रिदिवौकसाम् । गतिर्गुरुर्वै शिष्याणां रक्षणीय़ा गुरोश्च ते ॥
४२.विश्वेदेवा : पितुर्द्रोहात् नष्टसंज्ञा विचेतना : । नैव जानन्ति वै धर्मं अन्धा इव महामणिम् ॥
४३.अविलम्बेन तस्मात् त्वमत्र गत्वा महामते । त्रातुमर्हसि धर्मज्ञ तान् एतान् आपदोऽञ्जसा ॥
४४.इति काश्यपसन्दिष्टो भगवान् गीष्पतिर्गुरु : । तत्र गत्वा क्षणेनैव तान् आहूयेदमब्रवीत् ॥
४५.श्रुण्वन्तु मे वच : पथ्यं मासूयामधिगच्छत । सर्वेषु जन्तुषु श्लाघ्या मनुष्या एव केवलम् ॥
४६.मनुष्येषु द्विजा : श्रेष्ठा : श्रुत्यर्थैकान्तवेदिन : । तदादिष्टात्वघाचारा : श्लाग्या : तस्मात् इतीरिता : ॥
४७.ब्रह्मार्पणधिय : तेषां तत्तुल्या त्रिदिवौकसा ; । तेभ्योऽधिका वै पितर : तस्मात् नापरमिष्यते ॥
४८.पूजयिष्यति तान् वेधा: विष्णु: तान् अर्चयिष्यति।  रुद्र : पितॄन् अर्चयित्वा वर्तन्ते सकलाधिका : ॥
४९.आदावादि पुमान् सृष्ट्वा लोकान् त्रीन् चराचरान् । तद्रक्षणार्थमज्ञानां द्विधा कृत्वात्मवत्तदा ॥
५०.प्रथमे सृष्टे स्रुरान् चक्रे ततोऽसुरानपि च ॥ तदन्येनासुरान् चक्रे योगानामर्थसिद्धये ॥
५१.लोकस्य रक्षणायैव सर्वान् यज्ञान् अकल्पयत् । तैर्यज्ञै : सक्ला लोका : पूजयन्ति सुरासुरान् ॥
५२.अग्रपूज्या पूर्वदिने पितरो हि महात्मभि: । तत्परेऽहनि वै देवा : तान् यज्ञान् इज्यात्मवेदिभि : ॥
५३.ये पितॄन् अवमन्यन्ते मूढा : पण्डितमानिन : । नालमेतान् परित्रातुं ब्रह्माण्डान्तर्गतां गुरु : ॥
५४.एतद्विज्ञाय वेदानां स्मृतीनामाप शासनम् । श्रेयोर्थिन : पितॄन् विन्देत् वस्वादीन् लोकपूजितान् ॥
५५.इति गुर्वीरितां वाणीं श्रुतौ कृत्वा मणिप्रभाम् । विश्वेदेवा : समाकर्ण्य किञ्चित् उद्विग्नमानसा : ॥
५६.पश्चात्तापेन भीता : ते बभ्रमु : निमिषान्तरम् । प्रणिपत्य गुरुं तत्र विनीता वाक्यमब्रुवन् ॥
५७.धिक्कष्टमिदमस्माभि : विहितं विश्वदूषणम् । घोरात् पापार्णवात् अस्मात् त्राहि ब्रह्मन् दयानिधे ॥
५८.अज्ञानात् संप्रवृत्तेयं अतोऽस्माकं भवान् गुरु : । वक्तुमर्हसि सर्वज्ञ प्रायश्चित्तं यथोचितम् ॥
५९.बृहस्पति : --नारकस्य घोरस्य पापस्य महतो बुधा : । तथापि परमं गुह्यं प्रायश्चित्तं वदाम्यहम् ॥
६०.यत्र विष्णु : स्वयं साक्षात् क्षेत्ररूपेण वर्तते । यत्र साक्षात् पराशक्ति : ताम्रा तीर्थाधिदेवता ॥  
६१.य्त्र त्रिवेणीसंसर्गं कीर्तयन्ति महर्षय : । यत्र हव्यं च कव्यं च सूते विष्णु : स्वलोचनात् ॥
६२.कव्यं पितृभ्यो प्रादात् वै देवेभ्यो हव्यमात्मवान् । तस्मात् तत्क्षेत्रमासाद्य स्नात्वा मलयजाम्भसि ॥
६३.पितॄन् यज्ञेन सन्तर्प्य परिशुद्धेन कर्मणा । निर्मुक्तपापा भवत यूयं प्राप्तमनोरथा : ॥
६४.इति तान् प्रीणयन् वाचा यूयं भवत धार्मिका: । सहित : प्रहित : देवै : दशभि : काश्यपात्मजै : ॥
६५.प्राप विष्णुवनं पुण्यं प्रायश्चित्तं समाविशत् । त एते गुर्वनुज्ञाता विश्वेदेवा : समाहिता : ॥
६६.सुदारुणं तपश्चक्रु : पितॄणां प्रीतिहेतवे । आराध्य देवमव्यग्रा : ताम्रां च नियतात्मभि : ॥
६७.तुष्टुवु : प्रयता : भक्त्या बद्धाञ्जलिपुटोपमा : ।
   विश्वेदेवा : --मात : प्रसीद मलयाचलपुत्रि मान्ये पापैकशान्तिकरणैकपटुप्रवाहे ॥
६८.कामाक्षि शक्तिमखिलाभ्युदयप्रवाहां तां यामि शरणमसि जनैकधात्रीम् ।
   घृतद्रवा विविधमन्त्रतरङ्गमाला आवर्तमूर्तिकल्पिततारकर्णा ॥
६९.मायामयी मथितपापकुला जनानां मोहापहा भवतु मे मुनिवन्द्यमाना ।
   सैषा समस्तदुरितक्षयहेतुभूता साक्षात् अपारकरुणा तरुणेन्दुमौले : ॥
७०.श्रीकण्ठशैलदुहिता महिषी भवाब्धे : श्रान्तिं व्यपोहतु पुर : स्वपदाश्रितानाम् ।
   यत्तोयबिन्दुपरिषेचितमौलिभागा निर्धूतपापमलिना मनुजा क्षणेन ॥
७१.मोक्षश्रियं शिवमुखैरपि काङ्क्षणीयामन्ते भजन्ति पुनरागमनानपेक्षाम् ।
   इति स्तुवत्सु देवेषु भक्तिनम्रात्ममूर्तिषु ॥
७२.तत्तोयात् निर्मलाकारात् हरिराविरभूत् विभु : । शङ्खचक्रगदापद्मै : अलङ्कृतचतुर्भुज : ॥
७३.वनमाली पीतवासा : कौस्तुभोत्भासिकन्धर : । किरीटहारकेयूरै : मण्डलै : उपशोभित : ॥
७४.स्तूयमान : सिद्धगणै : ब्राह्मणैरमरेश्वरै : । तानुवाच महाभागान् प्रीतोऽस्मीति ब्रुवन् मुहु : ॥
७५.श्रेष्ठा : भवन्तो देवानां सर्वेषां नात्र संशय : । युष्मत्प्रिया : ते पितर : यूयं चापि पितृप्रिया : ॥
७६.युष्मानग्रे समभ्यर्च्य पितॄन् च तदनन्तरम् । अन्ते च मां समभ्यर्च्य कृतकृत्यमिदं जगत् ॥
७७.इति प्राप्य वरं विष्णो : विश्वेदेवा : सुरोत्तमा : । देवं प्रसाद्य तं विष्णुं परिक्रम्य प्रणम्य च ॥
७८.वस्वादीन् च पितॄन् नत्वा स्वगणै : च प्रतस्थिरे । एवं बृहस्पति : तेषां प्रायश्चित्तं विधाय च ॥
७९.स्वमाश्रमं महादेवै : ऋषिभिश्च महात्मभि : । इत्थं रहस्यमाख्यानं पुण्यमेतत् पुरातनम् ॥
८०.प्रकाशितं मया तुभ्यं माहात्म्यज्ञानसिद्धये ।
   इति कथितमनेन चक्रराजो गुरुवर्येण माहात्म्यमुत्तमं श्रुत्वा परं हर्षं जगाम तावत् ॥

                              इति अष्ट्पञ्चाश : अध्याय : Pro.Total = 5417 + 80 =5497.

No comments:

Post a Comment