Sunday, March 15, 2015

श्री ताम्रपर्णीमाहात्म्यम् - Sri Tamraparni Mahaatmiyam - chapter 59 to 64

                               एकोनषष्टितम : अध्याय :

.इत्थं सुदर्शनो देव : देवस्य करभूषण : । प्रसन्नात्मा तमभ्यर्च्य तं गुरुं तपसां निधिम् ॥
.श्लाघयन् मनसा वाचा क्षेत्रस्य च महोत्सवम् । तेन साकं समागत्य गुरुणा दीर्घदर्शिना ॥
.संप्राप्य महतीं ताम्रां नदीं मलयनन्दिनीम् । परित : तीरयो : तस्या : संभाव्य नयनांशुभि :
.दृष्ट्वा विचित्रामटवीं नानाद्रुमलताकुलाम् । आससाद शनै : पुण्यं विष्णोरायतनं महत् ॥
.त्रिवेणीसंगमं चापि महावेगजलोज्ज्वलम् । देवाकारै : परिक्षिप्तमाश्रमै : पुण्यकर्मणाम् ॥
.आरामैरद्भुताकारै : सर्वर्तुकुसुमोज्ज्वलै : । मालतीमल्लिकाजातिकरवीरकदम्बकै :
.रसालै : पनसै : कोरै : पूगनागरकेसरै : । एलोशीरलवङ्गैश्च चन्दनागरुतिन्दुकै :
.नारङ्गै : लिकुचै : नीपै : प्रियालपनसोज्ज्वलै : । अलङ्कृत्य नवोद्यानमनेकतरुमण्डितम् ॥
.नानामृगसमाकीर्णं नानाद्विजनिषेवितम् । होमधूमसमाक्रान्तवह्निमण्डलमण्डितम् ॥
१०.ब्रह्मघोषमहाघोषं मुनीशाप्यासमावृतम् । क्वचित् स्नानपरैर्विप्रै : क्वचित् होमपरायणै :
११.परत्र पूजां कुर्वद्भि : हरेरभ्युदयात्मन : । साक्षसूत्रकरै : दान्तै : मन्तार्णध्यानपूर्विकम् ॥
१२.क्वचित्स्वाध्यायनिरतै: कर्मकाण्डविशारदै:। क्वचित् पौराणिकान् धर्मान् क्वचित् सद्भि : सनातनान् ॥
१३.व्याहरद्भि ; यजूंष्युच्चै : अन्यत्रक्रमपाठकै : । ऋच : क्वाप्युपगायद्भि : विधानागमनैपुणै :
१४.क्वचित् सामानि गायद्भि : मन्त्रब्राह्मणवेदिभि : । व्याकुर्वद्भि : शास्त्रजालं धर्मव्याकरणादिभि :
१५.वालखिल्यै : वासिष्ठै : याज्ञवल्क्यैश्च वैष्णवै : । अन्यै : पञ्चाग्निमध्यस्थै : महाव्रतपरायणै :
१६.समन्तात् निबिडाकारं क्षेत्रमेतत् हरे : सुखम् । ददर्श भगवान् साक्षात् हरेरंश : सुदर्शन :
१७.पूज्यमान : च धर्मज्ञै : पाद्यर्घ्याभिवन्दनै : । प्रथमं क्षेत्रनाथान् तु पूजयित्वाथ किङ्करान् ॥
१८.देवं भैरवमासाद्य प्रसाद्य हरिमीश्वरम् । देवीं स्तुत्वा ताम्रपर्णीं सर्वपापप्रणाशिनीम् ॥
१९.स्तुत्वा स्तुत्वा च संपूज्य कापिलोक्तेन वर्त्मना । संकल्पपूर्वं धर्मात्मा चकार स्नानमात्मवान् ॥
२०.ऋषीन् देवान् पितॄन् चैव तर्पयित्वा महाम्भसा । धनै : सन्तर्पयामास ब्राह्मणान् च विशेषत :
२१.स्नाते तस्मिन् यथान्यायं आकाशात् अशरीरिणी । वागजृम्भत भूयिष्ठा स्पष्टाक्षरपदोज्ज्वला ॥
२२.चक्रराज महाभाग धूतपापोऽसि निर्मल : । न हि ते पापलेशोऽस्ति भानुबिम्बे यथा तम :
२३.इत : परं त्वया देव लोकानां हितकाम्यया । त्वन्नाम्नि तीर्थे पुण्येऽस्मिन् अश्वमेधेन देवता :
२४.इष्ट्वा दक्षिणया विप्रान् सन्तोष्य विधिपूर्वकम् । ततो वैकुण्ठमभ्येहि स्वया कान्त्या समुज्ज्वलन् ॥
२५.इत्युक्त्वोपरतायां तु पुष्पवृष्टिरभूद्दिव : । मधुगन्धै : सुगन्धै : तु मेदुरा सर्वतो दिश :
२६.पूरयन्तीव तत्क्षेत्रं मुहूर्तं विष्णुकानने । ततो दुन्दुभयो नेदु : तूर्यारावा प्रवर्तिता :
२७.तावदाविरभूत् शम्भु : वृषारूढोमया सह । सेवित : प्रमथै : भूतै : नन्दिभृङ्गिमुखैरपि ॥
२८.महेन्द्रो हुतभुक् सौरि : निरृति : मकरासन : । वायु : यक्षो विराट् ईशो ब्रह्माद्या : च सनातना :
२९.आगम्य पूजयामासु : चक्रराजं सुदर्शनम् । सर्वे जय जयेत्यूचु : प्रशशंसु : तं मुदा ॥
३०.तत्र देवो महादेव : समागत्याग्रतो हरिम् । उवाच वचनं श्लक्ष्णं शृण्वतां प्रीतिवर्धनम् ॥
३१.साधु संयगिदं कार्यं चक्रराज कृतं त्वया । ताम्रपर्णीनदीस्नानलब्धोदयमहोत्सवम् ॥
३२.सर्वे देवा : समागम्य सुदर्शनमपूजयन् । उत्तमदेवत्वं प्रददु : सुदर्शनाय धीमते ॥
३३.विष्णु : प्रशशंसु : तं चक्रं सर्वदेवादिदैवतम् । रुद्र : होता ब्रह्मा च तस्मै ब्रह्मत्वं ददु : पुन :
३४.दीक्षां प्रविश्य धर्मात्मा हरिमेधं चकार ह । दक्षिणाभि : प्रगल्भाभि : पुष्कलाभि : अविच्युतै :
३५.तोषयित्वा द्विजवरान् अन्नैरप्यमृतोपमै : । कृत्वावभृथं तीर्थेऽस्मिन् सर्वान् लोकान् अतोषयत् ॥
३६.एवं विधाय भूयोऽपि विचार्य सुचिरं हृदि । निश्चितार्थ : कृतार्थ : च चक्रराज : सुदर्शन :
३७.संमन्त्र्य मुनिना तेन कपिलेन महात्मना । ताम्राया उत्तरे तीरे त्रिवेण्या पूर्वभागत :
३८.भगवन्तं रमानाथं स्थापयित्वा तु मन्त्रत : । पूजयामास विधिना महापुरुषविद्यया ॥
३९.धूपैर्दीपैश्च नैवेद्यै : सुगन्धै : विविधै : फलै : । पूजयित्वा तु देवेशं तुष्टाव पुरुषोत्तमम् ॥
४०.नमस्ते देवदेवेश वासुदेवाय विष्णवे । नारायणाय नालीकनयनाय नमो नम : ॥
४१.नाथ नारायण विभो नलिनायतलोचन । प्रसीद करुणामूर्ते प्रसीद जगतां गुरो ॥
४२.यमेकमीशमाद्यन्तमनन्तमकुतोभयम् । अक्षरमनिर्देश्यं शरणं यामि शाश्वतम् ॥
४३.पुराणमाद्यं पुरुषं वृषसेनं वृषाकपिम् । वेदान्तवेद्यं विश्वस्य जनितारमुपास्महे ॥
४४.तारक : परमो योगी योगिध्येयाङ्घ्रिपङ्कज : । स मे गतिरनन्तात्मा सर्वसाक्षी जगद्गुरु : ॥
४५.गुणातीत : पर:शुद्धो हंसाख्य : प्रपितामह : । श्रुतिकर्म : पुमान् साक्षात् आविरस्तु पुरो हरि : ॥
४६.अणोरणीयान् आत्मा च महतोऽपि महान् महान् । ममैव दृशि संभूयात् मोहान्धध्वान्तभास्कर : ॥
४७.श्यामो हिरण्यपरिधि : वनमालाविभूषितम् । श्रीपतिं शरणं यामि विश्वस्यास्यैवहेतुकम् ॥
४८.आलोलतुलसीदाममारूढविनतासुतम् । ज्योतिरिन्दीवरश्याममाविरस्तु ममाग्रत : ॥
४९.नमो नम: पुराणाय पुरुषायादिवेधसे । सतां सन्मार्गबन्धूनां परित्राणाय साधवे ॥
५०.सत्वमेकाक्षरं ज्योति : आकार : खगरूपक : । यत्तमन्तस्स्मराम्येतत् पञ्चमस्वरमक्षर : ॥
५१.खग : भोक्ता च कर्मात्मा पुरुषो व्यञ्जनात्मक : । ऊर्ध्वतिर्यग्गत : स्वान्त : केशवो दयितो मम॥
५२.शेषाङ्कशायिनमशेषगुरुं पुराणं नारायणं त्रिजगतां प्रणतापवर्गम् ।
   नाथं व्रजामि शरणं करुणामृताब्धिं नास्त्यत्र मे विशति चित्तमिदं मुकुन्दात् ॥
५३.इत्थं स्तुवति वै तस्मिन् चक्रराजे सुदर्शने । प्रादुर्बभूव भगवान् प्रसन्नात्मा जनार्दन : ॥
५४.चतुर्भुज : पीतवासा : वनमाल्यातिसुन्दर : । इन्द्रनीलमणिश्यामै : अङ्गैरभिनवोदयै : ॥
५५.बिभ्रत् नानामणिस्तोमहेमाभरणमण्डलम् । कुण्डलैर्वलयैर्दीप्तै : हारनूपुरकङ्कणै : ॥
५६.कटिसूत्रब्रह्मसूत्रग्रैवेयपदकादिभि : । भ्राजमानं महात्मानं सूर्यकोटिसमप्रभम् ॥
५७.स्तूयमानं सिद्धगणै : सेव्यमानं सुरासुरै : । श्रिया च दात्रा सहितं श्रीवत्सादिविभूषितम् ॥
५८.भ्राजमानं पुनस्साक्षात् नारायणमनामयम् । भूयो भूयो नमस्तुभ्यं साष्टाङ्गं पादपद्मयो : ॥
५९.शनैर्विज्ञापयामास प्रणत : स मनोरथम् । नाथ देव दयासिन्धो परिश्रान्तोऽस्मि केवलम् ॥
६०.अङ्गीकुरुष्व मां क्षिप्रं दीनं च शरणागतम् । इत्थं प्रणतमत्यर्थं याचमानं मुहुर्मुहु : ॥
६१.करैरुत्थाप्य तं देवो व्याजहार सुदर्शनम् । प्रीतोऽस्मि वत्स ते स्तुत्या पूजया तीर्थमज्जनात् ॥
६२.तव सन्तु महाभाग निरपाया मनोरथा : । त्वया कृतमिदं कार्यं लोकाभ्युदयहेतुकम् ॥
६३.गायन्तु मर्त्या : देवाश्च मुनयश्च सनातना : । यत्ते चरित्रं सौगन्ध्यं प्रबन्धसंहितम् ॥
६४.शृण्वन्तोऽपि पठन्तोऽपि स्मरन्तोऽपि हि जन्तव : । अवाप्य धर्म्यमैश्वर्यं कामं कलुषवर्जितम् ॥
६५.अनुभूय चिरं कालमन्ते मां यान्तु केवलम् । त्वत्प्रियार्थमिदं क्षेत्रं न त्यक्ष्यामि कदाचन ॥
६६.अत्र स्थितानां जन्तूनां न हि शास्ता यमो विभु : । अत्र कर्मक्षयं कृत्वा मोक्षयिष्यामि बन्धनात् ॥
६७.मत्क्षेत्रे यातना बाधा जन्तूनां वसतां न हि । मामुद्दिश्यात्र ये ब्राह्मणा : प्रीणयन्ति वै ॥
६८.अन्नं भूमिं जलं गां च ये दास्यन्ति मद्विधा : । तेषां कोटिगुणं पुण्यं भविष्यति न संशय : ॥
६९.इत्थं संप्रीणयन् वाचा चक्रराजं च ह्यव्ययम् । पाणिभ्यां परिगृह्याग्रे तत्रैवान्तरधीयत ॥
७०.शंख : --इत्थम् तस्मिन् भगवति वासुदेवे जनार्दने । सचक्रान्तर्हिते तावत् तत्रत्या : परमर्षय : ॥
७१.प्रहृष्टा : परितस्सर्वे स्तोत्रै : उच्चै : तमस्तुवन् । चक्रराजस्य माहात्म्यं तीर्थवैभवभावितम् ॥
७२.प्रादुर्भूतस्य देवस्य प्रसदात् जगतां गुरो : । प्रशंसन्त : स्तुवन्तश्च ध्यायन्त : तत्पदाम्बुजम् ॥
७३.मुहूर्तं बभ्रमु : सर्वे कौतूहलसमावृता ; । स्नात्वा सर्वेषु तीर्थेषु पुनर्जग्मुर्यथागतम् ॥
७४.शंख : --इत्थं वनस्यास्य माहात्म्यं पापनाशनम् । संक्षेपात् काथितं राजन् तव प्रीतिविधित्सया ॥
७५.भूयोपि चित्रमाख्यानं ताम्राया : कीर्तिभूषणम् । येषां कर्णपथाविष्टं तेषां मुक्तिप्रदं भवेत् ॥
७६.पुरा कश्चित् पिङ्गलाख्य : कृषिक : शूद्रवंशज : । धान्यगोधनसंपन्न : पुत्रमित्रकलत्रवान् ॥
७७.अनेकां भूमिमाहृत्य चकार कृषिमुत्सुक : । शालीनारध्वनाश्च श्यामाकारकपैटसा : ॥
७८.मुद्गसर्षपमाषाणां राशिं चक्रे महोदयम् । एतस्मिन्नन्तरे काले मेघ : समुदपद्यत ॥
७९.हलाकर्षणसाम्रर्थ्यधुरीणै : गोवृषै : तथा । तद्भृत्या : क्षेत्रमासाद्य चकर्षुर्महिषै : वृषै : ॥
८०.तस्मादेको वृषो वृद्धो दुर्बलो हलाकर्षणे । निर्मुक्त परितोऽरण्यं यूथभ्रष्ट : ततस्तत : ॥
८१.अतीत्य दूरमध्वानं ताम्राया : तीरमाप स : । तत्स्वामी वृषं नष्टमन्न्विष्य परितो वनम् ॥
८२.अदृष्ट्वाऽचिन्तयन्नष्टं व्याघ्राद्यैरिति भक्षितम् । निवृत्य स्वगृहं प्रायात् स्वभृत्यै : कृषीवल : ॥
८३.वृषोऽपि वातवर्षाद्यै : किश्यमानो वनान्तरे । ताम्राया : सैकते भागे पतितोऽभूत् तदालस : ॥
८४.तावन्मलयजा पुण्या पूर्यमाणा सुवृष्टिभि : । समाकृष्य वृषं प्रायात् पूरेणैव हि भूरिणा ॥
८५किज्चित् दूरान्तरं गत्वा कूले क्षिप्तोऽभवत् क्षणात् । दैवाद्विष्णुवनं प्राप्य समाश्वस्य क्षणान्तरात् ॥
८६.शनै : तीरं समारुह्य रुरोदातीव दारुणम् । तत्रत्येषु मुनीन्द्रेषु विस्मितेषु समन्तत : ॥
८७.ददर्श तं वृषं धीमान् मुनि : कात्यायनाभिध : । वृषोऽयं स्रोतसा नीत : जराविष्टोऽतिदुर्बल : ॥
८८.रुदत्यतीव किं ज्ञातं पूर्वं कर्मकृतं त्विति । विचार्य करुणाविष्टो ज्ञानदृष्ट्या विलोकयन् ॥
८९.ज्ञातं तत्कर्म काठिन्यं मुनि : संस्पृश्य पाणिना । मन्त्रितेनाम्भसा चैनं असिञ्चत् अमृतात्मना ॥
९०.तावत् निर्भिन्नमौले: तु वृषभस्यातिदु;खिन : । निर्जगाम क्षणात् ज्योति : व्योम्ना भासानुभासयन् ॥
९१.दिव्यरूपी पुमान् आसीत् श्याम : कमललोचन : । शनैर्मुनिमुपागम्य नत्वा वचनमब्रवीत् ॥
९२.तारितोऽस्मि महाभाग त्वया शोकार्णवात् अहम् । धन्योऽस्मि कृतकृत्योऽस्मि भवत्पादाब्जसेवया ॥
९३.गन्तुमीहे परं लोकमक्षयं वैष्णवं शुभम् । अनुज्ञां देहि मे ब्रह्मन् सर्वज्ञ करुणानिधे ॥
९४.इत्यग्रे प्रणतं दान्तं कृताञ्जलिमुपस्थितम् । याचमानमिदं वाक्यं व्याजहार महामुनि : ॥
९५.कस्त्वं भद्र महाभाग तेजोराशिरकल्मष : । केन वा प्रापितो दु:खं तिर्यग्योनिविभावितम् ॥
९६.एतत्मे कथ्यतां साधो तत्कर्मफलभाविकम् । श्रोतुमिच्छन्त्यमी विप्रा : तपस्सिद्धा : कुतूहलात् ॥
९७.इति वादिनि वै तस्मिन् मुनौ कात्यायने तदा । स्पष्टमाचष्ट सिद्धोऽसौ निजवृत्तान्तमद्भुतम् ॥
९८.सिद्ध : --अहं पूर्वभवे ब्रह्मन् कारूशो नाम वैश्यराट् । धनी कुलीनो धर्मज्ञ : कार्याकार्यविवेकवित् ॥
९९.शाकल्याख्ये पुरवरे वसन् वाणिज्यजीवित : । तथा मे गृहिणी पुण्या धर्मज्ञा रूपशालिनी ॥
१००.पतिव्रता महाभागा नाम्ना सौगन्धिका किल । तया सह चिरं कालमनुभूतं सुखं मया ॥
१०१.तत्रान्तरे विटङ्कस्य वैश्यनाथस्य कन्यका । मालती नाम काप्यासीत् महासौन्दर्यमुद्रिका ॥
१०२.कुमारीं कुलचूडालां रूपेण मणिपुत्रिकाम् । तां दृष्ट्वा कामबाणार्तो दत्वा भूरि धनं पुन : ॥
१०३.तां द्वितीयां धर्मपत्नीं कृत्वा सार्धं तया सह । रममाणो दिवारात्रं नाचिन्तयमनन्तरम् ॥
१०४.अस्यामासक्तचित्तस्य कार्याकार्यविवेकिन : । द्वेषोऽभूत् अग्रधर्मिण्यां मम पापात्मनो भृशम् ॥
१०५.अदुष्टामपि तां नित्यं ताडनाद्यैरुपद्रवै : । निर्बन्धयित्वा भृशं कारागारे न्यवेशयम् ॥
१०६.आहारहीना क्षुत्क्षान्ता कृशा दीना दुरासदा । कालेन सा धर्मपत्नी चिरात् प्राणान् जहौ शुचा ॥
१०७.सर्वे ते बान्धवा: स्निग्धा: मां शपन्त: मुहुर्मुहु: । स्त्रीघातकोयमित्युक्त्वा सर्वे ते स्वगृहान् ययु : ॥
१०८.तत्पिता श्वशुरोऽस्माकं वृद्धो धर्मपरायण : । तपस्वी कोपितोऽभ्येत्य पुत्रीशोकातुरो भृशम् ॥
१०९.शशाप मां वज्रतुल्यं वचनं चेदमब्रवीत् । रे रे पापिष्ठ दुष्टात्मन् पापासक्तमदान्धधी :॥
११०.जघ्निवान् तेन पापेन ऋषभो भवितेति माम् । तावदेव महघोरात् शापात् अशनिसन्निभात् ॥
१११.अभूवं वृषभो भीमो पश्यत्सु खलु बन्धुषु । नष्टस्मृतिरहं तस्मात् निर्गतो नगरात् बहि : ॥
११२.अटवीं सञ्चरन् काले गृहीत : केनचित् बलात् । चकार मां बलीवर्दै : हलाकर्षणकर्मणि ॥
११३.ब्रह्मन् एवं तस्य गृहे निवसन् चिरकालत : । वार्धक्यकालमागत्य दैवात् अत्रागतोऽस्म्यहम् ॥
११४.यदा महानदीतोयसंसर्गं प्राप्य दुर्लभम् । जातमेतत् समग्रं मे कराग्रामलकोपमम् ॥
११५.पूर्वजन्मार्जितं ज्ञानं काले मे संगमे मुने : । सत्संगमात् कृतार्थोऽस्मि निर्मुक्तोऽस्मि भयाद्गुरो ॥
११६.त्वयैव् मन्त्रपूतेन वारिणा कृतसेचन : । कष्टं शापसमुद्भूतं त्यक्तमासीत् कलेबरम् ॥
११७.नमस्तुभ्यं भगवते गुरवे परमात्मने । त्वया दत्तान् गमिष्यामि लोकान् अव्याहतोदयान् ॥
११८.इत्युक्त्वा तं परिक्रम्य प्रणम्य च मुहुर्मुहु : । विमानवरमास्थाय जगाम परमां गतिम् ॥
११९.एवं दृष्ट्वाद्भुतं कर्म मुने : कात्यायनस्य ते । मुनय : तं यथान्यायं पूजयामासुरादरात् ॥
१२०.शापेनाशनिकल्पेन परिपूतममुं विशम् । मोचयामास तीर्थेन ताम्रा मलयनन्दिनी ॥
१२१.गतिमाप महातीर्थे प्रादात् अस्मै तदद्भुताम् । तस्मात् अमुष्य क्षेत्रस्य तीर्थस्याभ्युदयस्य च ॥
१२२.ये पठन्त्यपि माहात्म्यं श्रुण्वन्त्यपि लिखन्ति च । तेषामक्षय्यमैश्वर्यमायुरारोग्यमेव च ।
    ददाति भगवान् विष्णु : अन्ते मुक्तिं च शाश्वतीम् ॥

                           इति एकोनषष्टितम : अध्याय : Pro.Total =5497 + 122 = 5619.

                                षष्टितम : अध्याय :

१.इत्थं भगवती गाथा पुण्या गङोदकोपमा । विस्तारिता मुनीन्द्रेण कल्पवल्लीव कामदा ॥
२.राजानमानन्दगिरा चकाराश्चर्यनिर्भरम् । प्रणम्य राजा भूयोऽपि तमपृच्छन् महामुनिम् ॥
३.वीरसेन : --अहो महामुने दिव्यमाख्यानं भवतेरितम् । क्षीरार्णवमिवाभाति मनसामप्यगोचरम् ॥
४.अनन्तगुणरूपस्य विष्णो : अद्भुतकर्मण : । तुल्यतामिव संप्राप्तं पुण्यं विष्णुवनं महत् ॥
५.तस्यैव भूय : श्रोतव्यं माहात्म्यश्रवणामृतम् । कथयस्व पुनर्ब्रह्मन् मह्यं शुश्रूषवे गुरो ॥
६.शंख : --राजन् अतिविशालस्य व्योमाकारस्य भूयस : । वनस्यास्य महाबाहो माहात्म्यं श्रवणामृतम् ॥
७.वक्ष्यमाण मयेदानीमाकर्णय महामते । अत : परं महाराज पुण्ये विष्णुवनाश्रमे ॥
८.पुरतोऽथार्धभागं तु साध्यारण्यमुदाहृतम् । ब्रह्मभूतमिदं क्षेत्रं यत्साध्या : सिद्धिमागता : ॥
९.शापापिभूता रुद्रस्य कदाचित् चन्द्रमौलिन : । विसृष्टदेवभोगा : ते वचनात् श्रीपतेर्हरे : ॥
१०.तप:कृत्वा चिरं कालं देवमास्थाय दुष्करम् । तत्प्रसादात् पुन : प्राप्य त एते परमं मुदम् ॥
११.स्वर्गं सुकृतिभि: प्राप्यं प्रापु: संहृष्टमानसा : । राजा --कथं विष्णुवने ब्रह्मन् साध्यारण्यं क्वचिद्भवेत् ॥
१२.सत्वोद्भूता : साध्यगणा : कथमाग : प्रचक्रिरे । शिवशापात् कथं मुक्ता : केनोपायेन दुस्सहात् ॥
१३.एतत्सर्वमशेषेण ब्रूहि नि:संशयं गुरो । शङ्ख : --श्रुणु राजन् प्रवक्ष्यामि पुण्यमाख्यानमुत्तमम् ॥
१४.तच्छ्रुत्वा मुच्यते मर्त्य सद्य : पातककोटिभि : । पुरा कदाचित् त्रेतायां काले सावर्णिकेऽन्तरे ॥
१५.श्रुतधामाभिध : श्रीमान् मुनिरासीत् महायशा : । आङ्गीरसोऽन्वयोद्भूत : वेदवेदाङ्गपारग : ॥
१६.वात्स्यायनकुलोद्भूतां नाम्नाममलिनीं प्रियाम् । उद्वाह्य विधिना राजन् गृहस्थाश्रममाश्रयन् ॥
१७.चकार धर्मान् सकलान् त्रिवर्गोदयसाधनान् । तपोविशेषसन्तुष्टात् देवदेवात् महात्मन : ॥
१८.तनयामाप तन्वङ्गीं सौन्दर्यामृतवाहिनीम् । सैषा कालेन ऋजुना कन्या काञ्चनमालिनी ॥
१९.युवलोकमुखाम्भोजसंभावितमहोदयाम् । संप्राप यौवनावस्थां वासन्तीमिव श्रियम् ॥
२०.तां दृष्ट्वा मदनाविष्ट : कश्चित् विद्याधरोर्मिमान् । निहत्य पितरौ तस्या : निशि निद्रापरायणौ ॥
२१.जहार तरुणीरत्नं चोरवत् कृतनिश्चय : । सा बाला शोकसन्तप्ता गृहीता दारुणात्मना ॥
२२.रुरोद हा हेति भृशं विलपन्ती मुहुर्मुहु : । शिव शम्भो दयासिन्धो बन्धो किं नावबुध्यसे ॥
२३.कथं त्वां शरणं प्राप्तां निमग्नां शोकसागरे । पाहि मां पाहि मां शम्भो पाहि मां पाहि मामिति ॥
२४.इति तस्या : समाकर्ण्य महाक्रन्दनं शिव : । दयानिधि : प्रादुरभूत् लिङ्गरूपी तदाश्रमे ॥
२५.मा भैषटेत्यब्रवीत् वाचा तामाश्वस्य जगद्गुरु : । ललाटेनानलेनैव तं ददाहान्तकान्तक : ॥
२६.तस्मिन् विद्याधरे तावत् भस्मीभूतकलेबरे । तामाहूयातिदु;खार्तां पुत्रीमिव पुर : स्थिताम् ॥
२७.स्वकराम्भोरुहै : श्रीमत्कल्याणामृतवर्षिभि : । परिमृज्य तदङ्गानि प्राह गम्भीरया गिरा ॥
२८.श्रीशिव : -मा भी:तन्वङ्गि कल्याणि मुञ्च शोकं सुदारुणम्। भवितव्यमिदं तेऽद्य कारणेन न संशय:॥     
२९.पुरा त्वया पूर्वभवे कस्यचित् गृहिणी सती । कामार्तौ दम्पती मुख्यौ औषधेन बलीयसा ॥
३०.वियोजितौ पापबुध्या सोऽयं विद्याधरोऽभवत् । संयोज्यातीव शोकेन कर्मेण फलमाप्तवान् ॥
३१.त्वं च विद्याङ्गना काले भर्तर्युपरते सति । अप्राप्य जारमेतं तु विधिना विधवा कृता ॥
३२.तावत् कण्वेन मुनिना करुणाविष्टचेतसा । दत्ता पाशुपती विद्या तन्महिम्नाप्यजन्मनाम् ॥
३३.तत्काले जन्मविज्ञानं भक्तिर्मय्यनपायिनी । मदनुग्रहेण युगपत् प्राप्तासि वरवर्णिनि ॥
३४.इत : बन्धुजनै : मिलिता धर्मवत्सलै : । प्रणीता वरमुख्येन सौख्यं प्राप्नुहि मा चिरम् ॥
३५.काञ्चनमालिनी -भगवन् नाहमाकाङ्क्षे वरमन्यं कदापि वा।त्वामेव शरणं प्राप्तामनाथां दीनमानसाम् ॥
३६.पालयिष्यसि मातेव पितेव प्रियबन्धुवत् । याचे त्वां पुनरीशानं गतिर्मे भव भूयसी ॥
३७.श्रीशङ्ख: --इत्येवं प्रलपन्तीं तां कृपणां तरुणीमणिम्। प्राह गम्भीरया वाचा शङ्करो लोकशङ्कर : ॥
३८.अयि वत्से मदीयेस्मिन् लिङ्गे मां सार्वकालिकम् । आराधय यथान्यायं स्नात्वा ताम्रानदीजले ॥ ३९.कालेन ते प्रदास्यामि मत्सायुज्यं महोदयम् । अद्य दक्षिण वाहिन्यां ताम्रायां कृतमज्जना : ॥
४०.ये मां पश्यन्ति वै मर्त्या: तेषां क्वापि न मर्त्यता।इत्युक्त्वोपरत: शम्भु: तस्मिन् लिङ्गमहामणौ ॥
४१.विवेश सोमया गौर्या स्तूयमान : सुरासुरै : । सापि नित्यं वरारोहा नियमै : दुष्करै : शिवम् ॥
४२.निनायाराधयन्ती तं योगिनी कालसञ्चयम् । तावत्साध्यो देवमुख्य : द्युमान् नाम महायशा : ॥
४३.परीत्य भारतीं भूमिं कौतुकालोकनेच्छया । क्रमेण ताम्रामासाद्य मलयाद्यासमुद्रकम् ॥
४४.अटमानो ददर्शाग्रे तन्वीं विद्युल्लतामिव । आविष्टमदनोऽभ्येत्य तामेतां तु तपस्विनीम् ॥
४५.ग्रहीतुमुत्सुको भूत्वा धर्षणायान्वधावत । तप:शक्त्यानया कोपात् दूरे निस्सारित : तत : ॥
४६.स्वर्लोकं प्राप कामेन सद्य : परवशोऽभवत् । तद्भ्रातरो महाभागा : श्रुत्वा तं शोकविह्वलम् ॥
४७.किमेतत् इति पप्रच्छु : ततस्सोऽयं व्यजिज्ञपत् । तेन संभूय सहसा भ्रातरं दीनमानसम् ॥
४८.सान्त्वयित्वा तु तेनैव प्रापुर्मलयनन्दिनीम् । तत्रैनां पश्चिमे तीरे ध्यायन्तीं शिवसन्निधौ ॥
४९.स्वाहामिवापरामाभां भास्करीमिव निर्मलाम् । विलोक्य विस्मिता : साध्या : तत्सौन्दर्यप्रभादिभि : ॥ ५०.वञ्चिता इव ते सर्वे जगदु : च परस्परम् । केयं जाता किलाश्चर्यं विधातु : सृष्टिकौशलम् ॥
५१.अदृष्टपूर्वरूपं तु जगन्मोहनहेतुकम् । इन्द्रनीलमणिच्छाया किमस्या : देह संहति : ॥
५२.अष्टमीचन्द्ररेखेव बालरेखा विभाति न : । कमलावासभवनं किमसौ लपनाम्बुजम् ॥
५३.मृणालमुकुराकारौ करौ कल्पलतोपमौ । कुचावेतौ शातकुम्भशैलकूटमहोदयम् ॥
५४.पादादिकेशपर्यन्तमस्या : सौन्दर्यसंभृतम् । कस्मै विसृष्टा विधिना पुण्यराशि : विभूतये ॥
५५.एनां गृहीत्वा तन्वङ्गीं सर्वे वयं अतन्द्रिता : । भोक्ष्याम : क्रमश : चान्द्रीं सुधामिव दिवैकस : ॥
५६.इत्थं सर्वेषु तेष्वेषु कल्पमानेषु सादरम् । चिन्तामवाप महतीं साध्वसेन तदङ्गना ॥
५७.अहो महति तं भाव्यमस्माकमधिकं किल । माता मृता पिता नष्ट : बान्धवा : च न सन्ति हि ॥
५८.रक्षितारो न सन्त्यत्र विना देवात् महेश्वरात् । दुर्बलस्य विषं नारी विषं नारी यतात्मन : ॥
५९.अनाथानां पुन : स्त्रीणां सौन्दर्यं विषमुच्यते । युवत्य : कामिना मन्दा : वागुराकारिणीमिमाम् ॥
६०.तनुं त्यक्ष्याम्यहं वह्नौ व्याघ्रीमिव दुरासदाम् । इति निश्चित्य मनसा दृढसंकल्पमाश्रिता ॥
६१.ध्यायन्ती शिवपादाब्जं जपन्ती नृहरेर्मनुम् । परिक्रम्य स्वहोमाग्निं प्रविवेशाहुतिर्यथा ॥
६२.तावत् हाहाकृतं राजन् देवतै : दिवि संस्थितै : । भूतैश्च सकलै : किञ्चित् चकम्पे च वसुन्धरा ॥
६३.आश्रमानोकहस्थानं आरावैरिव पक्षिणाम् । तटद्वयी तदा नद्या : रुरोद करुणामयी ॥
६४.इत्थं भूतेषु सर्वेषु पतितायां हुताशने । अनुकम्पाकम्पमानात् लिङ्गात् आविरभूत् शिव : ॥
६५.शूलटङ्कवराभीतिपरिष्कृतमहाभुज : । स्तूयमानो महासिद्धै : साध्यान् आहातिमन्युना ॥
६६.महापापतरं कर्म युष्माभिर्मूढबुद्धिभि : । मदग्रेऽपि विशेषेण विहितै : प्राकृतैरपि ॥
६७.तस्मात् न स्वर्गतिर्न भूयात् महताज्ञाबलात् मम । इत्युक्त्वा भगवान् शम्भु : तेन संरक्तलोचन : ॥
६८.हुङ्कारेणैव तान् सर्वान् साध्यान् देवान् तदाश्रमात् । दूरमुत्सारयामास तूलराशिमिवानल : ॥
६९.सा दग्धरूपा तन्वङ्गी तेजोरूपो हुताशनात् । विनिष्क्रम्याम्बरेणैव सर्वेषां पश्यतां तदा ॥
७०.संप्राप हृदयं शम्भो : तदद्भुतमिवाभवत्  । एवं तामनुशास्यादिगुरु : गङ्गाधरो विभु : ॥
७१.विवेश तस्मिन् विमले लिङ्गे देववरार्चिते । तेऽपि साध्या : भयाविष्टा : सन्तप्तार : तस्य मन्युना ॥
७२.तस्मिन् विष्णुवने विष्णुं शरणं जग्मुरातुरा : । त्रिणदीसंगममभ्येत्य आर्तिमापु : दुरत्ययाम् ॥
७३.किं कर्तव्यं इहास्माभि : काममोहालसात्मभि : । नह्यन्यो रक्षिता लोके शरण्यात् माधवात् ऋते ॥
७४.तस्मात् तमापच्छरणं शरणागतवत्सलम् । यास्याम : सर्वदा सोऽयं पालयिष्यति नो विभु : ॥
७५.इति निश्चित्य ते सर्वे तत्रैव हरिसन्निधौ । तपस्तेपुर्महाराजन् नियमैर्दुष्करैरपि ॥
७६.एवं वर्षशते पूर्णे सन्तुष्ट : कमलापति : । प्रादुरासीत् पुरस्तेषां स्मयमानमुखाम्बुज : ॥
७७.श्रीभगवान् --प्रीतोऽस्मि सहसा चाहं वृणुताभीप्सितं वरम् ।
   साध्या : -- भगवन् यदि सन्तुष्टो वरार्हा यदि वा वयम् ॥
७८.शिवकोपाभूतान्न : त्राहि देव दयानिधे । श्रीभगवान् --नैव श्रेयांसि जायन्ते शिवचित्तापराधिनाम् ॥
७९.तस्मात् उपायं वक्ष्यामि येन श्रेयो भविष्यति । व्रतं पाशुपतं नाम महापातकनाशनम् ॥
८०.शिवप्रीतिकरं पुण्यं यो धत्ते भुवि मानव : । यदनुष्ठानमात्रेण प्रयान्ति शिवतुल्यताम् ॥
८१.इति तेषां ददावादिपूरुषो विधिना स्वयम् । तेऽपि तस्मात् गुरोर्विष्णो : प्राप्य पाशुपतं व्रतम् ॥
८२.तेन देवं समानर्चु : आशुतोषमुमापतिम् । तेषां पुरस्तात् व्रतिनां प्रादुर्भूतो वृषध्वज : ॥
८३.मुख्यत्वं सर्वदेवानां कामरूपातिसंपद : । बुद्धिं च सात्विकीं ज्ञानं मुच्यन्ते तेन जन्तव : ॥
८४.संसारसागरात् घोरात् ददौ ब्रह्मप्रकाशकम् । इत्थं दत्वा वरं तेभ्य : प्रसन्न : स उमापति : ॥
८५.प्राह भूयोऽपि तान् वाचा प्रीणयित्वा पुन:पुन:।श्रीशिव: --भवद्भि: यत्र ताम्रायां स्नानं त्रिषवणं मुदा ॥
८६.साध्यतीर्थमिति ख्यातं भूयात् तन्मदनुग्रहात् । कन्यारूढे दिनकरे क्षीयमाणे निशाकरे ॥
८७.त्रिपञ्चतिथ्यपुण्या : पितृदेवप्रियंकरा : । तस्मिन् काले सकृद्वापि तीर्थेऽस्मिन् कृतमज्जना : ॥
८८.श्राद्धदेवार्चनं वापि ये कुर्वन्ति व्रतादिकम् । तेषां भुक्तिं च मुक्तिं च प्रदास्याम्यहमेव हि ॥
८९.मामामर्च्य यथायोगं जप्त्वा पञ्चाक्षरं मनु : । अष्टाक्षरमनुं वापि जप्त्वा संपूज्य केशवम् ॥
९०.प्राप्नोत्यपुनरावृत्तिं पदमानन्दलक्षणम् । इत्युक्त्वान्तर्हिते देवे ते देवा : साध्यसंज्ञिता : ॥
९१.पूर्णकामा : समामन्त्र्य जग्मुर्स्वर्लोकमद्भुतम् । राजन् भूय : कथा काचित् पुण्या पौराणिकी हरे : ॥
९२.तामिमामखिलाघौघशमनीं श्रोतुमर्हसि । साध्यानां देवमुख्यानां क्षेत्र्ऽस्मिन् नैमिशोपमे ॥
९३.आश्रमं चन्द्रमालिन्या : साक्षात् नारायणात्मकम् । दशावतार तीर्थाख्यं तुल्यं मन्दाकिनीजलै : ॥
९४.माघे तु रथसप्तम्याम् ये नद्यां कृतमज्जना : । दशावतारमूर्तीनां जप्त्वा नामानि भूपते ॥
९५.नमस्कृत्वा दिनकरं ब्रह्मभूयाय कल्पते । वीरसेन : --भूयोहं श्रोतुमिच्छामि कथामेनाम् तु विस्तरात् ॥
९६.का वेयं कस्य वा पुत्री योगिनी चन्द्रमालिनी । दशावतारतीर्थाख्यं तत्तीर्थं शंस्यते कथम् ॥
९७.एतत्सर्वमशेषेण वद विस्तरतो गुरो । शङ्ख : --हन्त ते कथयिष्यामि कथां कौतूहलावहाम् ॥
९८.यस्या : श्रवणमात्रेण न भूयो जायते नर : । अग्रहारो महानासीत् नाम्ना मणिमहोदय : ॥
९९.ताम्राया : पूर्वभागे तु नानाजनसमाश्रय : । वेदविद्भि : महासिद्धै : यायजूकै : मनस्विभि : ॥
१००.क्षेत्रं क्षेमकरं नॄणां धनधान्यसमन्वितम् । तत्र कश्चित् महातेजा यज्वा वेदविदां वर : ॥
१०१.ब्राह्मणो नाम तेजस्वी संमतो वासमातनोत् । तस्य कालेन सञ्जात : पुत्रो मित्रसखाभिध : ॥
१०२.शुश्रूषमाण : पितरौ निनाय कतिचित् समा : । एतस्मिन्नन्तरे केचित् शैलूषानाट्यलम्पटा : ॥
१०३.स्त्रीभि : काञ्चनरूपाभि : तरुणीभि : समन्विता : । ननृतुर्विविधै : चित्रै : तालरागलयान्वितै : ॥
१०४.तत्रैकां तरुणीं तन्वीं विद्युद्वल्लीमिवापराम् । दृष्ट्वा तु मदनाविष्ट : सोऽयं मित्रसखो युवा ॥
१०५.तां ययाचे तु रमणीं सापि तं प्रेक्ष्य संमता । विहाय बन्धून् सुस्निग्धां तामादाय वराङ्गनाम् ॥
१०६.देशात् देशान्तरं प्राप कुलधर्मान् विहाय तु । तत्र तत्र समभ्यस्य गाननाट्यादिकं तया ॥
१०७.नानारूपधरो वेषभूषाभाषणचारुभि : । रञ्जयित्वा जनपदान् तेभ्यो गृह्णन् धनं बहु ॥
१०८.शिष्यै : प्रशिष्यै : भृत्यै : च बलीवर्दै : च रासभै : । झल्लिमृदङ्गनिस्सानपणवानकगोमुखै : ॥
१०९.घोषयन् गायमान : च पूज्यमान : च भूमिपै : । समन्तात् भारतीभूमिं परिचक्राम हर्षयन् ॥
११०.एवं सञ्चारमाण : तु शनै : काश्मीरमाप स : । तद्देशभूपति : कोऽपि कुङ्कुमाङ्क इतीरित : ॥
१११.तत् मित्रसखमाहूय बहुमानपुरस्सरम् । तेन विस्तार्यमाणानि कौतुकान् यदि कौतुकी ॥
११२.ददर्श मन्त्रिसामन्तै : सेनाध्यक्षपुरोहितै : । मत्स्यावतारवेषेण जनलोचनहारिणा ॥
११३.प्रथमं तोषयामास राजानं तत्र संसदि । तथा कामठरूपेण वराहेण तत : परम् ॥
११४.वपुषा नृहरेरादि वामनाकृतिना तथा । नाम(राम)त्रयवतारै : तु यादवेन्दावतारत : ॥
११५.तथैव कल्किवपुषा नटित्वा जनसंसदि । सन्तुष्टात् भूपते : प्राप्य वसुरत्नधनादिकम् ॥
११६.सहानुयायिभि : भूय : स्वं प्राप शिबिरं निजम् । एवं गते तु शैलूषे ता : च राज्ञ : कुमारिका : ॥
११७.रूपयौवनसंपन्ना सा नाम्ना चन्द्रमालिनी । तमेनं चकमे कान्तं शैलूषं वेषधारिणम् ॥
११८.मूर्च्छामवाप महतीं विषमायुधलक्षणाम् । मुक्तलीलामनाहारां भूताविष्टामिवस्थिताम् ॥
११९.तामेनां तत्सखी काचित् उपसृत्यान्तिकं रह : । पप्रच्छ विनयोपेता प्रीणयन्ती मृदूक्तिभि : ॥
१२०.कायेन मनसा वाचा विद्यया वा धनेन वा । तोषयिष्याम्यहं सर्वं यत्ते मनसि काङ्क्षितम् ॥
१२१.इति तस्या : वच : श्रुत्वा सैषा प्राह प्रियां सखीम् । सखि ते कथयिष्यामि यो मामाधिर्दहत्यलम् ॥
१२२.वक्ष्यामि तदशेषेण रहस्तत् अवधार्यताम् । कोमलाकारपुमान् सोऽसौ विष्णो : चारुसुवेषधृत् ॥
१२३.योऽसौ शैलूषके लोके एक : परमाश्चर्यमूर्तिमान् । सोऽयं दहति मामन्तर्वेषभूषणभाषणै : ॥
१२४.तस्मिन् लब्ध्वैव रमणे जीवाम्येव हि नान्यथा ॥ इति तस्याशयं ज्ञात्वा सेयं मायाविलासिनी ॥
१२५.विद्यया कर्षयामास रात्रौ मित्रखाभिधम् । तया सा योजयामास रत्यानङ्गमिव क्षणात् ॥
१२६.तं लब्ध्वा विस्मयाविष्टा नरवर्यं नृपात्मजा । रमयामास लीलाभि : तदानङ्गाकमोक्तिभि : ॥
१२७.स तु प्रीतमना सोऽपि समालिङ्याङ्गनामणिम् । सुधातरङ्गिणीपूरधारामाह गिरं प्रियाम् ॥
१२८.अकार्यमिदमावाभ्यां श्रेयसे न वराङ्गने । चोरवत् नृपतेरन्त : पुरे हन्त दुरासिका ॥
१२९.इयमापत्प्रसू : पुंसामंसासक्तेव पन्नगी । मनीषितस्य तन्वङ्गि महत : तव सिद्धये ॥
१३०.बुद्धिं प्रबोधायां यद्य वयस्यामिव संमताम् । अलक्ष्यमाणा कल्याणि तथा त्वं त्रिदशैरपि ॥
१३१.समागच्छ सकाशं मे लक्ष्मी सुकृतिनां यथा । इत्युक्त्वा तल्लटाग्रे दत्वा तिलकमद्भुतम् ॥
१३२.मायावी च स्वयं प्रायात् अदृश्य स्वजनं क्षणात् । इत्थं तस्मिन् मित्रसखे प्रयाते प्राणवल्लभे ॥
१३३.साधनानि समाधाय भूषणान्यम्बराणि च । भक्ष्यभोज्यपदार्थानि जनै : सर्वैरलक्षिता ॥
१३४.यत्रासौ वर्तते जार : तं देशं प्राप सत्वरम् । परिरेभे च बाहुभ्यां रतिं चित्तभवो यथा ॥
१३५.तत : स परिवाराणि समुत्थाप्य तु साधनै : । विनिष्क्रम्य पुरात्तस्मात् तया साकमदृश्यया ॥
१३६.शनै : शनै : अतिक्रम्य पुरग्रामादिकान् बहून् । काश्मीरान् नैषधान् साल्वान् सिन्धुसौवीरकेकयान् ॥
१३७.स प्राप सर्वतोभद्रां भद्रश्रीसर्वभूषिता । पाण्ड्यभूपुरुहूतस्य भुजतेजोभिरर्चिता ॥
१३८.यत्र नानामणिस्तोमकरुणारुणवाहिनी । ताम्रपर्णी मलयजा जयते पावनी नृणाम् ॥
१३९.पाण्ड्यभूमिं समासाद्य स्वदेशं विष्णुकानने । चकार वसतिं तीरे ताम्राया : पूर्वरोदसि ॥
१४०.रममाण : तया सार्धं भुञ्जान : स्वमनोरथान् । निनाय कालं विषयं भगवन्नामकीर्तने ॥
१४१.कदाचित् जारमाहैषा तरुणी चन्द्रमालिनी । भवता दर्शितान्यादौ हरेरद्भुतकर्मण : ॥
१४२.दशावताररूपाणि द्रष्टुमिच्छाम्यहं प्रभो । तेन तेन स्वरूपेण स्वानुरूपा स्वलङ्कृता ॥
१४३.रन्तुमिच्छामि चैकान्ते परो मे नाद्य काङ्क्षित : । इति पृष्ट : तया तन्व्या प्रीतोऽसौ तत्तथाकरोत् ॥
१४४.अनुस्यूतरतिध्वस्त : समस्तेन्द्रियपाटव : । शनैरेनं क्षयं प्राप शोषिताशेषशोणित : ॥
१४५.इत्थं संक्षीणसत्वस्य कामासक्तस्य दुर्मते : । शरीरात् अपलायन्त कुत्सिता इव चासव : ॥
१४६.मृते तस्मिन् महाराज सा नारी शोकविह्वला । रुरोद सुस्वरं दीना हा हतास्मीति वादिनी ॥
१४७.कुतो मे राजभवनं क्व भृत्या च बान्धवा : । किं करिष्यामि कं यामि को वा मे रक्षिता भवेत् ॥
१४८.इति चिन्ताकुलां दृष्ट्वा मरणे कृतनिश्चया । महाप्रवाहवेलायां ताम्रायां प्राविशत् शुभा ॥
१४९.विकृष्यमाणा तस्यैव ध्यायन्ती रूपमद्भुतम् । हरेर्दशविधं स्निग्धं मनोज्ञं जारकल्पितम् ॥
१५०.हरि : कारुणिक : तावत् दृष्ट्वा तां मरणोन्मुखीम् । कृपयागत्य वेगेन वृद्धब्राह्मणवेषवान् ॥
१५१.उद्धारयन् कराभ्यां तां परिमृश्य वरप्रद : । प्रीणयन् मधुरैर्वाक्यै : व्याजहार गिरं वधूम् ॥
१५२.हरि : --यमुद्दिश्य परं भीरु पतिता शोकसागरे । तमेनं शरणं शीघ्रं द्रष्टुमर्हसि हृष्टवत् ॥
१५३.इत्युक्त्वा वासुदेवाख्यम् मन्त्रं तु द्वादशाक्षरम् । साङ्गं समुपदिश्यास्यै जपेत्यन्तरधात् द्विज : ॥
१५४.तत : परमसंहृष्टा विश्वस्ता विप्रवाक्यत : । नानारूपधरं देवमच्युतं वनमालिनम् ॥
१५५.दशावताररूपेण भावयन्तं जगत्त्रयम् । ध्यायन्ती स्वान्तमन्तस्थं जजापैगाग्रमानसा ॥
१५६.स्नात्वा त्रिषवणं तीर्थे नियता चन्द्रमालिनी । न जल्पति न निद्राति न करोत्यपरां क्रियम् ॥
१५७.त्वगस्थिगात्रशेषाङ्गी पूजयामास केशवम् । इत्थमब्दत्रये जाते प्रात : स्नात्वा महानदीम् ॥
१५८.माघस्य शुक्लद्वादश्यां ध्यायन्ती जपमातनोत् । तावदाविरभूत् पुष्पवृष्टिरम्बरवर्त्मना ॥
१५९.देवदुन्दुभिनिर्घोष : शुश्रुवे पटहस्वनै : । विलोकयन्ती गगनमद्राक्षीत् अर्कसन्निभम् ॥
१६०.विमानमद्भुताकारमनेकप्रमदाकुलम् । तन्मध्ये दशधा भिन्नं रूपालङ्कारभूषितम् ॥
१६१.हरिं चतुर्भुजं कान्तं शङ्खचक्रगदाधरम् । अनेककोटिकन्दर्पलावण्यामृतवारिधिम् ॥
१६२.स्वकामुकसमाकारं स्वरहासावलोकनै : । उपलक्षितसर्वाङ्गं दृष्ट्वानन्दमवाप सा ॥
१६३.तत्र जग्मु : सुरा : सर्वे ब्रह्मरुद्रपुरोगमा : । स्तुवन्ति स्तुतिभि : विष्णुं हर्षयन्तो गिरा वधूम् ॥
१६४.तत्र देवो महादेवो महावृषभमास्थित : । एनामाहूय तन्वङ्गीं व्याजहार महेश्वर : ॥
१६५.शिव: --श्रुणु वत्से महाभागे तपस्विनि नृपात्मजे । पश्य त्वामागतं भाग्यं महत: तपस: फलम् ॥
१६६.आराधित : त्वया विष्णु : मन्त्रेण महता चिरम् । समृद्धकामां त्वां कर्तुमागतो लोकपूजित : ॥
१६७.सोयं मित्रसखो देव : दुर्विनीतोऽपि केवलम् । तवैव तपसा नूनं देवभावमुपागत : ॥
१६८.अनेन सह संयुक्ता : वैकुण्ठपरमाद्भुते । प्रशंसन्ति सुरास्सर्वे सनकाद्या : च योगिन : ॥
१६९.ताम्राम्भसि सकृत् स्नात्वा तीर्थे सत्पुण्यगौरवे । ममापि विष्णोर्नामानि जपन्त : कृतमज्जना : ॥
१७०.ते यान्ति परमानन्दं तद्विष्णो : परमं पदम् । चन्द्रमालिनि पश्य त्वं संस्थितान् अम्बरे सुरान् ॥
१७१.मत्स्यमूर्तिरसौ श्रीमान् कूर्ममूर्तिरसौ हरि : । यस्य वराहरूपोऽयं नृहरि : दानवान्तक : ॥
१७२.लोकमाता वामनोऽयं भार्गव : क्षत्रभञ्जन : । पश्य दाशरथिं रामं यमाहु : तारकं बुधा : ॥
१७३.आकृष्टयमुनापूरं रामं मां वपुरास्थितम् । येन लोका : त्रय : कृत्स्ना : भवन्ति हि निरामया : ॥
१७४.तमेनं गोपिकाकान्तं कृष्णं कमललोचनम् । पश्य पश्य महाभागे त्वत्प्रियार्थमिहागतम् ॥
१७५.हयग्रीवममुं येन निर्म्लेच्छा कल्पिता मही । कुरु प्रणाममेतेषां कुरु स्नानमिहोदके ॥
१७६.समारोह विमानं त्वं महादेवेन शासिता । वद्धाञ्जलिपुटा तन्वी जय शम्भो हरे विभो ॥
१७७.पाहि पाहीति जल्पन्ती ममज्जाम्भसि निर्मले । समुत्तस्थे तदा तस्मात् तीर्थात् आर्तिहरात् नृणाम् ॥
१७८.सूर्यवैश्वानराकारा तरुणी तनुमध्यमा । अनङ्गराजवनितामध:कृत्य स्वचर्चसा ॥
१७९.पूज्यमानामरगणै : आरुरोह रथोत्तमम् । महाकन्दर्पसौन्दर्यसिन्धुं मित्रसखाभिधम् ॥
१८०.चिराय काङ्क्षितं कान्तमवाप तपस : फलम् । तावेतौ दम्पतीमुख्यौ रतिकामाविवापरौ ॥
१८१.देवान् प्रणम्य देवर्षीन् विमानेनातिरंहसा । जग्मतु : परमं लोकम् पुनरावृत्तिवर्जितम् ॥
१८२.शिवो मुकुन्दो भगवान् ब्रह्मलोकपितामह : । समुपस्पृश्य तत्तीर्थं जग्मुर्देवैर्यथागतम् ॥
१८३.इत्थं निगत्य महतीं श्रुतिमौलिमालां पुण्यां कथां नृपवराय महातपस्वी ।
    बद्धाञ्जलिर्मलयजां मनसा प्रणम्य तूष्णीमभूत् निमिषमेष महानुभाव : ॥
१८४.यस्त्वेनां सकलजनाघपङ्कप्रक्षोभप्रकटितजाह्नवीप्रवाहाम् ।
    ये मर्त्या : श्रवणपुटेन धारयन्ते ते मुक्ता : परमकथासुधां मुनीन्द्रा : ॥

                              इति षष्टितम : अध्याय : Pro.Total = 5619 + 184 = 5803.

                               एकषष्टितम : अध्याय :

१.शङ्ख : --राजन् कलिमलध्वान्तविध्वंसनविनोदिनीम् । आकर्णय कथां पुण्याम् वक्ष्यमाणां मयाधुना ॥
२.तस्माद्विष्णुवनात् पुण्यात् पुरतो महदद्भुता : । नवस्थानानि विष्णो : च मुक्तिदा : च महीपते ॥
३.ब्रह्माश्रमं नाम वनं महामुनिनिषेवितम् । यत्र वैकुण्ठकैलासौ प्रकाशेते महोदयौ ॥
४.रोमशेनार्चित : शम्भु उमया सह जायते । रोमशाख्यं तीर्थमुख्यं ताम्रायां संप्रदृश्यते ॥
५.तत्र स्नात्वा महादेवं प्रणम्य गिरिजासखम् । इह लोके सुखी भूत्वा निर्मुक्ताशेषकिल्बिष : ॥
६.देहान्ते शाम्भवं लोकं गच्छन्ति मनुजा ध्रुवम् । तत्र नारायण : साक्षात् सान्निध्यम् कुरुते सदा ॥
७.कलशीतीर्थसंज्ञं तु तीर्थं जागर्ति पावनम् । यदम्बुकणिकापानात् स्नानात् संस्पर्शनात् अपि ॥
८.ब्रह्महा मुच्यते पापै : किमन्ये पापिनो नरा : । अहङ्कारहृतान् वेदान् ज्ञानविज्ञानहेतुकान् ॥
९.यत्राराध्य हरिं भक्त्या भूयस्तान् प्राप पद्मभू : । यदृच्छया समागत्य पापिनोऽपि तदाश्रमम् ॥
१०.जायन्ते नैव भूयस्ते नात्र कार्या विचारणा । ततोपि किञ्चिदग्रे क्ष्रेत्रं तु विजयासनम् ॥
११.पुरा संकुचितानां म्लेच्छानां शतकोटय : । जिता तद्देशराजानं प्रतापाङगदसंज्ञितम् ॥
१२.राज्यं चक्रु : स्वयं म्लेच्छा : दुर्विनीता : समागता : । मणलूरुपुरं गत्वा राष्ट्रकोशबलै : सह ॥
१३.पलायमानो विपिनं प्रविवेश भयङ्करम् । पूर्वभागे तु वैकुण्ठे ताम्राया उत्तरे तटे ॥
१४.निवासाय स्थलं कृत्वा पूजयामास केशवम् । तावदाविरभूत् विष्णु : पुरतो पाण्ड्यभूपते : ॥
१५.शङ्खचक्रगदापद्मपरिष्कृतचतुर्भुज : । किरीटमुकुटाद्यैश्च भूषितो भूषणोत्तमै : ॥
१६.श्रिया भूम्या सेवमानो देवतै : सनकादिभि : । स्वासनात् आसनं दिव्यमादाय मणिभास्वरम् ॥
१७.कृत्वा स्वाङ्के समारोप्य राजानं करुणानिधि : । ताम्रातोयं समानीय पाञ्जजन्येन पाणिना ॥
१८.अभिषिच्याप्यनुग्राह्य तत्रैवान्तरधीयत । तावत् राज्ञ : पाण्ड्यपते : विस्मयाविष्टचेतस : ॥
१९.सिंहासनस्य पादेभ्य : निस्सृता : शतकोटय : । योधा : च परमायत्ता : नानाशस्त्रास्त्रवेदिन : ॥
२०.ते गत्वा म्लेच्छनिकरं हत्वा सबलवाहनम् । प्रतापाङ्गदनामानं मण्लूरुपुरोत्तमे ।
२१.तमेव चक्रु : राजानं सर्वे मुमुदिरे जना : । तावद्देवा : सगन्धर्वा : ब्रह्मरुद्रपुरोगमा : ॥
२२.विकीर्य पारिजातस्य कुसुमैरवनीतलम् । विजयासननामानं तुष्टुवु :पुरुषोत्तमम् ॥
२३.तीर्थं तु पाञ्जजन्याख्यं क्षेत्रं तु विजयासनम् । पश्यन्त : च निमज्जन्तो न पुनर्गर्भवासिन : ॥
२४.तस्यैव निकटे पूर्वे भूमिपालाभिधे हरि : । अद्यापि वरद : शेते शेषपर्यङ्कसंज्ञिते ॥
२५.भूमिपालमिति स्तोत्रे स्तुवन्ति सनकादय : । पुरा भार्गवकोपेन हन्यमाने तु सर्वत : ॥
२६.भीत : तदा पाण्ड्यपति : तत्राराध्य जनार्दनम् । अयाचत रह:स्थानं निवासाय हि निर्भयम् ॥
२७.दत्वाभयं नृपयास्मै पाण्ड्यराजाय सादरम् । तमेनं हरिधामाख्यं सपुत्रज्ञातिबान्धवम् ॥
२८.समादाय कराम्भोजै : स्वमुख्यै : प्राक्षिपत् क्षणात् । स तत्कुक्षिविवरं संप्रविश्य महीपति : ॥
२९.ददर्श सर्वतोभद्रं राज्यं नयनभूषणम् । ताम्रां च मलयाद्रिं च मणलूरुपुरं तथा ॥
३०.तत्र गत्वा स्वभवनं राज्यं चक्रे महीपति : । हरि : स्वयं पाण्ड्यमहीं जुगोपापायत : प्रभु : ॥
३१.इत्थं सहस्रे शरदामपयाते शनैश्शनै : । जामदग्न्य : तदा रामो विरत : क्षत्रियक्षयात् ॥
३२.काश्यपाय महीं दत्वा न्यस्तशस्त्रो जितेन्द्रिय : । प्राप्य शैलं महेन्द्राख्यं स चक्रे तप उत्तमम् ॥
३३.तत : कुक्षिगतं भूपमास्यात् निर्वास्य भूतले । मणलूरुपुरे चक्रे राजानं सह बन्धुभि : ॥
३४.इत्थमस्य हरेर्लीलां दृष्ट्वा देवा : सविस्मया : । अवकीर्याम्बरात् पुष्पाण्यानर्चु : सनकादिभि : ॥
३५.तत्र हर्षाभिधं तीर्थं मज्जतां पापनाशनम् । तत्र स्नात्वा हरिं दृष्ट्वा सर्वान् कामनवाप्नुयात् ॥
३६.तदग्रे युग्मलस्थानं देवदेवस्य शार्ग्गिण : । पुराश्विनौ अश्विसुतौ यज्ञभागविवर्जितौ ॥
३७.ताम्राया उत्तरे तीरे कृत्वाश्रमपदं निजम् । पूजयामासतुर्देवं गुरूक्तेनैव वर्त्मना ॥
३८.इत्थमब्दशतं पूर्णं भक्त्या चार्चयत : तयो : । द्विधाभूत : प्रादुरभूत् वरदो गरुडध्वज : ॥
३९.वरेण छन्दयामास : वव्राते तौ तमीश्वरम् । प्रसीद भगवन् विष्णो प्रसीद करुणानिधे ॥
४०.यदि तुष्टोसि तपसा यद्यावां वरोचिते । त्रयस्त्रिंशत्सुरगणा : कोटय : काश्यपात्मजा : ॥
४१.एतेषु गण्यमानेषु मुक्यावावां न संशय : । तथापि शक्र : कोपेन यज्ञभागं न दत्तवान् ॥ 
४२.भिषजाविति यद्दोषं आवयो : तदपाकुरु । देह्यावयोर्यज्ञभागं यज्ञेषु श्रुतिचोदितम् ॥
४३.तत्तथास्त्विति तावुक्त्वाप्यरविन्दलोचन : । देवानाहूय देवेशो भागं दातुं समादिशत् ॥
४४.इति लब्ध्वा वरौ दस्रौ देवेशं पङ्कजेक्षणम् । प्रणम्य च परिक्रम्य तोषयित्वा स्तवैरपि ॥
४५.समीयतु : पुन : स्वर्गं प्राप्तकामाविमौ यत : । तस्मात् तत् अश्विनीतीर्थे स्नात्वाश्विन्यां दिनोदये ॥
४६.देवेशं पङ्कजाक्षं च दृष्ट्वा मुच्येत किल्बिषात् । युग्मलाख्यमिदं क्षेत्रमाश्विनं य : प्रपश्यति ॥
४७.तमेनं नैव बाधन्ते राजयक्ष्मादयो गदा : । कुत्सिता वा न जायन्ते न दारिद्र्यपरिप्लुता : ॥
४८.ये चात्र तीर्थे मज्जन्ति ते यान्ति परमां गतिम् । अलङ्कृत्य श्रिया तस्मात् ऐन्द्रीमाशामदूरत : ॥
४९.हरेरायतनं पुण्यं जयते परमाद्भुतम् । मायालास्यमिदं क्षेत्रं नाम्ना माया यत्र प्रवर्तिता ।
५०.पुरा राथन्तरे कल्पे पुण्ये सावर्णिकेऽन्तरे । आङ्गीरसकुलोद्भूत : श्रुतधामेति विश्रुत : ॥
५१.परीत्य सकलामुर्वीं तीर्थयात्रापरायण : । क्रमात् आगत्य तत्क्षेत्रं ताम्राया उत्तरे य्तटे ॥
५२.दृष्ट्वा तु सर्वतोभद्रं श्रिया संपूर्णतेजसम् । सिद्धक्षेत्रं परं ज्ञात्वा तत्रादिष्ट : तपो महत् ॥
५३.निराहारो यताहारो यतवाक्कायमानस : । ध्यात्वा हृदि हृषीकेशं तोषयामास भक्तित : ॥
५४.एवं वर्षसहस्रान्ते तपसाराधित : प्रभु : । प्रादुर्भूत : तमाहूय वरदो वाक्यमब्रवीत् ॥
५५.सन्तुष्टोस्मि महाभाग तपसा तेन साधुना । वरान् वरय भद्रं ते सर्वान् कामान् ददामि ते ॥ 
५६.श्रुतधामा --भगवन् करुणामूर्ते नमस्तुभ्यं श्रिय:पते । यदि मे वरदोऽसि त्वं वरार्हो  यद्यहं मत : ॥
५७.द्रष्टुमिच्छामि ते लीलां कृष्णमूर्ते : यदो : कुले । अवताराणि कर्माणि सस्वर्गारोहणानि प्रभो ॥
५८.इति संप्रार्थित : तेन ब्राह्मणेन स पुमान् । दर्शयामास भगवान् निजलीलां पुरा कृताम् ॥
५९.अवतारं च मायया यशोदायां च गोकुले । देवक्यां संभवं चैव हरेर्भोजेन्द्रमन्दिरे ॥
६०.गोकुलप्रतियानं च मायामाहात्म्यदर्शनम् । पूतनाप्राणहरणं शकटसुरमोक्षणम् ॥
६१.तृणावर्तस्य निधनं यमलार्जुनभेदनम् । बृन्दावनप्रयाणं च निग्रहं बकरूपिण : ॥
६२.अघासुरविमोक्षं च ब्रह्माहङ्कारनाशनम् । वत्सासुरस्य निधनं प्रलम्बस्य निबर्हणम् ॥
६३.धेनुकस्य वृषस्यापि शङ्खचूडस्य नाशनम् । हयासुरस्य निधनं अक्रूरागमनं तथा ॥
६४.मथुरायां प्रवेशं च कंसस्यापि विनाशनम् । कारागृहात् परित्राणं पित्रो : प्रीतिवर्धनम् ॥
६५.उग्रसेनाभिषेकं च मातुलस्य बलक्षयम् । तद्द्वारकाया : निर्माणं म्लेच्छनीचवधं पुन : ॥
६६.उद्वाहं राजकन्यानां नरकासुरमर्दनम् । निधनं चेतिराजस्य धर्मजक्रतुपालनम् ॥
६७.कुरुक्षेत्रे महीपानां कुरूणां च समागमम् । दुर्योधनादिनिधनं धर्मपुत्राभिषेचनम् ॥
६८.पुनर्वैकुण्ठगमनं उद्धवस्योपदेशनम् । एतान्यन्यानि पुण्यानि दृष्ट्वा कर्माणि शार्ङ्गिण : ॥
६९.विस्मयोत्फुल्लनयन : परमानन्दनिर्भर : । हर्षगद्गदया वाचा तुष्टाव पुरुषोत्तमम् ॥
७०.ओं नमस्सत्यसंकल्पविकल्पोल्लासितात्मने । निर्गुणाय गुणाविष्ट कर्मणे ब्रह्मणे नम : ॥
७१.सत्यं ज्ञानमनन्तं यत् धाम नामादिवर्जितम् । ओमित्युपहिताकारमहङ्कारमुपास्महे ॥
७२.यतो वाचो निवर्तन्ते मनसाप्राप्य माधवम् । हृद्यन्तं परं पश्ये भद्रस्यावाप्तये हरिम् ॥
७३.हृषीकम् जगतां साक्षात् श्रुतयो यत् प्रशंसिरे । तमादिपौरुषं तेज : प्रपद्ये व्योमलक्षणम् ॥
७४.अलक्ष्यमक्ष्णां गुणिनां ब्रह्मादीनां यदैश्वरम् । मह:प्रपद्ये निर्मायं यत् परं परमं हरि : ॥
७५.यमन्विष्य महस्तत्वमागमान्तगिरां तति : । तद्धाम कामयैकान्तकलिकल्मषनाशनम् ॥
७६.अणोरणीयमाद्यन्तमध्यविप्लववर्जितम् । अहमाराधये चित्ते मायाजालविमुक्तये ॥
७७.देवदेवं महादेवं हरिमभ्युदयेश्वरम् । पश्यामि परतत्वार्थं निर्मुक्ताशेषकल्मषम् ॥
७८.भगवन् परितुष्टोऽस्मि मायालास्यप्रदर्शनात् । अहो विभूतिविस्तारो लीलावैशिष्यलक्षण : ॥
७९.पुनाति लोकान् गङ्गेव दर्शनात् कीर्तनात् अपि । इत : परं न शोचामि येनाहं त्वत्प्रसादत : ॥
८०.तथा कुरु दयां मह्यं त्वामहं शरणं गत : । इत्थं काङ्क्षितं ज्ञात्वा करुणामृतवारिधि : ॥
८१.भूय प्रहर्षयन् वाचा व्याजहार मुनीश्वरम्।श्री भगवान् --ब्रह्मन् मत्प्रार्थनादत्र वस्तव्यम् भवता मुदा ॥
८२.गार्हस्थ्यं कर्म कृत्यैव पुत्रमित्रधनादिभि : । तत : कालेन महता मत्सायुज्यमुपैष्यसि ॥
८३.मोहापहमिदं तीर्थं ताम्राया : परमाद्भुतम् । मज्जतामेव जन्तूनां मत्सायुज्यप्रदायकम् ॥
८४.सकृत् अत्रैव मज्जन्तो द्रष्टारो मामकीं तनुम् । न ते भूय : प्रपद्यन्ते मायामोहविकल्पनै : ॥
८५.इत्युक्त्वान्तर्हिते तस्मिन् भगवत्यम्बुजेक्षणे । तत्रैवाराधयामास युगानामेकसप्ततिम् ॥
८६.अन्ते जगाम स मुनि : तद्विष्णो : परमं पदम् । नद्या : तु दक्षिणे भागे श्रीदेव्या : परमाद्भुतम् ॥
८७.श्रीपुरं चेति विख्यातं हरेरानन्दवर्धनम् । यत्रादिसिद्धो भगवान् हरि : कारुण्यमानुष : ॥
८८.वेदसिद्धान्तसारस्य वक्ता भुवनवर्तिनाम् । आगामिनि कलौ राजन् अवतारं करिष्यति ॥
८९.तीर्थानां पञ्चकं यत्र ताम्रपर्ण्यां प्रशंस्यते । विनिद्रो भुजगेन्द्रोऽपि चिञ्चापादपो गत : ॥
९०.यत्र क्रीडति सानन्दं नित्यं सिद्धविहङ्गमा : । यत्र सारूप्यतां प्राप तपसा विहगेश्वर : ॥
९१.अस्य क्षेत्रस्य माहात्म्यं महत्वात् सागरोपमम् । यदत्र कमलादेवी करोति करुणां मुहु : ॥
९२.अस्मिन् सुकीर्त्यमाने तु माहात्म्ये मङ्गलालये । पुरा वैकुण्ठभवने हरिर्विश्वम्भरो विभु : ॥
९३.शयानो भोगिपर्यङ्के योगमुद्रां समुद्वहन् । विश्वत्राणाय महतीं मनीषामभ्यवर्तयत् ॥
९४.श्रिया भूम्या ह्रिया चैव तुष्ट्या पुष्ट्येलोर्जया । श्रद्धयाश्रद्धया कान्त्या सेव्यमान : समन्तत : ॥
९५.मौलिमङ्गे रमाया : तु पादौ कृत्वा भुवो विभु : । तमेनमादिपुरुषं सिद्धाश्च सनकादय : ॥
९६.वैनतेयो भृगु : शङ्ख : पाञ्जजन्य : सुदर्शन : । कौमोदकी नन्दनश्च शार्ङ्गाख्यं च महद्धनु : ॥
९७.उपासांचक्रिरे चैते पार्षदा :  च पृथक् पृथक् । ऋचां तति : शुक्लवर्णा शारिकारूपमास्थिता : ॥
९८.इन्द्रनीलशिलाकॢप्तपञ्जरान्तरवर्तिनी । तुष्टाव जगदीशानं पुरुषं ब्रह्मपूर्विकम् ॥
९९.गणोऽयं इन्द्रनीलाभो यजुषां शुकविग्रह : । तप्तकाञ्चनमाणिक्यपञ्जरस्थोऽस्तुवत् हरिम् ॥
१००.अरुणा सामपङ्क्ति : तु कोकिलाकारदर्शना । पद्मरागशिलाजातपञ्जरोदरसंस्थिता ॥
१०१.चुकूज पञ्चमं विष्णो : प्रसादाय मुहुर्मुहु : । अथर्वाणां ततिरियं सारमेयवपुर्धरा ॥
१०२.सालङ्कारा शङ्खवर्णा द्वारि सेवमसेवत । अष्टादशपुराणानि शास्त्राणि विविधान्यपि ॥
१०३.स्मृतयोऽप्यागमाद्या : च नानावर्णगुणोत्तरा : । पक्षिमक्षिकभृङ्गाणामाकारेण गृहाङ्गणे ॥
१०४.अलङ्चक्रु : कल्पवृक्षान् मकरान्दालिदुर्दिनान् । एवं स्थितेषु सर्वेषु भगवद्ध्यानवृत्तिषु ॥
१०५.तत्रालोक्य शुकं स्निग्धं स्चनीडपरिवर्तिनम् । किञ्चित् उल्लासितस्वान्तरागामृततरङ्गिणी ॥
१०६.व्याजहार चलच्चञ्चच्छायापाटलकान्तिका(शारिका)।नाथ कीरमणे किञ्चित्प्रष्टुमिच्छामि शङ्कितम् ॥
१०७.वक्तुमर्हस्यसन्दिग्धं तदिदानीं सखे मम । विधिना विहिता लोके समस्ताजीवकोटय : ॥
१०८.स्त्रीपुंसोर्व्यक्तिमभ्येत्य त्वद्वशो विहरत्यहो । मिथुनीभूय कर्माणि कुर्वत : तानि तानि हि ॥
१०९.फलानि रूपभाग्यानि भुञ्जन्ते च पुन:पुन : । योनिभेदेषु कृष्यन्ते स्वकर्मफलगौरवात् ॥
११०.जायन्ते च म्रियन्ते च यान्ति स्वर्गं च यातनाम् । एवं परिभ्रमजुषां जन्तूनां कर्मवर्त्मनि ॥
१११.कथं सौख्यं भवत्यद्धा केन वा जन्मना पुन : । केन वाश्रमधर्मेण पुरुषार्थचतुष्टयम् ॥
११२.कथं कर्तारमभ्येत्य वक्तुमर्हसि मे भवात् । इति संपृष्टसंप्रश्न : शुक : शारिकया मुदा ॥
११३.मौलिमान्दोलयत्किञ्चित् व्याहर्तुमुपचक्रमे । शुक : --अयि तन्वङ्गि मे गाथामन्तर्निगमदर्शिताम् ॥
११४.अशेषसंशयध्वान्तनिराकरणकौमुदीम् । येन लोकमिदं विश्वं कर्मारब्धं प्रशस्यते ॥
११५.कर्मणोदयमभ्येति कर्मणैव प्रमीयते । कर्मबीजमिदं जन्तो : शरीरं नात्र संशय : ॥
११६.तरुगुल्मादय: प्रोक्ता: निगमा: चोद्भिज्जादय: । स्वेदजा : कृमिकीटाद्या : पतङ्गाद्या : तथाण्डजा : ॥
११७.जरायुसंभवा : प्रोक्ता : नृगवाद्या : वरानने । तत्रैव मर्त्या ज्येष्ठा : स्यु : तेषु ज्येष्ठा : द्विजादय : ॥
११८.तथापि तेषां विप्राणां शान्तानां ब्रह्मवादिनाम् । चतुर्धा पदवी दृष्टा चतुराश्रमसंज्ञिता ॥
११९.तेष्वेष्वेकतमेनैव साधयन्ति सुखं द्विजा : । चत्वार्येतान्याश्रमाणि घ्नन्यनिन्द्रियनिग्रहात् ॥
१२०.निगृहीतेन्द्रियग्रामं पालयन्ति सुखं यथा । ब्रह्मचर्यं च गार्हस्थ्यं वानप्रस्थं च भिक्षुता ॥
१२१.क्रमात् एतानि वर्तव्यान्यात्मवद्भि : द्विजोत्तमै : । शरीरश्रमसाध्यानि विना गार्हस्थ्यमुत्तमम् ॥
१२२.आत्मत्राणाय कल्पन्ते नेतरेषां कदाचन । गार्हस्थ्यमेतत् आश्चर्यं चराचरसुखप्रदम् ॥
१२३.विना परिश्रमं तन्वि वर्तनीयं मनीषिभि : । भुक्तिं मुक्तिं च युगपत् महाविभवसंयुताम् ॥
१२४.करोति सद्यो विप्राणां चिन्तामणिरिवापर : । यद्याश्रमं द्वितीयं तु गार्हर्स्थ्यमनुवर्तते ॥
१२५.त्रयाणामापि लोकानां भवेत् पालयिता गृही । अनुकूलेन दम्पत्यो : निरन्तरसुखोदय : ॥
१२६.विपरीतं कलत्रं चेत् नरकाद्यातनावहम् । स नित्यब्रह्मचारी स्यात् ऋतुकाले हि वर्तनात् ॥
१२७.इष्ट्वा क्रमात् पञ्चयज्ञै : बलिदानै : चराचरम् । वैश्वदेवाहुतीर्हुत्वा ब्रह्मभूयाय कल्पते ॥
१२८.सायं प्रातर्द्विजातीनामशनं श्रुतिचोदितम् । आदौ प्राणाहुती : कृत्वा यतिभिक्षावशेषितै :॥
१२९.यदि मृष्टन्नभोक्तापि विप्रो नित्योपवासकृत् । ब्रह्मानन्दो गृहस्थस्य कलत्रात् उपजायते ॥
१३०.तत्सौख्यमानुकूल्येन दम्पत्योर्जायते ध्रुवम् । ब्रह्मानन्दानुभूत्या यदभ्युपैति सुखं नृणाम् ॥
१३१.ब्रह्मणोपि हरेर्वापि महादेवात् च केवलम् । मन्ये सुखिनमेवाहम् गृहस्थं नात्र संशय : ॥
१३२.इत्थं तयो : प्रवचनमधिगम्याब्धिकन्यका । परं हर्षवापैषा सुधासूक्तेव वल्लरी ॥
१३३.एवमेव मया भर्त्रा वर्तनीयं सुखाप्तये । इति सन्चिन्त्य सन्चित्य तुतोष कमलालया ॥
१३४.अङ्गैरुन्निद्ररोमाञ्चै : अलङ्कारवती यथा । तदन्त:करणारण्यविहरत्धरणीं हरि : ॥
१३५.मनीषामेष विज्ञाय व्याजहार स्ववल्लभाम् । अयि कल्याणि भद्रं ते यत्राशाविषयाङ्गणे ॥
१३६.विहरिष्यति सामोदं सा मामामोदयिष्यति । पूर्णकामामहं भद्रे त्वां करिष्ये न संशय : ॥
१३७.गच्छ त्वं भारते वर्षे पुण्ये पुष्पितकानने । तीरे मलनन्दिन्या : दक्षिणे मोक्षदायिनि ॥
१३८.ममास्ति क्षेत्रमतुलम् महाबकुलमण्डितम् । यत्र शेषो ममांशोऽयं चिञ्चापादपरूपधृत् ।
१३९..तत्प्रसादाय सततं करोति तप उत्तमम् । तत्र त्वं नियताहारा मामर्चय शुचिस्मिते ॥
१४०.कुर्वन् मनोरथान् सर्वान् आगमिष्याम्यहं किल । आवयो: सङ्गमं तत्र हिताय जगतां भवेत् ॥
१४१.इत्यादिश्य रमां देवीं तच्छुश्रूषाविधित्सया । वैनतेयं तया सार्धं प्रेषयामास माधव : ॥
१४२.सैषा भगवती लक्ष्मी समुत्थाय कृताञ्जलि : । स्वसीमन्तमणिश्रेण्या तदाज्ञामनुकुर्वती ॥
१४३.परिक्रम्य प्रणम्याग्रे संप्रतस्थे सखीजनै : । स्तूयमाना मुनिगणै : ब्रह्मरुद्रादिदेवतै : ॥
१४४.अतीत्य वियदध्वानं तारकालिविभूषितम् । संप्रापमहतीं भूमिं पुण्यां भारतसंज्ञिताम् ॥
१४५.अलंचकार करुणापीयूषापाङ्गवीक्षणै : । ताम्रां महानदीं दृष्ट्वा मलयं चन्दनाचलम् ॥
१४६.कुसुमै : काञ्चनमयै : महामाणिक्यमण्डितै : । मुक्ताजालसमाकीर्णै : विकिरन्ती महीतलम् ॥
१४७.नयनादित्यमकरोत् मरत्चिञ्चामहीरुहम् । अनेकबकुलाक्रान्तं चम्पकाशोकमण्डितम् ॥
१४८.मुनिबृन्दै : सेव्यमानं वेदघोषनिनादितम् । हरिनामाक्षरश्रेणीभणितास्वातनोत् सुखै : ॥
१४९.भक्तैर्निबिडितं विष्वग्जनैर्निर्मुक्तकिल्बिषै : । दृष्ट्वा प्रसन्नहृदया जननी हरिवल्लभा ॥
१५०.अवतीर्य महीभागे तिन्त्रिणीपादपात्मिके । कृत्वाश्रमपदं देवी वैनतेयेन कल्पितम् ॥
१५१.प्रविश्य पर्णशालां तु तपस्तेपे हरिप्रिया । स्नात्वा महानदीतीर्थे मन्त्राराधनतर्पणै : ॥
१५२.पूजयामास देवेशं लोकनाथं जगद्गुरुम् । ब्रह्मचारीवटुर्भूत्वा वैनतेयो हरिप्रिय : ॥
१५३.परिचर्यां चकारास्यै समित्पुष्पकुशोदकै : । पूजोपकरणैरन्यै : फलमूलविशेषकै : ॥
१५४.इत्थमब्दसहस्रं तु गतमासीत् ततोत्तरम् । फाल्गुने मासि संप्राप्ते वृद्धिभाजि निशाकरे ॥
१५५.उपोष्यैकादशीं पुण्यां कमला कमलेक्षणम् । पूजयित्वा विनिद्राक्षी प्रातरुत्थाय वाक्यता ॥
१५६.अभिषिच्यामृतजलै : आत्मानमभिमन्त्रितै : । प्रसाद्य मलयोद्भूतां काल्यं कृत्वा क्रियागणम् ॥
१५७.द्वादश्यां पूजयामास द्वादशाक्षरविद्यया । पुष्पै : सुगन्धै : धूपै : च दीपै : नीराञ्जनादिभि : ॥
१५८.पूजान्ते तोषयामास स्तोत्रै : स्तुतिसमीरितै : । आद्यं नम : कारुणिकं पवित्रं
    नतार्तिशमनाधरबद्धदीक्षम् ॥
१५९.साक्षिं पुन:सकलजीवनपरिश्रमाणां विश्रान्तिमण्डपपदाम्बुरुहं नतानाम् ।
    आद्योऽयमस्य जनक : स्वपिता पिता च नेता गतिं निजपदाम्बुरुहाननानाम् ॥
१६०.नाथ : समस्तभुवनस्य ममापि जीवलेखामयो भवतु न : पुरत : पुराण : ।
    वाणी पुराणपदवी निखिलश्रुतीनां सार्थं परिश्रममुपेत्य मनो विकारै : ॥
१६१.जानाति वा न हि विमृश्य निवर्तिता वा तं केवलं परमकारुणिकं नतास्मि ।
    यं प्राहुराद्यमनपायमशेषवेधा मोहान्धकारपटलाथ परं प्रकाशम् ॥
१६२.ब्रह्मादयोऽपि तमिमं हृदयं प्रपद्ये प्राप्तं प्रकाममभिलाषमहोदयानाम् ।
    यज्ञैर्जपैरपि मनुप्रवरस्य दानै : पूजाविशेषपुषिताभ्युदयप्रणामै : ॥
१६३.प्राणेन्द्रियोपशमनै : प्रविशन्ति सिद्धा : यन्तं पुमांसमुरुकायमुपैमि नित्यम् ।
    यत्पादपद्ममकरन्दजुषां मुनीनां ब्रह्मेन्द्ररुद्रपदवीविभवो हि हेय : ॥
१६४.नाथो ममास्तु नलिनायतलोचनोऽयं अग्रे जगत्त्रयसुरक्षणजागरूक : ।
    एकोऽप्ऽयनेकविधमूर्तिविकल्पनाभि : कर्ता यमाविति पिपीलिकजीविकानाम् ॥
१६५.भक्त्या पुन : प्रलयत : प्रणयैकधामा कामाय मे भवतु कारणकारणात्मा ।
    आद्योऽयमस्य जगत : प्रभुरप्रकाश : पापात्मनामसुकृतिनां विहितप्रकाश : ॥
१६६.ईशे पदे भवतु मे भगवान् पुराण : भक्तावलम्बितपदाम्बुरुह : श्रुतीनाम् ।
    श्रान्तास्मि नाथ निखिलश्रमशान्तिहेतोस्वान्तात् प्रमृज्य परितापततिं मदीयाम् ॥
१६७.आयाहि पाहि पुरतो न सहे वियोगमुर्वीव घर्मतपनांशुमसह्यमानाम् ।
    नारायणं नरसखं नलिनायताक्षं साक्षात्करोमि हृदये सदयं दयालुम् ॥
१६८.त्वामादिनाथमखिलश्रुतिसारमेकं मा ते विलम्बनदशा परिवर्तनीया ।
    मा हर्तुमर्हसि भवच्चरणाब्जभृङ्गीमङ्गीकुरुष्व सहसा करुणामृताब्धे ॥
१६९.काङ्क्षे मुहु:कमललोचनपादमूले कर्तुं शिरस्सकरुणं परिपश्य दीनाम् ।
    इत्थं स्तुत्वा रमानाथं माता क्षीराब्धिकन्यका ॥
१७०.नेत्राभ्यामश्रुपूर्णाभ्यामासीदानन्दनिर्भरा । तावदाविरभूद्व्योम्ना महान् दुन्दुभिनिस्स्वन : ॥
१७१.कल्पपादपसंभूता पुष्पवृष्टिरभूद्दिवि । हाहाहूहूमुखा : देवा : गायका : नारदादिभि : ॥
१७२.उच्चैश्चेदमगायन् च वीणावेणुविनोदनै : । क्षणादाविरभूद्व्योम्नि विमानं सूर्यसन्निभम् ॥
१७३.तस्मिन् मध्ये समासीनं देवदेवं जगद्गुरुम् । नीलमेघघनश्यामं पीतकौशेयवाससम् ॥
१७४.जाम्बूनदमयै : छत्रै : भूषितं भूषणोत्तमै : । सेव्यमानं सिद्धगणै : देवैर्मुनिगणैरपि ॥
१७५.शङ्खचक्रगदापद्मै : परिष्कृतचतुर्भुजम् । श्रीवत्सकौस्तुभधरं वनमालाविराजितम् ॥
१७६.अतितेजोमयं दृष्ट्वा पुरुषं पुष्करेक्षणम् । हर्षानुरागसौहार्दभक्तिविस्मयविभ्रमै : ॥
१७७.देवी परवशस्वान्तलज्जोन्मीलितलोचना । पाहि पाहि दयासिन्धो नाथ नारायणप्रभो ॥
१७८.हर्षगद्गदया वाचा मन्दमान्दोलितेक्षणा । भयाविष्टेव हृष्टेव तूष्णीमासीत् जगत्प्रसू : ॥
१७९.दृष्ट्वातिप्रणतां देवीं कृशाङ्गीमात्मवल्लभाम् । पाणिभ्यां सहसारोप्य विमानं गरुडध्वज :॥
१८०.वरेण छन्दयामास पारावारवरात्मजाम्। श्री भगवान् --प्रीतोऽस्मि तपसा भद्रे स्तोत्रमुख्यै: तदर्हणै: ॥
१८१.दास्यामि कामानखिलान् आत्मानमपि केवलम्। श्रीदेवी --यदि प्रीतोऽसि भगवन् वरार्हा यद्यहं मता ॥
१८२.कदापि त्वत्पदाम्भोजात् वियोगो मास्तु मे विभो । कर्तुमिच्छाम्यहं दास्यं नित्यं त्वत्पादपद्मयो : ॥
१८३.अस्माद्वरादभिमता नाधिको मे वरोत्तम : । इद्धानताङ्गीं जगतां मातरं कमलेक्षणाम् ॥
१८४.भूय:प्रहर्षयन् वाचा व्याजहाराम्बुजेक्षण : । अत्रैवाहं त्वया सार्धमाकल्पमखिलप्रभो ॥
१८५.वसामि वरदो भूत्वा तव प्रीतिविधित्सया । ये चात्र तीर्थे ताम्राया : निमज्ज्य कमलाभिधे ॥
१८६.त्वां च मां च समभ्यर्च्य जप्त्वा स्तोत्रमिदं शुभम् । परिक्रमन्ति मत्क्षेत्रं तेषां कामान् ददाम्यहम् ॥
१८७.श्रद्दयाश्रद्धया वापि कार्यार्थे वापि कौतुकात् । सकृद्वालोक्य निर्मुक्ता : पापेभ्यो नात्र संशय : ॥
१८८.ये त्यजन्त्यत्र मत्क्षेत्रे कर्मान्ते तु कलेबरम् । तेषां मुक्तिं प्रदास्यामि दुर्लभां मत्कृतात्मभि : ॥
१८९.इत्यालिङ्ग्य महालक्ष्मीं अभिन्नात्मात्मवल्लभाम् । वैनतेयाय सन्तुष्ट : प्रादात् सारूप्यमात्मन : ॥
१९०.तत्रैव वासं विदधे लोकानां हितकाम्यया । श्रीभूमिसहित : तत्र क्षेमाय जगतां विभु : ॥
१९१.गार्हस्थ्यधर्मान् अकरोत् ब्रह्माद्यैरपिपूजित : । तस्मात् लक्ष्मीपुरमिति ख्यातं प्रथितं भुवनत्रये ॥
१९२.राजन् तत्क्षेत्रमाहात्म्यं शृण्वतां भुक्तिमुक्तिदम् । न दरिद्रो भवेन्मर्त्यो रमासामीप्यगौरवात् ॥
१९३.अलक्ष्मी कलहाधारा कदाप्यत्र न गच्छति । न रोगा पिशाचाद्या : न पातकविकल्पना ॥
१९४.आयुष्मन्तो भाग्यवन्तो भुक्त्वा भोगान् यथेप्सितान् । अन्ते कैवल्यमासाद्य ते यान्ति परमं पदम् ॥

                         इति एकषष्टितम : अध्याय : Pro.Total = 5803 + 194 = 5997.

                              द्विषष्टितम : अध्याय :

१.वीरसेन : --कथं ब्रह्मन् महाक्षेत्रे शेष: साक्षात्हरि : स्वयम् । तिन्त्रिणीतरुतां प्राप्य वर्तते यत्तदद्भुतम् ॥
२.यन्नामवर्णनिबिडरसना यस्य सन्ततिम् । तद्दर्शनान्तमार्तानां महापातककोटय : ॥
३.तम : किं तुदते भानुं किं गङ्गां विपिनानल : । अनन्तमक्षयम् देवमंह : कथमुपागतम् ॥
४.एतन्मे संशयं ब्रह्मन् विलोभयितुमर्हसि । श्री शङ्ख : --हन्त ते कथयिष्यामि कथां पापप्रणाशिनीम् ॥
५.पुरा विरिञ्चिप्रमुखै : अमरै : असुरार्तितै : । दशग्रीववधार्थाय प्रार्थितोऽभूत् जनार्दन : ॥
६.भूत्वा दाशरथी रामो देवकार्यमसाधयत् । भूत्वा तदनुज : शेष : सौमित्रिरिति विश्रुत : ॥
७.राममाराधयामास भक्त्या प्रयत मानस : । कृतकृत्यो रामभद्र : सीतया सह धर्मवित् ॥
८.भ्रातृभि : सहित : दारै : अनुरक्तै : महात्मभि : । दशवर्षसहस्राणि कृत्वा राज्यमखण्डकम् ॥
९.धर्मं संस्थापयामास चतुर्भि : चरणै : विभु : । एवं चिरगते काले समादिष्ट : स्वयंभुवा ॥
१०.यम ; तु यतिरूपेण तत्रायोध्यां समाययौ । आगतं तं समभ्यर्च्य रामो विज्ञाय विश्वकृत् ॥
११.एकान्ते शमनं नीत्वा यतिना एन विस्मयात् । मन्त्रयामास कार्याणि यानि लोकहिताय वै ॥
१२.तदा लक्ष्मणमाहूय द्वाररक्षार्थमन्विशत् । यावत् संप्रेषयाम्येनं यतिनं कार्यवादिनम् ॥
१३.तस्मात् मामननुज्ञाय कोऽपि मा गच्छतु ध्रुवम् । यद्यागमिष्यत्यन्योऽत्र पुरुष : कार्यविघ्नकृत् ॥
१४.त्वच्छिर:छेदनं मन्ये मदाज्ञालङ्घनादहम् । प्रायश्चित्तं न सन्देहो युज्यतां द्वारलक्षणम् ॥
१५.इति लक्ष्मणमादिश्य यतिना तेन राघव : । सह संमन्त्रयामास विजने स्वचिकीर्षितम् ॥
१६.तदन्तराययौ योगी दुर्वासा ह्यतिमन्युमान् । तं दृष्ट्वा लक्ष्मण : किञ्चित् समुद्विग्नमना इव ॥
१७.प्रणम्यपादयो : तस्मै बृसीमास्वेत्यकल्पयत् । इत्थमञ्जलिसंसक्तमौलिना प्रार्थितोऽमुना ॥
१८.चण्डकोपकलाक्रान्तदन्तच्छदविलम्बिना । व्याजहार मुखेनासौ वाचं हालाहलाक्षरम् ॥
१९.दुर्वासा : --द्रष्टुमिच्छामि सौमित्रे मुहूर्तेस्मिन् रघूत्तमम् । यदि विघ्नो भवेदत्र सकुलं त्वां शपाम्यहम् ॥
२०.इति वादिनि वै तस्मिन्निर्दये बडवाग्निवत् । मास्तु मदंशभूतानां ब्रह्मशापोऽतिदारुण : ॥
२१.अहमेको भविष्यामि सापराधो महीपते : । इति निश्चित्य सौमित्रि : चिन्तयान्तरदह्यत ॥
२२.अन्तर्गन्तव्यमधुना भवता करुणात्मना । इत्युक्त्वा सं प्रणम्यासौ मार्गमस्मै समादिशत् ॥
२३.रामोऽपि सह संमन्त्र्य प्रेषयित्वा यतिं पुन : । तं मुनिं पूजयामास पाद्यार्घ्यासनवन्दनै : ॥
२४.तदात्रेयोऽपि तं नत्वा लब्धकाम : प्रसादयन् । संप्रतस्थे प्रहृष्टात्मा वनं मुनि निषेवितम् ॥
२५.रामो लक्ष्मणमाहूय कुपितो वाक्यमरवीत्।श्री राम : --वधार्ह : त्वं हि सौमित्रे ममाज्ञामार्गलङ्घनात् ॥
२६.पूर्वोपकारकर्माणि कृतानि भवता मयि । रुन्धन्ति मां यदद्यैव तस्मात् त्यागो वधाधिक : ॥
२७.त्वां द्रष्टुं नैव शक्नोमि गच्छ शीघ्रं यथेप्सितम् । इत्युक्तवति वै तस्मिन् रामे रमयतां वरे ॥
२८.लक्ष्मण : शोकसन्तप्त : परिक्रम्य प्रणम्य तम् । निरयात् राजभवनात् एकाकी विनतानन : ॥
२९.नियम्य वाचमात्मानं अन्तरार्थि : च केवलम् । उत्तरेण विनिष्क्रम्य द्वारेण महता पुन : ॥
३०.संप्राप च महारण्यं नानामृगनिषेतम् । उदीच्यां दिश्ययोध्या : तार(तीर)कूट इति श्रुत : ॥
३१.पर्वत : तस्य पर्यन्ते वनं सान्तपनाभिधम् । नानातरुलताकीर्णं नानामुनिनिषेवितम् ॥
३२.तस्मिन् महातरुच्छाया शीतले भूतले शुभे । आस्तीर्य दर्भान् प्रागग्रान् असीनोऽयमुदङ्मुख : ॥
३३.निवर्त्य विषयेभ्य : स्वमिन्द्रियाणां कुलं बलात् । अन्तरानीय चात्मानं निर्मले स्वान्तपङ्कजे ॥
३४.प्राणादिवातस्तबकं सुषुम्नायां समुन्नयन् । योगाधारणसामर्थ्यनिश्चलाङ्गोऽस्तसंभ्रम : ॥
३५.दध्यावध्यात्मभावेन रामपादाब्जमादरात् । इत्थमेयुषि वै तस्मिन् प्राय : प्रमुदिताशये ॥
३६.आविरासीत् पुर : तस्य दुर्वासा : तावत् आत्मवान् । प्राह लक्ष्मणमाहूय वाणीं तापापहारिणीम् ॥
३७.दुर्वासा : --प्रसादये त्वां सौमित्रे श्रुणु मे वचनं हितम् । त्वमेव सर्वलोकानामाधारो हेतुरीश्वर : ॥
३८.त्वमेव साक्षात् विश्वात्मा शेषो नारायण : स्वयम् । अवतीर्णस्य पूजार्थं राघवानां कुले विभो ॥
३९.अनुज्ञातोऽसि सौमित्रे वधायासुररक्षसाम् । अनुकुर्वन् प्रियं नित्यं मनोवाक्कायकर्मभि : ॥
४०.अमुक्तपार्श्वसंसेवी तुल्यहर्षप्रिये रत : । कृतवानसि पाप्मानं प्रियबुध्या प्रसादत : ॥
४१.अभिषेकविघाते तु केकेय्या विहिते सति । उक्तवान् निग्रहं राज्ञो यत्तत् पापं सुदारुणम् ॥
४२.तदहो रघुवीरस्य चित्तक्षोभमकल्पयत् । धर्मात्मानो दयामूर्ते : अप्रियं कृतवान् अत : ॥
४३.अन्यत् च श्रूयतां साधो भवता यदनुष्ठितम् । मायासीते विनाशे तु भवता धर्मदूषणम् ॥
४४.तद्दारुणमघं मन्ये भवता समुपार्जितम् । अनयो पापयोस्तात प्रायश्चित्तं महामते ॥
४५.वर्तनीयं त्वया तत्र स्थावरत्वं न संशय : । लोकसंग्रहमन्विच्छन् अन्यथा कर्तुमीशितु : ॥
४६.ये धर्मखण्डनं कुर्यु : ये गुरून् भर्त्सयन्ति हि । निर्दिष्टा धर्मशास्त्रेषु तेषां तु तरुता ध्रुवम् ॥
(अन्त:संज्ञा : भवन्त्येते सुखदुखसमन्विता : स्थावरा : -- मनुस्मृति :)
४७.इत्थं मुनीन्द्रेण वचो धर्म्यम् स लक्ष्मण : । श्रवणाभ्यां समारोप्य तुतोष हृदये स्मरन् ॥
४८.आत्मन : पापशान्त्यर्थं तरुतामनुभावयन् । किज्चित् उन्मील्य नयने समद्राक्षीत् कृताञ्जलौ ॥
४९.अङ्गुलीयकसंसक्तमहामाणिक्यदर्पणे । प्रतिबिम्बं निजं तत्र कलामावेशयत् स्वकम् ॥
५०.तत्र दैवात् इवागत्य दम्पती तापसोत्तमौ । प्रणम्य लक्ष्मणं मूर्ध्ना वचनं चेदमूचतु : ॥
५१.नमस्तुभ्यं भगवते विश्वाधाराय विष्णवे । आदिभूताय भूतानां शेषायानन्तमूर्तये ॥
५२.विज्ञाप्य श्रूतयां देव सुतीर्थे तप आस्थिते । विप्रवंशसमुद्भूतौ सन्तानार्थमुमापति : ॥
५३.प्रादुर्भूत : प्रसाद्यैवं प्रेषयामास तेऽन्तिकम् । प्रायोपवेशं कृत्वान्य देवं रामानुजं विभुम् ॥
५४.प्रणम्य गृह्णतां तस्मात् तत्कराङ्गुलिभूषणम् । तस्मिन् ब्रह्मणि संलीने तच्छरीरमकल्मषम् ॥
५५.गङ्गांभसि विक्षिप्य गन्तव्यं स्वगृहं प्रति । यदा तस्मिन् महारत्ने सञ्जाते तैजसाङ्कुरे ॥
५६.युवयो : उदित : पुत्रो लोकत्रयमहोदय : । इत्युक्त्वान्तर्हिते तस्मिन् आवां सञ्जातकौतुकौ ॥
५७.त्वामेव शरणं प्राप्तौ जानीहि पुरुषोत्तम । एतदाकर्ण्य वचनं लक्ष्मणो राघवानुज : ॥
५८.प्रसन्नात्मा ददौ ताभ्यामूर्मिकां रत्नभूषिताम् । तस्मिन् वै मिथुने हृष्टे दुर्वाससि मुनौ स्थिते ॥
५९.योगमार्गेण भगवान् परित्यज्य स्वकां तनुम् । व्योमयान : संप्रतस्थे सूर्यवैश्वानरप्रभ : ॥
६०.पपात कुसुमाकारा वृष्टि : अम्बरमण्डलात् । तुष्टुवु : च तदा देवा : प्रहृष्टा : नारदादय : ॥
६१.ब्रह्मलोकाय भगवान् आत्रेयोपि प्रतस्थिवान् । तौ दम्पती च संहृष्टौ समादाय महद्वपु : ॥
६२.प्रक्षिप्य जाह्नवी तोये तस्मिन् तु द्रवते पुन : । स्नात्वा सन्तर्प्य गङ्गायां विधिनैव पितॄन् सुरान् ॥
६३.कृतकृत्यौ दक्षिणाशां प्राप्य स्वभवनं मुदा । ताम्राया दक्षिणे तीरे महाबकुलकानने ॥
६४.निजधर्मरतोऽध्यास्ते स विप्रो भार्यया समम् । निजाङ्गके प्रतिष्ठाप्य तामिमामणिमुद्रिकाम् ॥ ६५.तत्रैवाराधयामास सन्तानार्थं द्विजो विभुम् । तावदारभ्य तत्पत्नी सान्तर्वर्त्नी व्यजायत ॥
६६.मणिरत्नमिवोद्भूतमाश्चर्यं किञ्चिदङ्कुरम् । दृष्ट्वा हर्षमवाप्योच्चै : भार्यया सह भूसुर : ॥
६७.असूत तावत्तनयं सैषा विप्रेन्द्र्गेहिनी । महद्दुन्दुभिनादेन पूर्यमाणनभस्थलात् ॥
६८.विकीर्यमाणजालानि ब्रह्माद्या : तुष्टुवु : सुरा : । महानामानि पुण्यानि प्रोच्चरन्तो मुदान्विता : ॥
६९.अनन्तो भूधरोऽस्वप्नो मणिबीजो मणिद्रुम : । अमृतात्मवान् योगी भूमण्डलशिखामणि : ॥
७०.वरदो मुद्रिकाङ्कुरो वनस्पतिकुलेश्वर : । द्वादशैतानि नामानि प्रजल्पन्तो पुन:पुन: ॥
७१.देवदेवमनन्ताख्यं पूजयामासुरादरात् । तमेवमर्भकं दृष्ट्वा तेजोराशिमकल्मषम् ॥
७२.तस्य चिञ्चातरोर्मुले भासयन्तं दिशो दश । आनर्चु : अक्षतै : पुष्पै : ब्रह्माद्या : प्रेमनिस्स्वना : ॥
७३.दिगीशा : सेश्वरा : सर्वे सेनाभि : विष्वगर्भकम् । आशीर्भि : वर्धयामासु : हविर्भिरिव पावकम् ॥
७४.ततो वागाह व्योम्न्येषा धारेवाम्बरमण्डलात् । असावंशेन संजात : वासुदेवस्य वीर्यवान् ॥
७५.विष्वक्सेन इति ख्यात : विष्वक्सेनावृतो यत : । लोकवन्द्यो लोकपूज्यो जेता दैतेयरक्षसाम् ॥
७६.सत्वरं हि समुद्भूतां वाणीमाकर्ण्य ते सुरा : । विष्वक्सेनममुं प्रोचु : विस्मयोत्फुल्ललोचना : ॥
७७.सोऽपि वृक्षो महानासीत् महास्कन्धप्रवालवान्। वैनतेयरथो विष्णु : तावदागत्य गौरवात्(कौतुकात्) ॥
७८.तमेनमङ्कमारोप्प्य दत्वा तस्मै वरान् बहून् । सारूप्यं च समस्तानां पार्षदानां महात्मनाम् ॥
७९.आधिपत्यमदात् तस्मै वृक्षराजस्य सन्निधौ । अग्निधृत् तनयो यस्मात् आग्नीध्रमिति तं विदु : ॥
८०.तमन्वशात् गिरा राजन् अर्भकं गरुडध्वज : । तत्र वर्षसहस्रं तु विष्वक्सेनो महामते ॥
८१.आराध्य पितरावेतौ दत्वान्ते मोक्षमुद्रिकाम् । मामुपेहि ततो वत्स स्वस्त्यस्तु जगतामिति ॥
८२.तमुक्त्वा वृक्षमाशिष्य तत्रैवान्तरधीयत । इत्थं भगवता भूपते  कॢप्तां लीलामालोक्य विस्मिता : ॥
८३.देवा : च सह सिद्धौघै : जग्मुर्वै त्रिदशालयम् । सोग्निधृत् सह पत्नीको बन्धुभिश्च समन्वित : ॥
८४.पुत्रमेनं समाश्लिष्य संप्राप परमां मुदम् । पुण्यैर्द्वादशभि : नाम्नाभि : स्तुवन्त : तत्र योगिन :॥
८५.तमानर्च्य महावृक्षं विष्वक्सेनं च भूपते । तत्रैव वासम् विदधु : स्वर्गस्था इव देवता : ॥
८६.ये तत्र मानवा : प्राप्य तीर्थेषु कृतमज्जना : । पूजयित्वा महावृक्षं जीवन्मुक्ता न संशय : ॥
८७.एवं शेषाख्यवृक्षस्य माहात्म्यं पापनाशनम् । विज्ञाय देवता : सर्वा : वितेनु : कृत्तिमुत्तमाम् ॥
८८.विनिद्रस्यादिवृक्षस्य रमदेव्या : महात्मन : । वैनतेयस्य विष्णो : च समवायो यत : प्रभो : ॥
८९.तस्मात् तत्सदृशं नास्ति ब्रह्माण्डगह्वरे । चिञ्चाशाखी रमाभिख्या श्रीपुरी बकुलाटवी ॥
९०.प्रणवस्थाननगरी प्राक्तना पापहारिणी । इत्यमर्त्या प्रजल्पन्तो मुक्तिभाजो न संशय : ॥
९१.अत : परं प्रवक्ष्यामि श्रुणु भूप महामते । ततोऽपि किञ्चित् आग्नेय्यां हरि : त्रैलोक्यपुजित : ॥
९२.शेषपर्यङ्कशयने योगनिद्रामुपासते । तमेनमीशितारं तं कुर्वाणं विधिसंग्रहम् ॥
९३.वितरन्तं धनं भूरि भक्तेभ्यो भक्तवत्सल : । दयातरङ्गितापाङ्गकुबेरो निधिलब्धये ॥
९४.विधिना चिरमाराध्य शङ्खपद्मादिकान् निधीन् । ताम्राया वसुधाराख्ये तीर्थे स्नात्वा यथाविधि ॥
९५.तत्पुण्यगौरवात् राजन् प्रसादात् शार्ङ्गधन्वन : । प्रार्थितान् च वरान् प्राप्य निधीनामीश्वरोऽभवत् ॥
९६.तदादि वसुधाराख्यं तीर्थं त्रैलोक्यपूजितम् । तत्तीर्थे वसुधाराख्ये स्नात्वा निक्षेपनायकम् ॥
९७.ये भजन्ति नरा : तेषां करस्था : सर्वसंपद : । तस्मात् प्राच्यां महीपाल क्षेत्रं क्रोशद्वयात्तत : ॥
९८.विष्णो : प्रियकरं दिव्यं वरुणाश्रमसंज्ञितम् । तत्र माकरिके तीर्थे स्नात्वा वै वरुणो विभु : ॥
९९.भजते स्म वासुदेवं तं वैनतेयरथं पुर : । दृष्ट्वा परमसन्तुष्ट : तुष्टाव पुरुषोत्तमम् ॥
१००.वरुण : at Thentirupperai --
    जयदेव जगन्नाथ रमानाथ दयानिधे । प्रसीद देवदेवेश शरणं त्वामुपैम्यहम् ॥
१०१.शङ्खचक्रधराशेषदोषशोषणभास्कर । प्रसीद् देवदेवेश शरणं त्वामुपैम्यहम् ॥
१०२.समस्तदैत्याहङ्कारनिर्वापणविचक्षण । प्रसीद देवदेवेश शरणं त्वामुपैम्यहम् ॥
१०३.लक्ष्मीरमण राजीवनवाम्भोरुहलोचन । प्रसीद देवदेवेश शरणं त्वामुपैम्यहम् ॥
१०४.समस्तबन्धो विस्तारकृपापीयूषवारिधे । प्रसीद देवदेवेश शरणं त्वामुपैम्यहम् ॥
१०५.लसन्माणिक्यखचितकिरीटाङ्गदभूषण । प्रसीद देवदेवेश शरणं त्वामुपैम्यहम् ॥
१०६.देवासुरमुनीन्द्राद्यै : वन्द्यमानपदद्वय । प्रसीद देवदेवेश शरणं त्वामुपैम्यहम् ॥
१०७.रमानाथ जगन्नाथ मन्नाथ जगतांपते । प्रसीद देवदेवेश शरणं त्वामुपैम्यहम् ॥
१०८.इत्थं संस्तुवता तेन वरुणेन महात्मना । वासुदेव : प्रसन्नात्मा ददौ तस्मै वरान् बहून् ॥
१०९.जेतुकामाय दैत्यादीन् ददौ पाशमनुत्तमम् । स्वकुण्डलमणिस्तोमकिरणारुणिताम्बुनि ॥
११०.तीर्थे मलयनन्दिन्या : प्रभामादाय पाणिना । मकरं दत्तवान् विष्णु : वाहनं विजयावहम् ॥
१११.तावदम्बरमार्गस्था : सिद्धाश्च सनकादय : । उच्चैर्जजल्पु : सन्तुष्टा : पाशपाणिममुं मुदा ॥
११२.मकरायोधनरथं दैत्यारिमिति संभ्रमात् । इत्थं दैवात् वरं प्राप्य वरुणो यादसां पति : ॥
११३.निर्जित्य दानवान् सर्वान् राजसूयं चकार ह । तस्मात् माकरिकं नाम तीर्थं त्रैलोक्यपावनम् ॥
११४.तत्र स्नात्वा महातीर्थे देवं दृष्ट्वा जनार्दनम् । पूजयन्ति जना : तेषां मोक्षलक्ष्मी करस्थिता ॥
११५.इत्थं तस्मै वरान् दत्वा सन्तुष्टो मधुसूदन : । पूज्यमान : सिद्धगणै : तत्रैवान्तरधीयत ॥
११६.तदादि वारुणं क्षेत्रं प्रशस्तं भुवनत्रये । तत्र नित्यं हरिस्साक्षात् रमते रमया सह ॥
११७.तस्मात् हरिपदं नाम क्षेत्रमाहु : मनीषिण : । अत्र श्रीभूमिसहितं देवं पश्यन्ति मानवा : ॥
११८.स्नात्वा तु माकरे तीर्थे तर्पयित्वा पितॄन् सुरान् । तत्र श्रीभूमिसहितं देवं पश्यन्ति मानवा : ॥
११९.न पिबन्ति पुन : स्तन्यं मातु : ते नात्र संशय : ।
    इत्थं हरे : प्रियतमानि नवानि पुण्यान्यालोकनात् अखिलकल्मषनाशनानि ॥
१२०.स्थानानि यन्नयनवर्त्मगतानि तेषां जागर्ति मुक्तिकमला करपङ्कजेषु ।
    यत्कीर्तनात् श्रवणतो मननं नराणां व्यक्तं भवेत् फलमनेकमखावभृथ्यम् ।
    तस्मादिमामहरह: श्रुणुयात् पठेत् वा नासौ प्रयाति विपदं हरिवाक्प्रमाणम् ॥
                           इति द्विषष्टितम : अध्याय : Pro.Total = 5997 + 120 = 6117.
                              त्रिषष्टितम : अध्याय :
१.वीरसेन : --नमस्तुभ्यं भगवते हरये परमात्मने । पुरुषाय पुराणाय मोहापनयभास्वते ॥
२.अमन्थधरापेक्षमवासुकिभूषणम् । कथामृतमिदं मन्ये त्वन्मुखाम्भोजनिस्सृतम् ॥
३.श्रवणाभ्यां पिबन् मर्त्य : कथामृतरसायनम् । न तृप्तिमुपगच्छामि हविषा वीतिहोत्रवत् ॥
४.भूयोऽहं श्रोतुमिच्छामि कथां पापप्रणाशिनीम् । सोमारण्ये महारण्ये शङ्खराजपुरीरिता ॥
५.कादम्बरीं समुद्वाह्य शङ्खराज : प्रतापवान् । राज्यं चकार धर्मेण यथा स्वायंभुवो मनु : ॥
६.यत्र शम्भुरुमानाथो रमानाथोऽपि माधव : । नित्यं दधाते सान्निध्यं इति पूर्वं श्रुतं मया ॥
७.तत्र क्षेत्रस्य माहात्म्यं भूयोऽपि मुनिपुङ्गव । वद विस्तार्य भगवन् योगीन्द्र करुणानिधे ॥
८.इति पृष्ट : तदा योगी सादरं भूबलारिणा । किञ्चित् समाधिना चित्ते विचार्य सकलं मुनि : ॥
९.स्मयमान : तमाहूय राजानं वचनामृतै : । वर्धयन् आशिषा प्राह पर्जन्य इव वृष्टिभि ;
१०.शङ्ख: --हन्त ते कथयिष्यामि कथां पापप्रणाशिनीम् । कथैकदेशश्रवणात् स्मरणात् अपि जल्पनात् ॥
११.निर्मुक्तपातका : यान्ति परमानन्दमक्षयम् । पातकानां च सर्वेषां कृतानां जन्तुभिर्भुवि ॥
१२.प्रायश्चित्ताय जयते कथेयं ब्रह्मचोदिता । पुरा कश्चित् महीपालो मानसाङ्ग इति श्रुत : ॥
१३.पाञ्चालानामधिपति : शूर : शूरजनेडित : । सर्ववित् सर्वधर्मज्ञ : सर्वशास्त्रविशारद : ॥
१४.प्रतापेन समोऽर्केण प्रतापेन इन्दुना सम : । तेजसा वह्निसंकाशो बुध्या गुरुरिवापर : ॥
१५.कन्दर्पसदृशो रूपे बलेन हरिणा सम : । एवमाश्चर्यसौभाग्यसागरो भूपुरन्दर : ॥
१६.परीत्य सकलामुर्वी जित्वा शत्रून् स्वविक्रमै : । आशापालान् वशे कृत्वा रथेनाकाशगामिना ॥
१७.अवतीर्य शनैरुर्वीं पार्श्वे हिमवतो गिरे : । कस्यचित् सालवृक्षस्य मूले स्थाप्य रथं निजम् ॥
१८.अश्वान् विमुच्य मेधावी पाययित्वोदकं तत : । सह सूतेन वृक्षस्य निषसाद समीपत : ॥
१९.तावत्कलाकलारावै : बृहत्सेनो महीपति : । तस्य राज्ञ : तु निगमं प्राप भृत्यजनै : सह ॥
२०.तावत्तमागतं स्निग्धं मित्रं प्रियसखं नृपम् । बृहत्सेनं समायान्तं चिराद्दृष्टं सुहृत्तमम् ॥
२१.प्रेम्णा चैनं समालिङ्ग्य स्वासने सन्निवेश्य च । अन्त:पुरे पुरे चैव कोशे राष्ट्रे च बन्धुषु ॥
२२.पप्रच्छ कुशलं प्रेम्णा मानसाङ्गो महीपति : । पृच्छ्यमान : तदा तेन शोकोपहतचेतन : ॥
२३.तूष्णीं बभूव पुरत : तदा किञ्चित् अवाङ्मुख : । इति शोकपरिप्लुष्टे तस्मिन् अस्य पुरोहित : ॥
२४.पाञ्चालेन्द्रमुवाचेदं समदु;ख : तदिङ्गितै:।पुरोहित : --महाराज तव श्रीमान् विदुषां संमत : सुहुत् ॥
२५.विहाय राज्यं नगरं दारानभिमतानपि । त्वामेव शरणं प्राप शत्रुणा निर्जित : किल ॥
२६.शङ्खगो नाम बलवान् इदानीं म्लेच्छभूपति ; । पराजित्य बलैरेनं जग्राह नगरादिकम् ॥
२७.पलायितोऽयं संग्रामात् गिरिगह्वरमाश्रित : । चिन्ताविषाग्निसन्तप्त : कालं पालयति ध्रुवम् ॥
२८.इति श्रुत्वास्य वृत्तान्तमाख्यानं विस्तरेण स : । बृहत्सेनं विषणाङ्गं पाञ्चालोऽभ्यभाषत ॥
२९.सखे संहर सन्तापं मोहात् उद्धरमानसम् । नाशयिष्यामि ते शत्रुं समित्रज्ञातिबान्धवम् ॥
३०.इत्युक्त्वा घोरसंकाशं महाकालनलप्रभम् । याम्यमस्त्रं समाधाय म्लेच्छमुद्दिश्य भूपति : ॥
३१.चिक्षेप तरसा कोपात् वज्रं वज्रधरो यथा । सोऽस्त्रराजो महातेजा : मुक्तस्तेन महीभुजा ॥
३२.प्रद्योतमानो गगनं तापयन् सर्वतो दिश : । ददाह सकलं सैन्यं समन्तात् म्लेच्छभूपते : ॥
३३.उलूकाख्यं च दुर्धर्षं हत्वा म्लेच्छमहीपतिम् । तत्पत्नीमण्डलं सर्वं सखीजनसमावृतम् ॥
३४.नि:शेषं भस्मसात् कृत्वा कृतकृत्योऽस्त्र शेखर : । आससाद पुन : शीघ्रं पाञ्चालेन्द्रकराम्बुजम् ॥
३५.इत्थं हते तस्मिन् सबले म्लेच्छराजनि दुर्मतौ । स राजो मानसाङ्ग : तु बृहत्सेनं सुहृत्तमम् ॥
३६.तत्पुरे स्थापयामास मन्त्रिसामन्तबान्धवै : । स्वां पुरीं प्रययौ धन्वी रथेनाकाशगामिना ॥
३७.पूज्यमान : पौरजनै : प्रविवेश निजां पुरीम् । नानापताकसन्नद्धमणिप्रासादसंकुलाम् ॥
३८.आससाद महातेजा निजमन्त:पुरं महत् । तस्मिन् प्रविष्टे स्वगृहं गते द्वित्रिदिने मुदा ॥
३९.संप्राप च शनैरेनं भूमिरोग : सुदारुण : । प्रत्यहं वर्धमान :तु मौलिकम्पवह : तदा ॥
४०.मुहुर्विवशतां प्राप बहुमोहं मुहुर्व्यथाम् । एवमामयभूयिष्ठे मोहमेयुषि भूपतौ ॥
४१. कृपयाभ्याययौ योगीश्वर : कात्यायनो मुनि : । निश्चितार्थ : पुन : प्राह सर्वेषामेव शृण्वताम् ॥
४२.कात्यायन: -मा भैष्ट यूयमद्यैव सत्या: शृण्वन्तु मे वच:।एनमुद्धारयिष्यामि राजानं वृजिनार्णवात् ॥
४३.पश्यन्तु मन्त्रिण : सर्वे तपोबलमिदं मम । इत्युक्त्वा वचनं तत्र जगत् विस्मापयन् मुनि : ॥
४४.संस्पृश्य भस्मनात्वेनमामौलिचरणं विभो : । यज्ञशेषेण मन्त्रेण वायव्याङ्कुशमुद्रया ॥
४५.अक्षीभ्यान्त इत्युपाक्रम्य महापातकजालिकाम् । व्याधिं संवेशयामास घटात् इव घटे जलम् ॥
४६.स्वस्थदेह: तदा राजा समुत्तस्थौ सुविस्मित : । सर्वे मुमुदिरे स्निग्धा : तत्रत्या : सह मन्त्रिभि : ॥
 ४७.मानसाङ्गोऽपि तं प्राप्तं कात्यायनं मुनिम् । समुत्थाय नमस्कृत्वा दत्वा पाद्यं समर्हणम् ॥
४८.कृताञ्जलिपुटो राजा कात्यायनमभाषत । मानसाङ्ग : --भगवन् करुणामूर्ते प्रसीद मयि सांप्रतम् ॥
४९.भवादृशा : त्रिजगतीं पूर्णकामा : चरन्ति हि । भूतानुकम्पापीयूषपोषितस्वान्तवृत्तय : ॥
५०.मादृशानां तु रक्षार्थं नत्वन्या गतिरस्ति हि । तस्मात् त्वां शरणं प्राप्तं दीनं मामगतिं पुन : ॥
५१.त्रातुमर्हसि कारुण्यात् मातेव तनयं शिशुम् । कुतो मे दुर्दशा चैषा पिशाचातिभयङ्करी ॥
५२.संप्राप्तो केन पापेन ब्रह्मन् आख्यातुमर्हसि । येनाहं भवता मुक्त : समस्तात् दुरितात् गुरो ॥
५३.इति पृच्छति राजेन्द्रे निर्व्याजं मुनिपुङ्गव : । आशीर्भि : वर्धयन् वाचा व्याजहार कृताञ्जलिम् ॥
५४.कात्यायन:-श्रुणु राजन् प्रवक्ष्यामि यत्ते शोकस्य कारणम्।पुरा पिङ्गलको नाम गन्धर्व: कामरूपधृत् ॥ 
५५.स्त्रिया सह स गन्धर्वो विमानेनार्कवर्चसा । पर्यटन् सर्वत : कामी पश्यन् भूमण्डलं मुहु : ॥ 
५७.वर्षमाश्चर्यनिलयं किंपुरुषाख्यमुपागमत् । तत्र कश्चित् गिरिवर : शुचिष्मान् इति विश्रुत : ॥
५८.तस्य पार्श्वे महापुण्या दधिसाराभिधा नदी । तत्तीरे भवनं कृत्वा तपसा मुनिपुङ्गव : ॥
५८.उद्दालकसुत : कश्चित् नाम्ना कुसुमबिन्दुक : । तपस्तेपे हरिं भक्त्या सर्वदेवनम्स्कृतम् ॥
५९.सपत्नीको वसन् साक्षात् नारायण इवापर : । तै : संवर्धिता तत्र पुष्पवाटी सुगन्धिनी ॥
६०.आमोदं पुष्करे दूरात् आघ्रायाघ्राय हर्षित : । नानाविधानि पुष्पाणि तस्मात् आहृत्य संभ्रमात् ॥
६१.तस्या : कचभरे बध्वा प्रियामामोदयन् पुन : । चचार विपिनं पुण्यं पश्यन् अभ्युदयं तत : ॥
६२.एतस्मिन्नन्तरे योगी काल्यं कुसुमबिन्दुक : । कृत्वा पुष्पोपहारार्थं पुष्पाहरणकौतुकी ॥
६३.प्रविवेश निजारामं न दृष्ट्वा कुसुमान्वयम् । गन्धर्वेणाहृतं ज्ञात्वा शशाप कुपितो मुनि : ॥
६४.विष्णोरभ्यर्हणार्थाय कल्पितानीह मोहत : । कुसुमान्यपनीतानि येन केनचित् अत्र तु ॥
६५.स पापी भार्यया सार्धं म्लेच्छो भवितुमर्हति । इति तेनेरितां वाणीम् हालाहलबलोपमाम् ॥
६६.श्रुत्वा भीत : स गन्धर्व : प्रणनाम मुने : पुरा । याचमानम् भयाविष्टं पतन्तं पादप्द्मयो : ॥
६७.कृपाविष्ट : पुन : प्राह शापान्तं मुनिपुङ्गव : । यमराजकराम्भोजभूषणायितमूर्तिमान् ॥
६८.योऽस्त्राग्नि: तेन संस्पृष्टो भूय: प्राप्स्यसि शोभनम् । इत्यादिष्टो म्लेच्छकुले जातो जानीहि ते रिपु : ॥  
६९.विप्रशापपराभूते चेताय नृपनन्दन : । बृहत्सेनस्य नगरे दग्धो याम्यास्त्रवह्निना ॥
७०.प्राप्तवानसि याम्यास्त्रं प्रीतात् प्रेतपते : पुरा । अप्रत्यक्षे त्वया तात विसृष्टोऽस्त्र : सुदारुण : ॥
७१.स तु रात्रौ शयान : तु म्लेच्छराज : सुदुर्जय : । सुन्दरीणां सहस्रेण हत्या पापेन हिंसित : ॥
७२.स्त्रीहत्या दारुणा तस्मात् त्वां क्लेशयति दुर्जया । सेयं हत्या महाराज मया निष्क्रमिताधुना ॥
७३.दण्डे संस्थापिता मन्त्रं शक्त्या नान्येन केनचित् । तस्मात् स्त्रीवधदोषस्य प्रायश्चित्तं विधानत : ॥
७४.कर्तव्यं भवता राजन् नान्यथा नाशमेष्यति । मुक्तशाप : स गन्धर्व : संप्राप्य निजसंपदम् ॥
७५.तव प्रत्युपकाराय काङ्क्षत्येव यथोचितम् । एवमाकर्ण्य वै राजा कात्यायनसमीरित : ॥
७६.पुन: प्रणम्य पप्रच्छ मुनीन्द्रं हृष्टमानस: । मानसाङ्ग : --प्रायश्चित्तं कथं ब्रह्मन् कर्तव्यं पापशान्तये ॥
७७.तदस्माकं विशेषेण कर्तव्यं वरुणाज्ञया । इत्युक्त्वा पादयोर्मूले पतन्तं राजनन्दनम् ॥
७८.समाश्वस्य मुनिश्रेष्ठो राजानं वाक्यमब्रवीत्।कात्यायन: --राजन् श्रुणु कथां पुण्यां श्रुतिदृष्टां विशेषत : ॥
७९.पुरादिसर्गे भगवान् सुसृक्षु : सकला : प्रजा : । तामसी तनुमास्थाय दध्यौ किञ्चित् स्वसिद्धये ॥
८०.असत् प्रादुरभूत् तावत् अनाकारं तमोमयम् । तद्गर्भात् पापपुरुषा : घोराघोराश्च जज्ञिरे ॥
८१.असौम्यरूपान् घोराभान् कर्कशान् च चतुर्मुख : । समुद्वीक्ष्य किमेतेन पापेनेति विहस्य स : ॥
८२.विहाय तां तनुं भूय: सात्विकीं तनुमास्थित : । भूयोऽपि किञ्चित् चित्ताब्जे दध्यौ कार्यं सुदुष्करम् ॥
८३.तत्तेजसाकारं संजज्ञे सर्वत : शुभम् । तद्गर्भात् कोमलाकारा सञ्जाता : धर्ममूर्तय : ॥ 
८४.चन्द्रपाण्डरसंकाशा : शुक्लाम्बरविभूषणा : । एवं सर्गं समालोक्य प्रीतिमापाम्बुजासन : ॥
८५.पापबीजेन दैत्या : तु राक्षसा : च सहस्रश : । धर्मत : समपद्यन्त देवा : इन्द्रपुरोगमा : ॥
८६.आसुर्येणैव शूद्रा : च श्रुत्येतरविधानत : । देवांशभूता : विप्राद्या : वैदिकाचारशालिन : ॥
८७.देवानां चैव विप्राणां हस्ते धर्मं ददौ विधि : । इतरेषामदात् पापमेभिर्लोकमवर्तयत् ॥
८८.वर्तमाने जगच्चक्रे मर्यादापदवीक्रमात् । अन्योन्यं वैरिण : तावत् पापा : धर्मा : च भूपते ॥
८९.ब्रह्मह्त्यात्मके पापे सर्वतो व्यापृते भुवि । सत्बात्मके धर्मपथौ शेषा :तत्सैनिका अभवन् ॥
९०.एवं तयोरभूत् घोरं संग्राम : शस्त्रयोधिनो : । कालेन राजन् धर्मोऽयं क्षीणसत्वोऽतिदुर्बल : ॥
९१.स्वबलै : तु मृतप्रायै : अपालयत भीतवत् । पापो विजित्य धर्मान् तु बलात् आक्रम्य दुर्मति : ॥
९२.क्रमेण नाशयामास ब्राह्मणान् च सुरोत्तमान् । इत्थं विध्वंसिते धर्मे श्रुतय : तु विनिन्दिता : ॥
९३.देवा : च ऋषय : चैव भयोद्विग्ना क्षुधातुरा : । नत्वा विज्ञापयामासु : ब्रह्मणे पापचेष्टितम् ॥
९४.श्रुत्वा तेषां वचो वेधा : किञ्चित् साध्वसकम्पित : । तै : सहैव समासाद्य श्वेतद्वीपं हरे : पदम् ॥
९५.प्रणम्य कथयामास तमेतत् पद्मसंभव : । लोकात्मा शेषपर्यङ्कात् समुत्थाय विचिन्तयन् ॥
९६.वैनतेयं समारुह्य मेरुमाप महीधरम् । सर्वे ब्रह्ममुखा : देवा : ऋषय : च तपोधना : ॥
९७.तमेनमनुजग्मु : ते राजानमिव सैनिका : । तावत् कैलासभवनात् सर्वज्ञो वृषभध्वज : ॥
९८.संस्मृतो गरुडारूढ : प्रायात् तत्र हरि : स्वयम् । एवमेकत्र मिलिता ब्रह्मरुद्रजनार्दना : ॥
९९.आत्मानं चिन्तयामासु : योगक्षेमाय केवलम् । तत्र वागाह कल्याणी गम्भीराम्भोधिसन्निभा ॥
१००.मुञ्चन्तु देवा : सन्तापं त्यजन्तु भयमुल्बणम् । अहमाविर्भविष्यामि पापानामुपशान्तये ॥
१०१.लोके संस्थापयिष्यामि धर्ममभ्युदयात्मकम् । पापान् विद्रावयिष्यामि भवन्तु सुखिन : सुरा : ॥
१०२.इत्युक्त्वा वरदे वाक्ये माला काञ्चनपुष्करात् । कोटिसूर्यप्रतीकाशा महाकाञ्चनपुष्करा ॥
१०३.समन्तात् कुसुमामोदै : पूरयन्ती जगत्त्रयम् । यत्सुमस्पन्दसञ्जातमन्दमारुतविद्रुता : ॥
१०४.समजायन्त वै पापा निर्वीर्या विबलौजस : । अक्षया : बलवन्तश्च धर्मोऽपि निरता भवन् ॥
१०५.ब्राह्मणा : चैव गाव : च वेधा : च सह योगिभि : । संप्रापु : परमानन्दे षट्पदा इव माधवे ॥
१०६.या लोकमाता महती माया मायापहारिणी । अष्टलक्ष्मीति विख्याता सर्वदेवनिवासभू : ॥
१०७.तस्या : कण्ठे महाराज पपात स्रगियं शुभा । तां तुष्टुवु : ब्रह्ममुख्या : देवाश्च परमर्षय : ॥
१०८.निपेतु : कल्पकोत्थानि कुसुमानि समन्तत : । स्वस्त्यस्तु जगतां नित्यमित्युक्त्वा साम्बुजासना ॥
१०९.तावदन्तरादाभि : स्तूयमाना चराचरै : । व्याप्तमेतत् जगच्चक्रं सौमाङ्गल्यमहोदयै : ॥
११०.दृष्ट्वा देवाश्च संहृष्टा : स्वानि स्वानि पदान्यगु : । सैषा माला महाराज गौरीकन्धरमेत्य च ॥
१११.अलङ्कृत्य पुनस्कन्धमादिशम्भोरनुग्रहात् । कुम्भजाय पुनर्दत्ता सैषा मलयनन्दिनी ॥
११२.सर्वमन्त्रमयी सर्वदेवता शक्तिरूपिणी । तीर्थात्मिका देवरूपा सर्वदेवमयी पुन : ॥
११३.सर्वक्रतुमयी कर्मरूपा तत्फलरूपिणी । ताम्रेति ताम्रपर्णीति माला मलयजेति च ॥
११४.जपतामपि जन्तूनां महापातकनाशिनी । अस्यां तु वर्तमानायां जीवानां दक्षिणापथे ॥
११५.क : पाप : कापि वा माया को मोह : का चतुर्गति :।मुञ्च राजन् भयं शोकं धैर्यमालम्ब्य चेतसा ॥
११६.अद्यैव विजयाभिख्ये मुहूर्ते कार्यसिद्धिदे । प्रयाणायाद्य रथं शीघ्रं अरोहान्त:पुरान्वित : ॥
११७.इत्युक्तो गुरुणा राजा संप्रहृष्टतनूरूह : । आरुरोह रथं शीघ्रं ब्राह्मणैश्च सह महात्मभि : ॥
११८.स्तूयमान : पौरजनै : सूतमागधबन्दिभि : । आशीर्भि : वर्धितो हृष्टो ब्राह्मणै : आप्तवादिभि : ॥
११९.महाराज : स्त्रिया युक्त : प्रतस्थे मलयात्मजाम् । भ्राम्यमाणेषु चक्रेषु चलमानेषु वाजिषु ॥
१२०.राजा परमसंहृष्ट : तं प्रणम्य महामुनिम् । मेघगम्भीरया वाचा व्याजहार कृताञ्जलि : ॥
१२१.भगवन् सा कथं पुण्या नदी परमपावनी । स्नातव्या कथमस्माभि : वर्तनीया कथं पुन : ॥
१२२.ब्रूहि मे स्नानजं पुण्यं तद्विधिं च महामते।श्री शङ्ख:--इति पृष्टो नरेन्द्रेण मुनि: कात्यायनोऽब्रवीत्॥
१२३.सर्वेषु दत्तकर्णेषु जनेषु परितो नृपम् । विचार्य सर्वशास्त्राणि निश्चितार्थ : प्रसन्नधी :॥
१२४.उवाच वचनं धीमान् अशेषश्रुतिमङ्गलम्।कात्यायन:--राजन् महानदीमेनां प्राप्य वाचा स्तुवन् नमन् ॥
१२५.नारायण हरे शम्भो मात: पाहि तरङ्गिणी । इत्युच्चैर्व्याहरन् मर्त्या : स्नात्वा तदमलाम्भसि ॥
१२६.सद्यो द्वादशकृच्छ्रस्य फलं प्राप्नोत्यसंशयम् । तीर्थे तु पापनाशाख्ये मेषमेयुषि पूषणि ॥
१२७.अष्टाक्षरं महामन्त्रं पञ्चाक्षरमथापि वा । जप्त्वा सोमनाथस्य दर्शनं च करोति य : ॥
The verses from 128 to 132 have connection with the verse no.177.
१२८.ब्रह्मतीर्थं बृहत्तीर्थं सोमारण्यं नदीपुरम् । सोमेशमादिपुरुषं शयानं विश्वधारिणम् ॥
१२९.इत्येकमुच्चार्य प्रमादादपि मानव : । महापातकयुक्तो वा मुच्यते पापकोटिभि : ॥
१३०.इत्थं कथामृतसारं संप्राप नयनाथित्यम् । शृण्वन् स तु महीपति : तेषां चन्दनभूधर : ॥
१३१.ददृशु : सर्वतोभद्रां महीं मङ्गलमण्डिताम् । अशेषलोकजननीमानन्दामृतवाहिनीम् ॥
१३२.ताम्रामालोकयामासु : सुधामिवतृषातुरा : । सह सर्वैर्मुनिगणै : तां प्रणम्य महानदीम् ॥
१३३.जपन् स्नात्वा नरो भूप राजसूयफलं भवेत् । वैशाखे पुर्णिमायां तु द्वादशाक्षरमुच्चरन् ॥
१३४.गजेन्द्रवरदे स्नात्वा इन्दुव्रतसहस्रकम् । ज्येष्ठस्य शुक्लद्वादश्यां विष्णुसूक्तं जपन् नर : ॥
१३५.सोमतीर्थे ताम्रपर्ण्यां क्षयरोगविनाशने । स्नाति यद्यपि राजेन्द्र तस्य पूर्णफलं श्रुणु ॥
१३६.फलं परागकृच्छ्राणां बहूनां लभते द्विज : । दुर्गातीर्थात् पूर्वभागे सोमतीर्थात् तु पश्चिमे ॥
१३७.विष्णुतीर्थं महापुण्यं सर्वपापविनाशनम् । सर्वदारिद्र्यशमनं सर्वदु;खनिवारणम् ॥
१३८.तत्र स्नात्वा नरो राजन् तद्विष्णुरिति वै जपन् । अग्निष्टोमफलं प्राप्य विष्णुलोके महीयते ॥
१३९.आषाढदर्शयोर्मर्त्यो बाणतीर्थे निमज्जनात् । गायत्रीं मनसा स्मृत्वा सोमपानफलं भवेत् ॥
१४०.श्रावणे पौर्णमास्यां तु क्षिप्तपुष्पवती जले । रुद्रसूक्तं जपन् स्नात्वा सर्वक्रतुफलं भवेत् ॥
१४१.तथा भाद्रपदे शुक्लचतुर्दश्यां हरिं स्मरेत् । वैकुण्ठकलशाख्ये तु वाजपेयफलं स्मृतम् ॥
१४२.तथैवाश्वयुजे मासि शुक्लपक्षे दिवामुखे । देवीसूक्तं पञ्चदुर्गां शुक्रवारे जपन् नर : ॥
१४३.दुर्गातीर्थे शुचि : स्नात्वा सर्वक्रतुफलं भवेत् । वन्ध्यापि लभते पुत्रं धनकामो धनं लभेत् ॥
१४४.मनसा प्रेप्सितं कार्यं लभते नात्र संशय : । विजयायां दशम्यां तु गौरीतीर्थे निमज्जनात् ॥
१४५.ज्योतिर्वने सर्वभूम्यादानस्य फलमाप्नुयात् । कार्तिक्यां कृत्तिका योगे ताम्रा सागरसंगमे ॥
१४६.षडक्षरेण संयुक्तं स्कन्दसूक्तं महामनुम् । जपन् स्नात्वा च यो मर्त्यो गोसहस्रफलं भवेत् ॥
१४७.मार्गशीर्षे महापुण्ये द्वादश्यामरुणोदये । पुरुषसूक्तेन मन्त्रेण ताम्रपर्ण्यां महामते ॥
१४८.व्यासतीर्थे नर : स्नात्वा वेदपारायणं फलम् । द्वादश्यामेव तस्यां तु श्रीपुरे हरिसन्निधौ ॥
१४९.लक्ष्मीसूक्तं नारायणं जपन् उपनिषत्तथा । मज्जनात् एव लभते कपिलाकोटिदानजम् ।
१५०.पुष्ये मासि च पौर्णम्यां पुटार्जुनपुरे शुभे । रुद्रानुवाकं जप्त्वा च रुद्रमन्त्रेण प्रोक्ष्य च ॥
१५१.स्नात्वा वृषभलग्ने तु ब्रह्मभूयाय कल्पते । तन्मासे शुक्लपक्षे य : त्रिरात्रं व्रतमाचरन् ॥
१५२.एकाक्षरं सोममनुं जपन् मुक्त्यैकसाधनम् । मकराख्ये महातीर्थे कन्यादानशतादिकम् ॥
१५३.शिवरात्र्यामुष:काले सोमारण्ये नदीजले । शैवं षडक्षरं मन्त्रं जपन् स्नात्वा महामनुम् ॥
१५४.नत्वा देवं सोमनाथं तप्तकृच्छ्रफलं बहु । शुक्लपक्षे च तन्मासि पुण्ये च हरि(बुध)वासरे ॥
१५५.सुदर्शनं महामन्त्रं जप्त्वा नद्यां महाजले । स्नात्वा चित्रानदीसङ्गे महाव्रतफलं भवेत् ॥
१५६.तथैव फाल्गुने दर्शे श्यामाताम्रासमागमे । पञ्चाक्षरमहामन्त्रं जपन् मुक्त्यैकसाधनम् ॥
१५७.मन्त्रतीर्थे नरस्स्नात्वा कोटिब्राह्मणभोजनम्। रामतीर्थे तु रोहिण्यां क्षेत्रस्यवादिने ॥(पुनर्वसु इत्यर्थ :)
१५८.तां भद्रो भद्रेत्युच्चै : गायन् स्नात्वा महाजले । ब्रह्महत्यासहस्रेभ्य : मुच्यते नात्र संशय : ॥
१५९.कृष्णाष्टम्यां तु रोहिण्यां हंसाख्यं याजुषं जपन् । त्रिणदीसंगमे स्नात्वा मुच्यते सर्वपातकै : ॥
१६०.श्रवणद्वादशी अर्के महापुष्करसंज्ञिता । उपोषिता : पूर्वदिने ध्यात्वा विष्णुं जपन् नर : ॥
१६१.ब्रह्मविदाप्नोति मन्त्रेण स्मरन् पादाम्बुजं हरे : । गजेन्द्रवरदे स्नात्वा ब्रह्मभूयाय कल्पते ॥
१६२.तीर्थे तु दक्षिणावर्ते शिवाग्रे स्नानमाचरेत् । सुपर्णकर्मानुवाकान् तु जपन् मुच्येत् गुरुद्रुहात् ॥
१६३.चन्द्रार्कयोगे विषुवे रौद्रं वा अर्धे महोदये । घटनासंगमे स्नात्वा मुच्यते गोवधात् नृप ॥
१६४.गजच्छाये महायोगे छायातीर्थे निमज्जनात् । अघमर्षणवारुण्यौ जपन् मुच्येत मित्रहा ॥
१६५.महाजयन्त्ये रोहिण्यां रोमशे स्नानमाचरन् । कल्मषघ्नीं मनुं जप्त्वा भ्रूणहा मुच्यते ध्रुवम् ॥
१६६.विष्णुशृङ्खलकाभिख्यौ यथा योग : प्रवर्तते । विष्णोर्वने नर : स्नात्वा मुच्यते सर्वपातकै : ॥
१६७.सोमारण्ये ब्रह्मतीर्थे स्नात्वा रुद्रेत्यृचं जपन् । त्रिरावृत्ति : प्राणरोधात् मुच्यते स्त्रीवधात् अपि ॥
१६८.मासमेकम् प्रतिवर्षे जपन् प्रणवसंयुतम् । स्नात्वा स्त्रीवधात् पापात् मुच्यतेऽभिमतं विधे : ॥
१६९.ज्योतिर्वनात् उत्तरत : तीर्थे गान्धर्वसंज्ञिते । अवते हेल इत्येनां जपन् स्नात्वा विमुच्यते ॥
१७०.यद्देवा देवहेलनमनुवाकं समुच्चरन् । ऋषितीर्थे नर : स्नात्वा नर : पपै : प्रमुच्यते ॥
१७१.पुरोचनसुतां हत्वा स्त्रीहत्यामाप वृत्रहा । राज्यहीनो गुरोर्वाक्यात् सोऽपि राजयमवाप च ॥
१७२.ब्रह्मतीर्थे स च स्नात्वा मुक्त : स्त्रीवधपातकात् । अन्येऽपि पापिनो ह्यत्र स्नात्वा मुख्यपदान्यगु : ॥
१७३.बहुना किं प्रलापेन ब्रह्मतीर्थं महत्तरम् । इत्थम् तीर्थस्य माहात्म्यं राजा श्रुत्वा प्रहृष्टधी : ॥
१७४.ब्रह्मतीर्थं समागत्य कात्यायनपुरस्कृत : । पञ्चाङ्गविधिना स्नात्वा गोदानादि बहून् अदात् ॥
१७५.अवरुह्य विमानाग्रात् संहृष्टो राजनन्दन : । सोमारण्यं महारण्यं संप्राप शनकैर्मुदा ॥
१७६.ऊचुर्जयजयेत्युच्चै : मात : पाहीति हर्षिता : । तमेनं राजतनयं मान्साङ्गं महामुनि : ॥
१७७.पूजयित्वा यथान्यायं विधिज्ञ : तीर्थदेवता : । आशान्त : प्रथमं सम्यक् कृतं संकल्पमेव च ॥
१७८.तथाघमर्षणं स्नानं तर्पणं च विधानत : । कारयामास भूपाय मुनि : कात्यायनो गुरु : ॥
१७९.चक्रवत्भ्रममाणोऽयं पापवेगेन गौरवात् । दण्ड : तु पश्यतां तेषां निश्चल : समपद्यत ॥
१८०.ततो हर्षसमायुक्तो राजान्त:पुर संयुत : । दत्वा भूरिधनं तत्र ब्राह्मणेभ्यो विशेषत : ॥
१८१.गवां शतसहस्रं तु ब्राह्मणेभ्यो ददौ पुन : । सर्वे तमेव राजानमाशीर्भि : अभिवर्धयन् ॥
१८२.श्रीशङ्ख : --इत्थं सर्वेषु तुष्टेषु विस्मितेषु पुन:पुन: । पुष्पवृष्टिरभूत् पुण्या व्योम्नि देवप्रचोदिता ॥
१८३.देवाश्च ऋषयस्सर्वे विस्मिता : तं समस्तुवन् । तावत् पिङ्गलको व्योम्ना विमानेनार्कवर्चसा ॥
१८४.अनेकसिद्धगन्धर्वै : गन्धर्वज्ञो महात्मभि : । समागत्य महीपालं मानसाङ्गं सुहृत्तमम् ॥
१८५.प्रीणयन् वचसा प्रेम्णा बभाषे हर्षगद्गदम्। पिङ्गलक : --सखे राजेन्द्र तुष्टोऽस्मि कर्मणानुष्ठितेन ते ॥
१८६.मामवेहि महाराज नाम्ना पिङ्गलकं प्रियम् । सुहृत्तमं पूजयितुं त्वामिदानीमुपागतम् ॥
१८७.पूतात्मासि महानद्यां स्नानेनानेन दानत : । धन्योऽनुगृहीतोऽस्मि गुरुणानेन योगिना ॥
१८८.अस्य तीर्थस्य माहात्म्यं ब्रह्मरुद्रादिभि : सुरै : । उपगीयमानं सर्वत्र लब्धं ते पुण्यगौरवात् ॥
१८९.ददामि तव गान्धर्वमस्त्रमाश्चर्यकारकम् । अङ्गारकमिदं दिव्यं नित्ययौवनकारणम् ॥
१९०.मत्तो वृणीष्व भद्रं ते सर्वत्र विषयावहम् । त्वय्यनुग्रहकर्तारं प्रेषयन् मां दिवैकस :
१९१.यदा यदा मां स्मरसि तदागत्य स्वबन्धुभि : । कर्तुमिच्छामि साहाय्यं जानीहि सुहृदं हि माम् ॥
१९२.इत्थं तेनार्पितं प्राप्य महाधनमनुत्तमम् । तमालिङ्ग्य पुन : प्रेम्णा तथास्त्वित्यब्रवीत् द्विज : ॥
१९३.गते गन्धर्वभूपाले मुनिना तेन भूपति : । तीर्थदेवीं नमस्कृत्य सोमेशं संप्रणम्य च ॥
१९४.शयानं पुरुषं नत्वा संप्राप्य च वरान् बहून् । परिक्रम्य पुरश्रेष्ठं ताम्रां च मलयात्मजाम् ॥
१९५.आशैलमावारिनिधिं स्नात्वा दत्वा पदे पदे । तीर्थानि देवतागाराणि नत्वागस्त्यं प्रणम्य च ॥
१९६.कात्यायने गुरौ तस्मिन् अनुज्ञाप्य दयान्विते । प्रस्थिते मुनिलोकाय सह शिष्यैर्मुनीश्वरे ॥
१९७.सान्त:पुरो महीपाल : परिपूर्णमनोरथ : । प्रायात् रथेन महीपाल : पाञ्चालनगरीं शुभाम् ॥
१९८.त्रिंशद्वर्षसहस्राणि राजा भुक्त्वाप्यखण्डकम् । स्थाप्य सिंहासने पुत्रं ब्रह्मलोकमवाप्तवान् ॥
१९९.इत्थं ते कथितं राजन् सोमारण्यस्य वैभवम् । पवित्रं पापशमनमायुरारोग्यसौख्यदम् ॥
२००.ये पठन्ति नरा : भक्त्या ये शृण्वन्ति सादरम् । तेषां प्रसन्नो भगवान् नीलकण्ठो वृषध्वज : ।
    ऐहिकामुष्मिकान् कामान् ददाति जगतीगुरु : ॥
                             इति त्रिषष्टितम : अध्याय :  Pro.Total = 6117 + 200 = 6317. 
                                चतुष्षष्टितम : अध्याय :
१.अत : परं नृपश्रेष्ठ ताम्रासागरसंगम : । तीर्थराजो महाघौघसंक्षोभणविचक्षण : ॥
२.यत्र ताम्रा त्रिधाभूतप्रवाहा सागरङ्गमा । महापातकसंघातभस्मीकरणगौरवात् ॥
३.अग्नित्रयं प्रशंसन्ति मुनयो वेदवादिन : । आनन्दविद्यासंपत्तिविश्राणनविनोदत : ॥
४.ज्योतिषां त्रितयं केचित् वेदानां त्रितयं परे । त्रिपदी केवला सेयं त्रिमुखा येन सा नदी ॥ 
५.अत्रेतिहास : श्रोतव्य : पुरा दृष्टो महीपते । यस्य श्रवणतो मर्त्यो मुच्यते सर्वकिल्बिषै : ॥
६.पुरा सह्याद्रिपर्यन्ते कावेर्या : दक्षिणे तटे । चन्द्रशालेति विख्याता पुरी भुवनभूषणा ॥
७.चातुर्वर्ण्यस्य समाकीर्णा धनधान्यसमायुता । तस्यां कश्चित् अभूत् विप्रो नन्दको नाम नामत : ॥
८.तस्य कन्या वरारोहा विद्युच्चलनविभ्रमा । पर्णावतीति विख्याता यौवनाविष्टशैशवा ॥
९.याते पितरि चान्यत्र मात्रा सह शुभाप्तये । तावत् सद्युम्नको नाम योगिनामग्रणीश्वर : ॥
१०.परिभ्राम्य महीं कृत्स्नां क्षुत्क्रान्तोऽध्वश्रमालस : । नन्दकस्य गृहं प्राप मृष्टान्नापेक्षया मुनि : ॥
११.सैषा कन्या समालोक्य समागतममुं मुनिम् । आसनाद्युपचारै : च पूजयित्वा यथाविधि ॥
१२.व्यजनेन परिश्रान्तं वीजयन्तं सविस्मया । बभाषे संप्रणम्यैषा वाचामृतसदृक्षया ॥
१३.पर्णावती-भगवन् स्वागतं तेऽस्तु कुत: श्रान्त: समागत:। पितरौ मे गतौ कार्यहेतो: ग्रामान्तरं प्रति ॥
१४.किं मया करणीयं ते साधयिष्यामि ते प्रियम् । तयोक्तस्स मुनि : प्राह क्षुधार्तोऽस्मि वरानने ॥
१५.स्वाद्वन्नं देहि मे तेन श्रेय : तव भविष्यति । इत्युक्ता सा मुनिं वाचा क्षणमास्वेति कन्यका ॥
१६.प्रसाद्यन्तर्गृहं गत्वा मृष्टान्नमदात् तदा । अन्नमभ्यवहृत्यासौ सूपसस्यसमन्वितम् ॥
१७.स सन्तुष्टमना योगी कन्यामाहूय तामिमाम् । विद्याद्वयमदात् सर्वसत्वाकर्षणसाधनम् ॥
१८.कान्तं कञ्चिद्वरं योग्यम् काङ्क्षन्ती जप्तुमर्हसि । स कामदो भवेत् स्निग्धो इत्युक्त्वान्तर्हितोऽभवत् ॥
१९.तस्मिन् गते मुनिवरे पित्रो : स्वगृहमेयुषो : । कदाचित स्वगृहात् सैषा निर्गत्य स्नानहेतवे ॥
२०.विलोकयन्ती सर्वत्र नद्या : तस्या : तटद्वयम् । ददर्श दूरे कमपि युवानं सुन्दरं मुनिम् ॥
२१.काङ्क्षन्यथाङ्गना राजन् समाहृष्टहृदम्बुजा । कौतूहलसमाविष्टा तां विद्यां मनसा स्मरन् ॥
२२.सद्य : परवशो योगी तेन मन्त्रबलेन स : । तदन्तिकमुपागम्य तामाहूय नदीतटे ॥
२३.विहृत्य च लतागेहे रतान्ते तामुवाच ह । अहो दुष्टे तपस्यन्तं मां समाधिमुपागतम् ॥
२४.विद्यया विवशीकृत्य तपोनाश : त्वया कृत : । तस्मात् भव चिरं कालं पिशाची काननान्तरे ॥
२५.इति शप्त्वा गते तस्मिन् सूत्वा सुतशतं क्षणात् । तै : सुतै : तद्वने घोरे सैषा जाता पिशाचिका ॥
२६.सह पुत्रै : महाघोरै : विकृताकारदर्शनै : । हिंसन्ती प्राणिन : तावत् परिचक्राम काननम् ॥
२७.वनाद्वनं परिक्रम्य दूराद्दूरं शनै:शनै : । रुदन्ती च हसन्ती च मूर्च्छिता च पुन:पुन: ॥
२८.प्राप्य नागाटवीं घोरां भूतवेतालसंवृताम् । तावत् सद्युम्नको योगी सह शिष्यै : महातपा : ॥
२९.यदृच्छया समागत्य तां ददर्श पिशाचिकाम् । पिशाचै : सह संकीर्णां धावन्तीं च पदे पदे ॥
३०.पर्णावतीं तु विज्ञाय नन्दकस्य कुमारिकाम् । मृष्टान्नदात्रीं समये दयांचक्रे दयानिधि : ॥
३१.सन्तुष्टेन मया दत्ता सैषा विद्या सुखप्रसू : । गतामेनां महाघोरे शोकाम्भोधावपातयत् ॥
३२.अपात्रे पतिता विद्या क्षीरधारा इवोरगे । सञ्जाता विषमायैव अविवेकेन मे ध्रुवम् ॥
३३.अस्तु कालवशेनैव भवितव्यं भवत्यहो । एनामुद्धारयिष्यामि पापात् अन्नप्रदायिनीम् ॥
३४.इति निश्चित्य मनसा मन्त्रपातै : सहात्मजाम् । बध्वा विकृष्य संप्राप ताम्रासागरसङ्गमम् ॥
३५.तपोबलेन तां तीर्थे मज्जयामास मन्त्रवित् । तत्क्षणादेव राजेन्द्र मुक्ता पैशाचबन्धनात् ॥
३६.सा तं विज्ञाय योगीन्द्रं रुदन्ती सह पुत्रकै : । पपात पादयो : तस्य पाहि मां पाहि मामिति ॥
३७.तामिमां तरुणीं प्रेम्णा परिमृज्य स्वपाणिना । यथाविधानं तत्पुत्रै : स्नानं सङ्कल्पपूर्वकम् ॥
३८.शान्तिसूक्तं महामन्त्रं अस्य वाम्यं महामनुम् । पुरत : स्नापयामास तत्तीर्थे तां सपुत्रकाम् ॥
३९.तावदाविरभूद्देवी ताम्रा कमलमालिका । ब्रह्मविष्णुमुखैर्देवै : स्तूयमानेदमब्रवीत् ॥
४०.देवी --त्वया कृतमिदं भद्रे मुने : कारुण्यशालिना । त्वया निर्मुक्तपापेयं कृता पर्णावती किल ॥
४१.ममैवानुग्रहात् एषा नित्यकन्या भवेदियम् । अस्यैव कमिता योगी भविता ब्राह्मणात्मज : ॥
४२.वत्सक : सर्वधर्मज्ञ : चैतेषां जनक : खलु । एते च बालका : पुत्रा : महायोगैकवादिन : ॥
४३.अनामया : योगीन्द्रा : भवन्त्याकल्पजीविन : । ब्रह्मज्ञा : च भविष्यन्तु वेदवेदाङ्गपारगा : ॥
४४.भर्त्रा समेता तेनैव भुक्त्वा भोगान् यथेप्सितान् । अन्ते तेनैव कान्तेन ब्रह्मलोकं गमिष्यति ॥
४५.इत्युक्तवत्यामम्बायां अम्बरात् दैवचोदिता । पपात महती वृष्टि : कल्पकप्रवात्मिका ॥
४६.इन्द्राद्या : सकला : देवा ऋषयो नारदादय : । वत्सकोपि समागत्य वसिष्ठाद्यै : महात्मभि : ॥
४७.देवानां वचनं श्रुत्वा तामुद्वाह्य विधानत : । देवताभ्यो वरं प्राप्य स्वगृहं प्रययौ मुनि : ॥
४८.ते चास्या : तनया : सिद्धा : योगिन : संबभूविरे । सापि देवी महापुण्या ताम्रा पापप्रणाशिनी ॥
{दानानि यानि प्रोक्तानि वेदागमशिखान्तरे । तानि त्वयैव दत्तानि ताम्रामन्तरुपासना ॥(refer 64th verse of this chapter)}
४९.तेषामभीप्सितान् कामान् प्रणम्य मलयात्मजाम् । तस्मात् अस्येह तीर्थस्य माहात्म्यं पापनाशनम् ॥
५०.वाचामगोचरं पुण्यं शिवो जानाति नान्यथा । साक्षात् उमासुत : स्कन्द : जयन्तीमास्थित : पुरीम् ॥
५१.देवसेनां च वल्लीं च समुद्वाह्य जगद्गुरु : । अद्यापि जगतां प्रीत्यै तीर्थं पालयते गुह : ॥
५२.श्रेयात्मनो महाराज ताम्रासागरसङ्गमे । स्नात्वा सन्तर्प्य देवर्षीन् पितॄन् विप्रान् धनादिभि : ॥
५३.जयन्ती पठनाच्चैव पूर्णकामा भवन्ति ते । आसागरमिमां दृष्ट्वा प्राप्य चन्दनशिलोच्चयम् ॥
५४.उभयो: तीरयो : स्नात्वा दृष्ट्वा देवान् च यथाविधि । तर्पयित्वा पितॄन् विप्रान् ब्रह्मभूयाय कल्पते ॥
५५.शङ्ख : --यथाज्ञातं यथागीतं श्रुतं गुरुमुखाद्यथा । तावद्विस्तरतो राजन् मया ते कथिता कथा ॥
५६.इत : परं ते ज्ञातव्यं न पश्यामि महीपते । कृतकृत्योऽसि धन्योऽसि पूर्णकामोऽसि केवलम् ॥ 
५७.त्वया कृत्वा शतं राजन् क्रतुसर्गं सदक्षिणम् । यानि तीर्थान्यसंख्यानि पुण्यानि जगतीतले ॥
५८.स्नातानि तानि भवता ताम्रामन्तरुपासता । सप्तकोटिमहामन्त्रा : वेदान्तेषु प्रकाशिता : ॥
५९.तानि त्वयैव जप्तानि ताम्रामन्तरुपासता । इत्युक्त्वा हर्षसन्तुष्ट : तुष्टाव जगतीगुरु : ॥
६०.नम : परमकल्याणनिधये वीतरागिणे । लोपामुद्रासमेताय कुम्भोद्भूताय योगिने ॥
६१.पुण्यायै पुण्यभूतायै पुत्र्यै मलयभूभृत : । सर्वतीर्थस्वरूपायै ताम्रपर्ण्यै नमो नम : ॥
६२.या पञ्चकृत्यनादेव कुज्जापाञ्चितदुर्दशा । तामादिलक्ष्मीं क्षेमाय साक्षान्मोक्षप्रदां नम : ॥
६३.एकत्र श्यामलाकारा एकत : चन्द्रपण्डुरम् । उमारमापतिं देवं वन्दे हरिहराकृतिम् ॥
६४.ताम्रां मलयशैलेन्द्रमादिलक्ष्मीं हरिप्रियाम् । लोपामुद्रामगस्त्यं च नित्यमन्त:स्मराम्यहम् ॥
६५.व्यास : --कथां पुरातनीं पुण्यां वीरसेनो महीपति : । श्रुत्वा संहृष्टहृदय : प्रणनाम महामुनिम् ॥
६६.रत्नै : दिगन्तरानीतै : अनर्घ्यै : सूर्यसन्निभै : । तप्तकाञ्चनपुष्पैश्च मुक्ताजालसमावृतै : ॥
६७.अभिषिच्य गुरुं भक्त्या शङ्खाख्यं योगिनां वरम् । भक्त्या सन्तोषयामास स्तोत्रैश्च विविधैरपि ॥
६८.प्रदक्षिणक्रमेणैव तीर्थेषु सकलेष्वपि । आसागरं तु यया स्नात्वा तीरयोरचलाग्रत : ॥
६९.देवता : प्रीणयित्वैव पुष्पपर्णार्हणादिभि : । प्राप्य प्रसादं श्रीदेव्या : दुर्लभं ह्यकृतात्मनाम् ॥
७०.अभिवाद्य सपत्नीकं मुनीन्द्रं कुम्भसंभवम् । गुरुमापृच्छ्य योगीन्द्रं पूर्णकामो महीपति : ॥
७१.विमानवरमारुह्य कामगं काञ्चनोज्ज्वलम् । कृताञ्जलिपुटो राजा तां प्रणम्य महानदीम् ॥
७२.व्योमयान : संप्रतस्थे द्वितीय इव भास्कर : । प्रियां प्रणयिनीं स्निग्धां नादेयीं धर्मचारिणीम् ॥
७३.अङ्केनादाय हर्षेण प्रस्थितो भारतीं महीम् । प्रियायै दर्शयन् पुण्यक्षेत्राणि विविधानि च ॥
७४.पाण्ड्यराजमतिक्रम्य कावेरीं सह्यसंभवाम् । तुङ्गभद्रां कृष्णवेणीं श्रीशैलं वेङ्कटाचलम् ॥
७५.समतीत्य च गोकर्णं सप्तगोदावरीतटम् । विन्ध्याद्रिसंभवां रेवां गङ्गां दुरितभञ्जनीम् ॥
७६.सरयूं पुष्कलां भद्रां तथैव च शरावतीम् । प्रियायै दर्शयन् एव नगराणि वनान्यपि ॥
७७.गौरीगुरुमभिष्टूय हिमवन्तं शिलोच्चयम् । गौरीं च शङ्करं नत्वा समुल्लङ्घ्याम्बराध्वना ॥
७८.किंपुरुषवर्षालङ्कारान् नानाजनसमावृतान् । प्रविवेश पुरीं रम्यां पूज्यमान : स्वमन्त्रिभि : ॥
७९.त्रिंशद्वर्षसहस्राणि राज्यं कृत्वाप्यखण्डकम् । स्मृत्वा स्मृत्वा च ताम्राया : माहात्म्यं परमाद्भुतम् ॥
८०.अभिषिच्यात्मजं श्रेष्ठं स्निग्धं राजासने विभु : । प्रार्थ्यमानं सिद्धजनै : ब्रह्माद्यै : योगिसत्तमै : ॥
८१.यत्पदं परमानन्दनिलयं लयवर्जितम् । सर्वगं सर्वगं शुद्धमवापासौ नृपोत्तम : ॥
८२.श्री सूत : --इत्थं व्यासेन कथितं शुकाय ब्रह्मवादिने । सैषा तु परमानन्ददर्शिनी कलुषापहा ॥
८३.यथाश्रुतं यथादृष्टं मयाद्य कथितं द्विजा : । सैषा भगवती ताम्रा सेवतां सर्वदेहिनाम् ॥
८४.प्रयच्छति न सन्देहो मोक्षलक्ष्मीं सनातनाम् । य इमां प्रातरुत्थाय स्मरन् मुक्तामणिप्रसूम् ॥
८५.तेषां न जायते दु;खं न दारिद्र्यं न चामयम् । स्मरन् स कीर्तयन् नित्यं सर्वान् कामानवाप्नुयात् ॥
८६.ये चेमां संहितां पुण्यां महापातकनाशिनीम् । शृण्वन्त : च पठन्तश्च कीर्त्यन्तश्च मानवा : ॥
८७.ते यान्ति शिवसायुज्यं नात्र कार्या विचारणा । इतिहासमिदं पुण्यं सर्वपापप्रणाशनम् ॥
८८.लिखित्वा पूजयन् मर्त्यो न पापै : अभिभूयते । ये चेमां नियमेनैव नित्यं गुरुमुखात् नर : ॥
८९.शृण्वन्तो भक्तिसहिता : तेषां नास्ति दरिद्रता । पुत्रकामो लभेत् पुत्रं धनकामो लभेत् धनम् ॥
९०.आयुष्मान् पुत्रवान् चैव विद्यावान् धनवान् नर:। जायते कीर्तनात् अस्या : कथाया : कलिवर्जिता : ॥
९१.न दुस्स्वपात् भयं तेषां न पापेभ्यो न रोगत : । न शत्रुतो भयं क्वापि न च व्यालभयं तथा ॥
९२.न चैनं पीठयन्यद्धा भूतवेतालराक्षसा : । यथा गयायां सन्तृप्ता : पिण्डदानादिभि : सुतै : ॥
९३.पितर : शृण्वतां तेषां तृप्तिं यान्ति न संशय : । आयुष्करं पुष्टिकरं पवित्रं पापनाशनम् ॥
९४.श्रूण्वन्तु मुनय : पुण्यमितिहासं दिने दिने । ये च भक्त्या पठन्त्येदं माहात्म्यं पुण्यवर्धनम् ॥
९५.तेषां करोति सौभाग्यं हरि : शम्भु : चतुर्मुख : । नाग्निपातो भवेत्तस्य न तोयात् न च मारुतात् ॥
९६.न जायते भयं क्वापि माहात्म्यस्यास्य कीर्तनात् । य : शृणोति सदा भक्त्या तमेनं सर्वसंपद : ॥
९७.स्वयं यान्ति विप्रेन्द्रा: नात्र कार्या विचारणा । यस्तुसाक्षात्ब् स्वयं शम्भु: यस्तु साक्षात् स्वयं हरि :॥
९८.लोपामुद्रापति : श्रीमान् नित्यं प्रीतिसमन्वित : । सान्निध्यं कुरुते नूनं पठेत् यत्र कथामिमाम् ॥
९९.तस्मात् सर्वगुरोरस्य प्रसादाय दिने दिने । श्रोतव्यं पठितव्यं हि ब्राह्मणेन विजानता ॥
१००.यस्यैतत् भगवत ईश्वरस्य विष्णो : वीर्याढ्यं वृजिनहरं सुमङ्गलं च ।
    आख्यानं पठति शृणोत्यनुस्मरेद्वा दुष्कीर्तिं दुरितमपोह्य याति शान्तिम् ॥
                    इति चतुष्षष्टितम : अध्याय : Pro.Total = 6317 + 100 =6407.
                      ताम्रपर्णीमाहात्म्यं संपूर्णम्

    पाटीरशैलतनयां तीर्थराज्ञीं सुमङ्गलाम् । अनादि शक्तिसंभूतां श्रीताम्रां प्रणमाम्यहम् ॥

No comments:

Post a Comment