Saturday, February 21, 2015

श्री ताम्रपर्णीमाहात्म्यम् - Sri Tamraparni Mahaatmiyam - chapter 11 to 30

                       एकादश : सर्ग :

                               बाणतीर्थमाहात्म्यम्

१.राजा ---ब्रह्मन् प्रशस्तमित्युक्तं भवता गर्तमद्भुतम् । केन वा निर्मितं पूर्वं तत्र चित्रं किमद्भुतम् ॥
२.महतापि प्रवाहेन पूर्वण् यामद्वयात् गतम् । हरि : प्रसादमकरोत् ताम्रपर्णी कथम् मुने ॥
३.एतत् सर्वमशेषेण वद विस्तार्य मे गुरो । न तृप्तिमुपगच्चामि जुषन्नपि कथासुधाम् ॥
४.ऋषि : ---श्रुणु राजन् प्रवक्ष्यामि कथामेनां विनोदिनीम् । पुरा कृतयुगे लोके पीड्यमाने च चराचरे ॥
५.देवा : परमसन्त्रस्ता : शङ्करं शरणं ययु : । दत्वाभयं ततस्तेषां वीररुद्र : प्रतापवान् ॥
६.रसारथो ब्रह्मसूतो रत्नसानुशरासन : । अच्युतं बाणमादाय ददाह च पुरत्रयम् ॥
७.पुरान्तक इति ख्यातिं लोके त्रैलोक्यदुर्लभाम् । अशान्तकोपज्वलनं बाणं दृष्ट्वा पुरान्तक : ॥
८.कुत्रचित् कुहरे घोरे निदधे मलयाचले । तत्र वर्षायुतज्वालामालातापितपर्वत : ॥
९.तपसा तत्र भगवान् बाणरूपी जनार्दन : । तावत् प्रवाह बहुला ताम्रा मलयनन्दिनी ॥
१०.विष्णोराराधनार्थं तत् गर्तं समुपाविशत् । तस्यां महत्प्रवाहायां प्रविष्टायां बिलोदरे ॥
११.उदभूत् अद्भुताकारझङ्कारोदारनिस्वन : । फूत्कार् इव भूतोऽपि भुजङ्गेन्द्रस्य तत् बिलम् ॥
१२.बाष्पधूमचयैर्व्योम संवृतं जलदैरिव । क्वथितानीव वारीणि व्यदृश्यन्तोरुबुद्बुदै : ॥
१३.उत्पतन्ति च यादांसि सन्तप्तानि समन्तत : । घर्मवेगपरिक्षिप्तं व्योम्नि स्यन्दनमण्डलम् ॥
१४.देवदानवसिद्धानां यक्षगन्धर्वपक्षिणाम् । संभ्रमाविष्टचित्तानां धावतां च ततस्तत : ॥
१५.महानाद : समभवत् मेघानामिव गर्जताम् । दृष्ट्वैतत् अद्भुतं सर्वे चिन्ताक्रान्ता बभूविरे ॥
१६.परिवृत्य विमानम् तत् अगस्त्यो मुनिसत्तम : । कृताञ्जलिरुवाचेदं हयग्रीवं महाप्रभुम् ॥
१७.आकस्मिकमिदं चित्रं भगवन् केन हेतुना । उत्पातमिव पश्यामि कथ्यतां मे कुतूहलात् ॥
१८.श्रुणु ब्रह्मन् प्रवक्ष्यामि विचित्रस्याद्भुतस्य च । पुरा पुरहरेणैव निर्दग्धे च पुरत्रये ॥
१९.अशान्तकोपदहनं बाणं नारायणात्मकम् । मलयेऽस्मिन् महागर्ते शान्त्यै संक्षिप्तवान् शिव : ॥
२०.तत्तापशान्तिकरणी ताम्रपर्णी सुधात्मिका । शिवप्रियकरी ह्येषा महापापविनाशिनी ॥ 
२१.बाणरूपी हरिर्विष्णु : भगवान् लोकपावन : । आराध्यते ताम्रपर्ण्या नमस्कुरु महामते ॥
२२.विशेषादस्य देवस्य प्रभावात् वनमालिन : । महातीर्थमिति ज्ञेयं दर्शनात् दुरितापहम् ॥
२३.यस्मात् अत्रोषितं बाणरूपिणा हरिणा स्वयम् । बाणतीर्थमिति ख्यातं भूयात् भुवनमण्डले ॥
२४.अत्र स्नाता : नरास्सर्वे हरेस्सारूप्यभागिन : । प्रयागप्रमुखान्यत्र तीर्थानि विविधान्यपि ॥
२५.प्रतिमासं समाज्ग्मु : तीर्थे दर्शनाय वै । तत्र जप्तं हुतं दत्तं तदनन्तफलं भवेत् ॥
२६.इत्थं संभाषमाणेऽस्मिन् हयग्रीवमहात्मनि । तत् गर्तात् अर्कसङ्काशो बाणो निर्गत्य गह्वरात् ॥
२७.व्योमयानं संप्रतस्थे भास्यन् भुवनत्रयम् । सर्वे देवा : सर्षिसंघा : प्रणेमु : तुष्टुवु : तथा ॥
२८.तत्र तीर्थमुपस्पृश्य दधुर्मूर्ध्नात्मलब्धये । प्रशशंसु : सुरा : सर्वेकिरन्त : कुसुमोच्चयम् ॥
२९.कलम्बतीर्थं प्रजगु : बाणतीर्तथं च केचन । महाक्वाथमिति प्रोचु : अपरे विस्मयाकुला : ॥
३०.शीतोदकं पठन्त्येके परमानन्दनिर्भरा : । अगस्त्यप्रमुखास्सर्वे हयग्रीवेण संयुता : ॥
३१.बिभ्राणा शिरसा तीर्थं पुन : स्यन्दनमारुहन् । भूयो दुन्दुभयो नेदु : तूर्यारावेण भूयसा ॥    
३२.सूतं सञ्चोदयामास सोऽपि चाश्वान् अचोदयत् । कम्पमानै : ध्वजपटै : विलिखन्तमिवाम्बरम् ॥
३३.किङ्गिणीशतसन्नादं चन्द्रभास्करसन्निभम् । प्रचचाल महाचक्रं स्यन्दनं कुंभजन्मन : ॥
३४.तत : प्राक् उत्तरां गत्वा चलमाने महारथे । दिवि भूमौ जनौघं तु प्रसर्पन्तं महास्वनम् ॥
३५.सैषा समस्तपापघ्नी चन्दनाचलकन्यका । तत्स्यन्दनपथा प्रायात् पूर्यमाणा प्रवाहिनी ।
३६.क्वचित् उच्चै: शिलारूढा क्वचित् पतति निम्नगा । क्वचित् पूरै : प्लावयन्ती तरङ्गै: स्वकरैरिव ॥
३७.हसन्तीव स्वफेनौघै : नृत्यन्तीव स्ववीचीभि : । जल्पन्तीव स्वनैरघोरै : निस्ससार सरिद्वरा ॥
३८.अंभोजवदना मीनलोचना भुजवीचिका । आवर्तनाभिगर्ताढ्या फेनफुञ्जनवाम्बरा ॥
३९.चक्रवाकस्तनवती शैवालनवकुन्तला । प्रमदेव क्वचित् याति मन्दं मन्दं मदाकुला ॥
४०.तरङ्गशुण्डादण्डेन फेनदन्तोज्ज्वलेन च । क्वचित् करीन्द्रवत् याति जलौघ : पुष्करोज्ज्वल : ॥
४१.फेनकञ्चुकसन्छन्नं आवर्तश्रवणान्वितम् । तरङ्गभोगरुचिरं भोगराजमिव स्थितम् ॥
४२.मणिविद्युत्वृता भूरि तरङ्गस्तनितेन च । महाग्राहाशनिवता पूरणेयं प्रकाशते ॥
४३.आवर्तचक्रनिकरं आलोलध्वजफेनिलम् । यातोगणमहावंशं भासमानं विमानवत् ॥
४४.मीननक्षत्रनिकरं फेनजालघनाविलम् । मणिज्योत्स्नालिविस्तारं पूरं गगनवत् बभौ ॥
४५.गगने वर्तमानानां विमानानां दिवौकस : । छायामंभसि शङ्कन्ते कौशिकिमपरां क्रियाम् ॥
४६.आश्चर्यजननी चेयमपूर्वाणामिव प्रसू : । उत्सवनामिव निधि : महती मलयात्मजा ॥
४७.संस्तुता पूजिता देवै: प्रार्थिता सा नमस्कृता । क्वचित् कूलं ध्वंसयन्ती बाधयन्ती क्वचित् स्थलम् ॥
४८.क्वचित् वृक्षान् उद्गिरन्ती तरुजालानि कृत्स्नश : । सुधाप्रवाहबहुला निस्ससार तरङ्गिणी ॥
४९.कौतूहलसमाविष्टा : देवदानवमानवा : । सह सर्वै :मुनिगणै : ममज्जु : तीर्थमुत्तमम् ॥
५०.कुतूहलसमाविष्टा : सादरं सर्वतो जना : । मज्जन्तश्च पिबन्तश्च विहरन्तो महांभसि ॥
५१.हसन्तो हासयन्तश्च स्तुवन्तश्च महानदीम् । विस्मयं परमं जग्मु : प्रणेमु : भक्तिभाविता : ॥
५२.विमानमनुगच्छन्ती कुंभयोने : मणिप्रसू : । कर्षन्ती तरुजालानि गुल्मानि विविधान्यपि ॥
५३.क्वचित् आशीविषकुलं क्वचिन्मातङ्गयूथिकाम्।क्वचित् द्रुततरं याति मन्दं याति क्वचित् क्वचित् ॥
५४.मत्स्यकच्छपसंघाता महाग्रहसमाकुला । महाप्रवाहसंपन्ना माला मलयनन्दिनी ॥
५५.स्तूयमाना मुनिगणै : प्लावयन्ती बहुस्थलीम् । पूरयित्व कलंबाख्यं गर्तं परमपावनम् ॥
५६.पुन : प्राक् उत्तरां गत्वा प्रयान्ती सानुकानने । हयग्रीवाश्रमे किञ्चित् पश्चिमेऽपि पिशङ्गिलाम् ॥
५७.विगाह्य महतीं वापीं पूरयित्वा महाजलै : । जलोन्मिलितशैवाला : स्खलन्ती च शिलातले ॥
५८.रुद्राटवी ब्रह्मशय्या रमाकीडमृगाननम् । एतानि पुण्यक्षेत्राणिप्रयान्ती च अन्तरान्तरे ॥
५९.गुहोपान्ते कुमारस्य पश्चिमेनोत्तरामुखी । मुक्ताप्रस्तारमासाद्य भित्वा जोतिर्मनिम् गिरिम् ॥
६०.पैनाके शिरसि श्रेष्ठे पपात घननिर्झरा । उत्पेतु : तोयकणिका : शतशोऽथ सहस्रश : ॥
६१.निपेतुर्निर्झरा : घोरा : शंखचन्द्रसमप्रभा : । भूर्यभिद्यत तत्तीर्थं पतता निर्झरेण हि ॥
६२.जलधूमसमाक्रान्तरोदस्योरन्तरं महत् । महता निर्झरसंभूतै : सुव्यक्तैरंभसां कणै : ॥
६३.धाराक्रान्तमिवाकाशं दिवापि परिदृश्यते । स्फुरमाणैरम्बुकणै :बालातपकरम्बिकै : ॥
६४.पद्मरागैरिवाभाति समन्तात् भुवनत्रयम् । महावनस्पतिच्छायासंसक्तानि पृषन्ति च ॥
६५ अनुकुर्वन्ति गगने महता मरकतश्रियम् । क्वचित् पल्लवशोभेन क्वचित् कुसुमशोभया ॥
६६.संक्रान्ताबिन्दुनिकरै : नानारत्नैरिवाम्बरम् । युगपत् पततामासीत् निर्झराणां महागिरे : ॥
६७.महानाद ; समभवत् मेघानामिव गर्जताम् । महावेगसमाकृष्टे प्रवाहे विस्तृते नृप ॥  
६८.आवर्त्पद्धतिर्भाति वर्णपङ्क्तिरिवाद्भुता । वृता तरङ्गौघै : यादोबि : बलसंवृता ॥
६९.फेनै : कुसुमिता चेयं कल्पवल्ली न संशय : । स्नातुमागमनायैव रसात्लनिवासिनाम् ॥
७०.दिशन्तीव महाद्वाराण्यावर्तैरिव सन्ततम् । आभोगपुलिना भूरि फेनचारुदुकूलिनी ॥
७१.आवर्तनाभिविवरा नवशैवालवेणिका । चक्रवाकस्तनवती विकचत्कमलानना ॥
७२हंसयानाविभात्येषा विस्फुरन्मीनलोचना । आलापिनी पक्षिरुतै : यादोभि : मणिभूषणा ॥
७३.मकरन्दै : मृगमदा सालङ्कारा वधूरिव । एवमभ्युदयाकारा देवी मलयनन्दिनी ॥
७४.हेमपुष्करिणीं रम्यां वापीं गगनसंज्ञिताम् । पूरयित्वा महातोयै : महापातकनाशिनी ॥
७५.ततोह्युदीचीमावृत्य पार्श्वत : चन्दनाटवीम् । दिशमैन्द्रीं पुन : प्रायात् उत्तरेण उडुपर्वतम् ॥
७६.एवं मलयशैलस्य व्यतिक्रम्य तटाटवीम् । तप:फलसमाकारा पाण्ड्यानामुत्तमा नदी ।
   विमानमनुयान्ती सा समियाय महार्णवम् ॥
                                                   
                                                      इति एकदशोऽध्याय :         Pro.Total = 679  + 76 =775

                                द्वादशोऽध्याय :

               वृषाङ्कनगरे कादम्बरीवने ताम्राया : सागरे प्रवेशप्रस्ताव :

१.महाराज कथां पुण्यामिमां पापप्रणशिनीम् । भूयोऽहं संप्रवक्ष्यामि श्रुणु नान्येन चेतसा ॥
२.क्षेत्रमाङ्गिरसं गत्वा मह्येनामलकाटवीम् । पुन : किञ्चित् परिक्रम्य दिशं यक्षेशपालिताम् ॥
३कल्याणवनमासाद्य गौतमाश्रममण्डितम् । प्राच्यामाप दिशं ताम्रा महापूरप्रवाहिनी ॥
४.ज्योतिर्वनं चन्द्रशालामुत्तरेण प्रवर्तिता । ब्रह्मारण्यमनुप्राप्य गर्गराख्यशिलोच्चयम् ॥
५.उत्तराभिमुखी भूयो ब्रह्मवृद्धपुरात् पुर : । लालङ्काशम्बरक्षेत्रमेत्येषा पूर्ववाहिनी ॥
६.दिशं किञ्चित् उपावृत्य शराटव्यास्तु पश्चिमे । आग्नेयीमथ संप्राप्य पुना : पूर्वमुखा नदी ॥
७.वैकुण्ठात् पश्चिमे भागे श्रीनगर्या : तथोत्तरे । मध्ये वृषाटवीं पुण्यां महानन्दस्य दक्षिणे ॥
८.ज्यन्तात् उत्तरे भागे प्राप्य कादम्बरीवनम् ।प्रविवेश महाम्भोधिं प्रसन्नसलिलाशया ॥
९.एवं मलयजा पुण्या ताम्रपर्णी सरिद्वरा । भर्तासमेता सा सर्व सिन्धुलोकैकबन्धुना ॥
१०.वृषाग्के नगरे नित्यं सान्निध्याप्यात्मविद्यया । रूपेणान्येन भर्तारं रमयन्ती स्थिताऽभवत् ॥
११.तीर्थरूपेण लोकान् त्रीन् पुनाति मलयात्मजा । राजा ---कथं वृषाङ्कनगरे सिन्धुराजगृहे कथम् ॥
१२.तीर्थरूपा कथमभूत् किं वा कादम्बरीवनम् । एतानि वद विस्तीर्य श्रोतुं कौतूहलं हि मे ॥
१३.ब्रह्मन् प्रसीद धर्मज्ञ कथयाप्यायस्व माम् । ऋषि : ---साधु पृष्टं महाराज भवता धर्मचेतसा ॥
१४.साधूनां समचित्तानां सदाशिवकृतात्मनाम् । धर्मान्न च्यवते बुद्धि : लोभता विषयैरपि ॥
१५.पिचुमन्दवने वापि रसालोदरकानने । पञ्चमं नैव मुञ्चन्ति पिका : वासन्तमोहिन : ॥
१६.तस्माद्राजन् प्रवक्ष्यामि यथावत् अनुपूर्वश : । एकाग्रबुद्ध्या तत्सर्वं श्रोतुमर्हसि सांप्रतम् ॥
१७.वृषाङ्कनगरे तस्य महामाणिक्यभास्वरे । भवने काञ्चनमये महासिंहासने शुभे ॥
१८.असीना नवकौसुंभवसना चारुहासिनी । महासौन्दर्यसंपूर्णमहासाम्राज्यदेवता ॥
१९.मणिकम्बुधरा चारु कनकाम्बुजधारिणी । वीणामन्ये धारयन्ती शारिकामपरे करे ॥
२०.शरच्चन्द्रवदना चञ्चन्मणिकाज्चनकुण्डला । महामतल्लिका रत्नमकुटोज्ज्वलचन्द्रिका ॥ 
२१.मणिकेयूरवल्लयमहाकङ्कणभूषिता । मुक्तालतापरिभ्राजदुरोजकलशोज्ज्वला ॥
२२.कूजन्नूपुरमञ्जीरकाञ्चीदामपरिष्कृता । केशशैवालकलिका मणिबुद्बुदसज्जया ॥
२३.लोचनद्वयपाटीना मुक्तामालातर्ङ्गिणी । विस्तारफेनतरणि : स्तनचक्रसमुज्ज्वला ॥
२४.करपादाननाम्भोजा सौन्दर्यामृतवाहिनी । एवमाश्चर्यवेषाङ्गी साक्षात् परशिवात्मिका ॥
२५.सेवन्ते विविधाकारा : शक्तय : परमाद्भुता : । मुक्तावती मणिवती सेवेते पाश्वयोर्द्वयो : ॥
२६.मणिकाञ्चनदण्डाभ्यां चामराभ्यामनारतम् । पूर्णा पूर्णेन्दुसङ्काशं वहन्त्यातपवारणम् ॥
२७.घोराकुमुद्वतीभ्यां च व्यजनाभ्यां च सेविता । श्यामावतीकरोदञ्चत्वीटिकादानतत्परा ॥
२८.वहन्ती चन्द्रसेनापि पाणौ कलाचिताम् । अमुक्तवामभागस्थां ताम्रामेनामुपासते ॥
३०.अरुणा वाद्यमादाय वीणाया :क्वणितध्वनिम् । श्लाघयन्ती मुहु : चञ्चत्वदनाम्भोजमण्डला ॥
३१.सेव्यमाना मुनिगणै : देवै : सिद्धैश्च दानवै : । आस्ते परमहृष्टा सा लोकसंरक्षणोत्सुका ॥
३२.एवं विज्ञाय तां देवीं ये सेवन्ते समाहिता : । तेषां पापानि नश्यन्ते वर्धन्ते संपद : तथा ॥
३३.अन्ते मुक्तिश्च नियता नात्र कार्या विचारणा । सर्वतीर्थमयी सर्वमन्त्रतन्त्रप्रवर्तिनि ॥
३४.एनामाहुर्मुनिणा : श्रुतयश्च पुरातना : । गङ्गादिसर्वतीर्थनां परमायतनं महत् ॥
३५.उपास्या सर्वजन्तूनां पुरुषार्थं च काङ्क्षताम् । एवं वृषाङ्कनगरे नित्यं सान्निध्यकारिणी ॥
३६.जयते तीर्थरूपेण लोकानां हितकाम्यया । सैषा स्वांशेन भूयोऽपि तीर्थरूपा प्रवर्तते ॥
३७.ब्रह्मतोयां विष्णुरसां रुद्रतेजोपबृंहिताम् । उमावेगसमायुक्तां सारस्वततरङ्गिणीम् ।
३८.रमावर्तां सोमशैत्यां सूर्योदारप्रभावतीम् । सेवन्ते सकला : देवा : मुनयश्च तपोधना : ॥
३९.सन्दर्शितमहापूराप्यावारिधिशिलोच्चया । अनेकनगरोद्यानग्रामारामशतावृता ॥
४०.मुनीनामाश्रमै : पुण्यै : परिष्कृततटद्वया । पदे पदे तीर्थमयी देवायतनमालिनी ॥
४१.रसालपनसारामकदलीकाननावृता । केरपूगाम्रनारङ्गमल्लीकुरवकोज्ज्वला ॥
४२.प्रियालवञ्जुलवती बकुलार्जुननिर्भरा । ब्रह्मकोटिसमुद्घुष्टहोमधूमसमावृता ॥
४३.उत्फुल्लपङ्कजवती सन्तओत्पलसौरभा । चाम्पेयकुसुमामोदी मरुता मन्दगामिनी ॥
४४.परिश्रमापहरिणी तर्पयन्त्यंभसा जगत् । आमोदयन्ती च कुसुमै : नादयन्ती द्विजारवै : ॥
४५.मरन्दधारानिकरै : वर्धितेव तर्ङ्गिणी । हंससारससंकीर्णा कूजत्कोकिलभाषिणी ॥
४६.इत्थं महोदयाकारा पोषय्न्ती जगत्त्रयम् । प्रविशन्ती सिन्धुराजं प्रसन्नसलिलाशया ॥
४७.स्वांशेन तरुणीभूत्वा नदीनदगणेशितु : । वामाङ्कपीठनिलया मनोज्ञमणिभूषणा ॥
४८.अनेकतीर्थनिकरैस्सेव्यमाना सुमध्यमा । सौन्दर्यसागरोदज्चत्सुसुतेव वधूमयी ॥
४९.रमयामास भर्तारं रमा नारायणं यथा । यस्या : स्मेरांशुसन्दोहै : मौक्तिकामणयोऽभवन् ॥
५०.यद्दन्तपतसंभूतबालातपगुलुच्छकै : । जायन्ते विद्रुमलता : सागरे मकरालये ॥
५१.कूले कूले च जायन्ते यल्लोचनमरीचिभि : । उद्घुष्टजीवकरणै : इन्द्रनीलमतल्लिकै : ॥
५२.यदङ्ककरणासङ्गात् वैदूर्यमणयोऽभवन् । यदङ्घ्रिलाक्षासंपर्कात् महामाणिक्यसंभव : ॥
५३.अस्या : प्रभावतो राजन् रत्नानामुदयं स्मृतम् । अस्या : प्रसादलेशेन पुष्णन्त्योषधयस्समा : ॥
५४.अस्या : चैव तरङ्गिण्या : शतशोऽथ सहस्रश : । ताम्रपर्ण्या : महानद्या : कलां नार्हन्ति षोडशीम् ॥
५५.य : कश्चन नदीमन्यामनया तुलयिष्यति । स याति रौरवं घोरं यावदाभूतसंप्लवम् ॥
५६.ब्रह्माण्डोदरसंस्थानि तीर्थानि विविधान्यपि । ताम्रातीर्थत्रयैकस्य कलां नार्हन्ति षोडशीम् ॥
५७.तीर्थान्यन्यानि जायन्ते शुद्धान्त:करणात्मनाम् । मुक्त्यादिध्यानयोगेन अन्तर्बहिरकल्मषा : ॥
५८.धर्मद्रवा भगवती ताम्रा मलयनन्दिनी । परापरामृतस्यन्दा तेजिष्ठा कर्मनाशिनी ॥
५९.मुक्तिमुद्रा रुद्रकला कलिकल्मषनाशिनी । नारायणी ब्रह्मनादा मालेयी मङ्गलालया ॥
६०.मरुत्वद्यम्बरवती मणिमाता महोदया । तापघ्नी निष्कलानन्दा त्रयी त्रिपथगात्मिका ॥
६१.चतुर्विंशति नामानि पुण्यान्येतानि भूपते । ये पठन्ति जना : भक्त्या तेषां मुक्ति : करे स्थिता ॥
६२.वापिकूपतटाकेषु तीर्थेष्वन्येषु वा पुन : । जपन् नामानि चैतानि मज्जन्तो गोष्पदेऽपि वा ॥
६३.प्रयान्ति परमां मुक्तिं निर्धूताखिलकल्मषा : । इत्थं ज्ञात्वा महाराज तर्तुकामो भवार्णवम् ॥
६४.जन्ममध्ये सकृत् वापि ताम्रायां स्नानमाचरेत् । अपि वा कणिकामात्रं पिबेत् अस्या : पय:शुभम् ॥
६५.तस्य नाहं पश्यामि भूयो गर्भे निपातनम् । अपारकरुणा चेयमिति निश्चित्य वै सुरा : ॥
६६.चक्रु : सन्ततसान्निध्यं तीरे तीरे निरन्तरम् । पदे पदे शिवक्षेत्रम् उमाक्षेत्राण्यनेकश : ॥
६७.विष्णुक्षेत्राणि तीर्थानि शक्तिक्षेत्राण्यनेकश : । हेरम्बभवनान्यत्र कौमाराणि पराण्यपि ॥
६८.पुण्याश्रममुख्यानि मुनीनां भावितात्मनाम् । एषां दर्शनमात्रेण नर : पापै : विमुच्यते ॥
६९.आरभ्य मलयं शैलं आसागरमिमं सरित् । प्रवाहबहुला देवी मुनिना संप्रवर्धिता ।
   कादम्बरीवने पुण्या ताम्रा सागरमभ्यगात् ॥
७०.शुद्धोदपूरा दुरितापहन्त्री मुनीश्वरस्यन्दनमार्गयाना ।
   प्रहर्षयन्ती किल पाण्ड्यभूपमम्भोधिमेषा प्रविवेश वेगात् ॥
                  
                                 इति द्वादशोऽध्याय :       Pro.Total = 775  + 70 = 845.

                                   त्रयोदशोऽध्याय :

                      कादम्बरीवनमाहात्म्यवर्णने ब्रह्मपदस्थानवर्णन्म्

१.श्री सूत : ---इत्थमागमनं देव्या : ताम्राया : परमाद्भुतम् । आकर्ण्य परमानन्दनिमग्नहृदयो नृप : ॥
२.अभिष्टूयापगारत्नं मुनिं शङ्खं प्रणम्य च । वीरसेनो महातेजा : भूयो वचनमब्रवीत् ॥
३.ब्रह्मन् अभ्युदयाकारा कथेयं कल्मषापहा । श्रुतापि भूय : तृष्णां तु जनयत्येव मे तराम् ॥
४.इयमम्भोनिधिं प्राप्य वने कादम्बराह्वये । कादम्बरीवनमिति ख्यातं येन ज्गत्त्रये ॥
५.कारणं श्रॊतुमिच्छामि विस्तरात्  श्रुणु सादरम् ।शङ्ख: तत्र ते राजन् प्रवक्ष्यामि कारणं श्रुणु सादरम् ॥
६.पुरा ह्यादियुगे धाता सृष्ट्वा लोकान् चतुर्दश । मदन्यैर्दुष्करमिति चात्मानं बह्वमन्यत् ॥
७.सावलेपान् मदाविष्टात् वेदान् आदाय दानव : । पातालं प्रययौ वेगात् सोऽपि नष्टश्रुतिर्विधि : ॥
८.सृष्टिसामर्थ्यरहितो बभ्राम शरदां शतम् । चिन्तयामास भगवान्धाता कारणपूरुषम् ॥
९.अविवेकधियां क्वापि न लभ्यम् हि मन : सुखम् । निहताहङ्क्रिया यत्र यत्रान्त्यमपि चेतसि ॥
१०.तत्र श्रेयो न पश्यामि धान्यमूषरतो यथा । साधूनां समचित्तानां अहग्कारास्थचेतसाम् ॥
११.अनपाया भविष्यन्ति सिद्धयोऽष्टौ न संशय : । आत्मा मलीमसयुत : सोऽपि ब्र्ह्मरतां व्रजेत् ॥
१२.यावन्नोदेति सविता तावत् रात्रिर्न संशय : । यावत् न भवेत् ज्ञानं पामरतां व्रजेत् ॥
१३.उपाधिरहितं यत्र ब्रह्मज्ञानं प्रकाशते । ज्ञातव्यस्स पुमान् लोके साक्षात् परशिव : खलु ॥
१४.निर्यन्तर्यपि जन्तूनां ब्रह्मादीनां अभङ्गुरे । वर्तमाने गुरौ नित्ये अहन्ता मे विनिष्फला ॥
१५.इत : परं मे किं कार्यं मूढस्याकार्यवेदिन : । हरिराराधनीयो हि सद्भिरापदि शान्तये ॥ 
१६.जनित : पोषित : चाहं बोधित चानुपालित : । कथं सन्तापशान्त्यर्थं मया नाराध्यते हरि : ॥
१७.तमेव शरणं यामि नात्र कार्या विचारणा । इति निश्चित्य चित्तेऽस्मिन् विनीते चतुरानने ॥
१८.तदाननात् आविरभूत् नारी काचन संभ्रमात् । नानावक्राङ्गलतिका कृष्णवर्णा कुरूपिणी ॥
१९.मदनाविष्टहृदया धूयमानेव साब्रवीत् । कथं मनोरथं लप्स्ये भगवन् कथ्यतामिति ॥
२०.इत्युक्तवत्यां तस्यान्तु तामाह वनितां विधि : । अयि ते काङ्क्षितस्याप्त्यै तपस्तप्तुं त्वमर्हसि ॥ 
२१.मद्दण्डेन धृता माला नाम्ना कादम्बरी किल । यत्रैषा विशते माला तत्रैवास्त्वाश्रमस्तव ॥
२२.इति व्याहृत्य तां वेधा : स्वदण्डाग्रात् स्रजं शुभाम् । विमुच्य प्रेषयामास सा जगाम महीतलम् ॥
२३.मालामन्वगमत् सापि वनिता ब्रह्मचोदिता । परिभ्राम्य महीं कृत्स्नां स्रगियं यत्र संस्थिता ॥
२४.तत्रे कूले समुद्रस्य तामसी वासमातनोत् । कृत्वाश्रमपदं रम्यं नियमै : दुष्करै : परै : ॥
२५.निगृहीतेन्द्रियग्रामा तताप परमं तप : । ध्यायन्ती हृदि गौरीशं वरदं भक्तवत्सलम् ॥
२६.एवमस्या : तपस्यन्त्या : समग्रं शरदां शतम् । पुर : प्रादुरभूत् शम्भु : प्रसन्नो वरदित्सया ॥
२७.श्री परमेश्वर : ---प्रीतोऽस्मि तपसा भद्रे दुष्करै : नियमैरपि ।
   वरं वरय भद्रं ते किं ते मनसि काङ्क्षितम् ॥
२८.इति वाचं निशम्यैषा महादेवस्य शूलिन : । बद्धाञ्जलिपुटा नारी वरमेनमयाचत ॥
२९.भगवन् यदि तुष्टोऽसि तपसा मे महेश्वर । त्रिलोकवर्तिनां पुंसां स्पृहणीया भवाम्यहम् ॥
३०.यं यं वाञ्छामि पुरुषं स भूयात् मद्वश : पुमान् । यानि योग्यानि वाञ्छामि तान्यग्रे सन्तु मे प्रभो ॥
३१.नित्ययौवन संयुक्ता विहरिष्ये स्वरूपिणी । एवं तयार्थितो देव : तथास्त्वित्यभिधाय च ॥
३२.रूपमप्रतिमं कृत्वा भूय : स्वपदं ययौ । नाम्न्यैषा तामसी नारी वरं लब्ध्वा सदाशिवात् ॥
३३.विद्यायौवनसौन्दर्यसंपन्ना कामुकी सती ॥ आगतान् पुरुषान्रूपसंपन्नान् व्योमचचारिणी ॥
३४.रमयामास संहृष्टा यथेष्टं स्वैरचारिणी । एतस्मिन् अन्तरे विधिर्व्याकुलितेन्द्रिय : ॥
३५.स्वपाश्वस्थं उवाचेदं दण्डं दमयतां वर:। ब्रह्मोवाच---वत्स गत्वा महीं कृत्स्नां विचार्य च समन्तत :॥ 
३६.तप:स्थानं समाचक्ष्वाप्यसंसृष्टचितानलम् । इत्युक्तस्तेन विधिना स दण्डो धर्मधारक : ॥
३७.ब्रह्मचारी पुमान् भूत्वा युवा काम इवापर : । अवतीर्य ब्रह्मलोकात् आससाद महीतलम् ॥
३८.इतस्ततस्सञ्चरता महता ब्रह्मचारिणा । दृष्टाभूत् तामसी नारी साक्षात् रतिरिवापरा ॥
३९.वरदानबलादस्या मोहितो धर्मधारक : । किञ्चित् उद्विग्नहृदय : तामिदं वाक्यमब्रवीत् ॥
४०.आगतोऽसि कुतो भद्रे चिकीर्षन्ती च किं पुन : । कस्य वा दुहितासि त्वं कस्य वासि परिग्रहा ॥
४१.विकासयति मे चित्तं चकोरमिव चन्द्रिका । सर्वं कथय मे साधु याथातथ्येन शोभने ॥
४२.इति पृष्टा तामसीयं तेनेदं पुनरब्रवीत् । साधु सुन्दर वक्ष्यामि श्रुणुष्व वचनं मम ॥
४३.वसाम्यस्मिन् वने शुद्धे रमणीति प्रथां गता । त्वादृशानां भाग्यमिदं शरीरं विद्धि मामकम् ॥
४४.अनेन त्वां प्रीणयिष्ये भोगैश्च विविधैरपि । एहि साधय मत्स्नेहात् महाभाग्यसमन्वितम् ॥
४५.इत्युक्त्वा पाणिना पाणिं गृहीत्वा ब्रह्मचारिणम् । नीत्व स्वभवनं रेमे कामेनेव रति : पुरा ॥
४६.वसनाशनताम्बूलमज्जनलेपनादिभि : । बहुमानै : प्रीणयन्ती तेन सार्धं मुदं ययौ ॥
४७.तत : चिरायमाणेन तु स दण्डे चतुरानन : । समाधिना विनिश्चित्य विषयासक्तमानसम् ॥
४८.शशाप कुपितो ब्रह्मा दन्तान् संघर्षयन् मुहु : । विस्मृत्य स्वामिकार्याणि स्वमतं य : प्रसेवते ॥
४९.स पापी याति नरकं कुम्भीपाकं न संशय : । तस्मात् स्वच्छन्दवृत्तस्य स्वामिकार्यविरोधिन : ॥
५०.न भवेत् मर्त्यलोकस्य संप्राप्तिस्तस्य दुर्मते : । महाव्याघ्री च सा भूयात् अकामिजनदूषणी ॥ 
५१.तस्मिन् वने महाघोरे क्षुत्पिपासातुरा चिरम् । यदा लोकहितार्थाय शांभवी शक्तिरेकिका ।
५२.भूत्वा मलयजाभ्येति ताम्रपर्णी सरिद्वरा । तदा तत्तोयसंस्पर्शात् प्रकृतिं यातु सा पुन : ॥
५३.सोऽपि दण्डधर : शम्भुमभ्यर्च्य नियतेन्द्रिय : । ताम्रातीर्थे कृतस्नान : पुनरेतु मदन्तिकम् ॥
५४.एवं सानुग्रहं शप्त्वा तावुभौ चतुरानन : । भूय : स्वकलशीं प्राह तप:स्थलदिदृक्षया ॥
५५.अयि वत्से भुवं गत्वा तेजिष्ठं चितिवर्जितम् । स्थलं निश्चित्य वक्तव्यं मा कुरुष्व विलम्बनम् ॥ 
५६.इत्थं नियुक्ता तेनैव कलशी ब्रह्मणोऽन्तिकात् । समन्तात् भुवमालोक्य ददर्श क्षेत्रमुत्तमम् ॥
५७.अपापममलाकारमस्पृष्टपितृकाननम् । तेजिष्ठं समनुप्राप्य तत् क्षेत्रं रक्षयत्यगात् ॥
५८.तत्रैव वासमकरोत् द्वादशाब्दं निरन्तरम् । अथ विज्ञाय भगवान् ब्रह्मा ब्रह्मविदां वर : ॥
५९.स्वयमभ्यायौ तत्र हंसारूढो ज्वलन् रुचा । कलशीं बहुमान्याग्रे तत्र चक्रे तपो महत् ॥
६०.तेजोमयं हरिं स्थाप्य महामरकतप्रभम् । श्रीवत्साङ्कसमायुक्तं कौस्तुभोत्भासिकंधरम् ॥
६१.प्रसन्नवदनं शान्तं कौशेयाम्बरधारिणम् । एवं मूर्तिं हरे : स्थाप्य पूजयामास भक्तित : ॥
६२.आत्मन्याराध्य देवेशं पुनर्बिम्बे समर्चयत् । योगसिद्धै : च संभारै : मन्त्रै : वेदान्तगर्भितै : ॥
६३.स्नात्वा त्रिषवणं वेधा : कलशीतीर्थवारिणि । त्रिवारं पूजयाञ्चक्रे समाधिस्थो जितेन्द्रिय : ॥
६४.पूजान्ते परमं स्तोत्रं चकारानन्दनिर्भर : । यस्यैकवारपठनात् मुच्यन्ते जन्तवो भयात् ॥
६५.तमिदानीं प्रवक्ष्यामि स्तुतिं सर्वार्थसिद्धिदाम् । श्रुणुष्वात्र महाराज सावधानेन चेतसा ॥

                             इति त्रयोदशोऽध्याय :      Pro.Total = 845  + 65 = 910.

                               चतुर्दशोऽध्याय :

           ब्रह्मकृत : विष्णुस्तव : ब्रह्मदत्त---दण्डधरस्य शापमोचनप्रकार : च

१.ब्रह्मा ---नमस्तुभ्यं भूयसे भूरिधाम्ने भूयिष्ठायापारकरुणाय सीम्ने ।
 व्यक्ताव्यक्तं विश्वमेदं त्वदीयं रूपं प्राहु : प्राक्तनं देववाच : ॥
२.यत्पादाब्जं स्वान्तमन्त:प्रकामं नित्यायन्तो निर्विशन्त : समर्था : ।
  पारं प्रापु : निर्विघातं भवाब्धे : तन्मे भूयात् धाम शान्त्यै नितान्तम् ॥
३.येनाशेषं व्यक्तिभेदेनविश्वं वारं वारं पूर्यते भूरि धाम्ना ।
  सोऽयं मह्यं स्वस्तये स्यादविघ्नंभग्नापायो भागधेय : सतां हि ॥
४.अङ्घ्रिद्वन्द्वाम्भोरुहासन्नवासं सौख्यं प्राहुर्मोक्षलाभात् अमुष्य ।
  तं वैकुण्ठं देवमेकं प्रपद्ये विद्यावाप्त्यै वीतभीराभिमुख्यम् ॥
५.व्याजादस्याशेषबन्धोरभिख्यामाख्यामुच्चैरप्यसन् वा स्मरन् वा ।
  तीर्णापायाम्भोनिधिर्जन्तुरास्तेसोऽयं देव :स्वस्तिदो मे हरि : स्यात् ॥
६.ऊर्ध्वं चाधस्तिर्यगन्तर्बहिर्वा व्याप्तं यस्यैकांशतोभाति विश्वम् ।
  पारे दु:खं भावुकं मद्विधानामङ्घ्रिद्व्न्द्वं चिन्तयाम्यन्तरङ्गे ॥
७.प्राप्ता : पारं प्राक्तनालाभसिन्धो : कूर्माटव्यांसन्चरन्तश्च केचित् ।
  नैनं पश्यन्त्यात्मसंस्थं पुमांसं तत् त्वामीडे नाथ नालीकनेत्र ॥
८.प्राणायामात् ब्रह्मनादान्तवादात् प्रायश्चित्तात् अध्वरात् आत्मबोधात् ।
  यन्नामैकं मोक्षमूलं पठन्ति तस्मै कुर्म : स्न्ततं चित्तरत्नम् ॥
९.विहाय ताराण्यपि धीरधीरा : सर्वान् इवात्माकरसौरभाणि ।
  पर्णाशना काननमाश्रयन्ते यल्लाभहेतो : तमहं नतोऽस्मि ॥
१०.नतोऽस्मि मूर्ध्ना नलिनाक्ष ते पदम् वदामि नामान्यपि वाग्भिरुच्चै : ।
  स्मराम्यहन्ताकलुषास्पृशाहृदा  शरण्यमेनं शरणं व्रजाम्यहम् ॥
११.निरस्तबाह्येन्द्रियवृत्तिनिर्मले न मय्यनुस्यूतमपास्तकल्मषे ।
  विलोकयिष्यामि विचिष्टभावनाबलेन नाथं प्रणवार्थसूचकम् ॥
१२.नमो नम : शान्तगुणाय विशेषविज्ञान गुणप्रकाशिने ।
  नमोऽस्तु तुभ्यं पुरुषाय वै पुन : पराय पारायणधर्मशालिनाम् ॥
१३.श्री शंख : ---इत्थं स्तुत्वा पुरस्तस्य हरेर्नियममास्थित : ।
  समाधिना विश्वमिदं तन्मय : स व्यलोकयत् ॥
१४.एवमर्चयत : तस्य शरदामत्यगु : शतं । पूर्णे वर्षशते राजन् भगवान् गरुडध्वज : ॥
१५.प्रादुर्भूत : तमाहूय ब्रह्माणं वाक्यमब्रवीत्।श्री भगवान् ---प्रीतोऽस्मि तपसा ब्रह्मन् दुष्करेण तवाधुना॥
१६.स्तुत्यानया विशेषेण  प्रीतोऽस्मि नितरामहम् । वैकुण्ठादपि दुग्धाब्धे : त्वत् क्षेत्रमिदमुत्तमम् ॥
१७.रमणीयं भवेत् ब्रह्मन् अस्माकं नात्र संशय : । कलशी वापिका ह्येषा सर्वतीर्थनिषेविता ॥
१८.पापघ्नी भाग्यदा भूयात् नृणां यावत् वसुन्धरा । एषा कुंभाटवी नाम्ना स्थली विख्यातिमृच्छतु ॥
१९.अत्रत्यानांहि जन्तूनां मुक्तिदानाय केवलम् । वसामि सततं प्रीत्यै वैकुण्ठभवने यथा ॥
२०.इत : प्रविश्य पातालं आनयिष्ये त्रयीं तव । इत्थमाश्वास्य भगवान् हरि : कमलसंभवम् ॥
२१.पातालात् दानवान् हत्वा वेदान् आदाय वेधसे । प्रदायान्तरधात् तस्मिन् वने परमपावने ॥
२२.प्राप्तश्रुतिकुलस्रष्टा परमानन्दनिर्भर : । पुनरप्यर्चयामास भगवन्तमधोक्षजम् ॥
२३.तावदभ्यागमत् ब्रह्मचारी धर्मधरो विभु : । प्रणिपत्याब्रवीत् वाचं चिन्तासन्तापगद्गदम् ॥
२४.दण्डब्रह्मचारी ---मय्यानगसि देवेश शाप: किमनुपातित:। कथंमुक्तिर्वदास्माकमनन्तात् दु:खसागरात् ॥
२५.ब्रह्मा उवाच ---वत्स मत्पाणिमित्र त्वं भृत्यो भक्तश्च मे सुहृत्।भवितव्ये कर्मफले मैवं शोचितुमर्हसि ॥
२६.सतामशुभसंसर्गात् अशुभ : संप्रभाव्यते । तत्र धीरा न शोचन्ति जडा : शोचन्त्यपण्डिता : ॥
२७.शीतोष्णसुखदु:खादीन् ये सहन्ते विपश्चित : । ते यान्ति परमं सौख्यमिति वेदान्तचोदिता : ॥
२८.इत : परं ते वक्ष्यामि क्रियां च श्रेयस्करीं शुभाम् । कालेनाल्पीयसा साक्षात् आदिशक्तिरकल्मषा ॥
२९.सदाशिवसमादिष्टा नदी मलयनन्दिनी । आगमिष्यति लोकान् त्रीन् पुनाना पुण्यवाहिनी ॥
३०.तस्यां स्नात्वा महानद्यां मामुपैष्यसिकेवलम् । इतो योजनमात्रेण क्षेत्रमस्ति महत्तरम् ॥
३१.शौण्डीकरं नाम दिव्यं यत्रास्ते शङ्करो विभु : । तत्राश्रमपदं पुण्यं गौतमस्य महात्मन :॥
३२.तत्क्षेत्रं दूषयन्त्युग्रा समन्तात् योजनायतम् । एकदस्य सुता काचित् नाम्ना कुम्भीनसी स्मृता ॥
३३.शापात् निशाचरी शम्भो : चक्रे निर्मानुषं वनम् । विम्मोचयित्वा तां शापात् तत्राराधय शङ्करम् ॥
३४.यावत् ताम्राभिगमनं तावत् तत्र भविष्यसि । तदानीमावयो : सङ्गो भवेत् नात्र विचारणा ॥
३५.एषापि तामसी घोरा व्याघ्रिभूत्वाब्धिरोदसि । अभिभूय चिरं कालं ताम्राया : स्पर्शवैभवात् ॥
३६.निर्मुक्तपापकलुषा सखी तस्या भवेत् इयम् । कादम्बरीवनमिति प्रथितां तामुपैष्यतु ॥
३७.व्याघ्राटवीमिति पुन : कथयन्तु समन्तत : । इत्येवं अनुशास्यार्थं ब्रह्मा ब्रह्मविदां वर : ।
   लब्धवेदनिधि : प्रीत्या प्रायात् स्वभवनं प्रति ॥

                              इति चतुर्दशोऽध्याय : Pro.Total = 910 + 37 = 947.

                                पञ्चदशोऽध्याय :

                              तामसीशापविमोचनम्    

१.ऋषि :---एतत् ते कथितं राजन् यन्मां त्वमिह पृच्छसि।कादम्बरीवनस्यास्य तामस्याश्चरितं महत् ॥
२.दण्डराजस्य चरितमानुपूर्व्येण भाषितम् । ब्रह्माश्रमस्य महिमा कीर्तित : कलुषापहम् ॥
३.श्रुणु भूय : कुंभयोने : कथं पापनोदिनीम् । सागरेण समायोज्य ताम्रां मलयसंभवाम् ॥
४.हयग्रीवाद्रिमाण्डव्यगौतमाङ्गिरसादिभि : । वसिष्ठरोमशमुखै : दुर्वासकपिलादिभि : ॥
५.अन्यैश्च मुनिशार्दूलै : लोपामुद्रापतिर्मुनि : । त्रिषु स्थानेषु ताम्राया : मुखेष्वम्भोधिसङ्गमे ॥
६.स्नात्वा दत्वा यथान्यायम् तर्पयित्वा पितॄन् सुरान् । तीर्थश्राद्धं क्षेत्रपिण्डं कृत्वा विधिविदाम् वर : ॥
७.हरिद्रापिष्टेन ताम्राया : कृत्वा तु प्रतिमां शुभाम् । गन्धपुष्पाक्षतैर्लाजै : धूपनीराजनादिभि : ॥
८.पूजयित्वा यथान्यायं नैवेद्यैर्विविधैरपि । नमस्ते देवि कल्याणि महापातकनाशिनि ॥
.ताम्रपर्णि त्वयि स्नास्ये त्राहि मां भवसागरात् । इति मन्त्रं समुच्चार्य प्रार्थयित्वा प्रणम्य च ॥
१०.प्रतिमां अप्सु निक्षिप्य पुन : स्नात्वा मुनीश्वर : । सह सर्वै : मुनिगणैरत्र वासमकल्पयत् ॥
११.एतस्मिन्नन्तरे घोर : संजज्ञे सुमहान् ध्वनि : । भिद्यमानस्य शैलस्य वज्रेणैव महात्मन :
१२.महावात : च संजज्ञे कम्पमानतरद्रुम : । चचाल वसुधा तत्र सशैलवनकानना ॥
१३.किमिति ब्रान्तहृदया जना दुद्रुविरे भयात् । भज्यमनतर्ङ्गोऽब्धि : सङ्कुचन् इव चक्रमे ॥
१४.आसीत् कलाकाल्रावै : पूर्णमासीत् जगत्त्रयम् । क्रोशन्त : शकुना व्योम्नि मण्डलानि वितेनिरे ॥
१५.व्योम्नि वैमानिका सिद्धा : न्श्चितुं नाप्यशक्नुवन् । तत्रादृश्यत शैलाभा व्याघ्री कनकपाटला ॥
१६.स्फोटयन्ती मुहु : पुच्छं क्रन्दन्ती भीषणारवम् । दारयन्तीव वसुधां लिहन्तीव नभ:स्थलम् ॥
१७.व्यत्यासयन्ती ककुभं सन्धाय पुरतो मुने : । तां दृष्ट्वा विस्मयाविष्ट : कुम्भयोनिर्महामति : ॥
१८.हुङ्कारमकरोत् क्रोधात् सा क्षिप्ता तेन दूरत : । निपपात पय:पूरे व्याकुला तूलराशिवत् ॥
१९.सैष  ताम्राप्रवाहे तु पतिता गिरिकूटवत् । उत्पपात तथा व्योम्नि जलौघो मेघबृन्दवत् ॥
२०.विकीर्यमाणो वानेन समन्तात् वियदन्तरे । अचिराभा रविकरै : जलधूमैर्घनाकुला ॥ 
२१.पतमानैर्जलकणै : प्रावृट् आविर्भूत इव । समसर्पत् जलौघ : तु विन्ध्यकूटसमप्रभम् ॥
२२.मुञ्चन्ती घर्घरारावं घोरमेघारवोपमम् । इतस्तत : संलुठन्ती जहौ व्याघ्री कलेबरम् ॥
२३.साप्यदृश्यत नालीकनवकिञ्जल्कपाटला । तरुणी तरुणादित्यकिरणाकारपिङ्गला ॥
२४.उत्फुल्लकमलोदारा वहन्ती वरुणस्रजम् ।दिव्याम्बरधरा दिव्यमणिकाञ्चनभूषणा ॥
२५.मदमत्तारुणापाङ्गा मन्दस्मितमुखाम्बुजा । अन्वेषयन्ती भर्तारमाससाद घटोद्भवम् ॥
२६.ब्रह्मन् प्रसीद कारुण्यात् अनाथायां मयि प्रभो । दुस्सहोऽयं अनङ्गेषु विषज्वालासमागम : ॥
२७.महातीर्थप्लवेनापि शान्तिर्नोपैति केवलम् । यावत् विपत्तिमभ्येति शरीरं विरहाग्निना ॥
२८.तावदनुरूपं मे कान्तं देहि दयानिधे । विलपन्तीमिमामेवं दृष्ट्वा नारीमतल्लिकाम् ॥
२९.सान्त्वपूर्वमिदं वाक्यं व्याजहार घटोद्भव : । अयि सुश्रोणि भद्रं ते मैवं शोचितुमर्हसि ॥
३०तवानुरूप : तरुण : कामराहसमद्युति : । समुद्रराजतनय : वीचीमालात्मसंभव : ॥
३१.शंखराज इति ख्यात : भविता तव वल्लभ : । इत्युक्तवति वै तस्मिन् मुनौ वातापिवैरिणि ॥
३२.पुरात् अम्बुनिधे : तुङ्गात् तरङ्गान् खण्डयन् इव । उत्पपात तथा श्रीमान् महामेघात् इवांशुमान् ॥
३३.स्वकिङ्करै : नागवरै : दत्यैरपि निषेवित : । महाराजश्रियोपेत : समागत्य मुनीश्वरम् ॥
३४.अभिवाद्य विनीतात्मा प्रीतो वचनमब्रवीत् ।
   शङ्खराज : --भगवन् किमिहादृत्य समाहूतोऽस्मि सत्वरम् ॥
३५.शाधि मां प्रियकृत्येषु कर्ताहं नात्र संशय : । इति वादिनमेवैनं कुम्भभूरभ्यभाषत ॥
३६.अगस्त्य :-आयुष्मन् शङ्खराजेन्द्र प्रीतोऽस्मि तव दर्शनात् ।
   एषा तपस्विनी बाला कुलीना चारुरूपिणी॥
३७.तव प्रिया भवेत् धन्या त्वमस्या : सदृश : पति : । श्रेय ; ते भवितानेन नात्र कार्या विचारणा ॥
३८.एतस्मिन्नन्तरे व्योम्नि वागभूत् अशरीरिणी । एवमेवेह कर्तव्यं एतयोरस्तु मङ्गलम् ॥
३९.इति श्रुत्वा वचस्तावत् सर्वे ते देवदानवा : । साधु साध्विति संहृष्टा सुव्यक्तां वाचमूचिरे ॥
४०.पश्यत्सु सर्वभूतेषु मिलितेषु महात्मसु । सा तामसी समभ्येत्य शङ्खराजस्य कन्धरे ॥
४१.मालामयीम् अर्पयामास नाम्ना मधुकरीमिमाम् । तावत् दुन्दुभयो नेदु : पुष्पवृष्टि : पपात च ॥
४२.तामुद्वाह्य वरारोहां शङ्खराजोऽब्धिसंभव : । शुशुभे नितरां राजन् विद्यामिव नय : कृती ॥
४३.तावुभौ अनवद्याङ्गौ रतिकामाविवापरौ । प्रशशंसु : जना : सर्वे मुमुदे विन्ध्यमर्दन : ॥
४४.एतस्मिन् एव समये समाजे ब्रह्मवादिनाम् । सा माला शङ्खराजस्य कन्धरात् व्योम्नि जृम्भते ॥
४५.किञ्चित् उच्चलितायां तु मालायां व्योम्नि मण्डले । ततस्तत : तु सञ्जाता शतशोऽथ सहस्रश : ॥ 
४६.एवमाकाशपदवी मालाशतसमाकुला । प्रबभौ भोगिसङ्कीर्णा नागराजपुरी यथा ॥
४७.तत्रैका शङ्खराजस्य तामस्या : कन्धरे तथा । पेततु : च स्रजामन्या माला सूर्यस्यवर्त्मना ॥
४८.गत्वा धर्मधरस्यैव मूर्ध्नि सर्वा निपेततु : । दृष्ट्वा तु विस्मयाविष्टे सस्त्रीके सगरात्मजे ॥
४९.नारदोभ्येत्य तत् सर्वं मालोपाख्यानमब्रवीत् । एषा गन्धर्वस्य पत्नी तामसी नाम नामत : ॥
५०.पुरा ब्रह्ममुखात् जाता तत्दत्तां मालिकामिमाम् ।लब्ध्वा तपश्चिरं तप्त्वा सन्तुष्टा प्राप्य शङ्करात् ॥
५१.वरान् प्राप्य सुभुञ्जाना भोगान् विविधानपि ।अनुभूय पुन : शापात् निर्मुक्ता तीर्थमज्जनात् ॥
५२.सुकृतै : त्वामनुप्राप्ता त्वञ्चेमां वनिताश्रयाम् । घटयित्वा युवामेषा भूयोऽगात् ब्रह्मण : पदम् ॥
५३.त्वया तीरे ताम्रपर्ण्या : कृत्वावासं यथोचितम् । पूजनीया ताम्रपर्णी सभार्येण विशेषत : ॥
५४.एवं पूजयितो नित्यं युवयोर्मलयात्मजा । महाभोगानसङ्ख्यातान् प्रदास्यति महेश्वरी ॥
५५.एवं देवर्षिमुख्यस्य नारदस्यानुशासनं । वहमान : किरीटेन मालामिव समुद्रज : ॥
५६.तं मुनिं प्रणिपत्याग्रे कूम्भयोनिमुखान्यपि । सह पत्न्या नमस्कृत्य तीर्थद्वीं मणिप्रसूम् ॥
५७.रथोत्तमं समारुह्य विमानं काञ्चनारुणम् । दासीभि : निष्कण्ठीभि : भृत्यै : बहुभिरन्वित : ॥
५८.स्तूयमाना पथानेन प्रायात् इन्दुवनं प्रति । अर्धयोजनमात्रेण महाम्भोधेश्तु पश्चिमे ॥
५९.ताम्राया दक्षिणे भागे चन्द्राटव्यां महामति । नदीपुरमिति ख्यातं निर्माय नगरं महत् ॥
६०.नित्यमभ्यर्चयन् ताम्रां शिवपूजापरायण : । मुनिनादिष्टमार्गेण वर्तयन् सकला : क्रिया : ॥
६१.चिरकालं तया सार्धं बुभुजे विषयान् बहून् । ततो वर्षसहस्रान्ते ताम्रपर्णी प्रसादत : ॥
६२.भार्यया सहितो योगी ब्रह्मलोकमवाप्तवान् । पुन : श्रुत्वा कथां पुण्यां विन्ध्याहङ्कारमर्दन : ॥
६३.समायोज्य नदीमब्धौ तमामन्त्र्य नदीपतिम् । निषेव्य सर्वतीर्थानि देवान् चाभ्यर्च्य सर्वश : ॥
६४.हयग्रीवमुखै : सिद्धै : अभ्येत्य मलयाचलम् । प्रतिष्ठाप्य च गोष्ठीशं तत्प्रसादमवाप्य च ॥
६५.ब्रह्मवृद्धपुरे दृष्ट्वा देवं कल्याणसंभृतम् । तदनुग्रहमासाद्य भूयो मलयमाप स : ॥ 
६६.एतत् तु परमं गृह्यमितिहासं पुरातनम् । श्रुणुयात् वा पठन् वापि सर्वपापै : प्रमुच्यते ॥
६७.एतत् आयुष्करं श्राव्यमाख्यानमघनाशनम् । श्रुणोति य : पठेत् वापि सर्वपापै : प्रमुच्यते ॥
६८.एतत् ते कथितं राजन् ताम्रायाश्चरितं महत् । अलङ्घनीया हेतु : मलयस्यापि वर्णित : ॥
६९.धर्मिष्ठस्य वदान्यस्य तव सङ्गं महीपते : । मम जातमिदं पुण्यं धर्मस्यैव प्रशंसनम् ॥
    महाराजविशेषेण किं भूय : श्रोतुमिच्छसि ॥

                            इति पञ्चदशोऽध्याय :        Pro.Total = 947 + 69 = 1016.

                                षोडशोऽध्याय :

                              वेणुवनमाहात्म्यम्

१.भगवन् भवत: सङ्गात् पावितोऽहं न संशय: । गङ्गं प्रविश्य रथ्याम्बु त्रीन् लोकान् न पुनाति किम् ॥ 
२.ककोऽपि मेरुसंयोगात् नकिं काञ्चनतां व्रजेत् । कृतार्थोऽस्मि कृतार्थोऽस्मि कृतकृत्योऽस्मि केवलम् ॥
३.यथा प्रसन्नं त्वत्पादपङ्कजं दैवयोगात : । अपि वावसरं प्राप्य सृष्टोऽस्मि त्वदनुग्रहात् ॥
४.किमेति पञ्चतामग्नौ पीयूषादी नर: क्वचित् । विधूतबन्धुवर्गस्य ममाटव्यामपि प्रभो ॥
५.निधिवत् लब्धमधुना तव पादाम्बुजद्वयम् । काङ्क्षितान्यपि भाग्यानि भूय : प्राप्स्ये भवन्मुखात् ॥
६.एषा मलयजा पुण्या कल्पवल्ली न संशय : । स्नानात् सङ्कीर्तनात् पानात् मननात् अनुवर्तनात् ॥
७.पापघ्नी भवपङ्कघ्नी भोगदा पुण्यदा नृणाम् । अस्या : प्रभावं भूयोऽपि श्रोतुमिच्छामि सत्गुरो ॥
८.वातापिवैरी भगवान् मुनि : परमधर्मवित् । कादम्बरीवनात् अस्मात् निवर्त्य मुनिभिस्सह ॥
९.किञ्चकार महायोगी तीरे कुत्र मणिप्रसो : । कोष्ठीश्वरे महालिङ्गं स्थाप्य पूजामकल्पयत् ॥
१०.कथं दृष्टवान् शम्भुं देवं कल्याणरूपिणम् । कानि तीर्थानि पुण्यानि क्षेत्राण्यपि तटद्वये ॥  
११.धर्माधार : कथं शापात् कुतो मुक्तिमवाप स : । एतत् सर्वमशेषेण वद विस्तार्य मे गुरो ॥
१२.एवं शङ्खो महातेजा : स फृष्ट : तेन भूभुजा । संभाव्य वाचा राजानं भूयो वचनमब्रवीत् ॥
१३.महाराज कुलश्रेष्ठ धर्मे ते मतिरीदृशी । विचित्रं नैव पश्यामि कोकिलस्येव पञ्चमम् ॥
१४.कुलीनं श्रयते नीति : अम्भो निम्नमयत्नत : । तन्वी च यूनं श्रयते पण्डितं धर्मचिन्तना ॥
१५.सर्वज्ञोऽसि कुलीनोऽसि धर्मिष्ठोऽसि विशेषत : । तस्मात् मनीषाते राजन् धत्मात् अन्यत्र किम् व्रजेत्॥
१६.प्रश्नेनानेन तुष्टोऽस्मि वक्ष्ये श्रुणु कथामिमाम् । अब्धिप : स मुनिश्रेष्ठो हयग्रीवादिसंयुत : ॥
१७.ताम्रामम्भोधिना योज्य तत्प्रसादमवाप्य च । चन्द्राटव्यां शङ्खराजं प्रतिष्ठाप्य नदीपुरे ॥
१८.आविर्भूतं तत्र शम्भुं हरिं चाराध्य भक्तित : । ताम्राया उत्तरे तीरे मायालास्यं च माधवम् ॥
१९.दक्षिणे बहुलाख्यां श्रीपुरे पुरुषोत्तमम् । कुम्भारण्ये हरिं पूज्य सूर्यं काशवने तथा ॥
२०.लालङ्के शंबरक्षेत्रे कालीमभ्यर्च्य सादरम् । एकरात्रमुषित्वात्र तत्परेऽहनि कुंभभू : ॥ 
२१.काल्यं कर्म समाप्यैवं ब्रह्मव्रूद्धपुरं ययौ । यत्र् शंभुर्महेशान्या नित्यं सन्निहितो विभु : ॥
२२.ताम्राया : पश्चिमे तीरे पुण्ये वेणुवनान्तरे । ब्रह्मवृद्धपुरी नाम पुरी भुवनभूषणा ।
२३.अर्धयोजनविस्तारात् सर्वतोभद्रसंज्ञिता । पराञ्चैव विभूतिश्च दक्षिणोत्तरत : तटे ॥
२४.सूक्ष्माकारे पुण्यनद्यौ तयोर्मध्ये महावनम् । वेणुवंशं करीराद्यै : समाक्रान्तं वनद्रुमै : ॥
२५.योजनायामविस्तारं कान्तारं परमाद्भुतम् । तन्मध्ये नगरी पुण्या ब्रह्मवृद्धपुराभिता ॥
२६.दक्षिणे चोत्तरे यस्या : प्रवर्तते सरिद्वरा । परा शैवानुभूतिश्च सूक्ष्माकारे महत्तरे ॥
२७.परानुभूतिं शंसन्ति नामतो नगरीं सुरा : । सप्ततन्तु सुधाया : तु रुद्रपत्न्या : कृते युगे ॥
२८ तपसाराधिता देवी सन्तुष्टा जगदम्बिका । अत्रैव दर्शयामास काञ्चीं कम्पापरिष्कृताम् ॥
२९.अत एव पुरीमेनां काञ्चीमाहुर्हि दक्षिणाम् । स्वयमत्र महादेव : पाण्ड्यो भूत्वा नराधिप : ॥
३०.चकार सन्ततं दानं कुर्वन् विप्रान् महाधनान् । यत्रास्ते परमा शक्ति : द्वात्रिंशद्धर्मवर्धिनी ॥
३१.स्वयमाविरभूत् यत्र भक्तानन्दाय शङ्कर : । यत्र शेते महाविष्णु : शिवमाराधयन् व्रती ॥
३२.महावृष्टिभयात् यत्र तारक : शालिशङ्कर : । स्वयमेव वृतिर्भूत्वा पालयामास लीलया ॥
३३.शालिवाटीपुरी चैषा विख्याता भुवनत्रये । यत्र दुर्गा भगवती देवमाराध्य वर्तते ॥
३४.यत्र भिक्षामटत्यद्धा वीथ्यां वीथ्यां उमापति : । महाकङ्कालरूपेण भक्तानां हितकाम्यया ॥
३५.शार्दूलभक्षितां यत्र तरुणीं वनगह्वरे । पुन : प्रादात् शिव : प्रीत्या ब्राह्मणाय महात्मने ॥
३६.तत् एतत् अद्भुतं क्षेत्रं ब्रह्मवृद्धपुरं महत् । संप्राप्य विन्ध्यमथन : मुनिभि : ब्रह्मवादिभि : ॥
३७.स्नात्वैवोत्तरवाहिन्यामगस्त्यो नियमान्वित : । तर्पयित्वा पितॄन् देवान् ऋषीन् चैव यथाविधि ॥
३८.नमस्कृत्वा ताम्रपर्णीं यथार्हं तीर्थदेवताम् । महाविष्णुवनेशानं देवीम् कान्तिमतीमपि ॥
३९.पूजयित्वोपकरणै : गन्धपुष्पाक्षतादिभि : । शयानं शेषपर्यङ्के भगवन्तं प्रणम्य च ॥
४०.दुर्गां विनायकं चैव कङ्कालं षण्मुखं तथा । समभ्यर्च्य यथान्यायं कन्यां/कंपां कल्याणपीठिकाम् ॥
४१.माध्याह्निकस्नानविधिं महापुष्करिनीजले । कृत्वागस्त्यो महातेजा : लोपामुद्रासमन्वित: ॥
४२.हयग्रीवमुखै : सार्धं चक्रे क्षेत्रोपवासकम् । स्वर्णपुष्करिणीतीरे कान्तिमत्याश्च सन्निधौ ॥
४३.निनाय रजनीमेकां विचित्रैश्च कथारसै :। तथोषस्युपवृत्तायामुदितेसवितर्यथ ॥
४४.कृतपूर्वाह्णिकविधि : तस्मिन् तीर्थे महामति :। अभ्याययौ ऋषिगणै : देवदेवस्यसन्निधौ ॥ 
४५.वरुण : तनयै : सार्धं तत्र तुम्बुरुणा सह । आजगाम महातेजा : सिद्धैर्बहुभिरावृत : ॥  
४६.एतस्मिन् अन्तरे राजन् दिश्युदीच्यां महास्वन : । उदभूत् उत्पटारावै : भेरीपटहनिस्स्वनै : ॥
४७.तवदाविरभूत् शम्भु : गगने भानुमान् इव । कैलासशृङ्गसङ्काशं वृषमारुह्य भास्वरम् ॥
४८.अङ्केनादाय गिरिजां तरुणीं लोकमातरम् । गङ्गाधर : शशिधर : शङ्खमौक्तिकपाण्डुर : ॥
४९.कोटिकन्दर्पलावण्यकल्लोलितकलेबर : । महामाणिक्यखचिततप्तहाटकभूषणै : ॥
५०.किरीटकटकाद्यै : च वलयाङ्गदभूषणै : । कस्तूरीचर्चित इव शितिम्ना कण्ठरोचिषा ॥
५१.शुभ्रवर्णतया किञ्चित् घनसारानुलेपनम् । चूडामणिशशाङ्कार्धपीयूषै : चन्दनैरिव ॥
५२.भूषामणिमयूखै : च कुङ्कुमैरिव सन्ततै : । परस्परानुरूपाभ्यां रूपाप्भ्यां यौवनश्रियम् ॥
५३.पुष्णन्तौ लोकमुभयमनादि मिथुनावुभौ । आविरास्तां वृषारूढौ तस्निन् वेणुवनान्तरे ॥
५४.समन्तत : संप्रहृष्टै : भूतप्रमथगुह्यकै : । नन्दिभृङ्गिमुखैरन्यै : गणेशस्कन्दचण्डकै : ॥
५५.ब्रह्मविष्णुमुखै : शैवसिद्धैश्च परमर्षिभि : । सेव्यमानं महादेवं ददर्श परितो मुनि : ॥
५६.वैमानिकै : सिद्धगणै : देवै : इन्द्रपुरोगमै : । संघषमभवत् व्योम महदेवगणैरपि ॥
५७.देवदुन्दुभिनिर्घोषै : नानावादित्रनिस्स्वनै : । सिद्धानां स्तुतिनादैश्च तुमुल : समपद्यत ॥
५८.गङाद्या : सरित : तत्र तीर्थानि च महान्त्यपि । सरित : सागरास्सर्वे समाजग्मुरितस्तत ॥
५९.विन्ध्यमन्थरमेर्वाद्यै : पर्वताश्च समुत्सुका : । आजग्मुरखिलास्तत्र बिभ्राणा मानुषीं तनुम् ॥
६०.एवमभ्यागतेष्वेषु देवेन सह शूलिना । ममज्जु : कुसुमान्यत्रविकिरन्त : सुरासुरा : ॥ 
६१.अस्यामुत्तरवाहिन्यां ताम्रायां शिवसन्निधौ । गङ्गाद्या : सरित : तत्र किरन्त : कुसुमोच्चयम् ॥
६२.भावयन्त : तथात्मानं ममज्जु : तीर्थवारिणि । इतस्तत : क्षिप्यमाणै : अमरै : कुसुमोत्करै : ॥
६३.सञ्छन्नमभवत् क्षेत्रं सर्वतो योजनावृतम् । पारिजातसमुद्भूतै : सुगन्धै : पुष्पसञ्चयै : ॥
६४.सञ्छन्नपूरा रुरुचे चित्राम्बरधरा यथा । मकरन्दै : परागैश्च हरिचन्दनरञ्जिता ॥
६५.एवमाश्चर्यजननीं महापातकनाशिनीम् । अभिष्टूय नदीमेनां अभिसस्नु : सुरासुरा : ॥
६६.मुकुन्देन्द्रब्रह्ममुखै : पूज्यमान : सदाशिव : । उपस्पृश्य नदीतोयं उपगूह्य स्ववल्लभम् ॥
६७.कैलासशिखराकारं विवेश भवनं सुखम् । ततो हर्षसमायुक्त : स मुनि : कुंभसंभव : ॥
६८.देवं प्रदक्षिणीकृत्य नमस्कृत्य मुहुर्मुहु : । आनन्दबाष्पपूराभ्यां नेत्राभ्यामवलोकयन् ॥
६९.किञ्चित् प्रह्वतनु : तिष्ठन् मूर्छामुकुलिताञ्जलि : । उन्निद्ररोमनिकरै : व्यक्तीकृतमनोरथ : ॥
७०.हर्षगद्गदया वाचा स्तोतुमुपचक्रमे । अगस्त्य : --नम : कल्याणवेषाय कलिकल्मषनाशिने ॥
७१.नमो विहारिणे विश्वविबुधानां हृदयङ्गणे । नम: स्वान्तनिवासाय शान्तानां समचेतसाम् ॥
७२.असाधारणकृत्याय नमस्ते कृत्तिवाससे । नीलग्रीवाय नित्याय निस्समाप्त्युदयात्मने ॥
७३.परवामामार्धवपुषे नम : क्षेमङ्कराय ते । अर्धं मरकताकारमर्धंस्फटिकसन्निभम् ॥
७४.अद्वैतमपि यत्तेजो द्वैतीभूतं नमो नम : । कान्तं कल्याणनिलयं कलिताशेषकौतुकम् ॥
७५.कन्दर्पकोटिलावण्यं युवानं साम्बमीश्वरम् । मङ्गलाय महस्तोमप्रस्तुताश्चर्यरूपिणे ॥
७६.गौरीनाथाय नाथाय नमस्सोमार्धधारिणे । शिवाय परिपूर्णाय पूर्णानन्दाय वेधसे ॥
७७.महावृषभवाहाय महादेवाय ते नम : । शूलिने नीलकण्ठाय फालचन्द्रावतंसिने ॥
७८.भवाय भवनाशाय पशूनां पतये नम : । जय नाथ कृपादृष्ट्या वत्सं सेचय मां प्रभो ॥
७९.मा मुञ्च पादयुगलात् अनाथं त्वत्परिग्रहम् । एकस्मात् आगसो द्वाभ्यां त्रिभ्यो वा रक्ष मां मुहु : ॥
८०.बहुभ्यो हि महादेव मां पाहि करुणानिधे । त्वत्सन्निधिविधानेन हृष्टोऽस्मि नितरां विभो ॥
८१.आह्लादय कृपादृष्ट्या वृष्ट्या भुवमिवाम्बुद : । घर्मतप्तोऽध्वगोध्वानमतीत्य बहुयोजनम् ॥
८२.अङ्घ्रिपङ्केरुहच्छायमाप्तं पाहि जगद्गुरो । नवेद्मि त्वत्पदाम्भोजात् अपरं दैवतं परम् ॥
८३.अत एव महादेव त्वामस्मि शरणं गत : । प्रसीद गौरीनाथ त्वं प्रसीद गिरिजापते ॥
८४.प्रसीद सततं मह्यं नाथ कान्तिमतीपते । नमो वेणुवनेशाय महाकल्याणरूपिणे ॥
७५.हाटकाम्भोजिनीतीरवासिने शूलिने नम : । ताम्रातरङ्गसङ्क्लिन्नपादाम्भोजाय ते नम : ॥
८६.ब्रह्मवृद्धपुरीशाय पूर्वपूर्वाय ते नम : । इत्थं स्तुत्वा महादेवं कुंभयोनि : स्वभार्यया ॥
८७.आनन्दमन्थरो बाष्पलोलव्याकुललोचन : । पपात पादयोर्भक्त्या पश्यतां त्रिदिवौकसाम् ॥
८८.करुणासागरो देव : तमुत्थाप्य महामुनिम् । परिमृज्य स्वपाणिभ्यां प्रेम्णा चाभाष्य शङ्कर : ॥
८९.मेघगम्भीरया वाचा व्याजहार महेश्वर:। श्री सदाशिव : --सन्तु भद्राणि विप्रेन्द्र शाश्वतानि तवाधुना ॥
९०.प्रीतोऽस्मि तव कृत्येन स्तोत्रेणानेन भूयसा । तव प्रियार्थं दातुं मे नालं लोका : चतुर्दश ॥
९१.त्वमेवास्म्यहमव्याज त्वं चाप्यहमसि ध्रुवम् । आवयोर्नैव भेदोस्ति यथा पुष्पसुगन्धयो : ॥
९२.इत : परं कुंभयोने कर्तव्यं श्रुणु मत्प्रियम् । इत : पश्चिमभागे तु गत्वा योजनमात्रकम् ॥
९३.गौतमस्याश्रमं पुण्यं क्षेत्रे शौण्डीरकाह्वये । तत्रास्ति मामकं लिङ्गं तत्राभ्यर्च्य यथाविधि ॥
९४.धर्माधाराय दण्डाय स्थानं कृत्वा मदाज्ञया । तस्मात् पश्चिमभागे तु क्रोशमात्रे महामते ॥
९५.महदामलाख्यं क्षेत्रं गौतमस्य महामुने : । तत्र काचित् कुण्डनाम्नी राक्षसी घोररूपिणी ॥
९६.कोलाकारावनं सर्वं निर्मानुषमकारयत् । तां निगृह्य दुराधर्षां राक्षसीं कामचारिणीम् ॥
९७.तत्र लिङ्गं प्रतिष्ठाप्य लोकानां हितकाम्यया । पूजां कृत्वा यथाशास्त्रं प्राप्य सर्वं मनोगतम् ॥
९८.ततो गुप्तगिरिं गत्वा स्वाश्रमे स्वर्गसन्निभे । माम् उमां च यथाभक्त्याभ्यर्चयानो निरन्तरम् ॥
९९.ताम्रपर्ण्या च सहित : त्रीन् लोकान् पातुमर्हसि । अयि वत्से राजपुत्रि भर्तारमनुवर्तिनी ॥
१००.श्रेयांसि लप्स्यसे नूनं दुर्लभानि पदे पदे । इत्याश्वस्य मुनिं देवो लोपामुद्रां च तत्प्रियाम् ।
   भूयो मुनिवरं प्रीत्या प्रवक्तुमुपचक्रमे ॥

                                 इति षोडशोऽध्याय :     Pro.Total = 1016 + 100 =1116.

                                    सप्तदशोऽध्याय :

गौतमाश्रमे अगस्त्यागमने राक्षसीपैशाचयो : मोचनं सुरेन्द्रमोक्षादि तीर्थवैभवकथनपूर्वकं अगस्त्यकृतपुटार्जुनेश्वरस्तुति :

१.श्री सदाशिव : --श्रुणु ब्रह्मन् प्रवक्ष्यामि श्रेयसे जगतां पुन : ।
               एतत् हि परमम् क्षेत्रं मामकं ब्रह्मसंज्ञकम् ॥
२.दर्शनात् एव जन्तूनां भोगमोक्षैकसाधनम् । अस्यामुत्तरवाहिन्यांताम्रायां च विशेषत : ॥
३.क्षिप्तपुष्पकलं नाम तीर्थं परमपावनम् । ये मज्जन्ति पिबन्त्यम्भ : तेषां मोक्षो न संशय : ॥
४.तत्तीर्थकणिका येन पीता मूर्ध्नि धृतापि वा । स मे प्रियतमो ज्ञेयो मत्सायुज्यैकभाजनम् ॥
५.क्षिप्तपुष्पवतीतीर्थे स्नात्वा मां वरदं विभुम् । पश्यन्ति तेषां मर्त्यानां न मातुर्गर्भसंश्रय : ॥
६.क्षिप्तपुष्पवतीतीर्थें स्वर्णपुष्करिणीपय : । ज्योतिर्लिङ्गार्चनं चैव मत् रूपस्य च दर्शनम् ॥
७.कान्तिमत्या : पदद्वन्द्वे नमस्या पुरुषोत्तमे । एतानि मुक्तिलोकस्य साक्षात् सोपान पद्धति : ॥
८.पश्यन्ति मामकं क्षेत्रं मन्सा चक्षुषापि वा । तेषां नियन्ता नैव स्यात् मुने वैवस्वतो यम : ॥
९.अत्र जप्तं हुतं दत्तं तदनन्तफलं स्मृतम् । परायाश्च विभूते : च ताम्राया : चोलपस्य च ॥
१०.अन्तरालं जगत् ब्रह्मक्षेत्रं ज्योतिर्मयं ध्रुवम् । म्रियन्ते जन्तव : ते तु देवि मुक्ता न संशय : ॥
११.विनश्यन्ति हि पापानि महाभैरवशासनात् । तस्मात् नैव त्यजेत् क्षेत्रं मुक्तिकाम : प्रयत्नत : ॥
१२.कुंभयोने त्वमनयाधर्मपत्न्या समन्वित : । प्रतिवर्षं समागत्य चैत्रे मासि विशेषत : ॥
१३.सङ्क्रमे पूर्णिमास्यां तु मामर्चयितुमर्हसि । एवं तमनुशास्यात्र कुंभयोनिं सदाशिव : ॥
१४.मालां मणिमयीं अस्मै दत्वा चूडामणिं तथा । समालिङ्ग्य भुजाभ्यां तु प्रेषयामास शङ्कर : ॥
१५.महारत्नानि संप्राप्य कान्तिमत्या प्रसादत : । लोपामुद्रा धर्मपत्नी संप्राप परमां श्रियम् ॥
१६.वरान् संप्राप्य बहुलान् संप्रहृष्ट : स्वभार्यया । शिवं प्रदक्षिणीकृत्य देवीं च जगदम्बिकाम् ॥
१७.हयग्रीवमुखैर्विप्रै : आरुरोह रथं पुन : । आमन्त्र्य देवान् सिद्धान् च नन्दिभृङ्गिमुखान्यपि ॥
१८.हरिं प्रनम्य प्रययौ सरथ : पश्चिमां दिशम् । देवान् प्रस्थाप्य देवोऽपि तत्रैव शिवया सह ॥
१९.अद्यापि वसते नित्यं वरद : सर्वदेहिनाम् । एवं वेणुवनात् तस्मात् निर्गत्य कलशोद्भव : ॥
२०.देवदेवं महत् रूपं क्षेत्रम् च परमाद्भुतम् । स्मृत्वा स्मृत्वा स्वान्तरङ्गे देवं कल्याणसंभृतम् ॥
२१.जगाम परमामाशां वारुणीं वरुणोपम : । सिद्धै : गीतानि पुण्यानि ताम्राया : चरितानि वै ॥
२२.स्वानि पुण्यापदानानि मुनि : शृण्वन् महान्त्यपि । बद्धाञ्जलिपुटं लोकमनुगृह्याक्षिकोणत : ॥
२३.गौतमश्रमं पुण्यं प्रविवेश महामुनि : । आश्रमात् पूर्वभागे तु पतितं पर्वतोपमम् ॥
२४.कलेबरं समालोक्य लोपामुद्रातिविस्मिता । प्राञ्जलिर्मुनिशार्दूलं भर्तारमिदमब्रवीत् ॥
२५.लोपामुद्रा --ब्रह्मन् किमेतदाश्चर्यं पर्वताकारदर्सनम् । कलेबरमिवाभाति कस्येदमि कथ्यताम् ॥
२६.अगस्त्य : --श्रुणु पूर्वतनं भद्रे वृत्तान्तं रोमहर्षणम्। एकतस्य मुनेरासीत् सत्याया : कापि कन्यका ॥
२७.नाम्ना कुंभीनसी ख्याता रूपेणाप्रतिमा भुवि । सर्वज्ञा धर्मशीला च पितॄन् शुश्रूषणे रता ॥
२८.क्रीडन्ती विपिने बाला मेघे विदुल्लता यथा । चचार पुष्पोच्चयं कुर्वाणा सा ततस्तत : ॥
२९.ददर्श गौतमसुतं बालकं ब्रह्मचारिणम् । तावुभौ स्नेहसंपन्नौ समाभाष्य परस्परम् ॥
३०.चेरतु : विपिनोद्देशे क्रीडावैशिष्यवेदिनौ । क्वचित् पुष्पै : क्वचित् पत्रै : क्वचित् पुत्तलिकापरै : ॥
३१.गृहारामादिकं गत्वा सैकतेषु समुत्सुकौ । शतानन्दं समाहूय कन्या वचनमब्रवीत् ॥
३२.त्वमत्र च गृही भूया : गृहिण्यस्मि महामते । त्वमग्नौ जुहुतीशानमभ्यर्च्य विधानत : ॥
३३.पचाम्यन्नमहं सम्यक् नानाव्यञ्जनसंयुतम् । इत्येकाग्रधिया सर्वं चक्रतु : प्रीतिपूर्वकम् ॥
३४.औपासनं वैश्वदेवं पञ्चयज्ञक्रियामपि । देवपूजां तथा कृत्वा तथाप्यतिथिसत्क्रियाम् ॥
३५.शयनं भोजनं चैव योग्यं चैव मृषाक्रियौ । समुत्सुकौ प्रीतियुतौ विधाय सह कौतुकात् ॥ 
३६.वने विक्रीडतोरेवं महान् कालोऽप्यवर्तत । तावन्महामुनिश्श्रीमान् गौतम : तपसां निधि : ॥
३७.वैश्वदेवादिकं कृत्वा भोजनाय निजात्मजम् । आजुहावाश्रमद्वारि सोऽप्यगात् भयविह्वल :॥
३८.तं दृष्ट्वा व्रतविभ्रष्टं निस्तेजसममुं मुनि : । ज्ञात्वा सर्वं ज्ञानदृष्ट्या कोपात् तमभाषत ॥
३९.गौतम : --दुर्बुद्धे कुत्सितं कर्म कृतवानसि बालिश । तस्मात् पिशाचभूतस्त्वं वने वस्तुमिहार्हसि ॥
४०.यथा ताम्रानदीतोयबिन्दुभिर्युज्यसे भवान् । तावत् विमुक्तशापस्तु माम्भ्येतुं त्वमर्हसि ॥
४१.या सा कुंभीनसी पापमेवं कृतवती किल । तस्मात् अस्मिन् वने घोरा राक्षसी विचरिष्यतु ॥
४२.यथा धर्मधरो दण्ड : पतत्यस्मिन् वने शुभे । तस्य स्पर्शनमात्रेण शरीरं शैलसन्निभम् ॥
४३.पतिष्यते निशाचर्या : तत् भूय : तीर्थसंगमात् । स्वरूपं यातु कल्याणं तत्र श्रेयो भविष्यति ॥
४४.इत्युक्त्वा तावुभौ क्रोधात् गौतमो मुनिसत्तम : । सभार्य : साग्निहोत्र : च हिमाद्रौ वसतिं व्यधात् ॥
४५.इत्थं प्रवर्तमानायां गतायां तत्र कानने । आजगाम महावेगात् बाल : पैशाचतां गत : ॥
४६.कलशेन समानीय ताम्राया : तीर्थमुत्तमम् । प्रोक्षयामास भगवान् कुंभयोनिर्मुदान्वित : ॥
४७.यदम्भ:कणसंयोगात् ब्रह्मचारी मुनेस्सुत : । निर्मुक्तशापस्सहसा प्रकृतिं प्रत्यपद्यत ॥
४८.ब्रह्मदण्डाहते देहे सङ्क्लिन्ने तीर्थवारिणा । विमुक्तशापा सा बालाभुदतिष्ठन्मनोरमा ॥
४९.ब्रह्मदण्डोऽपि तां हत्वा राक्षसीं घोरदर्शनाम् । स्नात्वा मलयजातीर्थे शापमुक्तोऽभवत् तथा ॥
५०.एकत :गौतमश्चापि साग्निहोत्रपुरस्कृत : । अभ्यायातां महात्मानौ यत्रास्ते कुंभसंभव : ॥
५१.तथान्योन्यमभिष्टूय बभूवु : प्रीतमानसा : । गौतम : --कुंभयोने महाभाग त्वमेव जगतां गुरु : ॥
५२.एनामानयता ताम्रां भवता भवहारिणीम् । महीयं महती जाता स्वर्गात् अपि गरीयसी ॥
५३.त्वया विश्वमिदं पापात् परित्रातं न संशय : । देवाश्च ऋषयस्सर्वे त्वयि तुष्टा : सनातना : ॥
५४.शिवक्षेत्रमिदं पुण्यमाश्रमं मामकं पुरम् । एभि : आगत्य मुनिभि : त्वया निष्कण्टकिकृतम् ॥रो
५५.एष माणवको वत्स : शापात् मुक्त : त्वया मुने । मत्पुत्र : पालनीयस्ते पुत्रवत् बाल्य एव स : ॥   ५६.एषापि तनया बाला ह्येकतस्य महामुने : । तारिता शापनिर्बन्धात् त्वया सर्वहितात्मना ॥
५७.अयं धर्मधरो नाम दण्डो पैतामहो महान् । अस्य क्षेत्रस्य रक्षार्थमागतो देवचोदित : ॥
५८.एभिस्सर्वमुनिश्रेष्ठै : वस्तव्यं भवता मुने । इत्थमुक्त्वाभिवन्द्यैतान् मुनीन्पीतिपूर्वकम् ॥
५९.स्वपुत्रं च परिष्वज्य मूर्ध्न्युपाघ्राय हृष्टधी : । सन्तोषं परमं प्राप शशाङ्कमिव वारिधि : ॥
६०.एकतोऽपि स्वतनयां समाश्वास्य तया ययौ । एकतो गौतम : चैव ब्रह्मदण्डश्च धर्मधृत् ॥ 
६१.कुंभसंभवसंयुक्तौ जग्मतु : निजमाश्रमम् । एवं तु मुनिशार्दूलै : अन्वित : कुंभसंभव : ॥
६२.प्रविवेश मुदायुक्त : क्षेत्रं शौण्डीरकाह्वयम् । इन्द्रपादपगर्भस्थं शांभवं लिङ्गमद्भुतम् ॥
६३.ददर्श पर्मानन्दं कन्दर्पाकारविग्रहम् । तप:फलमिवाशेषसारभूतमिवाङ्कुरम् ॥
६४.दीप्यमानमिवादित्यं कौस्तुभात् इव कौस्तुभम् । दुग्धाब्धिमथनोद्भूतसुधापिण्डमिवोत्थितम् ॥
६५.अशेषोपनिषद्गर्भगृहदीपाङ्कुरं परम् । महेन्द्रतरुगर्भस्थं लिङ्गमालोक्य विस्मित : ॥
६६.तस्य पश्चिमभागे तु गजेन्द्रं नाम मोक्षदम् । तत् दृष्ट्वा तीर्थराजं च कृतकृत्योऽभवन्मुनि : ॥
६७.तस्य दक्षिणभागे तु तीर्थं गौतमसंज्ञितम् । यत्रेश्वराज्ञया प्रापु : तीर्थानां मण्डलं रवे : ॥
६८.तत्र स्नात्वा मुनिवरै : अबित : कुंभसंभव : । तर्पयित्वा पितॄन् देवान् ऋषीन् च सह भार्यया ॥
६९.तस्मात् दक्षिणत : किञ्चित् तीर्थं पैशाचमोचनम् । यत्र स्नाता नरास्सर्वे न पश्यन्ति यमालयम् ॥
७०.तस्य दक्षिणभागे तु तीर्थं तेज:करम्बितम् । श्रीदण्डपावनं नाम महापातकनाशनम् ॥अ
७१.येऽत्र मज्जन्ति नियता जन्तवो मोक्षभागिन : । सर्वान् कामानवायेह मुक्तिमन्ते व्रजन्ति हि ॥
७२.तस्य दक्षिणभागे तु ताम्रपर्ण्या महानद् । घटना सङ्गता यत्र तत्र स्नानात् महत् फलम् ॥
७३.घटनायमुनाताम्रागङ्गाप्यन्त:सरस्वती । अत : त्रिवेणी सङ्गे तु स्नानं य : कुरुते नर : ॥
७४.सर्वान् कामानवाप्यैव शिवसायुज्यमाप्नुयात् । तस्य दक्षिणभागे तु माण्डव्यं तीर्थमुत्तमम् ॥
७५.यत्र स्नाता नरा यान्ति ब्रह्मलोकं तु पावनम् । गजेन्द्रमोक्षस्योत्तरत : तीर्थं वैनायकं महत् ॥
७६.य : करोति सकृत् स्नानं स दीर्घायु : सुखी भवेत् । तस्याप्युत्तरपार्श्वे तु कर्मतीर्थं शुभावहम् ॥
७७..तदम्भ: स्पर्शनात् नॄणां कर्मपाशविमोचन : । तस्याप्युत्तरत : किञ्चित् राक्षसीमोचनं परम् ॥
७८.तस्य दर्शनमात्रेण नर : पापात् प्रमुच्यते । येषु तीर्थप्रधानेषु स्नात्वा दत्वा यथाविधि ॥
७९.देवम् प्रदक्षिणीकृत्य पुटार्जुनपुरेश्वरम् । गोमतीं च नमस्कृत्य सर्वलोकैकमातरम् ॥
८०.शिवमाराधयामास विधिना मन्त्रतन्त्रवित् । दीपै : धूपै : च नैवेद्यै : गन्धपुष्पाक्षतातिभि : ॥ 
८१.पूज्यान्ते परया भक्त्या तुष्टाव परमेश्वरम् ।अगस्त्य : --ओं नमस्सर्वभूतानां सृष्टिस्थित्यन्तकारिणे ॥
८२.सर्वकारणरूपाय तरुकोटरवासिने । हरिनेत्रार्पितं देवं हालाहलविषादकम् ॥ 
८३.आश्रिताभ्युदयं नित्यं पुटार्जुनमुपास्महे । सुगन्धं सुन्दरं शुभ्रं सोमाकलितमौलिकम् ॥
८४.परानन्दरसाभिख्यं पुटार्जुनमुपास्महे । गङ्गाधरं शशिधरं गौर्या वामार्धविग्रहम् ॥
८५.वासुदेवप्रियं शान्तं पुटार्जुनमुपास्महे । कालकालं (शूल)कलाधरं भवं भक्तभयापहम् ॥
८६.पार्वतीसहितं भव्यं पुटार्जुनमुपास्महे । मोक्षस्थानं मुमुक्षूणां भोगस्थानं तु भोगिनम् ॥
८७.उमादेहार्धशम्भुं तं पुटार्जुनमुपास्महे । रवीन्दुवह्निनयनं रामारमणवन्दितम् ॥
८८.कर्पूरगौरं पुरुषं पुतार्जुनमुपास्महे । प्रमाणं प्रणवार्थानां कान्तं कान्तार्धविग्रहम् ॥
८९.रविकोटीप्रतीकाशं पुटार्जुनमुपास्महे । शङ्खकुन्देन्दुसङ्काशं कर्पूरोदारविग्रहम् ॥
९०.कन्दलत्करुणामूर्तं पुटार्जुनमुपास्महे । नमश्शिवायामलविग्रहाय नताभिलाषैकसुरद्रुमाय ॥  ९१.नवेन्द्रवृषोदरवाहनाय नमो नमश्चन्द्रविभूषणाय । इति स्तुत्वा महादेवं भक्तिप्रणतया गिरा ॥
९२.पपात पादयो : शम्भो : दण्डवत् कुंभसंभव : । तावल्लिङ्गात् समुत्तस्थौ अर्धनारीश्वरश्शिव : ॥
९३.तं भुजाभ्यां समुत्थाप्य बहुमान्य सदाशिव : । स्मितपूर्वंमुवाचेदं लोपामुद्रापतिं मुनिम् ॥
९४.गौतमं प्रीणयित्वैव सान्त्वयित्वैकत्मेव च । ततो गन्तासि मलयं विधायाभिहितं मया ॥
९५.इत्युक्त्वा शङ्करो भूय : लिङ्गे चान्तरधीयत । अन्तर्हिते भगवति कुंभभूरतिविस्मित : ॥
९६.हयग्रीवमुखैस्सार्धं परमानन्दमवाप्तवान् । एकतस्य सुतां बालां नाम्ना कुंभीनसीं मुनि : ॥
९७.शतानन्दाय बालाय धारापूर्वं ददौ तदा । तदादि परमं क्षेत्रं कल्याणं नगरं विदु : ॥
९८.विमुक्तो ब्रह्महत्याया : शच्यात्रहि शतक्रतु : । सुरेन्द्रमोक्षमित्याहु : एतत् क्षेत्रमतस्सुरा : ॥
९९.अर्जुनद्रुमगर्भस्थो यत्र शम्भु : प्रदृश्यते । पुटार्जुनपुरं नाम्ना प्रशस्तं भुवनत्रये ॥
१००.दण्डाटवीमिति प्रोचु : ब्रह्मदण्डनिवासत : । इत्थमाश्चर्यमालोक्य शिवक्षेत्रं घटोद्भव : ॥
१०१.शिवं प्रदक्षिणीकृत्य तावामन्त्र्य मुनीश्वरौ । नारदप्रमुखैस्सिद्धै : हयग्रीवमुखैर्द्विजै : ॥
१०२.समारुह्य विमानं तं लोपामुद्रासमन्वित : । संप्रतस्थे महातेजा : स्तूयमान : सुरासुरै : ॥

                          इति सप्तदशोऽध्याय :    Pro.Total =1116 + 102 =1218.

                             अष्टादशोऽध्याय :

            गोष्ठीश्वरलिङ्गप्रतिष्ठापनपूर्वकं अगस्त्यकर्तृका गोष्ठीश्वरस्तुति :

१.श्रुणु राजन् प्रवक्ष्यामि चरितं कुंभजन्मन : । यस्या : श्रवणमात्रेण नर : पापै : प्रमुच्यते ॥
२.अत्रि : कपिञ्जलो व्यास : सुमन्थु : नारदस्तथा । तुम्बुरु : पर्वतश्चैव धर्मात्मा वरुणात्मज : ॥
३.अगस्त्यं प्रमुखीकृत्य घटनाताम्रासङ्गमे । स्नात्वा यथान्यायं काल्यं कर्म समाप्य च ॥
४.प्रययौ रथमास्थाय धात्रीवनमुपागमत् । तन्मेरुशिखराकारं विमानं कुंभजन्मन : ॥
५.नानामणिगणाकीर्णमुल्लिखन्तमिवाम्बरम् । किङ्किणीजालसन्नादं पताकाध्वजमण्डितम् ॥
६.सूर्यवैश्वानरप्तख्यं नेमिनादसमन्वितम् । प्रचचाल महानादं मुनिबृन्दनिषेवितम् ॥
७.प्रविवेश वनं घोरं नानाद्रुमलतायुतम् । झिल्लिकाघणसन्नादं नानापक्षिसमाकुलम् ॥
८.आवासमिवदैत्यानामालयं रक्षसामिव ॥आतङ्कानामिव कुलमामयानामिवास्पदम् ॥
९.एवमेतत् वनं घोरं प्रविशन् एव कुंभभू : । ददर्श भीषणाकारां राक्षसीं सूकराननाम् ॥
१०.उत्क्षिपन्ती च पाषाणान् कोणाग्रेण ततस्तत : दारयन्ती नखैस्तीक्ष्णै : भारयन्ती महीतलम् ॥
११.चक्षूंषि पांसुवर्णेन मुष्णन्ती पश्यतां मुहु : । क्षोभयन्ती जगच्चक्रं महानादेन राक्षसी ॥
१२.द्रवयन्तीव भूतानि महावारीव संक्षये । द्रवतामेव सर्वेषां साध्वाविष्टचेतसाम् ॥
१३.महानाद : समभवत् त्राहि त्राहीति भूपते । वित्रस्तान् धावमानान् च पुरस्तात् शरणागतान् ॥
१४.दृष्ट्वा कोपसमाविष्ट : हुङ्कारमकरोन्मुनि : । तदानीमभवत् तस्मात् हुङ्कारादग्निसन्निभ : ॥
१५.दंष्ट्राकरालवदन : महोल्काकारलोचन : । शीघ्रं गत्वा स पुरुष : तां जघान निशाचरीम् ॥
१६.तावत् तद्गदया भग्नमस्तिष्का राक्षसी तथा । निपपात वने घोरे वज्रभिन्नाद्रिसन्निभा ॥
१७.तद्विग्रहं समारुह्य पुरुष : पर्वतोपमम् । पुन : सन्तापयामास सर्वत : तत् वपुर्मुहु : ॥
१८.तद्गदाभिन्नमस्तिष्का निपपात ममार च । तस्यां हतायां राक्षस्यां सर्वे मुमुदिरे जना : ॥
१९.अगस्त्योऽपि महातेजा : सन्तुष्ट : तेन कर्मणा । तं प्रीणयित्वा पुरुषं वचनं चेदमब्रवीत् ॥
२०.त्वया कृतमिदं कार्यं सर्वलोकहितेप्सुना । त्रीन् लोकान् प्रीणयत्येव मम प्रीतिं वितन्वता ॥
२१.निरामयमिदं क्षेत्रं निष्कण्टकमिदं कृतम् । रक्ष:कलेबरं भीममद्रिकूटसमप्रभम् ॥
२२.त्वद्वीर्यदर्शनायैव शिलारूपं भविष्यतु । गजारूढ इवात्रैव स्थातुमर्हसि सन्ततम् ॥
२३.अनेकपरिवारेण संयुक्तो बलशालिना । पालयन् त्वमिदं क्षेत्रं यावदाभूमिसंप्लवम् ॥
२४.स्नात्वा त्वामर्चयिष्यन्ति सौन्दर्यारोग्यकाङ्क्षिण : । तमित्थमनुशास्यात्र सर्वै : संभावितो मुनि : ॥
२५.विकीर्यमाण : कुसुमै : देवैश्च सह किन्नरै : । अत्र नारदमुख्यै : च हयग्रीवेण संयुत : ॥
२६.शुचौ देशे महातेजा : लिङ्गं संस्थापयन् मुनि : । सुलग्ने सुदिने सुद्धे शुभग्रहनिरीक्षिते ॥
२७.मुहूर्ते गुरुहोरायां लोपामुद्रासमन्वित : । लिङ्गं संस्थापयामास सैकतं शाम्भवं शुभम् ॥
२८.क्रियमाणे तथा लिङ्गे शैथिल्यमुपजग्मुषु । पुन:पुन: परिश्रान्त : पुन: शैथिल्यमेयुषि ॥
२९.किमियं भवता शम्भो गोष्ठीमयी विभाव्यते । इति जल्पन् समुद्विग्नहृदय : कलशीसुत : ॥
३०.उभाभ्यामेव पाणिभ्यामुरसा श्रद्धया सह । आलिलिङ्गे महादेवं द्रढीकुर्वन् इव स्वयम् ॥
३१.एवमुक्ते परिश्रान्ते मुनौ तस्मिन् सदाशिव : । सिकतत्वेऽपि भगवान् स्थिरलिङ्गोऽभवत् क्रमात् ॥
३२.एवं लिङ्गं प्रतिष्ठाप्य पूजयामास भक्तित : । पूजान्ते स मुनि : पत्न्या नमस्कृत्य प्रसाद्य च ॥
३३.सङ्कुचत्कमलाकारं मौलावञ्जलिमुद्वहन् । नताङ्गयष्टि : पुरत : तिष्ठन् तुष्टाव शङ्करम् ॥
३४.अगस्त्य : --देवदेव महादेव भक्तानामार्तिभञ्जन । पुराणदेव देवेश गोष्ठीश्वर नमोऽस्तु ते ॥
३५.धर्मार्थकाममोक्षाणां संप्रदानाय शङ्कर । सान्निध्यं कुरु चैवात्र गोष्ठीश्वर नमोऽस्तु ते ॥
३६.ताम्रपर्णीनदीमध्ये सन्निधीभव सन्ततम् । तीर्थरूपी भवानीश गोष्ठीश्वर नमोऽस्तु ते ॥
३७.नमस्त्रैलोक्यनाथाय त्रयीनाथाय शम्भवे । त्रिपुरान्तकरूपाय गोष्ठीश्वरनमोऽस्तु ते ॥
३८.ब्रह्मोपेन्द्र्योगीन्द्रपूजिताङ्घ्रिसरोरुहे । कामारे पार्वतीकान्त गोष्ठीश्वर नमोऽस्तु ते ॥
३९.विश्वात्मन् सर्वविश्वेश विश्वसंरक्षणक्षम । विश्वमूर्ते विरूपाक्ष गोष्ठीश्वर नमोऽस्तु ते ॥
४०.ब्रह्मादिपञ्चरूपेण पञ्चकृत्यविधायिने । पञ्चब्रह्मस्वरूपाय गोष्ठीश्वर नमोऽस्तु ते ॥
४१.पञ्चपातकनाशाय पार्वतीसहिताय च । सगणाय सपुत्राय गोष्ठीश्वर नमोऽस्तुते ॥
४२.ताम्रानदीतीरसुभूषणाय समाश्रितानां च सुखप्रदाय ।
   नित्याय शुद्धाय निरूपमाय श्रीगोष्ठिनाथाय नम:शिवाय ॥ 
४३.भस्माङ्गरागाय करीन्द्रचर्मकृतोत्तरीयाय नम:शिवाय ।
   वृषेन्द्रवाहाय वृषध्वजाय श्रीगोष्ठिनाथाय नम:शिवाय ॥
४४.नम:शिवायामलचित्तवासप्रियाय नागेन्द्रसुभूषणाय ।
   वामार्धगौरीपरिरम्भणाय श्री गोष्ठिनाथाय नम:शिवाय ॥
४५.अद्य मे सफलं जन्म अद्य मे सफलं तप : । अद्य मे सफलं ज्ञानं शम्भो त्वत्पादसेवनात् ॥
४६.कृतार्थोऽहं कृतार्थोऽहं कृतार्थोऽहं महेश्वर । अद्य ते पादपद्मस्य दर्शनात् भक्तवत्सल ॥
४७.वयं धन्या वयं धन्या वयं धन्या जगत्त्रये । आदिदेवो महादेव : यदस्मत् कुलदैवतम् ॥
४८.शिवश्शम्भुश्शिवशम्भु : शिवश्शम्भुश्शिवश्शिव : । इति व्याहरतो नित्यं दिनान्यायान्तु यान्तु मे ॥
४९.शिवे भक्ति : शिवे भक्ति : शिवे शिवे । सदा भूयात् सदा भूयात् सदा भूयात् सदा मम ॥
५०.इति स्तुत्वा महादेवं स्तोत्रै : दिव्यै : स्वसूक्तिभि : । आनन्दमग्नहृदय : तूष्णी क्षणमतिष्ठत ॥
५१.तवदाविरभूत्तस्मात् महालिङ्गात् सदाशिव : । अर्धं मरकतश्यामर्धं चन्द्रपाण्डुरम् ॥
५२.नरनारीमयं बिभ्रत् वपु : सौन्दर्यसद्वृतम् । उद्यद्दीप्तोत्तराकारं दीप्तानलसमप्रभम् ॥
५३.करुणामृतकल्लोलवेल्लितापाङ्गभास्वरम् । वामाङ्गस्तनसम्सक्तहारेणेकविराजितम् ॥   
५४.गङ्गाधरं शशिधरं शूलटङ्कमृगं धरम् । एवं प्रकाशमनेन वपुषा राजसात्मना ॥
५५.आविर्भूतो मुनिश्रेष्ठं बभाषे वचनं तदा । श्री भगवान् --महामुने प्रसन्नोऽस्मि स्तोत्र्णानेन भूयसा ॥
५६.अस्य स्तोत्रस्य पठनं महालिङ्गस्य दर्शनम् । मज्जनं चैव ताम्रायां त्रयं मत्प्रीतिकारणम् ॥
५७.एभि : मुनिवरैस्सार्धमत्र स्नानमकल्मषै : । त्वया तस्मात् महातीर्थे मुनितीर्थं भविष्यति ॥
५८.मल्लिङ्गात् दक्षिणे भागे ताम्रायामुत्तरे तटे । मुनितीर्थे च य : स्नात्वा मल्लिङ्गं प्रणमेत् मुने ॥
५९.तस्य दास्याम्यहं नित्यं ऐहिकामुष्मिकं सुखम् । यत्रोदीचीमुखा ताम्रा वर्तते चातिपावनी ॥
६०.आवर्तपङ्क्तय : तत्र प्रवर्तन्ते मदग्रत : । तत्र स्नात्वा तु यो मर्त्य : मामर्चयति सादरम् ॥  
६१.स भुक्त्वेव महाभोगान् अन्ते मामुपगच्छति । अत्रैव न्यवसत् लिङ्गे त्वया संस्थापिते शुभे ॥
६२.पार्वत्या सह भक्तानां प्रीतिं दास्ये परां सदा । अस्तु सा दक्षिणावर्ते तीर्थं मच्चित्तमर्हणे ॥
६३.स्नात्वा भैवमाराध्य कोलारिमपि पूज्य च । मल्लिङ्गं मधुनासिच्य नभूय : तनुमान् भवेत् ॥
६४.त्वत्पाणिमुद्रां बिभ्राणो दर्शयन् भक्तवश्यताम् । वहामि नियतं प्रीत्या यावदाचन्द्रतारकम् ॥
६५.नित्यं शशाङ्कात् बिन्दूनि पीयूषस्य पुन:पुन : । संपतत्न्तीह मल्लिङ्गे बिन्दुस्थानमिदं भवेत् ॥  
६६.राक्षस्या कर्शितं क्षेत्रं नखरै : विशिखैरिव । तस्मात् सर्वे प्रशंसन्तुनखारण्यमिदं मुने ॥
६७.प्रतिवर्षमिहागत्य भवता मुनिपुङ्गव । अर्चनीयो महालिङ्गो मन्त्रै : प्रीतिवृद्धये ॥
६८.गच्छ साधय शैलेन्द्रं धर्मपत्न्या समन्वित : । श्रेयांसि तव भूयाम्सि बवन्तु मदनुग्रहात् ॥
६९.इत्थमुक्त्वा महाराज कुम्भयोनिमुमापति : । अनुशास्य पुनस्तस्मिन्लिङ्गे देव : तिरोदधे ॥
७०.तस्मिन् अन्तर्हिते देवे कुम्भयोनिर्महामना : । वरान् लब्ध्वा महादेवात् पुन : संपूज्य शङ्करम् ॥
७१.क्षेत्रं प्रदक्षिणीकृत्य सर्वा आमन्त्र्य देवता : । पुन:पुन : नम्स्कृत्य प्रीत्या प्रमायान्वित : ॥
७२.समीयाय महाशैलं देवैश्च मुनिभिस्सह । गोष्ठीशस्य प्रसादेन क्षेत्रं काशिसमं विदु : ॥
७३.अद्यापि दृश्यते शम्भो : तत् क्षेत्रे भक्तवश्यता । पाणिमुद्रा कुम्भयोने : मालामिव समुद्वहन् ॥
७४.अद्यापि भगवान् आस्ते यथा कैलासपर्वते । तत्रार्चनीयो गौरीशो जन्तुभि : मोक्षकाङ्क्षिभि : ॥
७५.पञ्चास्यं वपुषि पदौ महतामगस्त्य : साकं सुरै : मुनिगणै : अपि सिद्धमुख्यै : ।
   प्रीत्या त्रिवारमिह शम्भुमनन्यचेता : प्राप्यार्चयत्यपिमताभ्युपास्य सिद्धै : ॥
७६.गोष्ठीशमत्रविधिना मुनिरर्चयित्वा स्नात्वा जपन्स सलिले मलयात्मजाया : ।
   प्रत्यब्दमाप्तसक्लाभिहितो महात्मा भूय : स्वमाश्रममुपाविशते स्वपत्न्या ॥
७७.तस्मात् अवश्यमभिलाषिभिरात्मसिद्ध्यै तत्रैकवारममलाम्भसि ताम्रपर्ण्या : ।
   स्नातव्यमेव भगवान् अपि पूजनीय : गोष्ठीश्वर : खलु कुतूहलतोऽपि मर्त्यै : ॥
७८.एवं विचित्रमहिमास्पदमेष पुण्यं क्षेत्रं विभाव्य मनसा महनीयकीर्ति : ।
   कुम्भात्मज : सह तुरङ्गमुखादिमुख्यै : प्रायात् रथेन मलयादिमसौ जवेन ॥  

                              इति अष्टादशोऽध्याय :        Pro.Total = 1218 + 78 =1296


                               एकोनविंशोऽध्याय :

                गजेन्द्रकीलादिक्षेत्रागमनपूर्वकम् स्वाश्रमं प्रति अगस्त्यागमनम्

१.शङ्ख : --अथात : कथयिष्यामि प्रभावं कुम्भजन्मन ; । यस्मिन् श्रवणसंस्पृष्टे प्राणायामादिकं फलम्॥
२.श्रूणु राजन् यथावृत्तं मुनिनाचरितं पुरा । भृङ्गाश्रमे महादेवं स्थाप्य विन्ध्याद्रिमर्दन : ॥
३.पूज्य लब्ध्वा वरान् सर्वान् हयग्रीवमुखैस्समम् । पुन : शताङ्गमारुह्य कंपमानमाहाध्वजम् ॥
४.संवृत : सिद्धनिकरै : अमरै : वरुणादिभि : । आससाद महाशैलं मलयं सिद्धसेवितम् ॥
५.यत्र् पूर्णाकुमुद्वत्यौ ताम्राया : सङ्गमे शुभे । तत्र तीर्थं महापुण्यं महापातकनाशनम् ॥ 
६.तत्रावतीर्य भगवान् मुनिर्वातापिनाशन : । स्नात्वा माध्याह्निकं कर्म चकार विधिपूर्वकम् ॥
७.तावत् ऐरावतारूढो सहस्राक्ष : शचीपति : । आससादाअब्धिपो प्रीत्या सर्वै स्सह मरुत्गणै : ॥
८.तमागतमभिष्टूय पूजयामास वज्रिणम् । समासीनेषु सर्वेषु मिलितेषु कुतूहलात् ॥
९.आदत्ते वचनं प्रीत्या बिडौजा कलशीसुतम् । अहो महोदयमिदं जगतां भवता कृतम् ॥
१०.इयं मही महाभागा स्र्वर्गात् अपि गरीयसी । यत्र सत्यं तप : शौचमार्जवं प्रियकर्तृता ॥
११.समता सौमनस्यं च वर्तते नियतं सदा । तत्र देवा : च मन्त्राश्च तीर्थानि सकलान्यपि ॥
१२.तस्मात् त्वत्तो न पश्यामि परमाधारमूर्जितम् । त्वया महीयं कल्याणी विहिता साधु भारती ॥
१३.त्वयि शम्भुर्हरिर्ब्रह्मा त्वयि गौरी प्रतिष्ठिता । त्वय्येव कमला वाणी त्वयि सर्वे च संस्थिता ॥
१४.त्व्द्दर्शनैव पूजा च त्वद्ध्यानं ब्रह्मभावना । त्वद्दर्शनमहं मन्ये ब्रह्मानन्दैकदर्शनम् ॥
१५.त्वं गुरुर्जगतां ब्रह्मन् त्वमेक : पालक : प्रभु : । तस्मात् अहं महाभाग त्वां सेवितुमिहागत : ॥
१६.लोपामुद्रा धर्मपत्नी तव पापविनाशिनी । साक्षात् देवी लोकमाता पावनी नात्र संशय : ॥
१७.युवयोर्दर्शनात् अद्य कृतार्थोऽस्मि महामुने । एनामानयता ब्रह्मन् त्वया मलयनन्दिनीम् ॥
१८.मोक्षभूमिरियं जाता दक्षिणा दक्षिणा मही । यस्मात् वाञ्छन्त्यमर्त्यत्वमत्र ब्रह्ममुखा अपि ॥
१९.त्वया लोकहितायैव पुरा चुलुकितोऽर्णव : । विन्ध्यो नियमित : कोपात् वातापि : कबलीकृत : ॥
२०.दुष्कराणि त्वदन्यैस्तु जनै : ब्रह्माण्डगह्वरे । एतानि ते चरित्राणि त्रीन् लोकान् न पुनाति किम् ॥
२१.कृतार्थोऽस्मि कृतार्थोऽस्मि कृतार्थोऽस्मि च दर्शनात् । अत्र वर्षन्तु मेघा : काले काले यथोचितम् ॥ 
२२.न भवन्तु जना : पापा : न भवन्तु क्षयादय : । शरीरमानसा : तापा : मार्यरिष्टादय : तथा ॥
२३.पुष्णन्तु सर्वसस्यानि तीरयोरुभयोरपि । देवा : प्रसादं कुर्वन्तु वर्धन्तां च तपांसि व : ॥
२४.चापमेयुषि वै भानौ पञ्चदश्यां महामुने । मां भजन्तु जनास्सर्वे माघे वा पुष्पसङ्गमे ॥
२५.अत्रैव हरिकीलाख्ये क्षेत्रेऽस्मिन् पावने शुभे । प्रत्यब्दमागमिष्यामि भवतां दर्शनाय वै ॥
२६.अनया धर्मपत्न्या त्वं प्राप्य निजमाश्रमम् । पितेव पालयन् लोकान् भद्रं प्राप्नुह्यविश्रमम् ॥
२७.इत्थमिन्द्र : समाभाष्य मुनिना कुम्भजन्मना । आमन्त्र्य सर्वान् ब्रह्मर्षीन् प्रस्थातुमुपचक्रमे ॥
२८.प्रदक्षिणीकृत्य मुनिमैरावतमुपस्थितम् । सह देवो महाराज ज्गाम त्रिदिवं पुन : ॥
२९.पुन : प्रतस्थेऽगस्त्योऽपि स्वाश्रमाय महामुनि : । तत : प्रचेता : प्रत्येत्य मुनिना चानुमोदित : ॥
३०.तत्तीर्थे स्थापयामास स्वनाम्ना लिङ्गमुत्तमम् । त्रिणदीसङ्गमात् किञ्चित् आग्नेय्यां पूर्वरोदसि ॥  
३१.धाराद्रे : पश्चिमे भागे वरुणेश्वरदर्सनात् । सर्वान् कामानवाप्नोति नर : पापै : विमुच्यते ॥
३२.तस्मात् दक्षिणत : किञ्चित् क्रमेण वरुणात्मजै : । स्थापितानि हि लिङ्गानि स्द्योमुक्तिप्रदानि हि ॥
३३.व्योमपुष्करिणीतीरे किञ्चित् ईशानभागत : । संस्थापितं नारदेन शांभवं लिङ्गमुत्तमम् ॥
३४.तद्दर्शनं महापुण्यं तत्तीर्थं पापनाशनम् । ताम्राया : पश्चिमे तीरे पैनाकात् उत्तरे तथा ॥
३५.स्थापितं कपिलेनैव दर्शनात् कामदम् नृणाम् । उत्तरेण तत : किञ्चित् कूर्माद्रेरपि पूर्वत : ॥ 
३६.कूले नद्या : पश्चिमे तु लिङ्गं तुम्बुरुपुजितम् । तत् समीपे मणिमयं दर्शनात् मुक्तिदं नृणाम् ॥
३७.पर्वतेन मुनीन्द्रेण यथावत् संप्रतिष्ठितम् । तयोर्दर्शनमात्रेण सिध्यन्ति घुटिकादय : ॥
३८.तस्मात् उत्तर्तो भागे श्यामकूटमहामुने । त्रिणदी सङ्गमे तीरे दक्षिणे कुण्ठकूटत : ॥
३९.इन्द्रकीलमितिख्यातं क्षेत्रमिन्द्रेण कीलितम् । तत्र ज्योतिर्मये पुण्ये सन्निदधत्ते सदाशिव : ॥
४०.तत्र प्रसादमकरोत् ताम्राया : शङ्कर : स्वयम् । तत्र कुम्भभव : श्रीमान् इन्द्रमाराध्य सादरम् ॥
४१.स्नात्वा हुत्वा यथान्यायं तर्पयित्वा पितॄन् विधि । पुनर्विमानमारुह्य हयग्रीवमुखैरपि ॥
४२.रमाक्रीडे समभ्यर्च्य यथावत् कपिलेश्वरम् । प्रायात् प्रसन्नसत्वाढ्यं हयग्रीवस्याश्रमम् ॥
४३.तत्र स्थित्वा त्रिरात्रं तु गुरुणा तेन सत्कृत : । संप्राप्य भूय : सौभाग्यनिलयं स्वाश्रमं मुनि : ॥
४४.प्राप्त : स्वाश्रममासाद्य सभार्यं कुंभसंभवम् । आपृच्छ्य वरुणो राजा सपुत्र : सह बन्धुभि : ॥
४५.स्वं लोकं संभ्रमाविष्टै : समियायानुयायिभि : । तत : कुंभभुवा राजा यक्षाणामनुपूजित : ॥
४६.पुष्पकेण विमानेन प्रययावलकापुरीम् । वायु : संयमिनी च तथैशानमुखा : सुरा : ॥
४७.बहुमान्य मुनिं सर्वे स्वानि स्वानि पदान्यगु : । अनसूयान्वितोऽद्रि : च कपिल : च महायशा : ॥
४८.तुम्बुरु : पर्वतश्चैव नारदश्च महामुनि : । एते चान्ये च बहव : संभाव्य कलशीसुतम् ॥
४९.पूजिताश्च यथान्यायं प्रययुश्च यथागतम् । एवमेतेषु यातेषु देवेषु मुनिभिस्सह ॥
५०.प्रविवेशाश्रमं पुण्यं सर्वत : शुभदर्सनम् । कादम्बरीवने पुण्ये त्रिरात्रमुषितो मुनि : ॥
५१.सोमारण्ये त्रिरात्रं तु दिनमेकं रमापुरे । वैकुण्ठे दिनमेकं तु शराटव्यां दिनद्वयम् ॥
५२.लालङ्के शंबरक्षेत्रे दिनमेकं निनाय स : । पञ्चरात्रं वेणुवने दिनं व्यासाश्रमे तथा ॥
५३.इन्द्रपादपगर्भे तु स्थित्वा चैव दिनत्रयम् । नखारण्ये त्रिरात्रम् तु हरिकीले दिनत्रयम् ॥
५४.उवास मैत्रावरुणि : त्रिरात्रं गुरुसन्निधौ । ज्येष्ठे मासि सिते पक्षे द्वादश्यामर्कवासरे ॥
५५.विशाखयुक्ते चन्द्रे च लग्ने शुभनिरीक्षिते । शुभ युक्ते मुहूर्ते तु भगवान् कुंभसंभव : ॥
५६.तेनैव गुरुणा सार्धं प्रविवेश निजाश्रमम् । इत्थं मुनौ विशति कुंभभवे तदानीं सकलं गणै :
   सकलसिद्धमुनीश्वराद्यै : ॥
५७.अभ्रान्तरात् अजनि कल्पकपुष्पवृष्टि : आश्चर्यदुन्दुभिघनध्वनिकौतुकेन ।
   उच्चैर्जगु : जय जयेति कलं च सिद्धा : बद्दाञ्जलिप्रसवमालिभिराप्तहर्षम् ॥
५८.गन्धर्वयक्षकिन्नरगुह्यकाद्यै : व्याप्तं वियदविरचितस्तुतिपद्यबन्धै : ।
   मन्दं ववौ मलयगन्धवह : समन्तात् उद्धूयमानतडिनीजलपूरताम्र : ॥
५९.आरामचन्दनमरक्तवहो नितान्तमश्चश्रमप्रशमनैकविपश्चित् अग्रे ।
   संप्राप्तसन्ततमनोरथसंभ्रमेण रोमाञ्चितेन वपुषा पुषितेन भूय : ।
   चञ्चत्ध्वजप्रवर्चामरतो विमानात् कुम्भात्मजोऽवतरत् आप्तजनैर्मुनीन्द्रै : ॥ 
 ६०.उच्चैर्ह्रेषितसैन्दवध्वजपटव्याभुष्टमेघच्चटा चञ्चत्चामरचारुनादितमणिस्तोमं विमानं मुने : ॥
    आप्लुत्याम्बरवर्त्मना मुनिमनुज्ञाप्यप्रभात:क्षणात् भूयस्तत् सलिले विवेश नृपते पश्यत्सु सर्वेष्वपि ॥
 ६१.तिरोहितेऽस्मिन् अथ तत्र वारुणि : प्रतप्तजाम्बूनदचक्रकूबरे ।
    रथे : पुन : स्वाश्रममेत्य बन्धुभि : तुतोषसृष्ट्वैव विधि : जगत्त्रयम् ॥

                        इति एकोनविंशोऽध्याय :          Pro.Total = 1296 + 61 =1357.

                                 विंशोऽध्याय :

अगस्त्येन ताम्रपर्ण्या मुखोपजनसंबन्धकृतनीलिमापनोदनाय इन्द्रकीलक्षेत्रे शांभवव्रत अनुष्ठान कथनवेलायां ताम्रपर्ण्या कथं इन्द्रकीलमिति प्रश्ने कृते इन्द्रेण वृत्रवधाय दधीचीमहर्षे : अस्थ्याचनम् । तत् दानाय च तेन महर्षिणा देहत्याग : । शबराक्ष्यै नम : ॥

१.राजा वीरसेन : --कथेयं कथिता ब्रह्मन् भवता पापहारिणी । निर्मला ताम्रपर्णीव स्वयं चित्रमणिप्रसू : ॥
२.विन्ध्याद्रिमानमथनो मुनि : कलशसंभव : । त्रयीमिव विधिर्लोके प्रवाहयति चापगाम् ॥
३.सर्वेषामेव जन्तूनां माता हितकरी यथा । जग्त् पुनाति विस्तार्य विष्णुर्विष्णुपदीमिव ॥
४.मुने नद्याश्च चरितं पीयूषमिव श्रुण्वताम् । उपयुक्तमपि श्रोतुं नैव त्रूप्तिं प्रदास्यति ॥
५.दयानिधे महाभाग भूय : तां वक्तुमर्हसि । नैव याति नर : सौख्यं क्वापि स्त्रीवशवर्तिन : ॥
६.इति श्रुतं गुरुमुखात् शास्त्रसञ्चोदितं मुने ।अत्र प्रवसतोऽस्माकं स्त्रीहेतोरपि कामिन : ॥
७.दैवादिह वरं लब्धं तवाङ्घ्रिकमलवयम् । इति हृष्यामि नितरां भूयो भूयोऽस्तु चेतसि ॥
८.अपि ग्रीष्मे नन्दनस्था : तापं पश्यन्ति न क्वचित् । वियुक्तभोगसौभाग्यो न शोचामि त्वदाश्रयात् ॥
९.येन चैवोपदिष्टेन धर्मेणापि श्रुतेन च । श्रेय : प्राप्साम्यहं ब्रह्मन् तथैवानुगृहाण माम् ॥
१०.आविर्भूत : स्वयं शम्भु : इन्द्रकीले महास्थले । कथं प्रसादमकरोत् ताम्रायै केन हेतुना ॥
११.तत् अत्र श्रोतुमिच्छामि परम् कौतूलं हि मे । इन्द्रकीलमिति ख्यातं तत् क्षेत्रं केन हेतुना ॥
१२.विस्तरात् भगवन् सर्वं ब्रूहि सर्वज्ञे मे गुरो । इत्थं संपृष्टसंप्रश्न : शङ्खयोगी महातपा : ॥
१३.व्याजहार कथां पुण्यां वीरसेनाय भूभुजे । व्याजहार कथां पुण्यां सोपख्यानां पुरातनीम् ॥
१४.सावधानमना भूत्वा वक्ष्यामि श्रुणु पार्थिव । वातापिवरिर्भगवान् मुनि: कलशसंभव : ॥
१५.सागरेण सरित्श्रेष्ठां संयोज्य मलयात्मजाम् । दृष्ट्वा कल्याणलिङ्गं च ज्योतिस्थानं प्रणम्य च ॥  
१६.पुटार्जुनं प्रणम्याग्रे तथा भृग्वाश्रमे हरिम् । संप्रतिष्ठाप्य गोष्ठीशं हयग्रीवाश्रमे तथा ॥
१७.विसर्जयित्वा लोकेषु स्वेषु देवान् ऋषीनपि । भूय : स्वाश्रममासाद्य लोपामुद्रासमन्वित : ॥
१८.देवीमाराधयन् विप्रान् ताम्रामपि समर्हयन् । चकार विविधान् तत्र वाजपेयमुखान् मखान् ॥
१९.नित्यश्राद्धं भूतबलिं देवादीनां प्रवर्तयन् । अतिथ्यप्यागतान् अन्यान् बन्धून् अप्याश्रितान् सत : ॥
२०अन्नपानादिभिर्द्रव्यै : प्रत्यहं संप्रहर्षयन् । गार्हस्त्यान् परमान् धर्मान् स चकार घटोद्भव : ॥ 
२१.एवं तपस्यति मुनौ स्वाश्रमे परमाद्भुते । सिद्धभूमिरभूत् तस्मात् समन्तात् दशयोजनम् ॥
२२.अवग्रहदशादोषो न जागर्ति तदाज्ञया । कालवर्षी च पर्जन्य : सुखस्पर्शी च मारुत : ॥
२३.हिमघर्मादय:कालगुणा:शासन् समा:तथा। जनाश्च सर्वे तत्रत्या : धर्मैकनिरता अभवन् ॥
२४.आश्रमात् योजनायामं परित: पर्वतो मुने:।नित्यं कृतयुगावस्था कल्पिता कालहारिणा ॥
२५.तिर्यञ्चोऽपि न कुर्वन्ति जातिसामान्यवैरताम्।सर्वेऽपि जन्तव:तत्र सहसा सबलान् मुने॥
२६ध्यायन्त्यहर्निशं शम्भुं तीर्थे मज्जन्ति योगवित्।उच्चरन्ति मुहुर्वेदवाक्यान्यपिविलासत:॥
२७.बहुना किं प्रलापेन श्रुणु राजन् महामते । तदाश्रमपदं सर्वं ब्रह्मलोकमिवाभवत् ॥
२८.यथा प्राप्य श्रुति:शूद्रै:स्वर्गप्राप्यै:यथा जनै:। तथा तदाश्रमपदमप्राप्यमकृतात्मभि :॥
२९.तदाश्रमस्योपकण्ठे वृषाङ्कनगरे शुभे । विजहार गृहे रम्ये माला मलयनन्दिनी ॥
३०.स्नानाभरणवसनदेवार्चनजपादिभि : । हवनाहारसंलापकथाताम्बूलकौतुकै : ॥
३१.लीलासंलापकथनै : निनायाहनि नित्यश : । तथैव रजनीं नीत्वा प्रबुध्य प्रत्यहम् ॥
३२.नित्यमुल्लासयामास चित्तं स्वाश्रितरक्षणे । एवं कतिपयेष्वेषु दिवसेषु यातेष्वथ ॥
३३.नीलबिन्दुभिराक्रान्तं ताम्राया मुखपङ्कजम् । अभूतपूर्वं प्रत्यूषे विस्मयाविष्टमानसा : ॥
३४.विस्मयं परमं जग्मु : किमेतत् इति विस्मिता : । तावत् कुमुद्वती दृष्ट्वा नीलिमानं तदानने ॥
३५.उपसृत्य महादेवीं प्राञ्जलिर्वाक्यमब्रवीत् । अम्ब ते वदनाम्भोजे दृश्यते नीलिमा महान् ॥
३६.कारणं नात्र पश्यामि केनवेतिमलीमसम् । इत्युक्त्वा रत्नमुकुरं कर् तस्य समर्पयत् ॥
३७.सा स्वमास्याम्बुजं दृष्ट्वा तस्मिन् दर्पणमण्डले । इत्थं कौतुकभिन्नान्त:करणा काञ्चनारुणा ॥
३८.पश्यन्ती क्षणमात्रेण न ददर्श मलीमसम् । निवृत्य दर्पणात् वक्त्रं चेत : चलयती तत : ॥
३९.अत : कन्दलिताश्चर्या तटिनी मलयात्मजा । शफरीमिव सञ्चाल्य लोचने परित : क्षणात् ॥
४०.उत्कर्षन्ती भुवात् ऊर्ध्वं तरङ्गनिकरश्रियौ । उद्धून्वालकश्रेणीं शैवालकलिकामिव ॥
४१.सव्यानं कुचयो : कृत्वा फेनपुञ्जमिवोज्ज्वलम् । प्रवाहरूपा संभूयाप्युन्नयन्तीव भूपते ॥
४२.गुरवे कुंभजन्माय निवेदयितुमुत्सुका । उत्थाय शयनात् अस्मात् काल्यं कर्म समाप्य च ॥
४३.सखीभि : समायुक्ता प्रययावाश्रमं मुने : । स्तूयमाना मुनिगणै : सिद्धै : देवैरभिष्टुता ॥
४४.किङ्करैरभिभूयिष्ठै : नानाप्रहरणोज्ज्वलै : । समन्ततोऽनुगच्छद्भि : सेव्यमाना सखीजनै : ॥
४५.हंसारूढा चामाराभ्यां वीज्यमाना च पार्श्वयो : । छत्र्ण ध्रियमाणेन धवलेनैव मूर्धनि ॥ 
४६.शोभमाना महाराज लक्ष्मीरिव तदाययौ । अवरुह्य ततो यानात् आश्रमं प्रविवेश सा ॥
४७.तामागतां समालोक्य देवीं कलशसंभव : । पदानि पञ्चषाण्येव भक्त्या चाभिमुखं तथा ॥
४८.पाणिभ्यामालम्ब्य सानन्दं अनुरागेण भूयसा । अन्तरानीय भवनं आसने विनिवेश्य ताम् ॥
४९.अभिनन्द्यार्चयित्वा तु प्रीत्या वचनमब्रवीत् । अम्ब स्वागतमानन्दकलिके मलयात्मजे ॥
५०.कच्चित् तीर्तेन लोकान् त्रीन् पाहि पापप्रणाशिनी । कच्चित् मनोथा: पूर्णा: कच्चित् क्षेमं गृहे तव ॥
५१.कच्चित् स्निह्यति ते भर्ता धर्मात्मा सरितां पति:। कच्चित् परिणता भूर्रि मणय : त्वत्सुधा इव ॥
५२.भक्तेषु भृत्यवर्गेषु ब्राह्मणेषु तटद्वये । योगक्षेमाभिवृद्धिस्तु कच्चित् जागर्ति गोषु च ॥
५३.तवागमनं मन्ये स्वस्तये जगतामिति । सर्वं कथय कल्याणि त्वदागमनकारणम् ॥
५४.इति पृष्टा तदा तेन मुनिना सादरं नदी । प्रणम्याञ्जलिना राजन् व्याजहार मुनीश्वर्म् ॥
५५.देवी --भगवन् भूरिकरुणावरुणालय ते गुरो । अनुग्रहान् मयि मुने सकलं कुशलं खलु ॥
५६.सर्वे देवाश्च विप्राश्च सिद्धाश्च नियमावृता : । अनुगृह्णन्ति मां नित्यं तव संश्रयगौरवात् ॥
५७.तथापि मुनिशार्दूल वर्तन्त्यां भवने सुखम् । इदमेव मनस्येकं व्याकुलं परिकृन्दति ॥
५८.उत्थिताया : प्रभातायां शर्वर्यां वदने मम । नीलिमा दृश्यते नित्यं समयात् नाशमेष्यति ॥
५९.केन वा कारणेनेति मया न ज्ञायते मुने । यथा मे न भवेत् दोष : तथा किमपि चिन्त्यताम् ॥
६०.इति श्रुत्वा वचस्तस्या : सविमर्शं घटोद्भव : । क्षणं मौनमुपागम्य विस्मितो वाक्यमब्रवीत् ॥ 
६१.माता मलयसन्तानकल्पवल्ली मणिप्रसू : । प्रसीद वाचश्श्रोतव्या : वक्ष्यमाणा मयाधुना ॥
६२.त्व्य्यम्ब किल मज्जन्तो नित्यं पात्किनो नरा : । विमुक्तपापा गच्छन्ति त्वचं मुक्त्वेव पन्नगा : ॥
६३.प्रत्यहं ब्रह्महत्यानां कोटयो मानवै : कृता : । क्षाल्यन्ते तीर्थतोयेन पुण्येन तव शांभवी ॥
६४.गोघ्नश्चैव कृतघ्नश्च भ्रूणहा गुरुतल्पग : । वञ्चक : पिशुनो घोर : मध्यपो जीवगातक : ॥
६५.एते चान्ये च पापिष्ठा : त्वदम्बुगणसेवया । प्रयान्ति निजलाकारा : ज्योतिर्मार्गेण चार्कवत् ॥
६६.पापक्षालनकालुष्यं दृश्यतेऽम्ब तवानने । शनै : नश्यन्ति भूयोऽपि तम : सूर्यांशुभिर्यथा ॥
६७.येनेदं न भवेत् वक्त्रे कलुषं प्रत्यहं तव । तमुपायं प्रवक्ष्यामि श्रुणु कल्याणि सादरम् ॥
६८.इन्द्रकीलमिति ख्यातं तव तीरे महास्थलम् । तत्राभ्येत्य व्रतं दिव्यं शांभवं कर्तुमर्हसि ॥
६९.व्रतेनानेन नियता येऽर्चयन्ति महेश्वरम् । तेषां दर्शनमात्रेण दूरे नश्यन्ति पातकम् ॥
७०.देवी --इन्द्रकीलमिति ख्यातं तत् क्षेत्रं केन हेतुना । किं वा व्रतमिति ख्यातं कर्तव्यं च कथं भवेत् ॥
७१.केन वा विधिना ब्रह्मन् केन मन्त्रेण वा पुन : । एतत् सर्वमशेषेण वद विस्तार्य वै गुरो ॥
७२.अगस्त्य : --मातस्ते कथयिष्यामि क्षेत्रस्याभ्युदयं महत् । पुरा वृत्रभयादिन्द्र : देवैरग्निपुरोगमै : ॥
७३.स्तुत्वा दधीचिमभ्येत्य ययाचेऽस्थि तदङ्गजम् । स तु देवान् समभ्यर्च्य यथार्हं मुनिपुङ्गव : ॥
७४.मनसा चिन्तयामास किं वा युक्तमिहेति च । अहो विचित्ररूपेयं लीलादि परमेशितु : ॥
७५.समत्वे जीवलोकेऽपि भिन्नता परिदृश्यते । अविवेकविवेकाभ्यां द्विधा सर्वत्र जन्तुषु ॥
७६.कालभूमिबलात् तोये यथा रूपरसोदय : । तथापि योनिदोषेण  शुद्धस्याप्यात्मन : परम् ।
७७.अज्ञो न ज्ञायते विष्वखण्डदं तम इव श्रमम् । ज्ञानाज्ञानबलाभ्यां तु जीवात्मा बुद्धिसंस्थित : ॥
७८.कृष्यते पापपुण्येषु कारणं कर्म तत् भवेत् । कर्मणा जायते जन्तु : कर्मणैव प्रमीयते ॥
७९.तरन्ति कर्मणा दु:खं तेन दु::खेतरं पुन : । मायया भाजनं जन्तु : देहस्य सुखदु:खयो : ॥
८०.तस्मात् अविद्वान् सर्वत्र मोहं याति न चेतर : । चराचरावृते लोके सर्व : स्वार्थं समीहते ॥ 
८१.नान्यस्य दु:खं जानाति साभिज्ञत्वेऽपि किञ्चन । स्थावरात् जङ्गमं श्रेष्ठं जङ्गमाच्च जरायुजम् ॥
८२.जरायुजाच्च मर्त्यत्वं मर्त्यत्वेऽप्यधिको बुध : । विपश्चितोऽपि गीर्वाणा : श्लाघ्या : सर्वत्र जन्तुषु ॥
८३.तेषु बुद्धिर्बलं धैर्यं ज्ञानं विज्ञानमेव च । दया सत्यं च धर्मश्च लोकसंग्रहता तथा ॥
८४.एते प्रतिष्ठा नित्यन्तु देवेषु परमात्मता । प्रवित्ति : परचित्तस्य सुवृत्तं ज्ञायतेतराम् ॥
८५.दयाप्रभृति जागर्ति कल्पवल्लीव नन्दने । तेषां मद्विषये किन्तु करुणा बालिशा भवेत् ॥
८६.स्वप्रयोजनमुद्दिश्य परहिंसारत : कथम् । अपि रोगगणै : क्लान्ता : दुस्त्यजा प्राणिनां तनु : ॥
८७.विदेहस्यात्मन : क्वापि पुरुषार्थचतुष्टयम् । नैवोपक्रियते पात्रं विना क्षीरमिव स्फुटम् ॥
८८.कथं शरीरं सन्त्यज्य सुकृतं कर्तुमुत्सहे । हा हन्त देवमाराध्य मदन्ये सुखभागिन : ॥
८९.अहमेके जीवलोके दैवेन निहितोदय : । औषधात् रोगशमनं तीर्थात् पातकनाशनम् ॥
९०.गवा गार्हस्थ्यसौभाग्यं दैवात् सर्वं हि लभ्यते । विपरीते विधौ किन्नु कथये केन वा पुन : ॥
९१.तथापि सर्वधर्मेषु परोपकृतिरेव हि । गरीयान् इति शंसन्ति श्रुतयश्च सनातना : ॥
९२.धर्मसाधनमप्येवं देहं जन्तो : प्रकल्पिता : । देवेभ्य : संप्रदायाहं श्रेय : प्राप्स्याम्यहं ननु ॥
९३अर्थिन : खलु गीर्वाणान् प्रीणयित्वा शरीरत : । दुष्प्रापमपरै : पुण्यै : यास्यामि परमां गतिम् ॥
९४.इति निश्चित्य मनसा मुनिर्धैर्यं समास्थित : । प्रीणयन् अखिलान् देवान् व्याजहार बिडौजसम् ॥
९५.दधीचि: --भवन्त: सर्व एवात्र भद्रं प्राप्नुत मा चिरम्। सत्पात्रेष्वेव युष्मासु दास्याम्येतत् कलेबरम् ॥
९६.भवन्त : प्रतिगृह्णन्तु गतिं यास्ये परामहम् । इत्युक्तो योगमास्थाय संप्रहृष्टो महामुनि : ॥
९७.अपानवायुमाकुञ्च्य सञ्चाल्याधारतोऽनिलम् । सुषुम्नाध्वानमाविश्य प्राणान् आदाय वेगत : ॥
९८.भूतान् भूतेषु संलीय गुणेष्वपि गुणान् क्रमात् । प्रशाम्य चारिष्टवर्गं लघ्वीकृत्येन्द्रियावलिम् ॥
९९.अवस्थामभिभूयाग्रे नीत्वा षट्चक्रमण्डलम् । भ्रूमध्ये प्राणमारोप्य परिक्रम्यामृतालयम् ॥
१००.महापद्मे तु विक्रम्य प्राप्यानन्दसुधामपि । ब्रह्मरन्ध्रं विनिर्भिद्य तेजोराशिरकल्मष : ॥
१०१.प्राप्य नादान्तमुत्तस्थौ व्योमयानं प्रसादयन् । मध्येनादित्यमुद्गम्य ब्रह्मलोकमवाप स : ॥
१०२.दृष्ट्वैव मुनिवर्यस्य महिमानं दिवैकस : । विस्मयं परमं जग्मु : ब्रह्माद्यखिलदेवता : ॥

                            इति विंशोऽध्याय :   Pro.Total = 1357 + 102 = 1459.

                             एकविंशोऽध्याय :

विश्वकर्मनिर्मितवज्रायुधेन वृत्रहननम् । ताम्रपर्ण्या : शांभवव्रत अनुष्ठानेन पापविमोचनम् स्वस्थानगमनम् च । 
१.श्रुणु देवि प्रवक्ष्यामि देवानां चरितं महत् । यस्य स्मरण मात्रेण नर : पापै : प्रमुच्यते ॥
२.एवमेयुषि वै तस्मिन् मुनौ ब्रह्मणि निर्मले । तुष्टुवु : मुनयो देवा : साधु साध्विति वादिना ॥
३.ततो विष्णुमुखा : देवा : संप्रलब्धमनोरथा : । विश्वकर्माणमाहूय वचनं चेदमब्रुवन् ।
४.एबि : अस्थिचयैरेव वज्रं कुरु महामते । येन व्रूत्र : सुखं वध्य : भवेत् इन्द्रेण धीमता ॥
५.अनुशिष्ट : सुरैरेवं ओमित्याभाष्य वर्धकि : । प्रणम्य देवता : सर्वा : प्रसन्नेन्द्रियमानस : ॥
६.कृताञ्जलि : प्रह्वतनु : परिक्रम्य तनुं मुने : । इदमाह वच : तिष्ठन् श्रुण्वतां त्रिदिवौकसाम् ॥
७.आज्ञया सर्वदेवानां ऋषेरेतत् कलेबरम् । पाणिभ्यां संस्पृशाम्यद्य देवस्यास्य विवस्वत : ॥
८.पश्यता चक्षुषाभीक्ष्णं हिमांशोरमृतात्मन : । बलेन विष्णो रुद्रस्य चालयिष्ये महद्वपु : ॥
९.इत्थं प्रदक्षिणीकृत्य समादातुमुपेयुषि । समजृंभत गंभीरो नादो मृतकलेबरात् ॥
१०.अग्निवर्णो महातेजा वचनं चेदमाददे । न निधेयमिदं भूमौ नेख्षणीयमसाधुभि : ॥ 
११.अनेन्नास्मान् महाबाहो वज्रं कुरु महाप्रभम् । इत्युक्त्वाकाशामाविश्य स भूत : प्रययौ क्षणात् ॥
१२.लब्ध्वाजिनं महादेवात् तस्मिन् स्थाप्य तनुं मुदा । उद्धृत्यास्थिचयं तस्मात् चक्रे वज्रायुधं बली ॥
१३.क्रियमाणे तथा वज्रे भाराक्रान्ता वसुन्धरा । नौरिवाम्भसि निर्धूता चकम्पे चण्डवायुना ॥
१४.चराचरेषु भूतेषु क्रन्दमानेषु सर्वश : । इन्द्राविष्णू दयावन्तौ वज्रशेषै : महत्तरै : ॥
१५.कीलै : दृढतरै : उर्वीं कीलयेतां ततस्तत : । महेन्द्रे मलये विन्ध्ये हिमाद्रौ गन्धमादने ।
१६.कलिन्दे मणिकूटे च तथा कालाञ्जने गिरौ । कोणाचले चन्द्रकूटे मन्थरे सह्यपर्वते ॥
१७.शरत्वन्त्वम्बराद्रौ च शङ्खकूटे सुरालये । एषु षोडशशैलेषु कीलितं हरिणा पुरा ॥
१८.तत : स्वस्थाभवत् भूमि : कीलिता वज्रकॊटिभि : । तदादि षोडशस्थानमिन्द्रकीलमिति क्षितौ ॥
१९.एतानि धर्मस्थानानि सद्य : पापहराणि हि । अनुग्रहान् महेन्द्रस्य लघुना चैव कर्मणा ॥
२०.सिध्यन्ति सर्वजन्तूनां सिद्धयोऽष्टौ न संशय : । एवं दृढीकृतायान्तु मेदिन्यां सकला : प्रजा : ॥ 
२१.अभ्यनन्दन् भयं त्यक्त्वा देवाश्च सह गुह्यकै : । सोऽपि वज्रं विधायैव प्रादात् इन्द्राय धीमते ॥
२२.निहत्य वृत्रं तेनैव स्वर्गमापपुनर्वृषा । शच्या शतक्रतुर्देवै : प्राप्तराज्य : प्रसन्नधी : ॥
२३.वरान् बहून् अदात् एषु स्थानेषु सह विष्णुना । तस्मात् त्वमम्ब कल्याणि वयसीभि : समन्विता ॥
२४.गत्वेन्द्रकीलमस्माभि : व्रतचर्यां प्रवर्तय । तत् क्रमं खलु वक्ष्यामि तन्मे निगदत : श्रुणु ॥
२५.यदा दिवाकरो देवि चापराशिमुपैति स : । तदारभ्य व्रतं कार्यं यावन्मकरभाग्भवेत् ॥ 
२६.प्रात : स्नात्वा महानद्या : काल्यं कर्म निवृत्य च । आचार्यंमग्रे वृणुयात् अभ्यर्च्य गननायकम् ॥
२७.नदीतीरे महाशैले गोष्ठे वा गुरुमन्दिरे । देवालये तथा कुर्यात् स्थण्डिलं गोमयेन तु ॥
२८.पञ्चवर्णै : विधातव्यं पद्माकारं तु मण्डलम् । तत्रार्चयेन्महादेवं गौरीं मङ्गलदेवताम् ॥
२९.आवाहनादि कर्तव्यं महारुद्राख्यविद्यया । अनादिविद्यया देवीमर्चयेत् विधिनाक्षतै : ॥
३०.तस्य दक्षिणभागे तु स्वस्तिकाख्ये च मण्डले । धान्यपूर्णं प्रतिष्ठाप्य कलशं सूत्रवेष्टितम् ॥
३१.तस्मिन् धात्रीं समावाह्य पूज्य गन्धाक्षतैरपि । प्रथमम् सोममीशानं द्वितीयम् शङ्करं हरम् ॥
३२.तृतीयं गिरिशं भीमं शान्तं शर्वं चतुर्थकम् । गङ्गाधरं शशधरं पञ्चमं परिकीर्तितम् ॥
३३.कामदं कामदहनं षष्ठमाहु : मनीषिण : । सप्तमं शूलिनञ्चोग्रं शंभुं भर्गमथाष्टमम् ॥
३४.एतानि युग्मनामानि शङ्करस्य महात्मन : । उच्चरन् अर्चयेत् तत्र बिल्वपत्रै : अखण्डकै : ॥
३५.तथैव गौरीनामानि श्रुणु मात : सरिद्वरे । प्रथमं गिरिजामार्यां गौरीमम्बां द्वितीयकम् ॥
३६.तृतीयं शांभवीं दुर्गां मायां हैमवतीं तत : । पञ्चमां पञ्चमीं कालीं षष्ठीं कात्यायनीमिलाम् ॥
३७.सप्तमीमन्नदां सत्यां अष्टमीमरुणां श्रियम् । एवमभ्यर्च्य देवेशमक्षतै : युग्मनामभि : ॥
३८.तथैव देवीमभ्यर्च्य शतपत्रैर्यथाविधि । धूपैर्दीपश्च नैवेद्यै : ताम्बूलाद्युपचारकै : ॥
३९.पूजयेत् मन्त्रव्न्मन्त्रै : अर्घ्यं दद्यात् समन्त्रकम् । नमोऽस्तु नीलग्रीवाय गौर्यै देव्यै नमो नम : ॥
४०.अर्घ्यं दास्यामि युवयो : प्रीतौ मे भवतस्सदा । इति मन्त्रं समुच्चार्य दद्यात् अर्घ्यं त्रयं बुध : ॥
४१.तत : क्षमापयेत् देवीं स्तोत्रै : वेदान्तगर्भितै : । ततो धान्यकूटं दद्यात् सताम्बूलं सदक्षिणम् ।
४२.मन्त्रमुच्चार्य गुरवे व्रतस्य परिपूर्तये । गुरो त्वमसि विप्रेन्द्र प्रतिगृह्य मदर्पितम् ॥
४३.अभीप्सितं फलं देहि पापं नाशय मे गुरो । विधायैवं महेसस्य पूजामभ्युदयावहाम् ॥
४४.प्रसादं प्राप्य चोद्वास्य पुनरागमनाय हि । एवमेव हविष्याशी मासमेकं निरन्तरम् ॥
४५.मकरं गच्छति तथा देवदेवे दिवाकरे । एवं संपूज्य गौरीशं गौरीमपि विधानत : ॥
४६.पूजान्ते पूजयेत् भक्त्या गुरुं देवधिया सुधी : । कल्माषवर्णां कपिलां अथवा धवलामपि ॥
४७धेनुं दद्यात् हिरण्येन सवत्सां मन्त्रपूर्वकम् । ब्रह्मणान् भोजयित्वा तु तदनुज्ञामवाप्य च ॥
४८.पारणां बन्धुभि : कुर्यात् घृतक्षीरादिभिस्सह । एवं विधे तु विहिते दिनमेकमथापि वा ॥
४९.त्रिरात्रं पञ्चरात्रं वा सर्वपापै : प्रमुच्यते । तस्मै प्रसीदति शिव : शिवया सह सन्ततम् ॥
५०.इह लोके परत्रापि दुर्लभान्यपि बध्यते । एवं हि देवदेवस्य व्रतं कर्तुर्हि सर्वत : ॥
५१.सद्य : पापानि नश्यन्ति दीर्घायुष्यं च विन्दति । अस्य व्रतस्य माहात्म्यं वक्तुं वर्षशतैरपि ॥
५२.नशक्यते मया तापि संक्षेपात् कतिथं तव । ऋषि : --इत्थं श्रुत्वा मुनेर्देवी प्रीयमाणा पुन:पुन : ॥
५३.तेनैव गुरुणा सार्धं इन्द्रकीलमुपेत्य सा । वृश्चिके मुच्यमाने तु रवावेयुषि वै धनु : ॥
५४.प्रविवेस तथा दीक्षां गुरुणा मलयात्मजा । चकार पूजां विधिवत् महानियममास्थिता ॥
५५.आचरन्त्यां व्रत्ं देव्यां पञ्चमेऽहनि भूपते । जप्यमाणेषु मन्त्रेषु पूज्यमाने च मण्डले ॥
५६.पश्यत्सु सर्वभूतेषु समुद्गच्चति भास्करे । तत् स्थण्डिलात् आविरभूत् लिङ्गरूपी सदाशिव : ॥
५७.तैजसं रूपमास्थाय भित्वा पातालसप्तकम् । समजृंभत सौभाग्यात् सर्वं व्याप्य शरीरवत् ॥
५८.ददृशु : सर्वभूतानि लिङ्गं आनन्दकन्दवत् । अभूतभूतमाश्चर्यमभिजातं मणिप्रभम् ॥
५९.वेदानामुदयस्थानं तेजसामिव पञ्जचम् । पुण्यानामेकभवनं लिङ्गं दृष्ट्वा तु शांभवम् ॥
६०.सर्वे मुमुदिरे लोका : पूर्णकामा इव क्षणात् । ववर्षु : पुष्पवर्षाणि देवास्सिद्धपुरोगमा : ॥
६१.देवदुन्दुभयो नेदु : वागभूत् सुखसंश्रवा । पापनाश महादेव हरिचूडामणे विभो ॥
६२.प्रसीद भगवन् पापात् परित्राहि जगत्त्रयम् । इत्थं देवगिरो विष्वक् अभ्यजृंभन्त पुष्कला : ॥
६३.देवी मलयजा पुण्या पूजयन्ती पुर : स्थिता । ददर्श परमानन्दकन्दलाकारदर्शनम् ॥
६४.शिवलिङ्गं मणिमयं दीप्यमानं स्वतेजसा । हर्षगद्गदया वाचा जयेति परिशंसिनी ॥
६५.उदञ्चत्चारुरोमाञ्च समुत्थाय निजासनात् । मौलौ कमलशोभामुद्वान्ती निजाञ्जलिम् ॥
६६.आनन्दबाष्पपूराभ्यां लोचनाभ्यामविश्रमम् । स्ववारिपूरविभ्रान्तिं दर्शयन्तीव सन्ततिम् ॥
६७.विकिरन्ती स्मितज्योत्स्नां मुक्ताजालमिव स्वकम् । ईषत् आनन्ददेहा तु तुष्टाव परमेश्वरम् ॥
६८.देवी --भवाय भवनाशाय नम : पापापहारिणे । परिपूर्णाय पूर्णेन्दुवदनाय नमो नम : ॥
६९.नमो विश्वाय पतये विश्वरक्षाविनोदिने । वेदवेदान्तवेद्याय नमस्ते विदितात्मने ॥
७०.शर्वाय निर्विकाराय शंभवे वेधसे नम : । गङ्गाधराय गौराय गिरीशाय नमो नम : ॥
७१.पापघ्नाय भयघ्नाय परञ्जोतिस्वरूपिणे । विरूपाक्षाय वीराय विधात्रे ब्रह्मणे नम : ॥
७२.अव्यक्तव्यक्तरूपाय व्यक्तिविन्याससाक्षिणे । विश्वरक्षाध्वरैकान्तदीक्षिताय नमो नम : ॥
७३.नम : सोमावतंसाय धात्रे भस्माङ्गरागिणे । गिरीशायाखिलेशाय पापनाशाय ते नम : ॥
७४.कर्मणे निर्मिताशेषभुवनघ्नाय हारिणे । विश्वत्राणाय वीराय कालरुद्राय ते नम : ॥
७५.नम : पापविनाशाय पापनाशाय शंभवे । पातकध्वान्तरवये शिवयाश्लिष्ट मूर्तये ॥
७६.नमो नमस्तुभ्यं नमस्तुभ्यं पिनाकिने । नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नम : ॥
७७.शिवशंभो महादेव देवदेव सदाशिव । जग्न्नाथ जगन्नाथ पापनाश नमो नम : ॥
७८.इथं स्तुवन्त्यां ताम्रायां विस्मितेषु जनेष्वपि । तल्लिङ्गात् मूर्तिमानग्रे प्रत्यदृश्यत शङ्कर : ॥
७९.गङ्गाधर : शशिधर : शितिग्रीव : त्रिलोचन : । शूलटङ्कासमायुक्त : दरस्मेरमुखांबुज : ॥
८०.मेघदुन्दुभिगंभीरं वचनं व्याजहार स : । सदाशिव : --अयि मङ्गलमाङ्गल्ये वत्से मलयनन्दिनि ॥
८१.व्रतेनाचरितेनाद्य त्वया प्रीतोऽस्मि शोभने । सन्तु ते मत्प्रसादेन परिपूर्णा मनोरथा : ॥
८२.त्वन्नाम कीर्तनात् ध्यानात् स्पर्शनादपि मज्जनात् । ब्रह्महत्यादय : पापा : भस्मीभूता भवन्तु च ॥
८३.कोटयो ब्रह्महत्यानामसङ्ख्याक : प्रकोटय : । सद्य : प्रलयमायान्तु त्वदंबुगणसेवनात् ॥
८४.ये च स्नान्त्यपि मज्जन्ति धर्मद्रवेऽम्भसि । सद्य : प्रलयमायान्तु महापात्ककॊटय : ॥
८५.भस्मीभूता : भविष्यन्ति वह्निना तूलराशिवत् । ब्रह्माण्डोदरतीर्थानि महापापहराण्यपि ॥
८६.प्रत्यब्दं त्वामुपेत्यात्र निर्मलानि भवन्तु हि । त्वां विशन्तु न पापानि त्वद्भक्तानामपिध्रुवम् ॥
८७.प्रसन्नोऽस्मि वरारोहे कामानिष्टान् ददामि ते । वृणीष्व वरमव्यग्रे लोकानां हितकाम्यया ॥
८८.श्रीदेवी --भगवन् नित्यसान्निध्यं अत्र कर्तुं त्वमर्हसि । यद्यहं भाजनं शंभो त्वत्कृपाया : पुरान्तक ॥
८९.अत्रैव हि वसन् नित्यं लोकान् अनुगृहाण भो । तदेतत् नाम विमलं पापनाश इतीरितम् ॥
९०.प्रसादात् तव सर्वत्र लोके विख्यातिमृच्छति । चापादित्ये तु ये केचित् स्नात्वात्रांभसि मामके ॥ 
९१.त्वां पश्यन्ति जना : तेषां नैव भूयात् पुनर्भव : । पूर्णा कुमुद्वती चैव मयात्र सह सङ्गते ॥
९२.अत्र मज्जन्ति ये मर्त्या : तान् स्पृशन्ति न पातका : । व्योमपुष्करिणीतीर्थं त्रिणदीसङ्गमं तहा ॥
९३.ये स्पृशन्त्यपि मज्जन्ति तेषां नास्ति पुनर्भव : । इत्यर्थितो महादेव : तथा शैलेन्द्रकन्यया ॥
९४.तथेत्युक्त्वा महालिङ्गे प्रविवेश पुन : शिव : । तत : प्रहृष्टा मलयात्मजा नदी प्रसादमासाद्य सदाशिवादियम् ।
९५.समन्विता कुंभभुवा च दर्शनं यथोचितं तत्र चकार संभ्रमात् ।
   उपागते पूषणि पुण्यभाजनं प्रविष्टरूपं मकरं मनोहरम् ।1
   शिवात् अवाप्याभ्युदयं मणिप्रसू : स्वावासभूमिं मुनिनाप्यवाप ॥

                      इति एकविंशोऽध्याय :            Pro.Total = 1459 + 95 = 1554.

                          द्वाविंशोऽध्याय :

ताम्रपर्ण्या उत्पत्तिमारभ्य सङ्गमपर्यन्तं विद्यमानानां तीर्थानां नामधेयानि

वीरसेन : १.अहो मलयनन्दिन्या : चरितं चित्ततोषणम् । शृण्वतोऽपि न मे तृप्तिं प्रयच्छति तदद्भुतम् ॥
२.पावन : पापनाशाख्य : परमात्मा सदाशिव : । सेव्य एव सदा लोकै : पुरुषार्थानुकाङ्क्षिभि : ॥
३.श्रुता : च महिमा तस्या : ताम्रयाश्च विशेषत : । चरितं श्रोतुमिच्छामि वद मे विस्तरात् गुरो ॥
४.कानि पुण्यानि तीर्थानि कानि चायतानि अपि । तदशेषम् क्रमेणैव सोपाख्यानं महामुने ॥
५.प्रकाशाय यथातत्वं लोकानिव दिवाकर : । कूलद्वये महानद्या : मध्ये सागरशैलयो : ॥ 
६.कानि पुण्यानि तीर्थानि कानिक्षेत्राणि वै पुन : । मुख्यानि आचक्ष्व मे ब्रह्मन् श्रुण्वतो मे कुतूहलम् ॥
७.ऋषि : --राजन् कथयतो नित्यम् कथां पापापहारिणीम् । सावधानेन मनसा श्रुणु श्रवण्मङ्गलम् ॥
८.आसागरं महाराज संप्रवृत्ता महानदी । पुण्यक्षेत्रै : आश्रमैश्च देवागारै : द्विजालयै : ॥
९.संपूर्णकूला कल्याणी नित्योत्सवपरिष्कृता । शिवक्षेत्राण्यसंख्यानि विष्णुक्षेत्राण्यनेकश : ॥
१०.तथा हेरम्बभवनं मातृस्थानान्यनेकश : । स्कन्देन्दुभास्करावासानि आश्रमा : पुण्यकर्मणाम् ॥
११.एषां दर्शनमात्रेण नर : पापै : प्रमुच्यते । एतानि क्रमशो वक्ष्ये तीर्थक्षेत्राणि भूपते ॥
१२.गुहाद्वारात् विनिष्क्रम्य विभक्ता पञ्चधा नदी । परुष्णी कमला चैव घृतधाराभिधा तथा ॥
१३.एता : तिस्रो महानद्य : पश्चिमाशां प्रवर्तिता : । दक्षिणाभिमुखी पुण्या प्रयाति वरुणालयम् ॥
१४.पूर्वाशां प्रवृत्ता सा पराशक्तिसमुद्भवा । ताम्रपर्णीति विख्याता प्रयाति वरुणालयम् ॥
१५.तस्यास्तु दक्षिणे तीरे तीर्थमूर्जाख्यमिष्यते । तथाप्युत्तरभागे तु इषाख्यमपरं शुभम् ॥
१६.एतयोर्मज्जनात् एव नरो विज्ञानभाग् भवेत् । तस्यापि पूर्वदिग्भागे वृषाङ्कं तीर्थमुत्तमम् ॥
१७.यत्र देवी ताम्रपर्णी सान्निध्यं कुरुते सदा । ततोऽपि दक्षिणे तीरे तीर्थ्यमागस्त्यमुच्यते ॥
१८.अगस्त्येशाभितं लिङ्गं दर्शनात् मुक्तिदं नृणाम् । तत् समीपे चक्रतीर्थं पावनाख्यं च तत्परम् ॥
१९.वामनं पश्चिमे तीरे वामनेन प्रकल्पितम् । तस्मात् उत्तरत : किञ्चित् तीर्थं हेरम्बनिर्मितम् ॥
२०.तत्परो नारसिंहाख्यं तीर्थं तेन विनिर्मितम् । भोगिराजनदीतीर्थं ताम्रायां पूर्वरोदसि ॥
२१.गुप्तिकुंभाद्रिणोर्मध्ये प्रोक्तान्येतानि भूपते । कुंभाद्रिशृङ्गात् स्रवते सरित् उत्तरत : शुभा ॥
२२.कलम्बतीर्थमित्युक्तं बाणतीर्थं च तत् किल । पाञ्चजन्यम् तत्समीपे सरित् रोदसि पश्चिमे ॥
२३.तत : चक्रशिलातीर्थमुत्तरेण समीपत : । तस्याप्युत्तरभागे तु हयग्रीवाश्रमं महत् ॥
२४.तत्रैव खलु वाराहं मुनि तीर्तं तदन्तिके । तत्र ताम्रा द्विधा भूता पूर्णा प्रवहते नदी ॥
२५.आश्रमात् पश्चिमे भागे तीर्थं पैशङ्गिलं विदु : । यत्र मुक्ताशिला नाम नित्यं मुनिजनोषिता : ॥
२६.इरावती नाम पुण्या वायुकूटात् समुत्थिता । पश्चिमाभिमुखीं ताम्रामुपयाति सरिद्वराम् ॥
२७.तत्रैव मुनि तीर्थं तु मुनिभि : परिकल्पितम् । ततोऽयुत्तरभागे तु कन्यातीर्थं प्रचक्षते ॥
२८.यत्र रुद्र : तपस्तप्प्त्वा प्राप सर्वज्ञतां पुरा । तदादि मुनय : प्राहु : पुण्यां रुद्राटवीमिमाम् ॥
२९.तत् समीपे ब्रह्मशय्या शिला कुङ्कुमसन्निभा । तत्र ताम्रा त्रिधा भूता त्रयीवोद्वहते सरित् ॥
३०.तत्रापि वारुणी तीर्थं वरुणोऽर्चयते विधिम् । प्रसादं ब्रह्मण : प्राप्य जलेशत्वमवाप्तवान् ॥
३१.तस्यास्तु पश्चिमे तीरे रमता तीर्थं प्रचक्षते । तत्र देवी कमलजा तपस्तप्त्वा महत्तरम् ॥
३२.ह्ररे : वक्षस्थलं प्राप दुष्प्रापं सर्वजन्तुषु । तदन्तिके मृगमुखं पाषाणं यत्र  दृश्यते ॥
३३.तत्रैव कपिला तीर्थं धेन्वा कपिलया कृतम् । एतानि पुण्यतीर्थानि देवकॢप्तानि भूपते ॥
३४.ज्योतिर्मणे : कुंभगिरे : अन्तरालगतानि हि । ज्योतिर्मणिमुखे ताम्रा चन्द्रसेनां समेष्यति ॥
३५.तदस्तु पापनाशाख्यं तीर्थं पैनाकमेव तत् । तस्यापि किञ्चित् ईशाने तीर्थम् नारदसंज्ञितम् ॥ ३६.तस्मात् उदीच्यानां तीर्थानां पञ्चवारणमिष्यते । तत : प्राचेतस : तीर्थं धाराद्रे : उपकर्णत : ॥
३७.त्रिणदी सङ्गमं तीर्थं पापनाशस्य सन्निधौ । तस्मात् उत्तरभागे तु कूर्मकूटान्तिके तटे ॥
३८.तुम्बुरो : पर्वतस्यापि तीर्थे पुण्यतमे शुभे । पापनाशात्  उत्तरत : तटे नद्यास्तु पश्चिमे ॥
३९.निर्मितं कपिलेनैव तीर्थं सर्वार्थसाधकम् । आरभ्य पुष्करसर : धाराद्रे : अवसानकम् ॥
४०.प्रोक्तान्येतानि तीर्थानि पुण्यानि जगतीपते । ताम्राया : दक्षिणे तीरे देवी तीर्थं प्रशस्यते ॥  
४१.मुक्तावती मणिवती मिलित्वा यत्र सङ्गते । तत्र सान्निध्यकरणी नित्यं कात्यायनी परा ॥
४२.क्षेत्रं मुक्तावती घोरा नद्योरभ्यन्तरं महत् । ताम्राया : दक्षिणे तीरे चन्द्रकेतुमथोत्तरे ॥
४३.धर्मारण्यमिति ख्यातं मुनीन्द्रनिलयं विदु : । तत्र तीर्थानि असंख्यानि नालं वक्तुम् मया विभो ॥
४४.बहुत्वात् ब्रह्मत्वत्वात् च माहात्म्यात् च केवलम् । ताम्राया उत्तरे तीरे दीपतीर्थं प्रचक्षते ॥
४५.शालातीर्थं तत् समीपे काश्यपं तु तत : परम् । कण्वाख्यं ब्रह्मदाख्यं च गोष्ठीशाख्यं च कथ्यते ॥
४६.आनदीसङ्गममारभ्य यावद्घोरासमागमम् । एतानि पुण्यतीर्थानि कथितानि महामते ॥
४७.अग्रेऽप्यामलकारण्यात् कण्वतीर्थात् तथोत्तरे । माण्डव्यतीर्थमित्युक्तं ताम्राया : पश्चिमे तटे ॥
४८.तदभ्याशे मित्रतीर्थं घटना सङ्गमं च तत् । प्राच्यां दिशि वितन्वाना मुख्या मलयनन्दिनी ॥
४९.प्रयाति तत्रोत्तरत : तीर्थं मानवमुच्यते । मनुना निर्मितं पूर्वं स्थापयित्वा सदाशिवम् ॥
५०.तस्मात् तु दक्षिणे तीरे पुटार्जुनपुरे शुभे । शिवलिङ्गात् पश्चिमत : तीर्थं गौतम संज्ञितम् ॥
५१.सुरेन्द्रमोक्षणं नाम तत् प्रसिद्धमबूत् पुन : । तस्मात् दक्षिणत : तीर्थं नाम्ना पैशाचमोचनम् ॥
५२.घटना सर्यू ताम्रा त्रिवेणी स्नानमाचरेत् । धर्मधाराख्यतीर्थं तु देवात् उत्तरतो भवेत् ॥
५३.तस्यापि पूर्वदिग्भागे कर्मतीर्थं प्रचक्षते । पुटार्जुनात् दक्षिणत : सिद्धतीर्थमुदाहृतम् ॥
५४.तदभ्याशे दक्षिणत : ताम्राया : पूर्वरोदसि । गजेन्द्रमोक्षमित्युक्तं प्रसिद्धं भुवनत्रये ॥    
५५.घोरा ताम्रा सङ्गमात् तु यावत् शौण्डीरकं भवेत् । तावत् तीरद्वये चापि तीर्थायेतानि भूपते ॥
५६.महानागालयं नाम क्षेत्रं कुरवकावृतम् । ताम्राया : दक्षिणे तीरे तीर्थं पुष्पवनेशितु : ॥ 
५७.तस्मात् उतरत : तीरे भद्रारण्यं प्रचक्षते । तत्र कामपुरं नाम पाण्ड्यराजविभूषणम् ॥
५८.गन्धर्वकन्याशापेन देवभोगविवर्जित : । कुबेरतनयो नाम्ना मणिग्रीव इति श्रुत : ॥
५९.तत्रैव वासमकरोत् सभार्य : सपरिच्छद : । आशापमोक्षं वसता तेनैव नियतात्मना ॥
६०.आराधितो महेशान : प्रसादमकरोत् विभु : । अनुज्ञात : मणिग्रीवो हेरम्बेणात्मविद्यया ॥
६१.भैरवम् पूजयित्वा तु ताम्रायां मज्जनं व्यधात् । सद्यो विमुक्तशापस्तु कृतार्थ : स्वपुरं ययौ ॥
६२.तदादि भैरवतीर्थं यमतीर्थं तदन्तिके । तत् पूर्वभागे प्रथितं गोतीर्थं धर्मवर्धनम् ॥
६३.दक्षिणाब्धिमुखे ताम्रा दृश्यते तत्र पावनी । अत्र नीलवनं नाम परितो योजनायतम् ॥
६४.तत्र ज्योतिर्मता नाम ऋषय : ऊर्ध्वमन्थिन : । तेषामायतनं क्षेत्रं दर्शनात् मुक्तिदं नृणाम् ॥
६५.तस्मात् दक्षिणत: किञ्चित् दश पञ्च च सप्त च । गोतीर्थात् दक्षिणे भागे ताम्राया : दक्षिणे तटे ॥
६६.दुर्गातीर्थमिति ख्यातं यत्र दुर्गा विराजते । तत्पूर्वभागे क्रोशार्धात् विष्णुतीर्थं महामते ॥
६७.तदग्रे सोमतीर्थं च व्यासतीर्थं तदन्तिके । मार्कण्डेयं महातीर्थं रोमशं च तत : परम् ॥
६८.ततो दौर्वाससं तीर्थम् तदग्रे भार्गवं महत् । अर्धक्रोशात् पूर्वभागे वैनतेयाश्रमान्तिके ॥
६९.कचालिका नाम नदी नन्दाटविसमुद्भवा । नन्दिनीमिति शंसन्ति तदरण्योद्भवेति च ॥
७०.नन्दिनीसङ्गमं तीर्थं तदरण्योद्भवेति च । नन्दिनीसङ्गमं तीर्थं वैनतेयस्य पक्षिण : ॥
७१.ततोप्युदीच्यां ताम्रायां कूले कुन्दाटवी तटे । छायातीर्थमितिख्यातमादेशात् परमेशितु ॥ 
७२.यत्र छायां समुद्वीक्ष्य तीर्थे स्वानपि पातकी । मुच्य्ते सर्वपापेभ्यो निष्टप्ततपनीयवत् ॥
७३.प्रवालमञ्जरी नाम विद्याधरवधू : पुरा । आराध्य धात्रीं तपसा लब्ध्वैतत् परमाश्रमम् ॥
७४.दिव्यवर्षशतं तत्र तताप परमं तप : । तस्या : प्रसादम् कुर्वन्त्या : भवान्या तत्र कल्पितम् ॥
७५.तीर्तं छायाभितं नाम महापातकनाशनम् । ततोऽपि पूर्वदिग्भागे गान्धर्वं तीर्थमुत्तमम् ॥
७६.तदग्रे भानुतीर्थं तु भानुना निर्मितं पुरा । तत : परं ब्रह्मवनं समन्तात् योजनद्वयम् ।
७७.आर्द्रावतीचन्दनद्यो : मध्ये ज्योतिर्वनं महत् । तत्र प्रभावती तीर्थं गौरीतीर्थं महत्तरम् ॥
७८.तथा सारस्वतं तीर्थं वृषतीर्थं च पुण्यदम् । आर्द्रापगा सङ्गमे तु चन्द्रशालाभिते स्थले ॥
७९.मन्त्रेश्वरात् उत्तरतो मन्त्रतीर्थं महत्तरम् । श्यामानद्या : परं राजन् तीरयोरुभयोरपि ॥
८०.ब्रह्मारण्यमिति ख्यातं तीर्थानि शतशोऽत्र वै । दुर्गातीर्थं समारभ्य यावत् कन्धरभूधरम् ॥
८१.कथितान्येव तीर्थानि श्रुणु राजन् तत : परम् । ताम्राया :पश्चिमे तीरे यागतीर्थमितीरितम् ॥
८२.किञ्चित् उत्तरत : तस्मात् रुद्राख्यं तीर्थमुत्तमम् । क्षिप्तपुष्पवतीतीर्थमुत्तरेण तदन्तिके ॥
८३.ततोऽर्धक्रोशतो राजन् आर्षतीर्थं प्रशस्यते । तस्मात् तु दक्षिणे तीरे श्यामाशङ्गात् च पूर्वत : ॥
८४.ब्रह्मारण्ये चतु:स्थानमग्नितीर्थमुदाहृतं । एषा ब्रह्मवने ताम्रा क्रोशार्धं पूर्ववाहिनी ॥
८५.उत्तराभिमुखी क्रोशत्रितयं च तत : परम् । पुन: क्रोशात्रयं पूर्ववाहिनी ब्रह्मकानने ॥
८६.एतावत् परमं क्षेत्रं तीरयोरुभयोरपि । महातीर्थं विना राजन् दृश्यते न पदान्तरम् ॥
८७.घर्घरात् अग्निदिग्भागे ताम्राया : पूर्वरोदसि । स्मृति तीर्थमित्युक्तं ताम्राया : पूर्व रोदसि ॥
८८.भुजङ्गमोक्षणं तीर्थं तीर्थं सूचीनुखं तत : । सिंहतीर्थं केतुतीर्थं उषातीथं हलाननम् ॥
८९.ततोयुत्तरतीर्थे तु रामतीर्थं प्रशस्यते । ऋषितीर्थं पादतीर्थं तीर्थं पापविमोचनम् ॥
९०.अत : परं प्रवक्ष्यामि ब्रह्मारण्यात् महीपते । तत् क्षेत्रादिपरं राजन् नाम्ना भिन्नरथं वनम् ॥
९१.तीरे च दक्षिणे यस्या : पक्षितीर्थं प्रशस्यते । अश्रुतीर्थं हासतीर्थं संसृलाख्यं तत : परम् ॥
९२.तथैवोत्तरतीरे च नदीस्तंभनमुच्यते । पूजापत्तनमित्युक्तं तदग्रे दुरितापहम् ॥
९३.महालोहितसंसर्गात् श्यामातीर्थं प्रशस्यते । ततो विष्णुवनं नाम यत्र चित्रा महानदी ॥
९४.सैषा मलयनन्दिन्या : सङ्गता पापहारिणी । नद्या : उत्तरे तीरे षट्क्रोशायामविस्तृते ॥
९५.गोतीर्थं विष्णुतीर्थं च कुशस्तंभायितं तथा । मृत्युञ्जयं नाम तीर्थं तीर्थं वै तैत्तरीयकम् ॥  
९६.राजसूयाभितं तीर्थं सप्तमं चन्द्रिकावृतम् । तस्यैव दक्षिणे तीरे सप्तर्षीणां महात्मनाम् ॥
९७.तीर्थानि सप्तक्षेत्रेषु कुरङ्ग : तीर्थमुच्यते । बृहद्वनात् अथ क्षेत्रं माहिष्मं नाम नामत : ॥
९८.तत्र तीर्थानि पुण्यानि शतशोऽथ सहस्रश : । तस्यवोत्तरतीरे तु श्रीमत् चन्दनकानने ॥
९९.श्रीवैकुण्ठाभितं तीर्थं समीपे शारधाभितम् । तस्मात् दक्षिणत : किञ्चित् स्मरालाख्यं प्रचक्षते ॥
१००.महाकुसुमवृष्टिश्च तथैव शतबुद्बुदम् । तदस्तु पूर्वदिग्भागे मायारण्यं प्रचक्षते ॥
१०१.ग्रावाख्यं कुरुतो यस्मात् नाम्ना ग्रवाङ्कुरं पुन : । कान्तीश्वराभितं तीर्थं कैवल्यं च नियम्यते ॥
१०२.तस्यास्तु दक्षिणे तीरे श्रीरमानगरं महत् । चिञ्चारूपेण यत्रास्ते विनिद्रो भुजगेस्वर : ॥
१०३.प्राप्तसारूप्यसौभाग्य : चतुर्बाहु : खगेश्वर : । न मुञ्चति शुभं क्षेत्रं हरिसेवनलालस : ॥
१०४.यत्र सिद्धखगा नित्यमुच्चरन्ति महामनुम् । यत्र स्थितानां मर्त्यानामन्ते हरिपदं ध्रुवम् ॥
१०५.जपन्ति रुद्रा : तत्रैव हरिरित्यक्षरद्वयम् । यत्र देहपरित्यागं कर्मत्यागमुदाहृतम् ॥
१०६.रमां रमयता नित्यं हरिणापि न मुच्यते ॥ तस्य क्षेत्रस्य माहात्म्यं हरिर्वेत्ति न चापरे ॥
१०७.तत्र तीर्थं प्रवक्ष्यामि गदत : श्रुणु मे विभो । भोगितीर्थं पद्मतीर्थं चक्रतीर्थमनन्तरम् ॥
१०८.शङ्खराजाभितं तीर्थं धर्मतीर्थमनन्तरम् । मेखलाख्यं महत् तीर्थं तत : पञ्चायुधं महत् ॥
१०९.शतरुद्रीयं तीर्थं वेणुतीर्थमनन्तरम् । उक्तान्येतानि तीर्थानि श्रीपुरे प्रथितानि तु ॥
११०.निधितीर्थं कालतीर्थं दिवा/निशातीर्थमनन्तरम् । श्रुतितीर्थं कलातीर्थं यत्र साक्षात् हरिस्स्वयम् ॥ 
१११.ततो मङ्गलतीर्थं च पितृतीर्थमनन्तरम् । तदग्रे व्याघ्रतीर्थं स्यात् तत : सोमवनं महत् ॥
११२.वास्तुतीर्थं सोमतीर्थं चण्डिकातीर्थमग्रत : । वल्लीतीर्थं हर्षतीर्थं गौरीतीर्थमनन्तरम् ॥
११३.शंभुनारायणं तीर्थं शङ्खराजाभितं तथा । एतानि सोमारण्ये तु प्रथितानि महीतले ॥
११४.नद्या : तयो : उत्तरे तीरे गुहानालास्यदर्शने । बहुबिन्दुहरं तीर्थं त्रयीतीर्थं समन्तत : ॥
११५.मुक्तिमुद्राभितं तीर्थं ज्ञानतीर्थमत : परम् । तथा पुनर्नवं तीर्थं तत्समीपे मदावलम् ॥
११६.तथाप्यगस्त्यतीर्थं च तीर्थं भैरवसंज्ञकम् । तदस्तु सङ्गमं तीर्थं तत् त्रिधा परिकीर्तितम् ॥
११७.गायत्रं चापि सावित्रं सारस्वतमत : परम् । एतानि पुण्यतीर्थानि प्रोक्तानि तव भूपते ॥
११८.एषां दर्शनमात्रेण महाव्रतफलं भवेत् । एतानि अधुना राजन् संक्षेपात् परिकिर्तितम् ॥
११९.अनुक्तान्यपि तीर्थानि शतशोऽथ सहस्रश : । तथापि तेषु च स्थानां तीर्थानां राजसत्तम ।
   माहात्म्यं संप्रवक्ष्यामि श्रुणु राजन् यथातथम् ॥

                            इति द्वाविंश : सर्ग : Pro Total = 1554 + 119 =1673.

                              त्रयोविंश : सर्ग :

                              श्येनोपाख्यानम्

१..राजन् मलयजाताया : तीरयोरुभयोरपि । अपि गोष्पदमात्रं वा न हि तीर्थं विना स्थलं ॥
२.पदे पदे तीर्थमयी ताम्रपर्णी सरिद्वरा । देवैश्च ऋषिभिस्सिद्धै : शंभुविश्वंभरादिभि : ॥
३.उपास्यामाना माहात्म्यात् तटिनीतटसंस्थितै : । नैव मुञ्चन्ति तटिनीमपि ब्रह्मपुरोगमा : ॥
४.काङ्क्षन्त : सिद्धिमतुलां महतीं मलयात्मजाम् । उक्तेषु एतेषु तीर्थेषु ब्रह्मभूतेषि भूपते ॥
५.एकैकसेवामात्रेण मुक्तिं याता : सहस्रश : । अपि कीटपतङ्गाद्या : तरुगुल्मादय : परे ॥ 
६.सिद्धिं परामनुप्राप्य भुक्तान् भोगान् यथेप्सितान् । तदन्ते मुक्तिमापन्ना : किं पुनर्मनुजा भुवि ॥
७.प्लवमानं भवांभोधौ क्लिश्यमानं जनम् । समालोक्य महादेवी प्रार्थिता परमात्मना ॥
८.करुणासान्द्रहृदया शिवैककलया पुरा । तीर्थरूपं समादाय वर्धते मलयाचलात् ॥
९.तस्मात् अत्रैव देवा : च ब्राह्मणा : स्मृतयस्तथा । क्रतवो मन्त्रतन्त्राख्या : नित्यमत्र वसन्ति हि ॥
१०.नैव पातकसंघातै : बाध्यन्ते तीरयोर्जना : । एषु पुण्यतमेष्वस्या : मयोक्तेषु महामते ॥
११.प्रसिद्धानि विशेषेण निबोधत नराधिप । शालातीर्थं दीपतीर्थं गजेन्द्रवरदालयम् ॥
१२.पुटार्जुनपुरस्थानं महादुर्गालयं तथा । मणिग्रीवपुरं चैव चैव सोमराजविमोक्षणम् ॥
१३.व्यासाश्रमं रोमशाख्यं महाज्योतिर्वनं तथा । छायातीर्थं मन्त्रतीर्थमग्निवायुं चतुष्टयम् ॥
१४.ब्रह्मवृद्धपुरं नाम तीर्थं विष्णुवनं तथा । वैकुण्ठं श्रीपुरं स्थानं सोमारण्यसङ्गमम् ॥
१५.एतानि खलु मुख्यानि पुराणे पठितान्यपि । ब्राह्मणा इव मर्त्येषु कपिला इव धेनुषु ॥
१६.यथोपनिषद : श्रेष्ठा : वेदेषु मनुजाधिप । विंशत्येतानि मुख्यानि तथा तीर्थेष्वमीषु च ॥   
१७.सर्वोत्कृष्टा ताम्रपर्णी शिवाद्यैरपिपूजिता । अनेककोटि तीर्थानां ब्रह्माण्डोदरवर्तिनाम् ।
   सैषा स्यात्    अधिदेवता ॥
१८.क्रतूनामपि मन्त्राणां कोटि : स्यात् जगतीतले । महापात्ककोटीनामन्येषामपि भूपते ॥
१९.अवस्थानस्थलमिदं प्राहु : तीरयुगं तथा । अपायमापदामंभ : तमसामंशुमानिव ॥
२०.नीहारमिव पद्मानां अनीति : यशसामिव । ताम्रपर्णीतटद्वन्द्वं पापानामपनोदने  ।(अघानामपमार्गणम्) 
२१.नैवोपायान्तरं किञ्चित् अत्र ब्रह्माण्डगह्वरे । प्राणायामात् पञ्चगव्यात् सुषुम्नानुप्रवेशनात् ॥
२२.प्राजापत्यात् भ्गो : पादात् हव्हवाहानुवेशनात् । यत्फलं लभ्यते पुंसां तदत्र स्नानतो भवेत् ॥
२३.अत्रेतिहासं परमं पुरा गीतं महर्षिणा । श्रुणु राजन् यथावृत्तं वक्तुमाश्चर्यसंयुतम् ॥
२४.पुरा कृतयुगे कश्चित् विषये पाण्ड्यभूभृत : । निवसन् शिंशुपारण्ये कण्टको नाम लुब्धक : ॥
२५.कुटुंबभारं धत्ते मांसेनारहरहर्नयन् । स कदाचित् धनुष्पाणि : शरी पाशादियन्त्रवान् । मृगया रसिको भूत्वा चचारारण्यवीथिकाम् ॥
२६.परित : पाशयन्त्राणि विस्तारयति वागुराम् । भ्रामयित्वा पक्षिकुलान् करुणं मृगयूथिकाम् ॥
२७.आत्मानं गोपयन् वृक्षकोटरे कुटिलाशय : । प्रत्ययाय विहङ्गानां मधुरं समगायत ॥
२८.व्याधे व्यवस्थिते तावत् एवमुत्खण्डिताशये । तरुस्कन्धात् अवप्लुत्य कपोतमिथुनद्वयम् ॥
२९.पपात वागुरायन्त्रे लोकमाशामुखे यथा । संहृष्टहृदयो दृष्ट्वा पतितान् तु पतत्रिण : ॥
३०.गृहीत्वा तान् पेटिकायां बद्ध्वा दृढतरं परम् । स्वपुत्रहस्ते विन्यस्य प्रशमन् अगमत् पुन : ॥
३१.अपयाते तु पितरि स पुलिन्दात्मसंभव : । क्वापि मूले तरो : स्थित्वा जन्तुग्रहणतत्पर : ॥
३२.चकार यन्त्रमतुलं यावत् बुद्धिबलोदयम् । तावत् अन्तरमासाध्य श्येनो मानोन्नतोऽम्बरात् ॥
३३.अभ्येत्य पेटिकामाशु स्वया चञ्च्वोज्जहार च । उपर्युपरि चारण्यात् उत्पतन् व्योमवर्त्मना ॥
३४.सुदूरमतिवेगेन सन्निनाय पक्षिराट् । दृश्यादृश्याध्वना व्योम्नि वलमाने विहङ्गमे ॥
३५.चण्डवात : समभवत् वात्यायुधविभीषण : । तरवोन्मूलिता भूरि शाखा गगनतोऽपतन् ॥
३६.क्वचित् च धूलिवर्षेण क्वचित् पाषाणवृष्टिभि : । मृता नष्टा विहङ्गाश्च निपेतु : शतकोटय : ॥
३७.घूर्णमानो विहङ्गोऽयं वातेन विवशीकृत : । पपात तोये ताम्राया : पूर्वपुण्यफलात् ३८.उपशान्ते चण्डवाते कश्चित् द्विजवटु : पटु : । इतस्तत : परिक्रम्य दृष्ट्वा तामपि पोतकाम् ॥
३९.प्रसन्नो मे शिव इति जग्राह धनशङ्कया । छित्वा पाशादिकं सर्वं विकटय्यावलोकिते ॥
४०.तत्पक्षिमिथुनद्वन्द्वं उत्पपात तथांबरे । उत्क्रान्ते च द्विजसुते स्मयमाने पुन:पुन : ॥
४१.पक्षिणो वृक्षमारुह्य निवसन्तोऽतिमात्रकम् । परस्परं समालोक्य रुरुदु : सुस्वरं भृशम् ॥
४२.सोऽपि श्येन : समुत्तीर्य तीरमासाद्य कुत्रचित् । पक्षान् उद्धूय तुण्डेन कण्डूयाङ्गानि कृत्स्नश : ॥
४३.उच्चैरुन्नम्य मूर्धानं दीर्घीकृत्य शिरोधराम् । दिवि गत्वा तथा तत्र तरुस्कन्धमुपारुहत् ॥
४४.पारावतकुलं दृष्ट्वा वेपमानं ससाध्वसम् । निर्मुक्तवैर : करुणमुपसृत्य तदन्तिके ॥
४५.पक्षाभ्यां परिमृज्यैतान् आश्लिष्ट : तैरपि स्वयम् । सहसा क्रन्दमान : तु रुरोद भृशदु:खित : ।
   तदन्तिके तु पक्षाभ्यां वीजयन् तैरपि स्वयम् ॥
४६.इत्यन्योन्य संश्लिष्टश्येनपारावतावलि : । व्याजहार द्विजसुत : विस्मितान्तरमानस : । कस्त्वं श्येन            
   महाभाग के यूयं च कपोतका : ॥
४७.कथं वा जातिवैरत्वे सौहार्दं परिवर्तते । हेतुना केन सञ्जातं महाशोकस्यकारणम् ॥
४८.कथय्न्तु यथातत्वं वक्तव्यम् यदि मे खगा : । इति पृष्ट : तथा तेन श्येनो वचनमब्रवीत् ॥
४९.श्रुणु ब्रह्मन् प्रवक्ष्यामि कर्मण : फलमिदृशम् । पुरा कांभोजविषये नगरी दर्शना ॥
५०.रत्नाकरीति विख्याता विचित्रभवनोज्ज्वला । मणिसालावृता रम्या सर्वतो योजनायता ॥
५१.महापरिघसंवीता सुविभक्तमहापथा । प्रासादशतसंपाता सुप्रसन्न जलाशया ॥
५२.उद्यानबहुलानन्दा नवमाणिक्यगोपुरा । महाजनसमाकीर्णा पताकाध्वजमालिनी ॥
५३.परिघेणावृतेनैषा नवकाञ्चीव भासते । विशाला बहुविस्तारा अयोध्यापरिपन्थिभि : ॥
५४.एवमभ्युदयाकारां नगरीं परिपालयन् । राजा रविकुलोत्पन्नो नाम्ना विक्रान्तकेसरी ॥
५५.शूरो युवा धर्मपर : शान्त : समरकौतुकी । गुरुसेवी भक्तिपरो यज्वा भोक्ता दयानिधि : ॥
५६.नित्यमभ्यर्चयन् विप्रान् गुरून् देवान् पितॄन् तथा। तस्मिन् शासति भूपाले धर्म: सन्धुक्षितो जनै: ॥
५७.युगपत् निदधे भूमौ चरणानां चतुष्टयम् । तद्राज्ये नित्यसान्निध्यं अकुर्वन् हव्यभागिन : ॥
५८.एवं भूतस्य राजर्षे : कालेन महिषी तथा । असूत तनयद्वन्द्वं कालिकेवाजनि द्वयम् ॥
५९.ववृधाते सुतौ बालौ पोषितौ द्विजसंमतौ । जातकर्मादिकं सर्वं पिता चक्रे स्वपुत्रयो : ॥
६०.वैजयन्तं जयन्तं च नाम्ना तौ विदधे पुन : । कृतचौलोपनयनौ वेदवेदाङ्गपारगौ ॥
६१.धनुर्वेदमधीयाग्रे ज्ञात्वा कामकलामपि । रूपयौवनसंपन्नौ चक्रतु : हर्षणं पितु : ॥
६२.ततो मगधराजस्य रूपेणाप्रतिमे सुते । अनङ्गमञ्जरीं नाम्ना परामिन्दुपताकिनीम् ॥
६३.भ्रातरावुपयेमे ते क्रमेण गुरुशासनात् । अनङ्गमञ्जरीं लब्ध्वा वैजयन्तो मुदान्वित : ॥
६४.रेमे रतिमिवासाद्य कामराजो विलासिनीम् । जयन्तम् पतिमासाद्य धनदेवेन्दुपताकिनी ॥
६५.संप्राप परमं सौख्यं पौलोमीव शतक्रतुम् । पितर्युपरते पुत्रौ प्राप्य राज्यमखण्डकम् ॥
६६.बुभुजाते मदाविष्टौ भोगान् च विविधान् तत : । एवं निवसतो : ब्रह्मन् स्निग्धयो : दैवयोगत : ॥
६७.विषमा समभूत् काममनीषा युगपत् तयो : । अनुजस्य प्रियां ज्येष्ठ : तत्प्रियामनुजस्तथा ॥
६८.काङ्क्षन्तौ चिन्तयाविष्टौ अभूतां यत्नमास्थितौ । तावत् वसुगणस्यासीत् ऋषे : पुत्रो युगन्धर : ॥
६९.धर्मज्ञोऽपि युवा दैवयोगात् कापालिको भ्रमन् । घुटिकासिद्धिमासाद्य वश्याकर्षणतन्त्रवित् ॥
७०.परीत्य विविधान् देशान् पूज्यमानश्च कामिभि : । क्रमात् रत्नाकरीं प्राप कौतूहलदिदृक्षया ॥
७१.असंयुक्तान् योजयान : संयुक्तान् च वियोजयन् । कलिं स्निग्धेषु कुर्वाण : स्नेहमुत्पादयन् पुन : ॥
७२.इन्द्रजालमुखाविद्या : दर्शयन् कौतुकावहा : । इत्थं वसन्तं स्वपुरे वैजयन्तो विमृश्य स : ॥
७३.एकान्ते समुपागम्य सन्तोष्य विविधैर्धनै : । प्राहा वाचा सविनयं पादयो : प्रणिपत्य च ॥
७४.भगवन् योगिनां वर्य शिष्यरक्षामणे गुरो । प्रणतं पादकमले भृत्यं मां त्रातुमर्हसि ॥
७५.चिन्ताशोकार्णवे घोरे प्लवमानमविश्रमम् । त्राहि त्राहि गतिर्भूयात् त्वत्वागियमनुग्रहात् ॥
७६.इति तेन महीपेन याचमान : स योगवित् । युगन्धर : सगंभीरमिदं वचनमब्रवीत् ॥
७७.युगन्धर : --चिन्तयालं महाराज स्वस्तो भवितुमर्हसि ।
              किं ते व्यवसितं स्वान्ते का वा ते च परिश्रमा ॥
७८.अपकर्षामि ते तापमाशा फलवती भवेत् । कामं ते पूरयिष्यामि यदि त्रैलोक्यदुर्लभान् ॥
७९.अविचारेण वक्तव्यमद्यैव खलु काङ्क्षितम् । स एवं सिद्धवर्येण ससान्त्वमनुशासित : ॥
८०.भूय : समादधे ब्रह्मन् वचनं स नरेश्वर : । चिन्तामणिमिवासाद्य त्वां सचैतन्यविग्रहम् ॥   
८१.लब्धकामो भविष्यामि नात्र कार्या विचारणा । विज्ञाप्यमत्र श्रोतव्यंसानुग्रहमिदं मम ॥
८२.भ्रातृपत्नी पुरास्माकं मनसा संवृता किल । तदर्थे वञ्चित : तत्राप्याहरिष्ये यथा मुने ॥
८३.नारीमतल्लिकामेनां चिन्तयानोऽहमन्वहम् । न लभे शर्म सौख्यं वा दावदग्ध इव द्रुम : ॥
८४.मालेयं अङ्गारमिव दहति मां सूचिकोपमम् । शय्यामसनिमाशग्के हालाहलमिवाशनम् ॥
८५.आतटङ्कलताश्लेषशून्यं भाति जगत्त्रयम् । यावात् तव प्रसादेन लप्स्ये परमनिर्वृतिम् ॥
८७.तथैवाभ्युदयं मन्ये जन्म चेदं मयार्जितम् । बहुना किं प्रलापेन श्रुणु मे तापगौरवम् ।
८८.त्वत्प्रसादमनासाद्य नाहं जीवितुमुत्सहे । इत्युक्त्वा पादयोस्तस्य पपात विरहातुर : ॥
८९.इत्थं मोहान्धतामिस्रसागरोर्मिपरिप्लुतम् । दृष्ट्वा युगन्धरो योगी सानुकंपेन चेतसा ॥
९०.राजानं तं समाश्वास्य भूयो वचनमब्रवीत् । युगन्धर : --अनभिज्ञातमन्यैस्तु स्वमनोरथमवाप्तवान् ॥
९१.तापेनालं महाराज साधयिष्यामिते प्रियम् । इत्युक्त्वा वश्यकरिणीं तथाप्याकर्षणीमपि ॥
९२.प्रादात् तस्मै तु घुटिकां नानाविधविनोदिनीम् । वैजयन्तो ततो लब्ध्वा स्वमनोरथसाधनम् ॥
९३.अन्यैरप्यनभिज्ञातमासाद्य भवनं निजम् । अथैव विदधे कृत्यं संप्राप्य च मनोरथम् ॥
९४.जयन्तोऽपि द्विजश्रेष्ठात् तं प्राप स्वमनोरथम् । अनभिज्ञातमन्यैस्तु स्वमनोरथमवाप्तवान् ॥
९५.इत्थं कामातुरावेतौ शक्त्या कापालिकस्य तु । स्वयो : स्त्रियौ परिवृत्य आस्तां संहृष्टमानसौ ॥
९६.तयो : पुरोहित : कश्चित् उद्दालक इति श्रुत : । अर्थैकलुब्धको भूत्वा तच्चित्ताराधक : स्वयम् ॥
९७.कुर्वन् तदुपधां भूरि धर्मज्ञोऽपि द्विजाधम : । निनाय कालं बहुलं राजपापस्य भाजनम् ॥
९८.एवं राजाधमौ पापौ भ्रातृपत्नीपरिग्रहौ । विमत्तौ राजमार्गाणां नारीविषयलंपटौ ॥
९९.धनलुब्धौ मदाविष्टौ हिंसन्तौ सकला : प्रजा : । कापालिकेभ्य धूर्तेभ्य : सञ्जातपापपुञ्जकौ ॥
१००.अभूतामङ्गनासक्तौ कुलाचारविवर्जितौ । एवं निवसतोर्भ्रात्रो : शत्रुभि : बलवत्तरै : ॥
१०१.पुरं ग्रामादिकं राज्यं हृतं सबलवाहनम् । भ्रष्टराज्यौ निर्धनिनौ स्त्रीभ्यां साकं पुरोधसा ॥
१०२.नगरात् अपयाता : ते अरण्यानीं गता : तथा । सह्यं गिरिमुपागम्य कस्मिंश्चित् तरुकोटरे ॥
१०३.अनभिज्ञातमरिभि : अत्यूषु : ते भयातुरा : । एतस्मिन्नन्तरे ब्रह्मन् स कापालि : युगन्धर : ॥
१०४.ब्रष्टराज्याविमौ श्रुत्वा तावन्विष्य ययौ द्रुतम् । ततस्तत : समन्विष्य सह्यमासाद्य पर्वतम् ॥
१०५.ददर्श परमुद्विग्नौ ब्रातरु दीनमानसौ । तं दृष्ट्वा सहसोत्थाय नेमतु : हृष्टमानसौ ॥
१०६.तौ तदरण्ये मिलितौ तत्पुरोधा : च दीनधी : । तमेव शरणं प्रापु : क्षुत्पिपासाश्रमातुरा : ॥
१०७.एतान् सुदु:खितान् दृष्ट्वा स तु कापालिक : कृती । सान्वयानो मुहुर्वाचा योगक्षेममकल्प्पयत् ॥
१०८.इत्थं द्विजश्च नरपालसुतावुभौ च कापालिकश्च विषयैकपरा विमूढा : ।
   पर्याक्रमात् रतिमवाप्य नृपालपुत्र्यो : आसन् वनेऽपि सुखित : प्रमदानुवासात् ॥

                              इति त्रयोविंश : सर्ग :     Pro.Total = 1673 + 108 = 1781.

                                चतुर्विंशोऽध्याय :

                        अग्नीश्वरेण लिखितं श्येनोपाख्यानम्

१.वीरसेन : --कथेयं जगदानन्दजननी चन्द्रिकोपमा । ब्रह्मन् तव मुखांभोजात् उदिर्णा मलयात् इव ॥
२.कथं तिरश्चां वात्सल्यमन्योन्यं संप्रवर्तितम् । परं स्नेहं तथा चक्रे श्येन : तत्र दयानिधे ॥
३.शङ्ख : --आकर्णय महाराजकथामेनां पुरातनीम्। वर्णयामि समाख्यतं पक्षिणा द्विजसूनवे ॥
४.कथामेतावतीं कर्णविषयीकृत्य विस्मित : । स विप्रसुनुर्भूयोऽपि वचनं चेदं चादधे ॥
५.द्विजकुमार : --पक्षिराज महाबुद्धे त्रिकालज्ञानवारिधे । नाभ्येति भवतो बुद्ध्या समतामपि गीष्पति : ॥
६.शुद्धवर्णतया वाचो व्यज्यते द्विजमुख्यता । रसमार्दवगांभीर्यवर्णालङ्कारभूषिता ॥
७.विभाति वागियम् शुद्धा तवैव तरुणी यथा । महाभाग्यवशह्येषा मनीषा द्विजपुङ्गव ॥
८.नान्यत्र रमते चित्तं अनुरक्ता सती यथा । भूयोऽपि श्रोतुमिच्छामि कत्जामेनां पुरातनीम् ॥
९.सह्याद्रि गिरिं प्राप्य सस्त्रीकौ राजनन्दनौ । किञ्चक्रतुर्वञ्चकिनौ युक्तदृष्टपुरोहितौ ॥
१०.प्राप्य कापालिकम् बन्धुं तदशेषं तु वर्ण्यताम् । श्येन : --श्रुणु ब्रह्मन् प्रवक्ष्यामि यत्कृतं पूर्वजन्मनि ॥
११.राजभोगपरिभ्रष्टोवैजयन्त : सहानुज : । वन्यमूले फलाहार : परिवृत्यततस्तत : ॥
१२.प्रियादर्शनसौभाग्यसुधामात्रेण जीवित : । प्राप्य कापालिकं दैवात् आश्वस्त : तमिदम् जगौ ॥
१३.वैजयन्त : --भगवन् करुणामूर्ते भक्ताभीष्ट सुरद्रुम । मद्रक्षणाय देवेन दर्शितोऽनि दयानिधि : ॥
१४.दु;खातपानुतप्तस्य छायादस्त्वं सुरद्रुम : । कुत आयासि भगवन् केन वासि प्रबोधित : ॥
१५.अहो दयात्र च मुने विफलेषु जनेष्वपि । लोकोपकारशीलानां प्रवृत्तिस्तु भवादृशाम् ॥
१६.न बिभेमि न खिन्नोऽस्मिनैव भ्रान्तोऽस्मि सर्वत : । तवागमनसौभाग्यसंप्राप्तया करुणानिधे ॥
१७.इत्थं भ्रमन्मुहुर्वाचा परितो बाष्पलोचन : । पतित्वा पादयोस्तस्य प्रणम्य तमवोचत ॥
१८.तं भुजाभ्यामवस्थाप्य परिमृज्यास्यलोचने । स्मितपूर्वमुवाचेदं कापालिकमतानुग : ॥
१९.कापालिक: -वत्स मा शोकमोहाभ्यां धैर्यमालम्ब्य सत्वरम्।विजहीहि भयं तीव्रं संतापं मुञ्च मानसम्॥
२०.अवस्थितसुहृत्यस्मिन् त्वया कालो वनक्षम : । यावज्जीवं विधास्यामि साहाय्यं सौख्यहेतवे ॥ 
२१.काचित् अस्ति महाविद्या अरिवर्गवशङ्करी । तयाहं पालयिष्यामि मा विचारोऽस्तु मामकै : ॥
२२.इत : परं इहास्माभि : गन्तव्यो मलयाचल : । तत्र प्रवर्तिता महापुण्या मुनिना कुंभजन्मना ॥
२३.ताम्रपर्णीति विख्याता सर्वतीर्थनिशेविता । भुक्तिदा मुक्तिदा नॄणां स्नानदानानुवर्तनै : ॥  
२४.यत्र् पाटवराटीषु मल्लिकावेल्लितासु च । रमन्ते रमणोपेता : स्वैरं सुरसुमध्यमा : ॥
२५.ताम्रपर्णी सुधासारा विविधासारविभ्रमा । माकन्दस्कन्धविहरन् कोकिलालापचारुषु ॥
२६.यत्र सानुषु सानन्दं गायन्ति खलु किन्नरा : । मकरन्दप्रवर्षेण नित्यदुर्दिनशङ्कया ॥
२७.पुलिन्दशबरीवर्गै : आमुक्तमणिकर्बुरम् । अद्रिराजमुपासन्ते मन्दं गन्धवहा : पुन : ॥
२८.नित्यपुष्पफलिनो वृक्षा नैव मुञ्चन्ति तत्र तु । अकालफलिनो वृक्षा : नित्यपुष्पा : मधुस्वरा : ॥
२९.इक्षुच्छायावॄते गुल्मे निषादिन्य : चरन्ति हि । ताम्राया : मलयनन्दिन्या : स्रोतोभागे ततस्तत : ॥
३०.जना : विन्दन्ति रत्नानि नानारूपाणि भूरिश : । द्रोणमात्रप्रमाणानि मधूनि प्रतिभूरुहम् ॥
३१.यल्लतासदनस्थानात् नैराश्यं मणिभूमिके । अपरे माधवीं भूरि मधुधारां घनाटवीम् ॥
३२.वयं तु सर्वशास्त्रज्ञा परिशीलितभूरिति । विना मलयसौभाग्यं स्तोतुमन्यं कथं क्षमम् ॥
३३.त्रैलोक्यभाग्यपूर्णस्य मलयस्य कुतस्स्वयम् । सारवित् सर्वलोकस्य लोपामुद्रापतिर्मुनि : ॥
३४.नैव मुञ्चन्ति गन्धाद्रिकटकं पावनं महत् । अथ सुखार्थिभि : मर्त्यै : उपास्योऽयं महीधर : ॥
३५.इत्थमाश्वास्य कापाली भ्रातरु नृपनन्दनौ । सभ्रातृभ्यां सभार्याभ्यां ब्राह्मणेन पुरोधसा ॥
३६.सह निष्क्रम्य सह्याद्रे : मलयं प्रत्यपद्यत । सर्वत : शोभमानं च सानन्दमिव योगिनाम् ॥
३७.शारदाभ्रसमाकारै : शिखरै : साधुसेवितै : । उल्लिखन्तमिवाकाशं नानाधातुविचित्रितम् ॥
३८.अविच्छिन्नै : हारवर्णै : निर्झरै : समलङ्कृतम् । केरनारङ्गपाटीरपाटलाङ्कोलदाडिमै : ॥
३९.मालूरामलकैलैश्च कुन्दमन्दारतिन्दुकै : । तमालकलिवानीरनागकेसरचंपकै : ॥
४०.मधुमाकन्दकङ्केलिवकुलासनसायकै : । माधवीबन्धुबन्धूकरंभेन्द्राणीन्द्रपादपै : ॥
४१.पुष्पितैरपरैर्वृक्षै : फलितै : पल्लवोज्ज्वलै : । अलङ्कृतं महावृक्षै : अन्यैरप्यचलोपमम् ॥
४२.वसन्तस्यापि वसन्त : महोदयतरो गुरु : । ग्रीष्मस्याप्युष्णतो योगी महागरलवाहिनी ॥
४३.मकरन्दकणै : भूरि वर्षतो मलयाचल : । पुण्योदककरणै : स्वच्छवापीभि : शरदागम : ॥
४४.नवनिर्झरिणीशीतमरुताहिमतुन्दिल : । शिशिराचन्दनारण्ये सञ्चरत्गन्धवाहिना ॥
४५.समर्तु सुखसंपन्ना समस्तजनसेविता । मलयो मालयामास बन्धून् इव समागतान् ॥ 
४६.तेऽपि तं गिरिमासाद्य कस्मिंश्चित् प्रौढगह्वरे । चक्रुर्निवासमासन्नदीपूरादिसौष्ठवम् ॥
४७.तौ च दृष्ट्वा नृपसुतौ ते च राजकुमारिके । पुरोहितश्च कापाली ननन्दु : स्थलसौष्ठवात् ॥
४८.स्नात्वा तीर्थे महापुण्ये ताम्राया : परमाद्भुते । भुञ्जान वन्यमाहारमूषु : तत्र यथासुखम् ॥
४९.एवं निवसतां तेषां कापाली स युगन्धर : । सान्त्त्वयित्वा पुनर्वाक्यमुवाच नृपनन्दनौ ॥
५०.युगन्धर: --श्रुण्वन्तु मे वच: पथ्यं सर्वेषां जीवनप्रदम् । रात्रौ नारीं समाहूय तस्यामावाह्य यक्षिणीम् ॥
५१.पूजयित्वा यथान्यायं तया कार्या रतिक्रिया । एवमाचरतां यक्षी प्रत्यहं वरदा सती ॥
५२.ददाति कनकं शुद्धं निष्कमात्रं न संशय : । इति ब्रुवति वै तस्मिन् सर्वे सन्तुष्टमानसा : ॥
५३.तथैवास्त्विति संभाष्य तुष्टुवुश्च पुन:पुन : । इत्थं संवर्तमानानामुत्थितानामुषस्यपि ॥
५४.लब्धमासीत् निष्कमात्रं तपनीयं महामते । तत : कमपि तत्रस्थं व्याधमाहूय भूपते ॥
५५.वचनं प्राह कापाली सर्वान् आमन्त्र्य मन्त्रवित् । पुलिन्दवर्य कार्येषु चतुर : प्रतिभाति मे ॥
५६.अतोऽस्मासु सुहृत् भूत्वा सप्तम : सुखभाग्जन : । यावज्जीवं निवसितुं त्वमर्हस्यप्रमादत : ॥
५७.प्रत्यहं निष्कमात्रेण जीवाम : समभागत : । अहोरात्रस्य चैकस्य यावता परिवर्तये ॥
५८.तावता निवनिष्केण वस्तुजातं सुवर्णत : । यत्र जीवनसामग्री यत्र संपूर्णकाञ्चनम् ॥
५९.दत्वा तस्य करे स्वर्णं त्दादातुं त्वमर्हसि । दत्तमेतेन कनकमादाय स वनेचर : ॥             
६०.बाणशूकापिदानस्य शबरेन्द्रस्य कस्यचित् । प्रदाय काञ्चनं वाचमिदमाह कृताञ्जलि : ॥
६१.वनेचर: --देवाकर्णय विज्ञाप्यं स्वामिकार्यप्रयोजनम् । ममापि जीवनं तस्मादागतोऽस्मि तवान्तिकम् ॥
६२.निष्कमात्रं हेमखण्डं दशवर्णादिकं खलु । कस्यचित् सिद्धनाथस्य देह्यहोरात्रभोजनम् ॥
६३.अहं तु सप्तम : तस्य पुरुष : परिचारक : । यावता सुखिनस्ते तु मृष्टान्ना मृष्टभोगिन : ॥
६४.तावद्धि देहि वस्तूनि तण्डुलादीनि भूरिश : । इति दत्वा हेमखण्डं समादाय पुलिन्दरात् ॥
६५.तस्मै प्रादात् प्रादात् प्रहृष्टात्मा संभारान् सकृदादिकान् । मुद्गसर्षपगोधूमशालितण्डुलसंयुतान् ॥
६६.कन्दमूलफलोपेतान् मधुमाध्वीकपूर्वकान् । पूगनागकदल्यादीन् गन्धद्रव्यसमन्वितान् ॥
६७.महाभोगान् प्रदायैव प्रोवाच वचनं पुन: । बाणशूक: --नित्यमेवं प्रदास्यामि यद्यानेतासि काञ्चनम् ॥ 
६८.नान्यत्र देयं कनकं सिद्धदत्तमिदं खलु । मामकोऽसि भवान् भृत्य तस्मात् आज्ञापयाम्यहम् ॥
६९.तव दास्यामि परममनर्घ्यं पारितोषिकम् । इत्युक्त्वा प्रेषयित्वा तं तत्काञ्चनमनुत्तमम् ॥
७०.रहस्ताम्रघटे क्षिप्त्वा स कोशभवने न्यधात् । स भृत्योऽपि समादाय संभारान् अपि भाजनै : ॥
७१.कापालिकस्य पुरत : याथातथ्यं न्यवेदयत् । तत् सर्वं सप्तधा कृत्वा स संप्रीतो युगन्धर : ॥
७२.अंशमेकमदात्तस्मै सोऽपि लब्ध्वा गृहं ययौ । अपरेद्युरुपेत्यैनं योगिनं तमतन्द्रित : ॥
७३.तस्मात् काञ्चनमादाय स दूत : तुष्टमानस : । दत्वा पुलिन्दनाथाय तस्मात् संभारमात्मवान् ॥
७४.सोऽपि सर्वं समावेद्य वस्तुजातं प्रसन्नधी : । तत् दत्तं काञ्चनं भूयो घटे निक्षिप्तवान् प्रभु : ॥
७५.दूतानीतं विभज्यैकमंशं दत्वा व्यसर्जयत् । युगन्धर : बहुविधै : मृष्टान्नै : घृतसंप्लुतै : ॥
७६.भोजयित्वा स्वयं भुञ्जन् अवात्सीत् गिरिगह्वरे । प्रात : स्नाता : ताम्रपर्ण्यां मालिन्यक्षयहेतवे ॥
७७.सालङ्कारा : प्रतिदिनं स्रक्चन्दनविभूषणै : । भक्ष्यभोज्यविशेषैश्च मांसमैरेयसंस्कृतै : ॥
७८.तर्पयन्त : स्वगात्राणि संहृष्टाश्चपरस्परम् । हसन्तो हासयन्तश्च गायन्तश्च कलनिस्स्वनम् ॥
७९.अनङ्गतन्त्रसारज्ञा : क्रीडन्त : प्रमदायुता : । चन्दनद्रुमवाटीषु कदंबविपिनेशु च ॥
८०.सरित्रोदस्सु रम्येषु पुष्पितोद्यानभूमिषु । गुहासु मणिदीप्तासु माधवीमण्डपेष्वपि ॥
८१.माध्वीपानमदाविष्टा : विजह्रु : तत्र तत्र ते । इत्थमब्दत्रयं तेषां निमिषार्धमिवाभवत् ॥  
८२.सोऽपि राजा पुलिन्दानां आश्चर्याविष्टमानस : । कदाचित् कनकं सर्वं सह मन्त्रिभि : ॥
८३.घटमालोकयामास धनलुब्धो निशामुखे । न ददर्श घटे तस्मिन् सञ्चितं नवकाञ्चनम् ॥
८४.कुतो गतमिदं सर्वं चोरैरपिहृतं तु वा । पुत्रदाराभि : किन्तु वञ्चितोऽहमथापि वा ॥
८५.नीयन्ते वा महाभूतै : सञ्चितं किं न दृश्यते । मया विना न गन्तव्यमन्यै : कोशगृहं खलु ॥
८६.न वञ्चयन्ति मे दारा : नैव द्रुह्यन्ति मे सुता : । कुतो गतमिदं सर्वं किं न गृह्णामि दुर्दमम् ॥
८७.अथवा काञ्चनस्यापि किन्नु शक्ति : पलायने । सिद्धदत्तमिदं स्वर्णं सिद्धेनापिहृतं ध्रुवम् ॥
८८.अन्यथा मम गेहेऽस्मिन् क : समर्थ : प्रवेशने । अप्रमादं हि रक्षन्ति परितो नगरं भटा : ॥
८९.अदृश्यदृश्यसञ्चारा : योगिनो हि न संशय : । तस्मात् विचारणीयं मे कार्यमस्ति महत्तरम् ॥
९०.इति निश्चित्य मनसा वनेचरकुलेश्वर : । अन्य्र्द्युरागतं भूय : भृत्यं कनकसंयुतम् ॥  
९१.आहूय मानयित्वा तु रहस्याह विशांपते । बाणशूक --अये वनचर कथं केन जीवसि कर्मणा ॥
९२.अविचार्य ममैव त्वं जीवस्यन्यत्र सञ्चरन् । त्वत्तोऽन्यस्य सुहृदस्माकं नास्त्येव भुवनत्रये ॥
९३.त्वत् सहायात् बहुधनं लब्धमन्यत्र दुर्लभम् । इत : परं करिष्यामि प्रादान्यत्वे दुरावहम् ॥
९४.सिद्ध : स तु महायोगी क्व गतस्ते परिच्छद : । गुउं प्रणौमि तंयेन विधिना स्पृष्टमायिना ॥
९५.सज्जनाश्रयत : सर्वे भवन्ति सुखिनो नृपा : । सत्सङ्गात् एव जायन्ते संपदस्तु पदे पदे ॥
९६.सर्वं कथय मे भृत्य यथावृत्तं यथास्थिति । अपि देवसहायस्य काङ्क्षणीयो नृपश्रिय : ॥
९७.राजानुकूलहीनस्य देवोऽपि न सुखप्रद : । देववत् गुरुवत् पश्यन् राजानं पर्युपासते ॥
९८.तस्योभयत्र जायन्ते फलानि सुखहेतवे । अतस्त्वामनुशास्येऽहं तथा साहाय्यकृत्भव : ॥
९९.तं च तत्वसतिं चैव संप्रदर्शय मा चिरम् । मत् व्रूत्तान्तं न वक्तव्यं तस्मै सिद्धाय योगिने ॥
१००.श्व : प्रातरत्र गन्तव्यं ततो वक्ष्यामि ते हितम् । दत्वोपकरणान्यस्मै यथापूर्वं स भूपति : ॥  
१०१.प्रेषयामास तं भृत्यं अनभिज्ञानमन्यत : । तत् दत्तं कनकं प्रास्य तत्र निक्षिप्य भाजने ॥
१०२.स्थाप्य संरक्षयामास यावदभ्युदयं रवे : । व्युष्टायामथ रात्र्यां तु न ददर्श पुनर्घटे ॥
१०३.विस्मयाविष्टहृदयो लुब्धकानामनीश्वर : । स्वभटान् आनयामास बाणकार्मुकधारिण : ॥
१०४.सन्नद्धा : सर्व एवैते भर्तुराज्ञानुशासनम् । राजद्वारे समाववृ : शतशोऽथ सहस्रश : ॥
१०५.चक्रचापधरा : केचित् असिधेनुकधारिण : । अपरे शूलशक्त्यृष्टिभिण्डिफालवरायुधा : ॥ 
१०६.शूरा : समरसन्नद्धा : नीलकुञ्चितमूर्धजा : । आजग्मुर्भयसंभ्रान्ता : मेघा इव घनागमे ॥
१०७.एतस्मिन्नन्तरे दूत : समायात : सकाञ्चन : । तेन सार्धमसौ राजा सैन्येन महतावृत : ॥
१०८.यत्र कापालिको दुष्ट : तौ च राजेन्द्रनन्दनौ । स तमावृत्य तं देशं करे जग्राह तं शठम् ॥
१०९.तौ च राजसुतौ भीतौ सपत्नीकौ द्विजान्वितौ । निरुध्य तान् उवाचेदं राजा कापालिकं वच : ॥
११०.योगीन्द्र सर्वशास्त्रज्ञ त्वां सेवितुमिहागतम् । मामवेहि दयामूर्ते समचित्ता भवादृशा : ॥
१११.अप्रयुयुद्धाभिमुख्यस्य शत्रुं प्रति मम प्रभो । अर्थसाधनचक्रस्य भव भव्यकरो गुरु : ॥
११२.इत्युक्तवति वै तस्मिन् वनेचरकुलेश्वरे । धीर : प्रोवाच कापाली तं भूय : कैतवात्मक : ॥
११३.राजन् क्रमेण दास्यामि कोटिनिष्कं न संशय : । पूरयिष्यामि ते गेहं मणिकाज्चनभूषणै : ॥
११४.तत् वशोऽनर्थकं मत्वा सूक्ष्मबुद्ध्या पुलिन्दराट् । अद्यैव खलु दातव्यं कोटिनिष्कमथापि वा ॥
११५.लब्धारोग्यस्य किं भूय : भैषज्यविधिना मुने । अनर्थकमधीयानो स्पष्टाक्षरपद्धतिम् ॥
११६.अप्रमाण्यं विनिश्चित्य मेधावी स महीपति : । खड्गमादाय कोपेन कालरात्रसमप्रभम् ॥
११७.चिच्छेद तरसा तेषां शिरांसि गतचेतसाम् । तौ राजपुत्रान् विप्रं च देशभार्ये युगन्धरम् ॥
११८.एवं च वञ्च्यतां तेषां विश्वस्तेषु जनेष्वपि । निग्रहो नैव दोषाय व्याघ्राणामिव कानने ॥
११९.इत्युक्त्वा स पुलिन्देन स्वभटै : संवृतो ययौ । ते तु दुर्मतिमासाद्य स्वकृतेनैव कर्मणा ॥
१२०.बध्यमाना यमभटै : प्रापु : संयमनीपुरीम् । तुल्यदृष्टोपमा : सर्वे तुल्यदुष्कृतकारिण : ॥
१२१.तुल्यकालहता भूय : बभ्रमुर्यमसन्निधौ । महानदीतीर्थनिषेवणेन न यातनामप्यभयानुविद्धा : ।
    दृष्ट्वैव बाधामपि नारकाणां कालं महान्तं खलु तत्र संस्था : ॥ 
१२२.यमाज्ञया भूमिमनुप्रविष्टा : तिर्यक्त्वभावेऽपि पुनस्समेता :
    पुण्योदकस्पर्शनभाग्यलाभात् त्रिकालविज्ञानमिदं च लब्धम् ।
    पारावतौ राजसुताविमौ तौ शोकाभितप्तौ प्रमदासहायौ
    युगन्धरोऽहं द्विजपुङ्गवस्त्वं पुरोहित : पूर्वभवे विचित्रम् ॥

                            इति चतुर्विंशोऽध्याय :        Pro.Total = 1781 + 122 =1901.
                                                                           

                                     पञ्चविंशोऽध्याय :

                                यमगीता

१.द्विजकुमार : --पक्षिराज महाबुद्धे सर्वज्ञानकलानिधे । अपि तिर्यक्त्वमासाद्य जानन्ते योगिनामिव ॥
२.वयं पूर्वभवे पापात् प्राप्ता दुर्मरणं पुन : । कीदृशी गतिरस्माकमनुभूता यमालये ॥
३.श्येनत्वं केन वा प्राप्तं कर्मणास्मिन्भवे न : च । पारावतत्वमेतेषां गतमासीत् सुदुस्सह : ॥
४.तुल्यपापसमाचारे ब्राह्मणत्वं कथं मयि । सभायां धर्मराजस्य क : प्रसङ्ग : समीरित : ॥
५.इत : परमिहास्माकं कागतिर्देवचोदिता । एतत् सर्वमशेषेण श्रोतुमिच्छामि हे सखे ॥
६.शंख : --इति पृष्ट : तदा श्येन : सादरं द्विजसूनुना । विहाय मानसं दु:खं धैर्यमालम्ब्य चेतसि ॥
७.किञ्चित् विश्राम्य सोच्छ्वासं प्राहेदं पक्षिराट् द्विजम् । हन्त ते कथयिष्यामि विचित्रं विस्मयावहम् ॥
८.श्रुतं दृष्टं यमपुरे यदस्माभिरनुष्ठितम् । यथानुशासितं राज्ञा सभायां सूर्यसूनुना ॥
९.यदा व्याधाधिराजेन निहता : तीव्रमन्युना । तथैव प्राप्तमस्माभि : वपुरत्यन्तनिन्दितम् ॥
१०.परितो मेघसङ्काशा : सायुधा यमकिङ्करा : । आवृत्य भर्त्सयन्तोऽस्माविनिन्युर्यमसंसदम् ॥
११.प्रणंय यमराजानं ऊचुर्विनयसंस्थिता : । प्रसीद नाथ भृत्येषु भक्तेष्वस्मासुसांप्रतम् ॥
१२समाकर्णय विज्ञाप्यम् अस्माभि : समुदीरितम् । राजशासनमादाय मूर्ध्ना चूडामणिं यथा ॥
१३.मलयाद्रिम् समासाद्य नीत्वा म्लेच्छहतानिमान् । यातनां कर्तुमारोप्य समानीता : तवान्तिकम् ॥
१४.नालं पन्थाय पापानामेतेषां रचना विभो । अस्मदायुधजालानि नालं खण्डयितुं पुन : ॥
१५.क्षिप्तमुल्कासहस्रं च पुष्पायन्ते हि पापिषु । न जलूका न वा सर्पा नखगा नैव दंशका : ॥
१६.एतां शिक्षयितुं राजन् न व्याघ्रा नव्याधयोऽपि वा । न वयं शिक्षितारस्तु किं कुर्म : कर्म वै परम् ॥
१७.इति तेषां वच : श्रुत्वा राजा वैवस्वतो यम : । स्मयमान : सान्तमन्त : कुपितो वाक्यमब्रवीत् ॥
१८.आगच्छन्तु भटा : शीघ्रं नानाशस्त्रास्रपाणय : ।छिन्दन्तु खड्गै : गात्राणि छेदयन्तु शरैस्तनू : ॥
१९.तदस्त्र ज्वलितोल्काभि : पोथयन्तु च मुद्गरै : । भर्जन्तु कटाहेषु तैल सन्धुक्ष्तेषु च ॥
२०.बध्नन्तु पाशैर्विविधै : कषन्वङ्गारराशिषु । उत्पाटयन्तु रसनां कृष्यन्त्वन्त्राणि जम्बुकै : ॥
२१.क्रकचैर्दरियन्त्वेतान् चूर्णयन्तु पुन : पुन : । इतिसंपन्नगंभीरंमुच्चैर्ब्रुवति चान्तके ॥
२२.सर्वोद्योगेन ते दूता : ताडयामासुरोजसा । मुसलै : पाट्यमानैश्च शूलशक्तिपरश्वथै : ॥
२३.उल्काशतैरङ्कुरैर्वा दु:खं ते न प्रतिपेदिरे । पूष्पवृष्टिभिराविष्टा : गन्धालिप्ता इवाभवन् ॥
२४.परिश्रान्ता भटास्सर्वे तूष्णीमासन् समन्तत : । न व्यध न क्षुधा तेषां पापिष्ठानां यमान्तिके ॥
२५.किमेतत् इति जल्पन्तो दूरे तस्थुर्वृथोद्यमा : । विस्मयाकुलचितानां किमेतत् इति जल्पताम् ॥ 
२६.सभ्यानामभवत् घोषं मेघानामिव गर्जताम् । चिन्तयाने पितृपतौ चित्रगुप्ते च विस्मिते ॥
२७.काले कलनसंभग्ने भृत्ये ध्यानमुपेयुषि । हीणेषु किङ्करेष्वेवं प्रशान्ते जननिस्स्वने ॥
२८.अंबरादशरीराभूत् क्वापि वागंबुदस्वना । अशक्या शिक्षितुं ह्येते महातीर्थनिषेवणात् ॥
२९.अवज्ञयापि ताम्राया : मज्जन्त्त : तीर्थवारिणा । हन्यन्ते पातकैस्सर्वै : न वृष्ट्या पर्वता इव ॥
३०.इति श्रुत्वा यमो राजा भयसंविग्नमानस : । कृताञ्जलिर्वेपमान : सगद्गदमिदं जगौ ॥
३१.यम : --अहो महोदयमिदं श्रुतं मे चिरकालत : । कृतानि सुकृतान्यत्र फलितानि न संशय : ॥
३२.यस्या : श्रवणमात्रेण मुच्यन्ते जन्तवो भयात् । तामिदं त्वत्प्रसङ्गेन श्रुणोमि श्रुतिलालिताम् ॥
३३.यामाहु: श्रुतयो नित्यं पापघ्नीं मलयात्मजाम् । स्तुवन्ति मुनयो नित्यं निष्पापा: पावनीं च ताम् ॥ 
३४.यत्र् वेदाश्च मन्त्राश्च क्रतवो ब्रह्मचोदिता : । यत्पय:कणिकामात्र पवित्रीकृतमूर्तय : ॥
३५.यत्प्रवाहेन या पूता : मूर्तय :खलु कीर्तय : । यत्तोयममृतं प्राहु : ब्रह्मात्मकमकल्मषम् ॥
३६.यत्र नारायण : साक्षात् वटुरूपेण वर्तते । इरावती धेनुमती परुष्णी भवनी सुधा ॥
३७.अरुणा चेति वेदान्तवचोभि : परिगीयते । यत्तीर्थपरिणामेन जायन्ते मणयो भुवि ॥
३८.सदाशिवेन नियता कण्ठाभरणमालिका । विष्णुचूडामणिरियं हृल्लेखा भारतीपते : ॥
३९.अदृश्या सर्वभूतानामादिशक्तिरनामया । प्रार्थिता शङ्करेणादौ तीर्थाकारा प्रदृश्यते ॥
४०.तां नुम : परमानन्दजननीं मलयात्मजाम् । पुरत :पातु मां नित्यं पापघ्नी ललितेश्वरी ॥
४१.पृष्ठत : सततं पातु पाटीराचलकन्यका । दक्षिणे चाक्षुषी नित्या वामा माणिक्यगर्भिणी ॥
४२.अधस्तात् उपरिष्टात् च पातु मां पद्मगर्भिणी । दिवानिशं महादेवीं ताम्रपर्णीं स्मराम्यहम् ॥
४३.स्मरामि सायं प्रात : तां सावित्रीं तीर्थदेवताम् । इति स्तुवन् यमो राजा मूर्ध्ना मुकुलित्ञ्जलि : ॥
४४.आनन्दबाष्पपूराभ्यां लोचनाभ्यां विलोकयन् । धायन् स्तुवन् नमस्यंश्च क्षणं मौनमुपागमत् ॥
४४.इति स्तुवन्तं राजानं सर्वे तस्य सभासद : । प्रणिपत्य महाभागा : मिलित्वा वाचमूचिरे ॥
४६.सभ्या: ऊचु: --भगवन् सर्वधर्मज्ञ धर्मराज दयानिधे।अस्या: प्रभावं ताम्राया: श्रोतुमिच्छामहे वयम् ॥   
४७.यदंबुलेशसंपर्कात् यातना नैव जन्तुषु । आश्चर्यादिव ताम्राया : पश्यामो विभो ॥
४८.हन्त व : कथयिष्यामि कथां कलिनिवारणीम् । दृष्टा मया काचित् कथा कौतूहलावहा ॥
४९.तामिदानीं प्रवक्ष्यामि शृण्वन्तु विनयोज्ज्वला : । पुरा कृतयुगे कश्चित् हरिस्वामीति विश्रुत : ॥
५०.वेदवेदान्तवित् दान्त : शान्त : सर्वसम : सुधी : । भार्यां पुत्रेषु निक्षिप्य समारोप्य हुताशनम् ॥
५१.तृतीयमाश्रमं प्राप्य योगी नियत मानस : । तपश्चचार सुचिरं ताम्राया : उत्तरे तटे ॥
५२.याज्ञवल्क्याश्रमे पुण्ये ब्रह्मज्ञानविधित्सया । प्राप्य प्रसन्नात् वरुणात् बीजमौर्वारुकं शुभम् ॥
५३.वापयित्वाश्रमाभ्याशे ररक्षोपवनपादपै : । सैषा प्रधानिनी वीरुत् आवृता बाहुमात्रक : ॥
५४.फलत्यरहरह : पक्वमेकमेकं सुधारसम् । तत्र त्रिवर्गमाराध्य चकाराहारमात्मवान् ॥
५५.एतस्मिन्नन्तरे कश्चित् विप्रो वासिष्ठगोत्रज : । कुटुंबभरणासक्त : श्रोत्रिय : च  विशेषत : ॥
५६.भानुचित्त इति ख्यात : कृत्याकृत्यविचारवित् । अविरक्तदयाचित्तमाशापरवशं वहन् ॥
५७.मलिम्लुचानां शूराणां वदान्यानां स भूसुर : । पौरोहित्यधुरं चक्रे तत् दत्तैर्वृत्तिमाचरन् ॥
५८.हरिस्वामिननमासाद्य सखित्वात् अभ्यवादयत् । तमागतं प्रीणयित्वा हरिस्वामी महामुनि : ॥
५९.बभाषे वचनं चेदउपविष्टं सुहृत्तमम् । सखे तव गृहे कश्चित् कुशलं परिवर्तते ॥
६०.किमर्थमागतोऽसि त्वं कस्ते चित्तमनोरथ : । सर्वं कथय मे तथ्यं श्रोतव्यं मे सुहृत्तया ॥
६१.भानुचित्त : --भगवन् कुशलं सर्वं ख्रुपया तव मे गृहे । त्वदङ्घ्रिवन्दनासक्त : सङ्क्रमस्नानवाञ्छया ॥
६२.अतस्सिंहस्समारूढे भास्करे लोकलोचने । ताम्रपर्णीजलस्नानं अश्वमेधफलाधिकम् ॥
६३.इति गर्जति सर्वत्र गाथा पौराणिकी किल । स्नातुमिच्छामि भगवन् त्वदनुज्ञापुरस्सरम् ॥
६४.श्रुत्वैवं वचनं तस्य हर्षमाण : पुन:पुन : । पुन्रेवापरं वाक्यं सुहृदं प्रत्यभाषत ॥
६५.सुहृत् तवैवागमनात् सन्तुष्टोऽस्मि महामते । स्नात्वा तीर्थं यथान्यायमत्रादित्यं विधाय च ॥
६६.उषित्वा रजनीमद्य ते गन्तासि गृहं प्रति । इत्थं संमानितस्तेन मुनिना स महीसुर : ॥
६७.स्नात्वा तीर्थे महापुण्ये तर्पयित्वा पितॄन् सुरान् । पुन : तदाश्रमम् प्राप्य नियमान्त् यथाविधि ॥
६८.और्वारुकफलेनैव सुधासारातिशायिना । मुनिदत्तेन निर्वृत्य प्राणाहुतिविधिं क्रमात् ॥
६९.उषित्वा रजनीमेकां तेन सार्धं महर्षिणा । तमापृच्छ्य प्रभातायां प्रस्थातुमुपचक्रमे ॥
७०.दृष्ट्वा तदाश्रमाभ्याशे उर्वारुकलतां शुभाम् । कुतूहलेन मनसा फलमाहृत्य सत्वरम् ॥
७१.जगाम स्वगृहं विप्र : सकुटुंबोभ्यभक्षयत् । हरिस्वामी समुत्थाय स्नात्वा सूर्यमुपास्य च ॥
७२.निवृत्य काल्यं नियमं हुताग्नि : कृतकृत्यवित् । फलाहाराय मध्यान्हे सोर्वारुकमुपागमत् ॥
७३.न ददर्श फलं तत्र क्षुधार्त इदमब्रवीत् । येन वापहृतं पक्वं त्रिवर्गोदयहेतुकम् ॥
७४.स पापी भवितात्रैव जंबुको नात्र संशय : । इति शप्त्वा मुनि : कोपात् प्राप्य चोपाषितो गृहम् ॥
७५.भानुदत्तस्स विप्रोऽपि शओतस्तेन महात्मना । गोमायुत्वमवाप्यैव निर्गतस्स्वगृहादसौ ॥
७६.दु:खेन महताविष्टो मुनेस्तस्याश्रमं ययौ । चुक्रोश बहुधा तत्र वेपमान : परिभ्रमन् ॥
७७.हरिस्वामी तदाज्ञाय दिवा गोमायुनिस्स्वनम् । विनिर्गत्याश्रमद्वारे ददर्शाग्रे तु जंबुकम् ।
७८.सोऽपि तीव्रं समागत्य पादयो : प्रणिपत्य च । लुठमान : तदा दु:खात् समाक्रन्दत् मुनिं प्रति ॥
७९.किमेतत् इति सन्चिन्त्य दृष्ट्वा दिव्येन चक्षुषा । गोमायुमवदत् धीमान् सखित्वात् करुणानिधि : ॥
८०.सखे मयानभिज्ञेन शप्तोऽसि धृतमन्युना । भवितव्ये न शोचन्ते पण्डिता : शान्तबुद्धय : ॥
८१.तवाविकत : प्राप्तं नवमेतत पराभवम् । अनुभूयाल्पकालेन श्रेयो विन्दति शाश्वतम् ॥
८२.भक्ति : परशिवे भूयात् वागस्तु तव वैखरी । बुद्धिस्तु सततं संयक् सततं मदनुग्रहात् ॥
८३.यावदभ्येति सविताचापराशिमित : परम् । तदत्र मज्जनायैव ताम्रपर्ण्यामित : परम् ॥
८४.निर्मुक्तसापो भविता मेघमुक्त इवांशुमान् । मदाश्रस्योपखण्डे शिलागर्ते वसिष्यसि ॥
८५.तावत् मदाज्ञया सर्वे नैव हिंसन्ति संस्थितम् । इत्थमाश्वासित : शापात् कथितो मुनिनामुना ॥
८६.उवासान्यनेकानि गणयन्नेष जंबुक : । तावत् तद्देशभूपाल : पाण्ड्य : परपुरञ्जय : ॥
८७.श्रुत्वा जनपदं सर्वं चोरैरप्याहृतं मुहु : । कुपित : सेनया सार्धमावृत्य गिरिकाननम् ॥
८८.जग्राह निखिलान् सर्वान् तस्करान् सपरिच्छदान् । सर्वान् आनीय सैन्येन शूलप्रोतान् अकारयत् ॥
८९.दूरतो वायुनाकृष्टं शवगन्धं स जंबुक : । आघ्राय कौतुकी वेगात् निस्ससार बिलोदरात् ॥  
९०.शिलागर्तात् विनिष्क्रान्त: प्रययौ यत्र ते हता: । ददर्श चोरान् शूलप्रोतान् भक्ष्यमाणान् तु वायसै : ॥
९१.लुण्ठितान् च खगै: तीव्रै: शृगालै : चोपखण्डितान् । तुण्डेनोत्पाट्यमानान् च गृध्रसंघै : बिलोद्धतै : ॥
९२.इतस्ततो भक्ष्यमाणान् भषकै : श्वापदैरपि । क्षणेनोद्गम्य तत्प्रान्तं चिन्तयामास स जम्बुक : ॥
९३.किमारब्धमिदं पापं मया सर्वत्र कुत्सितम् । जात्या न जम्बुकोऽहं छन्दोगान्वयसंभव : ॥
९४.अविवेकतया पापं कृत्वा जम्बुकतां गत : । पतितं तारयेत् विद्वान् आत्मानमास्थित : ॥
९५.हतं निघ्नन्ति कुत्रापि पतितं क : प्रपातयेत् । दृष्ट्वा स्पृष्ट्वापि मज्जन्ति शवं तीर्थेषु मानवा : ॥
९६.कथं रमे शवाहारे जानन्नपि यथोचितम् । पुरा कुन्तलराजस्तु नागकेतुरिति श्रुत : ॥
९७.पर्णादस्य च शापेन व्याघ्रो भूत्वा महावने । धेनुं हत्वा ऋचीकस्य ज्ञात्वा भक्षितवान् पुन : ॥
९८.अपि शापान्तमासाद्य ततो गोहत्तिमाप्तवान् । वसिष्ठशापात् रक्षोऽभूत् कल्माषाङ्घ्री महीपति : ॥
९९.ब्राह्मणीशापजं दोषं मुक्तशापोऽप्यवाप्तवान् । इत्थं विचार्य सुचिरं निवृत्त : शवभक्षणात् ॥
१००.पुनर्मनीषामाश्रित्य निस्सृत्य मतिमानसौ । सविमर्शं पुन :कार्यं कमप्येवमचिन्तयत् ॥ 
१०१.एतेषामेव चोराणामहं सिद्ध : पुरोहित : । तत्तैरेषां धनैरेव पोषितोऽहं चिरं खलु ॥
१०२.एतेषां सद्गतिं दत्वा ऋणान्मुक्तो भवाम्यहम् । इति निश्चित्य मृगधूर्त : कुतूहलात् ॥
१०३.तेषामस्थीनि सर्वाणि पतितानि महीतले । विकृष्य तीर्थे चिक्षेप तम्राया : पर्माद्भुते ॥
१०४.स्वयं स्नातो महानद्यां शिलागर्तं पुनर्ययौ । सर्वे सभ्या : परं चित्रं शृणुध्वं मामका जना : ॥
१०५.तेषामाजन्मपापानां ताम्रायामस्थिसञ्चये । पतिते जम्बुकक्षिप्ते ताम्रोदा हतपापिन : ॥
१०६.पश्यमान : ततो घोरे नरके दुस्सहे पुन : । निर्जग्मु : सूर्यसङ्काशा : कन्दर्पसमविग्रहा : ॥
१०७.अप्सरोगुणमान्येन वपुषा मणिचारुणा । विमानमारुह्य शुभं सर्वे स्वर्गमुपागमन् ॥
१०८.एवं दृष्टं मया सभ्या : ताम्राया : परमाद्भुतम् ।य  तदादिनित्यं मलयेन्द्रकन्यां आराधयन् वाग्भिरनुत्तमाभि : । एवं नयिह्यामि यथानुकूलं तत्दर्शनं दूरत एव कुर्वन् ॥
१०९.वैमानिकास्ते नु समेत्य ताम्रां विशोध्य पापादपि भानुदत्तम् ।
   प्रसाद्य भूयोऽपि गुरुं प्रपन्ना : तेनानुशिष्टा : प्रययौ स्वलोकान् ॥
   
                            इति पञ्चविंशोऽध्याय :    Pro.Total = 1901 + 109 = 2010.

                                षड्विंशोऽध्याय :

        श्येनपारावतानां पुण्यलोकगमनम् -- द्विजसुतस्य ताम्रपर्णीप्रसादात् ब्रह्मपदप्राप्ति :

१.यम : --विचित्रेयं कथा ख्याता तीर्थमाहात्म्यरूपिणी। श्रवणात् कीर्तनात् वापि पापघ्नी नात्र संशय : ॥ 
२.अस्या : प्रभावं वक्तुं वा श्रोतुं वा वर्षकोटिभि : । नालमादिपराशक्ते : मालाया : शोभनोदयम् ॥
३.प्रत्यहं मामकास्सर्वे नमस्कृत्य सरिद्वराम् । जपन् तन्नामधेयानि पुण्यान्यात्मशुद्धये ॥
४.एतावत् उक्त्वा वचनं राजा वैवस्वान्तक : । भटान् आहूय भूयोऽपि सभायामभ्यभाषत ॥
५.षडेते तीर्थसंसर्गात् शुद्धा यातनाभयवर्जिता : । तथापि कर्मसुद्ध्यर्थं पश्यन्तु नरकान् बहून् ॥
६.इत्याज्ञप्ता भटास्तेन नीत्वास्मान् यमशासनात् । नरकान् दर्शयामासु : शतशोऽथ सहस्रश : ॥
७.रौरवं कास्वरं चैव कुंभीपाकं शरारुकम् । महारौरवमातङ्गं कृमिशं कृमिभक्षकम् ॥
८.बालाभक्षं वीचिकं च तप्तवालुकमंशुकम् । रेत:कुण्डं पूतिगन्धं कश्मलं शमलं मलम् ॥
९.एतान् अन्यान् च भूयिष्ठान् नारकैर्विविधैर्जनै ; । शूलप्रोतान् भक्ष्यमाणान् क्रकचैर्दारितानपि ॥
१०.कुठारैर्भेद्यमानान् च भक्ष्यमाणान च वायसै : । सञ्छिन्नान् क्षारसंक्लिन्नान् अङ्गरे तैललेपितान् ॥
११.एवमन्यान् च बहुलान् पीड्यमानान् समन्तत : । दृष्ट्वा दृष्ट्वा वयं सर्वे वेपमाना भयातुरा : ॥
१२.चतुराशीतिसाहस्रवर्षाण्येवोषिता : किल । पुनर्यमान्तिकं नीता : सन्दिष्टा तेन सौरिणा ॥
१३.श्लाघ्यवंशसंभूत : धर्मज्ञ : श्रुतिपारग : । दुस्संपर्केऽपि भुञ्जान : गायत्र्या चाभियन्त्रित : ॥
१४.अत एव पुनर्विप्रो भविता नात्र संशय : । वर्णान्तरगत : पापी कापाली सर्ववञ्चक : ॥
१५.श्येनोऽयं भविता नूनं निजकर्मनियन्त्रित : । एते पारावता भूत्चा वसन्तु रुचिरं वने ॥
१६.यदा ताम्रा नदी तोये मज्जन्त : शुभदायके । तदास्तु भूयसी शुद्धि : पूर्वजन्मस्मृतिर्भवेत् ॥
१७.षण्णां समागमो यावत् ताव्त् स्नात्वा नदीजले । कर्मानुरूपं गच्छन्तु स्वर्गतिं दिव्यभोगिन : ॥
१८.द्विजोऽयं ज्ञानसंपन्न : कर्मिष्ठ : च विशेषत : । इष्ट्वा बहुविधैर्यज्ञै : अपि देवान् पितॄन् ऋषीन् ॥
१९.अक्षयं शांभवं लोकं प्रयातु प्रार्थितं यथा । इत्थं यमेन सन्दिष्टा : प्राप्ता वयमिह द्विज ॥
२०.स पुरोधास्त्वस्माकम् अहम् कापालिको मत : । राजपुत्राविमौ ज्ञेयौ सभार्यौ पक्षिवेषकौ ॥ 
२१.इत : परं सदा भूयात् अस्माकं परमा गति : । देवो गुरुश्च बन्धुश्च सखा माता पिता भवान् ॥
२२.पालनीया वयं सर्वे भवता द्विजबन्धुना । वयं त्वां शरणं प्राप्ता : सवित्रीमिव पालका : ॥
२३.शङ्ख : --इत्थं ब्रुवाणं भीतास्ते पक्षिणश्शोककर्शिता: । निपेतु: पादयोस्तस्य ब्राह्मणस्य महात्मन: ॥
२४.समाश्वास्य गिरा राजन् संभाव्य च महामति : । स्मयमानोऽश्रुपूर्णाक्ष : तूष्णीं क्षणमतिष्ठत ॥
२५.प्रसन्नात्मा ततस्ते तु साकमेत्य महानदीम् । पक्शिण : स्नापयामास अहामन्त्रं समुच्चरन् ॥
२६.सर्वे ममज्जुर्विहगा : संप्राप्य मलयात्मजाम् । तीरमासाद्य सद्यैव तत्यजु : तनुमात्मन : ॥
२७.कोटिकन्दर्पलावण्यं बिभ्राणा भास्वरं वपु : । द्विजं प्रदक्षिणीकृत्य नमस्कृत्य पुन:पुन : ॥
२८.वैमानिकावैमानिकास्ततो जग्मु र्महाभागास्सुरालयम् । इत्थं विचित्रमालोक्य लब्धपूर्वभवस्मृति : ॥
२९.निर्विण्णचित्तो दु;खेन तपसे कृतनिश्चय : । अवगाह्य महातिर्थं संस्तुवन् मलयात्मजाम् ॥
३०.स्वपित्रो : कथयामास वृत्तान्तमिदमद्भुतम् । कथञ्चित् उपलभ्यासौ अनुज्ञामभिवाद्य च ॥  
३१.प्राप्येन्द्रकीलं परमं क्षेत्रं क्षेमकरं नृणाम् । हृदि ध्यात्वा महादेवीं मालां मलयनन्दिनीम् ॥
३२.तताप परमम् बालोऽप्यमरैरनुभावितम् । अब्भक्षो वायुभक्ष : शीर्णपर्णाशनस्तथा ॥
३३.चकरोग्रं तप:श्रीमान् त्रिलोकीविस्मयावहम् । एवं वर्षत्रये पूर्णे सन्तुष्टा  तीर्थदेवता ॥
३४.आविर्बभूव तस्याग्रे सेव्यमाना सुरासुरै : । द्योतयन्ती दिशस्सर्वा : स्वभासा कुङ्कुमैरिव ॥
३५.वत्स तातेत्युदारार्थै : वचनै : प्रीणयत्यमुम् । श्रीदेवी --वत्स तात प्रसन्नोऽस्मि तपसानेन भूयसा ।
   दास्यामि कामान् अखिलान् दुर्लभानपि भूतले ॥
३६.अलं परिश्रमेणात्र वरान् वरय सुव्रत । इति श्रुत्वा वचो मातु : स बाल : प्रीतमानस : ॥
३७.समाधिमुपसंहृत्य समुन्मील्य विलोचने । ददर्शाग्रे महादेवीम् बालातपसमप्रभाम् ॥
३८.नानामणिगणाकीर्णै : भूषणैरपि भूषिताम् । मन्दस्मितामिन्दुभूषनां भुवनेश्वरीम् ॥
३९.मुनिवृन्दैस्सेव्यमानां तीर्थशक्तिगणावृताम् । इत्थं चराचरमयीं देवीमालोक्य संभ्रमात् ॥
४०.प्रणम्य पुरतो मूर्ध्नि तुष्टाव मलयात्मजाम् । ब्रह्मचारी --प्रसीद मातर्माहेशि मलयाद्रिसमुद्भवे ॥ 
४१.महापातकजंभालपरिशोषणभास्करे । पापान्धकारसंघातभञ्जनैकार्कमण्डले ॥
४२.परितापापहे भास्वन्महामणिमहोदये । कल्याणि कमलावासे महामलयनन्दिनि ॥
४३.मायाजालमहाध्वान्तपरिपन्थिपय:कणे । धर्मद्रवे भगवति भवज्वालापहारिणि ॥
४४.प्रसीद प्रणवाकारे प्राक्तने तारकोदये । ताम्रपर्णि जगन्मात : प्रसीद मयि सन्ततम् ।
४५.जन्महारिणि जन्तूनां पापहारिणि मज्जताम् । भयहारिणि भक्तानां भोगदे पुण्यकर्मणाम् ॥
४६.कुंभसंभवसौभाग्यसाधने कामदोहिनि । पापघ्नि भवपङ्कग्नि परमानन्ददायिनि ॥
४७.पाटीरशैलतनये पवित्रे ते नमो नम : । सम्स्ततीर्थजननि समानाधिकवर्जिते ॥
४८.अनादिशक्तिसंभूते पूवे पूर्वे नमो नम : । स्वर्गसोपानसुभगै : तरङ्गैरुपशोभिते ॥
४९.आवर्तरूपै : प्रणवैरभिरामे नमो नम : । त्रिलोकजननीशानहृदयाब्जविहारिणि ॥
५०.विधातृविष्णुसंभाव्ये तीर्थमातर्नमोऽस्तु ते । त्वदङ्घ्रिभक्तिरच्छिन्ना मयि भूयान्निरन्तरा ॥ 
५१.त्वदन्यत्र मनो मे स्यान्न कदाचित् दयात्मिके । त्वत्तीरे वसतिर्भूयात् त्वत्पादजलसेवया ॥
५२.आनन्दबाष्पपूर्णाभ्यामक्षिभ्यां त्वां विलोकये । त्वत्कथामृतपूरेण पूरये श्रवणद्वयम् ॥
५३.मनसा भावयिष्यामि मातस्त्वामेव सन्ततम् । ममेन्द्रियाणि सर्वाणि सदा सेवनपूजने ॥
५४.मामनन्यगतिं भक्तं मा मुञ्च मलयात्मजे । महामङ्गलदे देवि मातर्मयि दयां कुरु ॥
५५.त्वां विश्वस्य वसाम्यम्ब त्वन्नस्त्राणकरी परा । अन्यां गतिं न पश्यामि त्वयैव मम जीवनम् ॥
५६.इत्थं स संस्तुवन् राजन् रोमाञ्चितकलेबर : । भूय: पपात पादाब्जे भगवत्यास्भूसुर :॥
५७.एवं मलयजा देवी संस्तुता ब्रह्मचारिणा । प्रार्थिता च पुनर्भक्त्या तमुत्थाप्य चतुर्भुजै : ॥
५८.परिमृज्यामृताकारै : प्रेम्णा स्वकरपङ्कजै : । विकिरन्तीव पीयूषै : मन्दस्मेरांशुसञ्चयै : ॥
५९.वीणानादामृताचार्यै : वचनैर्व्याजहार तम् । यथाभिलषितं तात तथास्तु तव सन्ततम् ॥
६०.तव सन्तु चतुष्षष्टिकला कौतूहलावहा । छन्दाम्स्ययातयामानि भवन्तु मदनुग्रहात् ॥
६१.कुर्वन्त्वनुग्रहे सर्वे ब्रह्मरुद्रमुखास्सुरा : । कौतूहलावहा लक्ष्मीर्भूयात् त्वय्यनपायिनी ॥
६२.जीवन् वर्षसहस्राणि महाभाग्यसमन्वित : । पुत्रपौत्रै : परिवृत : भुक्त्वा भोगान् यथेप्सितान् ॥
६३.इष्ट्वा यज्ञैस्सुरान् सर्वान् विपुलैराप्तदक्षिणै : । ततस्ते भविता कीर्ति : प्रार्थिता सकलैस्सुरा :॥
६४.सर्वे वदन्तु त्वामुग्रतपसं मम चाज्ञया । नित्यमाराधयन् शम्भुं भक्त्या मामपि मातरम् ॥
६५.गृहं गच्छ यथासौख्यं सर्वतो भद्रमस्तु ते । इत्थं तं बालमाश्वास्य देवी तीर्थैकदेवता ॥ 
६६.भूय : प्रवाहमध्ये तु प्रविवेश महानदी । तमुग्रतपसं प्राहु : सर्वे सिद्धा : सुरासुरा : ॥
६७.पूज्यमानो मुनिगणै : भूतैश्च विविधैरपि । प्राप्य स्वाश्रमं पित्रो : पादयोरभ्यवादयत् ॥
६८.मूर्ध्न्याघ्राय नन्द्यैनं पितरावाप्यनन्दताम् । ततो भ्रद्वाजमुखात् वेदानभ्यस्य बुद्धिमान् ॥
६९.वेदान् च विविधान् चान्या : कला : कौतूहलावहा : । गुरुदक्षिणयाचार्यं संपूज्य तदनुग्रहात् ॥
७०.मेधातिथे : सुतां तन्वीं नाम्ना शालावतीं शुभाम् । उपयेमे विधानेन सर्वेषां प्रीतिवर्धनम् ॥ 
७१.तयैव भार्यया सार्धं गार्हस्थ्यमनुवर्तयन् । चकार वाजपेयादीन् क्रतून् विपुलदक्षिणान् ॥
७२.मणिग्रीवपुरे नित्यं निवसन् स्वगृहे सुधी : । प्रत्यब्दं तीर्थयात्रां तु तीरयोरुभयोरपि ॥
७३.आरभ्य मलयं शैलमासागरमतन्द्रित : । पुत्रदारसमायुक्तं शिष्यैश्च सहितो वशी ॥
७४.स्नानं चकार विधिवत् तीर्थश्राद्धसमन्वितम् । ताम्रपर्णीं समभ्यर्च्य प्रतिमायां समन्त्रकम् ॥
७६.अभ्यर्च्य नामभिर्दिव्यै : भोजयित्वा द्विजोत्तमान् । दक्षिणाभिर्यथान्यायं आशानुगुणमर्चयन् ॥
७७.नित्यं त्रिषवणस्नायी निनाय समयं क्रमात् । त्रिशताधिकसाहस्रपञ्चकम् शरदां ययौ ॥
७८.जीवन् पुत्रेषु विन्यस्य गृहधर्मान् सनातनान् । मलये तप आतिष्ठन् संप्राप ब्रह्मण:पदम् ॥
७९.पुन:कल्पान्तरे राजन् महातीर्थस्यवैभवात् । जन्मलब्धं विधेरासीत् सनको योगिनां वर : ॥
८०.अद्यापि तीर्थमाहात्म्यात् तीर्थवत् भुवनत्रयम् । पुनाति दर्शनेनैव महसा सूर्यसन्निभ : ॥
८१.अस्य सञ्चरमाणस्य समन्तात् आदियोगिन : । वायोरिति गति : क्वापि नैव समृध्यते खलु ॥
८२.अप्यन्ये पापिनो मर्त्या : शतशोऽथ सहस्रश : । यत्तीर्थकणिका मात्रस्पर्शनात् एव भूपते ॥
८३.निधूतपापा गच्छन्ति पदं ब्रह्म सनातनम् । यदम्बुकणिकाशक्तिमहिमा सागरोपम : ॥
८४.तस्मात् अस्यास्तु माहात्म्यम् वक्तुं वाचामगोचरम् । नालं वर्षशतेनापि विस्तरेण गिरां पते : ॥
८५.प्रवक्तुर्वागनेकार्था युक्तिसाधनसंश्रुता । अपि देशान्तरगता : पापात्मनो यदृच्छया ॥
८६.गृणन्त : परिमुच्यन्ते नामान्यस्य तु भूरिश : । तस्मात् त्वमपि न्राजेन्द्र दैवयोगादिहागत : ॥
८७.स्नात्वा तीर्थेषु सर्वेषु ताम्रपर्ण्यां समाहित : । दत्वा दानानि भूरीणि ताम्रामभ्यर्च्य पावनीम् ॥
८८.अनुग्रहान् महादेव्या : प्राप्य कामान् अनुत्तमान् । भूयो गन्तासि स्वर्लोकं सुखभोगसमृद्धिमत् ॥
८९.इति तस्य मुनेर्वाक्यं आकर्ण्य स महीपति : । परमानन्दनिर्मग्नहृदयो दयितान्वित : ॥
९०.संस्तुवन् मुनिशार्दूलं हर्षगद्गदया गिरा । भूयो धर्मान् च शुश्रूषु : प्राञ्जलिर्वाक्यमब्रवीत् ॥

                             इति षड्विशोऽध्याय :    Pro.Total = 2010 + 90 = 2100.

                                सप्तविंशोऽध्याय :

     वसुमना इति नाम्ना राज्ञा अगस्त्यवचनेन ताम्रपर्ण्यास्नानपूर्वकं काश्यपतीर्थे याग : कृत :

१.राजा --न हि स्थिरतया मेरो : पुरुष : सदृश : किल । पारावारस्य गांभीर्यं परत्र न हि विद्यते ॥
२.ब्रह्मणस्सर्गसामर्थ्यं ब्रह्मण्ये न चान्यत : । तथैव ताम्रपर्ण्यास्तु तीर्थशक्तेस्त्वतुल्यता ॥
३.न हि जागर्ति कुत्रापि परत्र भुवनत्रये । सुधासारस्थितं स्वादुलहरी किमु चान्यत : ॥
४.तथा माहात्म्यं महिमा ताम्रायामेव दृश्यते । अस्या : प्रभावं भूयोऽपि श्रोतव्यं मे महामुने ॥
५.पुण्ड्रेक्षुदुग्धोल्लसितं स्वादुता लोकरञ्जनी । प्रतिपद्य विशिष्टा हि रसनाग्रे प्रकाशते ॥
६.तथैवासागरं ताम्रा महापातकनाशिनी । कथिता विंशतिस्थाने विशिष्टेति त्वया गुरो ॥
७.तस्मात् तेषां तु तीर्थानां माहात्म्यं महदद्भुतम् । सोपाख्यानं तु विस्तार्य कथयस्व यथातथम् ॥
८.शङ्ख : --महाराजाधिसंभूतं कथां कलिमलापहाम् । शृणुष्व सावधानेन वक्ष्यमाणामिमां मया ॥
९.पुरा वसुमना नाम राजासीत् द्वापरे युगे । ययातिन : तु दौहित्र : सगरिष्ठ : प्रतापवान् ॥
१०.विजित्य सकलामुर्वीं धनमादाय पुष्कलाम् । गच्चन् एव महाराज ददर्शाध्वान्तरे स्वयम् ॥ 
११.परीतं तपसां राशिं मुनि साक्षात् इवेश्वरम् । त्रिकालवेदिनं गर्गमाचार्यं सर्वदेहिनाम् ॥
१२.उपगम्याभिवाद्यैनं प्रश्रितो वाक्यमब्रवीत् । स्वागतं ते महाभाग प्रसीद करुणानिधे ॥
१३.दूराभ्यागमनश्रान्त्या तनुस्ते तनुतां गता । विश्रान्तिर्यावता तावत् भूयात् आसीदमासनम् ॥
१४.अपूर्वदर्शनं ब्रह्मन् तव पादाम्बुजम् मम । पुरा कृतानां धर्माणामिष्टापूर्तकृतात्मनाम् ॥
१५.फलानि पर्प्पक्वानि मन्ये त्वद्दर्शनात् अहम् । चिरकाङ्क्षितमेतत् हि श्रीमत् आगमनात् अयम् ॥
१६.इत : परं यतिष्येऽहं त्वदभीप्सितसाधने । नियुङ्क्ष्व मां महायोगिन् कृत्येष्वभिमते ॥
१७.सन्तं भवन्तमाराध्य कृतकृत्यो भवाम्यहम् । इत्यभिष्टूय वचनैरर्हणैरपि सादरम् ॥
१८.पूजयित्वानुयाचन् तं कृताञ्जलिरुपस्थित : । जहास किञ्चित् उद्विग्नो नोत्तरं प्रत्यपद्यत ॥
१९.पुन: प्रसादयन् वाचा मुनिमाह महीपति : । हेयमस्ति किमस्मासु भगवन् कथ्यतामिह ॥
२०.नाङ्गीकरोषि मद्वाक्यं किं वा हासस्य कारणम् । त्वद्वच : श्रवणोत्कण्ठा वाञ्छा किन्न पूर्यते ॥
२१.दर्शनात् आप्तहर्षस्य मनो डोलायते मम । चन्द्र : चकोरं पुष्णाति चातकं च घनाघन : ॥
२२.तथा सन्त : विनीतं हि भूषयन्ति भवादृशा : । इत्थं व्याकुलचित्तस्य वैमनस्यं महीपते : ॥
२३.दृष्ट्वातिकरुणं प्रेम्णा गर्गो मुनिरभाषत । राजन् त्वयि न पश्यामि हेयमद्यापि शत्रुहन् ॥
२४.कलङ्कता चन्द्रमसि वैषम्यं क्षीरसागरे । गौरीगुरौ तु जडता कौटिल्यं हि शरासने ॥
२५.तीक्ष्णता भास्करे नित्या दोषता रजनीमुखे । चिन्तामणौ च काठिन्यं पशुत्वं कामधेनुषु ॥
२६.एवं दोषैकभूयिष्ठे विस्तीर्णे विश्वगह्वरे । त्वय्येकस्मिन् न पश्यामि दोषं क्षीरे यथा विभो ॥
२७.तथापि दोषं दृष्ट्वाहं त्वय्यर्केऽपुपरागवत् । आगतोऽस्मि हि तद्वक्तुमधुना सत्वरं त्वयि ॥
२८.त्वया सागरपर्यन्ता वसुधा दिग्जिगीषया । परं पर्यटता भूरि तुरङ्गरथकुञ्जरै : ॥
२९.सार्धमक्षौणीलक्षै : व्यक्तमुद्वेजिता मही । भिन्नानि देवतागाराणि दूषितानि स्थलान्यपि ॥
३०.ब्रह्मक्षेत्राणि शतशो नाशितानि ततस्तत : । भिन्नारामाणि पुण्यानि ग्रामाण्यात्मवतामपि ॥ 
३१.संक्षुब्धजनसंपातमर्यादप्रचारकम् । अस्वच्छन्दाश्रमाचारमपविद्धफलोदयम् ॥
३२.हाहाकारावृतं राज्यं सञ्जातं भवता खलु । तद्दोषादेव राजेन्द्र क्षीणमायु: क्षणादिव ॥
३३.इत : परं द्वादशाहात् मृत्यु : त्वामुपगच्छति । तस्मात् तद्दोषशमनं प्रायश्चित्तं समाचर ॥
३४.दाशार्हेणमाहूतो यज्ञार्थं यत्र भूभुजा । त्वरितं गन्तुमिच्छामि राजाधानी महात्मान : ॥
३५.मथुरां माधवो यत्र सान्निध्यं कुरुते सदा । यामासाद्यावमुच्यन्ते जन्तव : कर्मबन्धनात् ॥
३६.अतस्त्वमत्र निकटे मलये मङ्गलालये । लोपामुद्रापतिश्श्रीमान् वसते तपसां निधि : ॥
३७.तं गच्छ शरणं शीघ्रं माविलम्बोऽस्तु भूपते । स त्वां पालयति श्रीमान् अपि संयमनीं गतम् ॥
३८.पुरा गण्डूलनगरे राक्षसेनापि भक्षितम् । पदातिकुलसंमर्दपताकाध्वजमालिनीम् ॥
३९.ध्वजिनीं स्वां महानाथामुप्वेश्य नदीतटे । स राजा विनयोपेत : संप्राप कलशोद्भवम् ॥
४०.उपसृत्यागस्त्यस्य कृताञ्जलिरुदारधी : । अभ्यवादयदात्मानं प्रब्रुवन् एव भूपते ॥   
४१.तं दृष्ट्वा मुनिशार्दूल : राजानं सूर्यवंशजम् । अभिनन्द्योपचाराद्यै : यथावत् अभिपूज्य च ॥
४२.स्मयमनो मुनि: प्रीत्या राजानमिदमब्रवीत्। अगस्त्य: --स्वागतं ते महाराज परिश्रान्तोऽसि केन च ॥
४३.किं ते व्यवसितं चित्ते किम् चिकीर्षुस्समागत : । चिन्ताकुल इवाभासि कारणं वक्तुमर्हसि ॥
४४.राजन् तवाभ्यगमनात् संहृष्टोऽस्मि महामते । सर्वं कथय तत्वेन मास्तु चिन्ता परिश्रम : ॥
४५.अपनेष्यामि शोकं ते नात्र कार्या विचारणा । आसागरमिमामुर्वीं जितवानसि लाघवात् ॥
४६.असङ्ख्यातानि रत्नानि नानावर्णानि भूतले । आर्जितानि सहेमानि देवभोज्यानि सर्वत : ॥
४७.ज्ञातं मे सकलं वृत्तं समाधिमुपजग्मुषा । इत्याकर्ण्य मुनेर्वाक्यं पीयूषमिव कर्णयो : ॥
४८.चिन्तामन्तर्गतां त्यक्त्वा प्राञ्जलि : प्रत्यभाषत । वसु : --ब्रह्मन् भक्तजनानन्दपारिजातपदाम्बुज ॥
४९.शरणं त्वां प्रपन्नोऽस्मि श्रूयतां वचनं मम । मया सञ्चरतां भूमिं दिगन्तविजिगीषया ॥
५०.यदृच्छया गर्गमुनि : पूजनीयोऽभिपूजित : । लोकसन्तापसञ्जातपापात् आयु : क्षयं मम ॥
५१.मह्यं सङ्कथयन् प्रायात् स मुनिर्मथुरापुरीम् । दीर्घायुर्योगसिद्ध्यर्थं त्वामस्मिशरणं गत : ॥
५२.ततस्तमाश्वास्य गिरा भगवान् कलशोद्भव : । विचार्य सर्वशास्त्राणि विमृश्य निगमान्यपि ॥
५३.निश्चितार्थो मुनि : प्रीत्या प्राह गंभीरया गिरा ।
   अगस्त्य : --श्रुणु राजन् प्रवक्ष्यामि प्रायश्चित्तं तु पाप्मनाम् ॥
५४.एषा महानदी पुण्या घृतमाला मधुद्रवा । ताम्रपर्णीति विख्याता निगमान्तविलासिनी ॥
५५.पण्डितै : पठ्यते नित्यं पुराणेषु पुन:पुन : । परुष्णीति सुपर्णेति ताम्रेति श्रुतयो जगु : ॥
५६.धर्मद्र्वेति सर्वत्र कथ्यते हि सुरासुरै : । यत्तीर्थमहिमां नित्यं वदन्ति वचसामरा : ॥
५७.हरिरत्रैव भगवान् आस्ते सिद्धजनेडित : । शंभुरत्रैव दीवी च जगतां जननी परा ॥
५८.अत्र मन्त्राश्च वेदाश्च क्रतवोऽग्निमुखास्सुरा : । यदम्बुकणिकापानात् ब्रह्महत्यापि नश्यति ॥
५९.गोघ्नश्चैव कृतघ्नश्च भ्रूणहा गुरुतल्पग : । यदम्बुमज्जनान्मुक्ता मज्जन्तो ब्रह्मभाविता :॥
६०.अत : अस्याम्बुलाभेन विन्दन्ति मनुजा भुवि । सुलभादेव राजेन्द्र पुरुषार्थचतुष्टयम् ॥ 
६१.तमात् मदुपदेसेनस्नानं कुरु यथाविधि । निर्मुक्तपापो भविता दीर्घमायुश्च विन्दसि ॥
६२.इति तद्वचनादेव तं पुरोधाय कुंभजम् । स्नानं चकार ताम्रायां तथा वसुमना नृप : ॥
६३.यदा तदम्बुपूरे तु सन्निमग्नकलेबर : । तावत् कलाकलाकारै : बुद्बुदैस्तिमिरोपमै : ॥
६४.व्याप्तं बभूव तत्सर्वं समन्तात् क्रोशमात्रकम् । नीलामलसमाकारं ताम्राजलमदृश्यत ॥
६५.स्नात्वा तीरं समासाद्य दृष्ट्वा कलुषितां नदीम् । मुनिमाह स भूपालो विस्मितेनान्तरात्मना ॥
६६.राजा --भगवन् किमिदं तीर्थं नीलीजलसमप्रभम् । मेघैरिव नभो व्याप्तं सुव्यक्तं कथ्यतां मम ॥
६७.अगस्त्य : --राजन् त्वयि गता : पापा : निर्गता : तीर्थवैभवात् ।
   निर्मुक्तपापोऽसि भवान् मेघापाये अंशुमानिव ॥
६८.इति ब्रुवति राजानं मुनौ वातापिवरिणि । निश्वासमलिनीभूतमादर्शं तत्क्षणादिव ॥
६९.मणिवर्णमभूत्तोयं ताम्राया : परमाद्भुतम् । तावत् गीर्वाणनिर्मुक्ता पुष्पवृष्टिस्तु पुष्करात् ॥
७०.पपात परित : तत्र परमानन्दनिर्भरा । समन्तात् अभवत् वाणी देवसिद्धसमीरिता ॥
७१.दीर्हायुष्मन् महाराज श्रेय : प्राप्नुहि सर्वत : । इति वै मङ्गलवाच : पुर : शृण्वन् सुरेरिता ॥
७२.प्राञ्जलि अ; तान् अभिष्तूय मुनिप्रोक्तेनवर्त्मना । पुन : स्नात्वा महानद्यां कृतकृत्यऽभवत् तदा ॥
७३.तत्रोषित्वा त्रिरात्रं तु मुनिनानेन मानित : । आसागरं तीर्थयात्रां तीरयोरुभयोरपि ॥
७४.यथान्यायं विधायासौ पुनरामलकाटवीम् । प्राप्य काश्यप्तीर्थे तु चक्रे बलनिवेशनम् ॥
७५.उषित्वा कतिचित् मासान् उपास्य मलयात्मजाम् । यियक्षु : चिन्तयामास कुत्र वेति महामति : ॥
७६.सर्वोत्कृष्टा जन्हुकन्या सैषा मन्दाकिनी किल । यत्र जप्तं हुतं दत्तमनन्तफलमुच्यते ॥
७७.तत्रैव हयमेधेन यक्ष्ये देवान् यथाविधि । आत्मानं भावयिष्यामि कुतकृत्यो भवाम्यहम् ॥
७८.इति निश्चित्य मनसा सैन्येन महता वृत : । प्राप्य भागीरथीतीरं तत्र दीक्षामुपाविशत् ॥
७९.मणिस्तंभशतोपेता तप्तकाञ्चनवेदिका । शाला परमकल्याणी श्रीमती रुरुचेतराम् ॥
८०.यत्र सभ्या : समभवन् यज्वानो दीर्घदर्शिन : । हूयमाने हव्यवाहे संभूते सामनिस्स्वने ॥
८१.मन्त्रेषु जप्यमानेषु प्रहृष्टेषु द्विजादिषु । गङ्गा परमसंपूर्णा  महातोयोर्मिफेनिला ॥
८२.आवर्तशतसंघाता सुधांभोनिधिसन्निभा । आवृत्य तीरयुगलीमुत्पपातातिवेगवत् ॥
८३.सह सभ्यैस्समाधाय शालामुज्ज्वलितानलाम् । एवं नष्टेषु सर्वेषु राजा दु;खपरिप्लुत : ॥
८४.आकृष्य सह सौभाग्यां नाशयामास वै क्षणात् । दैवात् विमुक्त : तत् पूरात् आयु:शेषेण भूपते ॥
८५.तपसा तोषयामास गङ्गाधरमुदारधी : । मासमात्रेण भगवान् आशुतोष : सदाशिव : ॥
८६.वरेण छन्दयामास तं देवं प्राञ्जलिर्जगौ । राजा --भगवन् करुणामूर्ते प्रसीद मयि शङ्कर ॥
८७.यदि मे तपसा तुष्ट : यद्यहं त्वत्कृपास्पद : । शाला मे सहपत्नीको सद्विजा सहुताशना ॥
८८.ससंभाराग्रतो मेऽस्तु वरमेनं वृणे प्रभो । इत्युक्तस्तं पुन : प्राह भगवान् प्रमथेश्वर : ॥ 
८९.सदाशिव : --राजन् मत्प्राणकलिका तडिनी मलयात्मजा । अनभिज्ञेन भवता दूषिता पापचेतसा ॥
९०.यस्यानुग्रहलाभेन दीर्घायुष्यमवाप्तवान् । पापपञ्जरनिर्मुक्त : स त्वं दूषितवानसि ॥ 
९१.जननीमवमत्यैव एवतान्तरमिच्छसि । अपहाय च गायत्रीं मन्त्रान्तरमभीप्ससि ॥
९२.यत्र गङ्गा च यमुना च यत्र गोदावरी नदी । तीर्थानां हृदयं ह्येषा देवानां बलमुच्यते ॥
९३.मन्त्राणां मन्त्रशक्तिस्तु कर्मशक्तिस्ति कर्मिणाम् । वेदद्रवा विश्वमाता ब्रह्मविष्ण्वाद्युपासिता ।
९४.तामिमामद्रिसंभूतां त्वमुपेक्षितवानसि । तामेव भूयस्संप्राप्य प्रणवार्थप्रदीपिकाम् ॥
९५.तपसा मन्त्रतन्त्राभ्यां तां तोषयितुमर्हसि । तदनुग्रहलाभेन तत्र शालां पुनर्भवाम् ॥
९६.ससंभाराग्निपत्नीकां लप्स्यसे नात्र संशय : । इत्युक्त्वान्तर्हिते शंभौ सोऽपि राजा भयातुर : ॥
९७.इत्थमान्तर्हिते देवे स राजा माधवीसुत : । तदतिक्रमणाघौघसंब्रान्तस्वान्तसन्तति : ॥
९८.भयादिरेकरोमाञ्चकञ्चुकीकृतविग्रह : । समभ्येत्य पुन : पुण्यां घृतधारां पयस्विनीम् ॥
९९.काश्यपाश्रममासाद्य तप : चक्रे सुदारुणम् । अङ्गुष्ठाग्रेण वसुधां संस्पृशन् पश्चिमोमुखम् ॥
१००.ऊर्ध्वबाहुर्निराहारो हृदि ध्यायन् जगत्प्रसूम् ।तपनीयांबुजारूढां बालांबुजसमप्रभाम् ॥
१०१.चतुर्भुजां त्रिणयनां कौसुंभांबरधारिणीम् । नवमाणिक्यकोटीरकिरणारुणितांबराम् ॥
१०२.तप्तचामीकराकारपयोधरधराधराम् । चारुग्रैवेयकेयूरवलयावलिभासुराम् ॥
१०३.आपातकेशघटितै : भूषणां मणिभूषणै : । मन्दस्मेरांशुसंभिन्नसमस्ततिमिरच्छटाम् ॥
१०४.करुणापाङ्गपीयूषसंदर्भितचराचराम् । समस्ततीर्थजननीं चन्दनाचलकन्यकाम् ॥
१०५.ध्यायन् स्वहृदयांभोजे निश्चल : समतिष्ठत । तेनैव तप्सा देवी सन्तुष्टा मासमात्रत : ॥
१०६.सान्निध्यं पुरत : तस्य चकार करुणार्द्रधी : । वत्स ते तपसनेन सन्तुष्टहृदयास्म्यहम् ॥
१०७.तवेप्सितानि सर्वाणि प्राप्तानि मदनुग्रहात् । पश्य भद्राणि दास्यामि कामओग्ध्रीव काङ्क्षितम् ॥
१०८.इति श्रुतिसुखाकारां सुखाकारां समाकर्ण्य तु भारतीम् । समाधिं सङ्कुचन्नग्रे ददर्श परमेश्वरीम् ॥
१०९.यथान्त : स्वान्तमद्राक्षीत् तथैव पुरतो नृप : । आनन्द्मग्नहृदयो मूर्ध्ना मुकुलिताञ्जलि : ॥
११०.हर्षगद्गदया वाचा व्याचष्टे स्वेष्टदेवताम् । राजा --देवि प्रसीद कल्याणि प्रसीद मलयात्मजे ॥
१११.आग : क्षमस्व देवेशि मूढस्याकार्यवेदिन : । त्वदङ्घ्रिपङ्कजे भक्ति : अनपायास्तु मे सदा ॥
११२.मनोरथा मे सुलभास्त्वत्पादांबुजलाभत : । यथा मय्यनभिज्ञत्वं न भूयात् अपि जन्मसु ॥
११३.तथा प्रसीद सर्वेशि त्वामहं शरणं गत : । इति ब्रुवति राजेन्द्रे गङ्गाद्यास्सरितस्सदा ॥
११४.आजग्मुरखिला राजन् पश्यत्सु सकलेष्वपि । सर्वास्तमेनं राजानमनुशास्य सरिद्वराम् ॥
११५.तस्यैव पुरतस्सर्वा : ताम्रायास्तनमण्डले । अभिजग्मुर्महाराज तदद्भुतमिवाभवत् ॥
११६.सा तस्याभीप्सितान् कामान् प्रदायान्यत्र सुदुर्लभान् । सर्वतीर्थमयी भूय : ताम्राभ्यन्तरधीयत ॥
११७.स भूमिपालो मलयात्मजाया : लब्ध्वा पराण्यभुदयानि तस्या : ।
    सम्प्राप्य शालां सह भार्ययासौ चकार विप्रै : क्रतुमार्यगृह्यम् ॥

                                सप्तविंशोध्याय : Pro.Total = 2100 + 117 =2217. 
                               अष्टाविंशोऽध्याय :

    देवानां कार्यार्थं तप : कुर्वतो : काश्यपादित्यो : ताम्रपर्ण्या : वरदानं काश्यपेन लिङ्गप्रतिष्ठा

१.श्री सूत : --इत्याकर्ण्य कथां पुण्यां विचित्रोपकथान्विताम् । वीरसेन : पुनर्वाक्यमुवाच मुनिपुङ्गवम् ॥
२.वीरसेन : --अहो भगवता प्रोक्ता कथेयं कलुषापहा । श्रुतापि भूय : श्रोतव्या संशयस्य व्यपोहने ॥
३.तपसाराधिता देवी राज्ञा मलयनन्दिनी । कथं तस्मै वरान् प्रादात् महीभर्तुश्च काङ्क्षितान् ॥
४.कथं सा प्रादुरभूत् कथं नद्यसमाययु : । अनुशास्य कथन्त्वेनाम् विविशु : ददृशान्तरे ॥
५.एतत् सर्वमशेषेण वद विस्तरतो मम । शङ्ख : --श्रुणु राजन् प्रवक्ष्यामि कथां कलुषनाशिनीम् ॥
६.ताम्रपर्णी महादेवी तपसा प्रीतमानसा । तदा नद्यास्तटे शाला पताकाध्वजमालिनी ॥
७.ससभ्या सहपत्नीका संभाराग्निमण्डला । यथापूर्वं समभवत् पुरतस्तस्य भूपते : ॥
८.तावत् ताम्राप्रवाहस्तु ननावर्णेव दृश्यते । तत्तीरपूरात् तु उत्तस्थु : गङाद्या : सरित : तदा ॥
९.गोक्षीरवर्णा तरुणी नानाभरणभूषिता । गङ्गा समाययु देवी भासा भुवनपावनी ॥
१०.ताम्रे त्वया बालतया प्राप्तं परिभवं महत् । एषा त्वत्प्राणशक्तिस्तु पराशक्तिसमुद्भवा ॥
११.इन्द्रनीलमणिच्छाया यमुना पापहारिणी । अभ्यागमत् अशेषस्य लोकस्य क्षेमदायिनी ॥
१२.पद्मरागमणिच्छाया भारती गजसेविता । समायाता समस्तस्य सर्वमङ्गलदायिनी ॥
१३.गोदावरी गौरवर्णा पीतांबरसमावृता । कङ्केलीकुसुमोत्तंसा संप्राभाभरणोज्ज्वला ॥
१४.नर्मदा शङ्खधवला कर्पूराभा कुमुद्वती । शोणभद्रा काञ्चनाभा फल्गुनी कुङ्कुमारुणा ॥
१५.कर्पूरवर्णा कावेरी वेगवत्यंबुजारुणा । एता : चान्या : तहा नद्य : बह्व्य : नारीवपुर्धरा : ॥
१६.सालङ्कारा : सानुलेपा : सवाहनपरिच्छदा : । समागत्य महादेवीमुपतस्थु : समाहिता : ॥
१७.तत्र राजानमाहूय गङ्गा वचनमब्रवीत् । श्री गङ्गा --राजन् बालतया प्राप्तं त्वया परिभवम् महत् ॥
१८.एषा मत्प्राणशक्तिस्तु तामवैहि ममात्मिकाम् । अहं मलयजातास्मि पराशक्तिसमुद्भवा ॥
१९.आवयोर्नैव भेदोऽस्ति भेदबुद्धिर्विनश्यति । एषा रुद्रप्रभा नाम वेदेषु परिपठ्यते ॥
२०.मरुद्वृधेति मालेति परुष्णीति परेति च । संप्रशंसन्ति ताम्रेति श्रुतयो मलयात्मजाम् ॥
२१.गुहाचरी गुह्यरूपा पवित्री पापनाशिनी । माला मलयपुत्रीति मानयन्ति सुरासुरा : ॥
२२.अत्र सर्वमिदं जातमस्यामेव प्रतिष्ठितम् । एनामाश्रित्य विन्दन्ति ह्यमृतत्वं तु जन्तव : ॥
२३.सामान्या तटिनीयन्तु वदत्येनां स पातकी । पश्यते नरके घोरे यावत् आभूतसंप्लवम् ॥
२४.इत : परं महाराज मावमंस्था : कदाचन । इत्थं गङ्गानुशास्यैनं लोकानामेव पश्यताम् ॥
२५.संविवेश तथा गङ्गा ताम्राया : स्तनमण्डले । तथैव यमुनाद्याश्च नानारूपा : सरिद्वरा : ॥
२६.क्रमात् उपाविशन् सर्वा : पञ्जरे शारिका इव । एतत् विचित्रं पश्यन्तो ब्रह्मनारायणादय : ॥
२७.पुष्पवृष्टिमुचस्सर्वे अस्तुवन् मलयात्मजाम् । स्तुवत्सु सर्वदेवेषु पतहाडंबरेषु च ॥
२८.आश्चर्याविष्टचित्तेषु सर्वेषु भुवनेष्वपि । स्तूयमाना महादेवी ताम्रा वचनमब्रवीत् ॥
२९.श्री देवी --राजन् मनोरथास्सन्तु ममानुग्रहास्तव । यज्ञशेषं सपत्नीक : कर्तुमर्हसि भूसुरै : ॥
३०.कीर्तिस्ते चन्द्रिकाकारा लोके विस्तारमृच्छतु । एतत् तीर्थं प्रशंसन्तु शालातीर्थमिति ध्रुवम् ॥  
३१.अत्र स्नाता नरास्सर्वे भवन्तु सुखभागिन : । भुक्तिर्मुक्तिश्च सर्वेषां मज्जतां पिबतामपि ॥
३२.अभूतामेव शाश्वत्यौ नात्र कार्या विचारणा । एवं देवी वच : प्रोक्त्वा राजानं माधवीसुतम् ॥
३३.शालातीर्थे तदा तस्मिन् ताम्राभ्यन्तरधीयत । ततो वसुमना प्राप्य वरान् अभिमतान् बहून् ॥
३४.संप्रहृष्टमना : भूय : स्वयज्ञं समपादयत् । सर्वे देवाश्च सिद्धाश्च स्तुवन्त : तीर्थवैभवम् ॥
३५.राजानमपि संभाव्य स्वानि स्वानि पदान्यगु : । तत्र चावभृथस्नानं विधाय विधिपूर्वकम् ॥
३६.काश्यपेशं समभ्यर्च्य दाहकेशं प्रणम्य च । मुनीन् आमन्त्र्य तत्रस्थान् सभार्य : सपुरोहित : ॥
३७.स्वराजधानीं संहृष्ट : प्रायात् प्रासादमालिकाम् । ततस्तत्र स्थितास्सर्वे दृष्ट्वा क्षेत्रस्य वैभवम् ॥
३८.सन्तोषं परमं प्राप्त : काश्यपश्च महामुनि : । तस्मात् राजन् महातीर्थे तत्र स्नानं स्माचर ॥
३९.क्रोशार्धविस्तृतं क्षेत्रं तेज:स्थानं प्रकीर्तितम् । पुरा कृतयुगे राजन् मनौ सावर्णिकेऽन्तरे ॥
४०.अदितिर्देवजननी काङ्क्षन्ती विजयं हरे : । भर्तारं काश्यपं प्राप्य पप्रच्छ प्रणता सती ॥
४१.केनोपायेन वै ब्रह्मन् जयमेष्यन्ति मे सुता : । तमुपायं समुपाचक्ष्व देवेषु करुणां गुरु : ॥
४२.इत्थं तया प्रार्थितोऽसौ काश्यप : तपसां निधि : । श्रुणु प्रिये वच : पथ्यं तत् तथा कर्तुमर्हसि ॥
४३.अनादिमिथुनोद्भूता या सरिन्मलयातजा । सैषा सर्वस्य लोकस्य विज्ञेया कामदोहिनी ॥
४४.अतस्त्वमुपगम्येनामाराधय विधानत : । तदनुग्रहलाभेन भवन्तु जयिनस्सुरा : ॥
४५.अहमपि आगमिष्यामि त्वमग्रे गच्छ सत्वरम् । इत्थं भर्त्रा नियुक्ता सा देवी देवप्रसूर्मुदा ॥
४६.ताम्रामासाद्य नियमात् स्नात्वा तत्रैव संस्थिता । तपश्चकार सुचिरं दुश्चरं भुवनत्रये ॥
४७.स्ववधाय तप्स्यन्तीं ज्ञात्वा सर्वेऽपि दानवा : । तपो विघातं कुर्वाणा : समाववृरलक्षिता : ॥
४८.सापि चन्दनशैलेन्द्रतनया सर्वदर्शिनी । निवार्य विघ्नजालानि दानवाचरितान्यपि ॥
४९.तत्र क्षणाय विदधे प्राकारं ज्वलनात्मकम् । ज्वालामालासमायुक्तं प्राकारं परमाद्भुतम् ॥
५०.विलोक्य भयसंभ्रान्ता दैत्या : जग्मुर्यथागतम् । अदितिर्देवजननी वह्निमण्डलमध्यगा ॥
५१.ध्यानारूढा निश्चलाङ्गी ध्यायन्ती परमेश्वरीम् । अन्तर्बहिरविच्छिन्नमवसत् तन्मयं जगत् ॥
५२.तत :प्रसन्ना वरदा तस्या : प्रादुरभूत् पुर : । सहस्रादित्यसङ्काशां सान्द्रसिन्दूरपाटलाम् ॥
५३.चतुर्भुजां त्रिणयनां तप्तहाटकभूषिताम् । तीर्थकन्याशतोपेतां दृष्ट्वा परमहर्षिता ॥
५४.सभ्रूभङ्गं समुत्थाय बद्धाञ्जलिपुटा सती । तुष्टावादितिरव्यग्रा गिरा गद्गदया मुदा ॥
५५.अदिति : --या शक्तिरन्तर्जागर्ति लोकानां प्राणरूपिणी ।
            या पुनर्जीवनाख्या स्यात् ताम् त्वाहं शरणं गता ॥
५६.गायन्ति श्रुतयो नित्यं तीर्थरूपां मरुद्वृधाम् । तां त्वामखिलतत्वार्थां माहेयीमाश्रये श्रियम् ॥
५७.हेतुरादावशेषस्य जीवनत्वे व्यवस्थिता । मृत्यु : प्राणभृतां भूयो यदंशेन प्रवर्तित : ॥
५८.अनादिशक्तिरव्यग्रा निग्रहानुग्रहक्षमा । सा त्वं लोकहितायैव जाता हि मलयात्मजा ॥
५९.मन्त्रसक्तिं प्रशंसन्ति सन्त : कर्मकलां पुन : । त्वमेव फलदा लोके तीर्थमातर्नमोऽस्तु ते ॥
६०.शिव : शिवान्वितो भूरि तपसाराध्य माधवि । त्वामेव लब्धवान् आदौ तस्मात् त्वां शरणं व्रजे ॥
६१.मालेयी मलया नन्दा गङ्गा भागीरथीति च । घृतधारा परुष्णीति पठ्यसे त्वं पुरातनै : ॥
६२.प्रसीद मलयानन्दे ताम्रे मात : प्रसीद मे । अब्धिपत्नि नमस्तुभ्यं नमस्तुभ्यं नमो नम : ॥
६३.इति स्तुवन्त्या : पुरतो देवमातुर्महीपते । प्रसन्ना प्राह कल्याणी तामाहूय गिरा पुन : ॥
६४.देवमातर्महाभागे प्रीतास्मि तपसा तव । इत आरभ्य वै देवा अवध्या दानवै : परै : ॥
६५.मच्छक्त्या वर्धितात्मानो जेष्यन्तु दनुजादिकान् । जयलक्ष्मीर्भविष्यामि नित्या देवेष्वहं सदा ॥
६६.मत्प्रसादात् भविष्यन्ति सफलास्ते मनोरथा : । त्वया कृतमिदं स्तोत्रं ये पठन्त्यरुणोदये ॥
६७.तेषां दर्शनमात्रेण दूरे नश्यति पातकम् । त्रिसन्ध्यं पठतां नृणां ध्यात्वा मां शुद्धचेतसाम् ॥
६८.हयमेधावभृथस्य फलं भवति शाश्वतम् । ये च त्वां अत्र नियता सर्वे गीर्वाणमातरम् ॥
६९.नमस्कृत्य यथान्यायं तीर्थे मज्जन्ति मामके । तेषां मनोरथा : पुण्या : भविष्यन्त्यनपायिन : ॥
७०.अन्ते कैवल्यसौभाग्यं तेषां दास्याम्यसंशयम् । इति ब्रुवत्यामम्बायां अम्बरात् अद्भुतावहा ॥
७१.देवतानां घनारावा जगर्जे देवचोदिता । पुष्पवृष्टिस्सुमहती पपातामोदनिर्भरा ॥
७२.विमानै : काञ्चनाकारै : अभ्याजग्मुर्दिवौकस : । मुनयो नारदाद्या : च सनकाद्या : च योगिन : ॥
७३.स्तुवन्त : श्रुतिसंभाव्यै : वचनैर्मलयात्मजाम् । काश्यपश्च महातेजा : प्रजापतिरकल्मष : ॥
७४.देवीं ताम्रामभिष्टूय समाश्वास्यादितिं प्रियाम् । देवीमाराधयामास यथावत् विजितेन्द्रिय : ॥
७५.ततो देवगिरा राजन् वह्निप्राकारमण्डलात् । उत्तस्थुर्दीपिका व्योम्ना शतशोऽथ सहस्रश : ॥
७६.शतक्रतुमुखेष्वेषु प्राविशन् क्रमशोऽम्बरे । तमात् दुरासदा दैत्यै : अभवन् ते दिवौकस : ॥ 
७७.प्राप्तपौरुषवीर्येषु तेजिष्ठेष्वमरेष्वपि । अदिति ं काश्यपञ्चैवं अनुगृह्य मरुद्वृधा ॥
७८.पुनरन्तरधात् तीर्थे माला मलयनन्दिनी । देवा : काश्यपमामन्त्र्य मातरं चाभिवाद्य च ॥
७९.जग्मुर्यथागतं सर्वे प्रशंसन्तो महानदीम् । ततस्सहर्षं मुनिभि : काश्यप : तपसां निधि : ॥
८०.तत्र लिङ्गं प्रतिष्ठाप्य समभ्यर्च्य विधानत : सपत्नीक : तपश्चक्रे सुचिरं शम्भुसन्निधौ ॥
८१.विधाय शालां विबुलां सप्ततन्तून् सदक्षिणान् । विधाय परमां सिद्धिम् संप्रापेतरदुर्लभाम् ॥
८२.शिवशर्माभिध : कश्चित् भूसुरो भूरिपुण्यभू : ।गङ्गातीरात् समभ्येत्य वाजपेयमपारयत् ॥
८३.गुरुणा काश्यपेनैव तेन सिद्धिं परां गत : । कस्यचित् द्विजवर्यस्य जलात् उन्मज्जत : पुरा ॥
८४.दीपहस्तस्य भगवान् अनुग्रहविधित्सया । आविर्बभूव भगवान् दाहकेश्वरसंज्ञित : ॥
८५.एतत् वृत्तान्तंआकर्ण्य राजा वसुमना विभु : । लब्धवान् अत्राभ्येत्य शालां गङ्गाम्भसावृताम् ॥
८६.तीर्थस्यास्य प्रभावेन राजानो मुनय : परे । लेभिरे परमां सिद्धिमिह चामुत्र चाद्भुताम् ॥
८७.ये चेमां परमां पुण्यां कथां पापप्रणाशिनीम् । श्रुण्वन्तो वा पठन्तो वा न शोचन्ति पुनश्च ते ॥

                              इति अष्टाविंशोऽध्याय : Pro.Total = 2217 + 87 = 2304.

                                एकोनत्रिंशोऽध्याय :

   काश्यपेन ईश्वरस्तुति : । शिवशर्माख्यस्य ब्राह्मणस्य काश्यप्तीर्थादिप्रश्नपूर्वकं काश्यपं प्रति प्रश्न : ।

१.श्री सूत : --श्रुत्वेदं वीरसेनश्च कथां राजा कुतूहलात् । प्रशस्य शङ्खं प्राहेदं वचनं विनयोज्ज्वलम् ॥
२.राजा --यथा पुरा वसुमना : श्रुतवान् मुनिपुङ्गव । तथाहं श्रोतुमिच्छामि कथां काश्यपसंश्रयाम् ॥
३.कथं संस्थापयामास महादेवं स काश्यप : । तत्र स्वयं चाविरभूत् दाहकेश्वरसंज्ञक : ॥
४.एतत् विस्तार्य भगवन् शंस मे करुणानिधे । इत्थं राज्ञा प्रोच्यमान : शङ्खयोगी महातपा : ॥
५.प्रशस्य भूयो राजानं प्रत्यभाषत हर्षवत् । श्री शङ्ख : --राजन् धर्मभृतां श्रेष्ठ तव प्रियमभीप्सता ॥
६.मयाधुना कथ्यमाना श्रोतव्या भवदाधुना । पुरा प्रजापतिर्धीमान् काश्यपि : सह भार्यया ॥
७.अदित्या समभिष्टूय नदीं मलयसंभवाम् । तत्प्रसादोपलाभाय भूपो निश्चित्य बुद्धिमान् ॥
८.सह देवैर्मुनिगणै : तत्र दीक्षामुपागमत् । सत्रमाङ्गीरसं नाम परं सर्वात्मसाधनम् ॥
९.अपारयात् अमेयात्मा प्रीणयन् गुरुमीश्वरम् । ऋत्विजो दक्षिणाभि : तोषयन् सप्रसर्पकान् ॥
१० कृत्वाबभृथं स ताम्रायां स्नानं सन्तुष्टमानस : । तावत् उत्तरवेद्यां तु स्थाप्य लिङ्गमनुत्तमम् ॥
११.शिवमाराधयामास स्वमनोरथसिद्धये । समाधिसिद्धैर्द्रव्यैश्च मन्त्रै : निगमसंभृतै : ॥
१२.एवमर्चयतस्तस्य काश्यपस्य महामते : । वर्षाणां त्रिशतं राजन् अत्यगात् निमिषोपम : ॥
१३.एवमाराधितस्तेन भगवान् प्रमथेश्वर : । तल्लिङ्गान्मूर्तिमानासीत् स्वभासा भासयन् नभ : ॥
१४.अङ्केनादाय गिरिजामशेषभुवनप्रसूम् । साक्षात् चर्ममयं श्वेतं वृषमारुह्य वाहनम् ॥
१५.शूलटङ्कमृगाभीतिवरदानपरश्वथै : । भुजैरुद्दामवलयैरहिराजाङ्गगदोज्ज्वलै : ॥
१६.भासमान : स्वकोटीरघटितेन्दुकलोज्ज्वलै : । स्तूयमान : सुरगणै : सिद्धगुह्यकचारणै : ॥
१७.प्रीणयन् मधुरैर्वाक्यै: काश्यपं समभाषत। श्री भगवान् --त्वयाहं पूज्तो भक्त्या मन्त्रेण विधिपूर्वकम् ॥  
१८.प्रीतोऽस्म्यभीप्सितान् कामान् वृणीष्व तपसां निधे । इत्युक्तो देवदेवेन महादेवेन काश्यप : ॥
१९.पुन:पुन : तु संस्पृश्य स मूर्ध्ना तत्पदांबुजम् । बद्धाञ्जलिपुट : तिष्टन् भक्तिनम्रात्मविग्रह : ॥
२०.तुष्टाव परमेशानं स्तोत्रै : श्रुत्यन्तसंस्कृतै : ।
   नतोऽस्म्यहं नाथ नवेन्दुभूषणं सदाशिवं त्वां सकलस्य हेतुकम् ॥
२१.यदङ्घ्रिपङ्केरुहसंस्मृतिर्जयत्यशेषमोक्षैकनिधान दीपिका ।
   शिखापिरन्तश्रुतिकल्पशाखिनामविश्रमोच्चावचमन्त्रपल्लवै : ॥
२२.प्रसाद्यते त्वत्पदपद्ममीश यत् त्वदन्यत : क्वापि न यातु मे मन : ।
   महेश माया तव विश्वमोहिनी न लङ्घ्यते ब्रह्मपुरन्दराभि : ॥
२३.तथापि मा त्वत्करुणैकभाजनं पराभविष्यत्वभवाय न क्वचित् ।
   तवेश निष्यन्दमिदं त्वया जगद्ध्वजस्त्वमङ्गीकुरुते चराचरै : ॥
२४.तथापि सैषा मयि भूयसी भवेत् चकोरसङ्गे शसिनो यथा रुचि : ।
   अशक्तमप्यन्तरलीलया जगत् यथैव शक्त्या विमलीकरोषि यत् ॥
२५.दयैव मे चेतसि सन्ततं श्रिया कुरुष्व लीलां भव पार्वतीपते ।
   बिभेमि भीमात् विषयान् महाविषान् महेश विश्वादिविषापहन् विभो ॥
२६.मदीयमित्येवमनुस्मरन् जनं त्रिधापथ : त्रातुमिहार्हसीश्वर ।
   अलं परिश्राम्य भवार्णवोदरे दुराशया ह भ्रमते पुन:पुन : ॥
२७.इत : परञ्चाहवभीतभञ्जनं निरञ्जनं यामि विभो भवत्पदम् ।
   विभक्तनानागुणकर्मरूपिणा न जन्मना प्राणिसुखा कृतापि मे ॥
२८.अपत्यदारादिभयादुपागतं विभोऽनुगृह्णीष्व महेश मामित : ।
   दयानिधे देव दिवानिशं भयादयातयाम : तव भृत्यमेव माम् ॥
२९.अतर्कितापातदयाविलोकनै : परं परित्राहि सुतानिव प्रसू : ।
   उमापते विश्वपते सतां पते पते पशूनामपि रुद्र वाक्पते ॥
३०.प्रसीद सान्द्राभ्युदयप्रसन्नया दृशा यया विश्वमिदं हि मङ्गलम् ।
   न कर्मणा न प्रजया न संपदा नयोगसिध्या न मन : समाधिभि : ॥
३१.परं न पश्यन्ति पदं तव दर्शनां विनापि भक्तिं भगवन् प्रसीद ताम् ।
   पर:शतै : जन्मभिरन्वहं भयात् पुन :पुन : श्रान्तिमुपेयुषा मया ॥
३२.अभङ्गुरानन्दसुतो दयोदयां तवाङ्घ्रिपङ्केरुहमाप्तमद्य हि ।
   कथञ्चिदापन्नमनुग्रहेण मे नमोक्तुमर्हस्यविलंबमेव भो ॥
३३.स्तनन्धयं स्वं विषमस्थमप्यहो जनन्यनाश्रयात्मजं यथा ।
   अखण्डकर्पूरवलक्षमेकत : परस्थकस्तूरिकया समप्रभम् ॥
३४.वपुस्तवेदं वृषभध्वजावृतं न यातु चित्तातपरत्र मामकात् ।
   नम : पुराणाय पुराणमूर्तये नमोस्त्वनान्न्तवधूकुटुंबिने ॥
३५.अनामगोत्राय जगत्रयोदयस्थितिक्षयोल्लासकटाक्षवर्चसे ।
   प्रसीद गौरीश निशाविटार्भक प्रगल्भकॊटीरकुटुंबिभोगिने ॥
३६.द्युसिन्धुसन्धुक्षितकैशिकाय ते सदाशिवायामृतमूर्तये नम : ।
   शङ्ख : --इत्थं वाचा सुधासारसौभाग्यैकसमग्रया ॥
३७.संस्तुवन् परमेशानं काश्यपो हर्षगद्गद : । भूय : तदङ्घ्रिमूले तु साष्टाङ्गं प्रणनाम ह ॥ 
३८.उत्थाप्य चैनम् बाहुभ्यां परिमृज्य दयानिधि : । प्राह गंभीरया वाचा भूयो भूय : प्रहर्षयन् ॥
३९.श्री सदाशिव : --ब्रह्मन् त्वया पूजितोऽहं संस्तुतश्च विधानत : ।
   प्रीतोऽस्मि नितरां भक्त्या सुधयैव दिवैकस : ॥
४०.तव प्रीतिमिहापारां कुर्वन् निर्वाणहेतुकीम् । वसामि नित्यमिच्छन्त्या हैमवत्या समन्वित : ॥     
४१.सर्वेषामेव जन्तूनां दास्ये निर्वाणसंपदम् । ये वात्र तीर्थे ताम्रायां त्वदीये विधिपूर्वकम् ॥
४२.मां पश्यन्ति सकृद्वापि स्नात्वा तेषां न बन्धनम् । त्वया कृतमिदं स्तोत्रं सायं प्रातर्ममाग्रत : ॥
४३.ये पठन्ति लभन्ते ते पुरुषार्थचतुष्टयम् । तथैवाभिमतं ब्रह्मन् दास्याम्यत्याविलम्बित : ॥
४४.इतो भाविनि कल्पे तु ब्रह्मन् राथन्तरे भवान् । भविता कपिलो नाम्ना मदंशपरिभावित : ॥
४५.तदा तापाभिभूतानां प्रजानां शरणं जुषाम् । तत्पापहत्यै दयया साङ्क्ययोगं प्रदाय तु ॥
४६.ततो मां केवलं नित्यं प्राप्तुमर्हस्यंशयम् । तत्रैव निवसन् नित्यमविमुक्तिं प्रदर्शयन् ॥
४७.मोक्षश्रियं प्रदास्यामि सर्वेषामेव देहिनाम् । अत्रानीता मया काशी मुक्तिमुद्रप्यभङ्गुरा ॥
४८.क्रोशपञ्चकविस्तारं दुर्ज्ञेयो पापचेतसाम् । अदित्यासहितोत्रैव सुखमास्स्व महामते ॥
४९.इत्युक्त्वा भगवान् शम्भु: तस्मिन् लिङ्गे सुधात्मिके ।  प्राविशत् गौर्यया सार्धं पश्यतां महतामपि ॥                         
५०.शङ्ख: --इत्थं ते काश्यपेशस्य महिमा वर्णितो मया।स एष सर्वे शम्भुं परां मूर्तिं लिङ्गमयीं पुन :॥
५१.भक्तस्य कस्तचित् हेतो : उज्जहार विलासवत् । तमस्तुवन् व्योम्नि सिद्धा : दाहकेश्वरमित्युत ॥
५२.तत्र देवाश्च सिद्धाश्च ऋषयो नारदादय : । स्तुवन्तो विकिरन्तश्च पुष्पाण्याजग्मुरम्बरात् ॥
५३.समागतेष्वेवं शिवशर्मा महेश्वर : । आगत्य काश्यपात् तस्मात् श्रुत्वा माहात्म्यमीशितु : ॥
५४.तमेव गुरुमासाद्य सौत्रामणिमकारयत् । इति श्रुत्वा महीपालो विस्मयाविष्टमानस : ॥
५५.पुन:प्रणम्य योगीन्द्रं विन्यात् वाक्यमब्रवीत्।वीरसेन: --कस्य भगवान् शम्भु: भक्तस्य प्रीतिमावहन् ॥
५६.कथमाविरभूत् ईशो महालिङ्गस्वरूपधृत् । स भक्त : किञ्चकारासौ कथं प्रापन्मनोरथम् ॥
५७.काश्यपात् अश्रुणोतेनां शिवशर्मा कथां कथम् । एतत् मे विस्तरात् ब्रह्मन् वक्तुमर्हसि सांप्रतम् ॥
५८.इत्थमभ्यर्थित : शङ्ख : संप्रशस्य महीपतिम् । पुन : प्राह कथां पुण्यां कथामीशान सङ्गिनीम् ॥
५९.श्री शङ्खयोगी --श्रुणु राजन् प्रवक्ष्यामि कथां श्रेयस्करीमिमाम् ।
                पुरा कश्चिन्मुने : पुत्र : साङ्कृतस्य दयानिधे : ॥
६०.शिवशर्मेति विख्यातो वेदवेदाङ्गपारग : । विरक्त : सर्व भोगेभ्य : परां गतिं यियासिषु : ॥ 
६१.तीर्थयात्रां समुद्दिश्य चकार पृथिवीमिमाम् । परिक्रम्य बहूम् देशान् स्नात्वा तीर्थोदकेष्वपि ॥
६२.आससादाद्भुताकारां मलयं चन्दनालयम् । तत्र स्नात्वा महान्द्यां तर्पयित्वा पितॄन् सुरान् ॥
६३.नानामणिप्रसूं पुण्यां नलिनोत्पलगन्धिनीम् । आश्रमैर्मुनिमुख्यानां देवानामालयैरपि ॥
६४.अग्रहारैराप्तकामै : अधिष्ठिततटद्वयाम् । क्वचित् सामानि गायद्भि : अधीयानै : ऋच : क्वचित् ॥
६५.अथर्वाण्युच्चरद्भिश्च प्रगिरद्भिर्यजूंषि च । पुराणानि प्रशंसद्भि : च तटतीरे संघश : ॥  
६६.समन्तात् निबिडीभूततटारामोपशोभितम् । होमधूमसमाक्रान्तै : घनासक्तैरिवद्रुमै : ॥
६७.समृद्धोद्यानसंपन्नां हंससारसलालिताम् । गायद्भिरुच्चैर्गन्धर्वै : नृत्यद्भि : चाप्सरोगणै : ॥ 
६८.नानोद्यानसभागेहसंपन्नतटशालिनीम् । नित्यकल्याणनिलयां निरन्तरसुखप्रदाम् ॥
६९.नानाधान्यधनोपेतां नानाजनपदोज्ज्वलाम् । महानदीमभिष्टूय शिवशर्मा महामति : ॥
७०.अगस्त्यमुनिमानम्य लोपामुद्रां यशस्विनीम् । तत्प्रसादमनुप्राप्य तमापृच्छ्यसहानुगै : ॥
७१.इन्द्रकीले महादेवं पापानाशेश्वरं विभुम् । पूजयित्वोषित : तत्र निशामेकामसौ व्रती ॥
७२.ततोषस्युपवृत्तायामुत्थित : स्नातुमुद्यत : । किञ्चित् दूरं परिक्रम्य शुश्राव श्रौतसौभगम् ॥
७३.पुरस्तात् जनसंमर्दसन्नादं सान्द्रसौभगम् । भासमानो भुवो व्योमस्वभासानुसारथे : ॥
७४.विस्मयान : तदाश्चर्यं द्रष्टुकाम : त्वरान्वित : । स्नात्वा सन्ध्यामुपास्यैव समुपस्थाय च भास्करम् ॥     ७५.सशिष्य : साग्निहोत्र : च प्रायात् प्राचीं दिशं मुनि : । अतीत्य दूरमध्वानं खमारूढे दिवाकरे ॥
७६.आससाद वनं पुण्यं नानाद्रुमलतायुतम् । विमुक्तमत्सरै : शान्तै : मृगपक्षिगणैर्वृतम् ॥
७७.सिद्धैर्मुनिगणै : पुण्यै : सेव्यमानमितस्तत : । तद्वनं प्रविशन्नग्रे चाद्राक्षीत् काश्यपाश्रमम् ॥
७८.विकीर्यमाण : भूभागं मन्दारकुसुमोत्करै : । यूथैर्जनानाम् संघातै : मिथ : कथयतां कथा : ॥
७९.आनन्दनिर्भरै : सिद्धै : मुनिशिष्यै : समावृताम् । संप्रविश्याश्रमं श्रीमत् शिवशर्मा कृताञ्जलि : ॥
८०.तमग्निहोत्रमालिनं दृष्ट्वादित्या समन्वितम् । स्वशर्म प्रब्रुवन् उच्चै : शिवशर्माभ्यवादयत् ॥  
८१.अर्हयित्वा तमासीनं बृस्यामेव प्रजापति:। काश्यप: --स्वागतं ते सर्वधर्मज्ञ शिवशर्मन् प्रसन्नधी :
८२.प्रीतोऽस्म्यागमनादेव सुहृद : तव सांप्रतम् । विजित्य चारिषड्वर्गमिन्द्रियग्राममात्मन :
८३.अमुञ्चत : च कर्माणि निर्मुक्तफलबन्धन : । लोकसंग्रहमिच्छन्तो विश्रान्त्यकुतो भया :
८४.त्वमत : पूजनीय : श्लाघनीयश्च केवलम् । अत्रातिथ्यं विधास्यामि सानुगस्य विशेषत :
८५.पुण्ये मलयनन्दिन्या : तीर्थे पाटीरगन्धिनि । स्नात्वाविलम्बं सन्तर्प्य पितॄन् देवान् ऋषीनपि ॥
८६.अवगाह्य दीपतीर्थमादित्यं कुण्डमेव च । पुरुषोत्तमं काश्यपेशं दाहकेशं प्रणम्य च ॥
८७.शीघ्रमागच्छ सुमते दिवामध्यङ्गतो रवि : । इति तस्य  वच : श्रुत्वा काश्यपस्य प्रजापते :
८८.शिवशर्मा महातेजा : तं प्राञ्जलिरभाषत । शिवशर्मा --भगवन् करुणामूर्ते भवत्पादाब्जसेवया ॥
८९.स्नातानि सर्वतीर्थानि पूजिताश्चैव मे सुरा : । मन्ये च सफलं जन्म सफलो मे परिश्रम :
९०.तथापि तत् तथा कर्तुमुत्सहे गुरुशासनात् । स्नात्वा समागमिष्यामि देवं दृष्ट्वा सदाशिवम् ॥
९१.इत्युक्त्वा पुनरानम्य तीर्थस्नानाय निर्ययौ । स्नात्वा काश्यपतीर्थे च दीपतीर्थे च मन्त्रवत् ॥
९२.तथाप्यादित्यकुण्डे च तीर्थश्राद्धसमन्वितम् । देवमाराध्य विधिना पुन : काश्यपमासदत् ॥
९३.प्रतिगृह्य तथा तीर्थम् सानुग : तुष्टमानस : । भुक्तवन्तं च विश्रान्तमुपगम्य महामुनिम् ॥
९४.प्रणम्य परिपप्रच्छ शिवशर्मादिविस्मित : । शिवशर्मा --प्रसीद भगवन् मह्यं प्रसीद करुणानिधे ॥
९५.त्वदनुग्रहत : श्रोतुं वाञ्छामि च मनोगतम् । इन्द्रकीलादहं प्राप्त : प्राप्त : स्नातुमुद्यत : ॥
९६.तदा कौतूहलाकारा : समदृश्यन्त पूर्वत : । जना : गन्धर्वसंकाशा : महामाणिक्यपाटला : ॥
९७.स्रग्विण : चारुवसना : मणिकाञ्चनभूषणा : । गच्छन्तश्च विमानै : स्वै : मेरुश्रूङ्गसमप्रभै : ॥
९८.स्त्रियो विद्युल्लताकारा : गायन्त्यो मधुरस्वरम् । तेषां तासां च सङ्गीतै : दिशो मुखरिताभवन् ॥
९९.तथारुणभुवा तेन सन्धुक्षितमितस्तत । जनयन्तो भानुशङ्कां जन्तूनां भूमिचारिणाम् ॥
१००.अस्माकमक्षिपदवीं मण्डयन्तो ययुश्शुभा : । तानहं श्रुतुमिच्छामि के ते कुत्र समागता : ॥
१०१.व्यक्तं मे ब्रूहि भगवन् कथां कौतूहलात्मन : । शङ्ख : --इत्थं वच : समाकर्ण्य प्राज्ञस्य
   शिवशर्मण : । अभिनन्द्य महातेजा : काश्यपो वाक्यमब्रवीत् ॥


                              इति एकोनत्रिंशोऽध्याय :  Pro.Total = 2304 + 101 =2405.


                                   त्रिंशोऽध्याय :

                                  दीपिकेश्वरोद्भव :

१.श्रुणु ब्रह्मन् प्रवक्ष्यामि तदेव परमाद्भुतम् । सर्वपापक्षयकरं शृण्वतां हर्षवर्धनम् ॥
२.अत्र देवो महादेव : कृपया कस्यचिन्मूले : । प्रसादाय महालिङ्गरूपी प्रादुरभूत् विभु : ॥
३.तदुत्सवदिदॄक्षूणां महतां त्रिदिवैकसाम् । समाजस्सर्वसिद्धानां गन्द्दर्वाप्सरसामपि ॥
४.आगता : पूर्वदिवसे शिवानुग्रहकाङ्क्षया । एते ते भवता दृष्टा : स्त्रियश्च पुरुषा अपि ॥
५.भवन्तं पुण्यतीर्थेषु सेवया समुपागतं । इतोऽविदूरे द्रष्टव्यं लिङ्गं शम्बोर्मणिप्रभम् ॥
६.मन्ये भवन्तं पुण्यानां भाजनं पुण्ययोगत : । इति ब्रुवति धर्मज्ञे काश्यपे कलुषापहे ॥
७.संप्रहृष्टमना राजन् प्रत्यभाषत भूसुर : । शिवसर्मा --कृतार्थोऽस्मि कृतार्थोऽस्मि कृतार्थोऽस्म्यहं ध्रुवम् ॥