Saturday, February 21, 2015

श्री ताम्रपर्णीमाहात्म्यम् - Sri Tamraparni Mahaatmiyam - chapter 41 to 50

एकचत्वारिंशोऽध्याय :

                            रोमशतीर्थवैभववर्णनम्

१.पक्षी --तपोधन महाभाग समाकर्णय सादरम् । वक्ष्यमाणं महाख्यानं शृण्वतां विस्मयावहम् ॥
२.ईदृशे जनसंमर्दे परमानन्दनिर्भरे । संभाव्य वाचा राजानम् व्याजहार स नारद : ॥
३.महराज मनस्येवं मा चिन्तां कुरु शोकताम् । त्वयि चिन्तापरे भोगिराजे व्याकुलचेतसि ॥
४.जनेषु कथ्यमानेषु विस्मितेषु ततस्तत : । समागतोऽहं कैलासात् तव हर्षविधित्सया ॥
५.श्रुणु वृत्तान्तमाश्चर्यं सहेतुकमिदं वच : । पुरा श्रुतिवरूधस्य तनया कापि कर्कशा ॥
६.गण्डूलका नाम पत्नी बभूव सुमतेर्मुने : । धनकामा लुब्धचित्ता शुश्रूषन्ती पतिं गृहे ॥
७.निनाय बहुलं कालं धनकामेन चेतसा । कदाचित् तद्गृहे बालो मणिकाञ्चनभूषण : ॥
८.तनय : कुरुविन्दस्य महर्षेर्भावितात्मन : । फलैर्भक्ष्यविशेषैश्च तोषयित्वा तमर्भकम् ॥
९.स्वान्तर्गृहं समानीय हत्वा जग्राह भूषणम् । अनभिज्ञात : परैश्चैनं गर्ते चिक्षेप दुर्भगा ॥
१०.तन्माता जनकश्चैव भ्रमन्तो विपिनान्तरे । नदी कच्छेषु गुल्मेषु विवरेषु ततस्तत : ॥  
११.आह्वयन्तौ सुतं बालं ब्रुवन्तौ नाम तस्य तु । बान्धवै : च परिभ्रम्य चिरकालं महीपते ॥
१२.क्वाप्यलब्ध्वा पुनर्गेहं प्राप्य पत्न्या समन्वित : । उपतस्थे दिनेशानं तं जिज्ञासुर्विधानवित् ॥
१३.तावत् तयो : समाचष्ट ब्राह्मण्याभिहितं रवि : । तत : शाशाप कोपेन मुनिर्देवस्य सन्निधौ ॥
१४.या बालकं मत्तनयं निजघानार्थकामुकी । सैषा चिरतरं कालं भवित्री पुरुषादिनी ॥
१५.घोररूपा निराहारा प्राणिप्राणापहारिणी । शोकस्यान्तमपश्यन्ती क्षुत्क्षान्ता चरतु ध्रुवम् ॥
१६.इत्थं शप्त्वा मुनि : कोपात् सभार्य : स्वाश्रमम् ययौ । सैषा कण्डूलका तावत् अपहाय निजं वपु : ॥
१७.भूव दुर्भगाकारा राक्षसी घोरदर्शना । नागायुतबलोत्साहा नीलकुञ्चितमूर्धजा ॥
१८.पद्भ्यां तालप्रमाणाभ्यां भुजाभ्यां भयदर्शिनी । निजगेहात् विनिष्क्रम्य ताम्राया दक्षिणे तटे ॥
१९.अद्यापि वसते सर्वप्राणिप्राणापहारिणी । अज्य्या सर्वलोकानां सर्वेषामप्यसंशयम् ॥
२०.तया शापोपहतया बाधिता : मुनय : सुरा : । त्वां मन्यमाना : त्रातारं नारायणमिवापरम् ॥
२१.तवोद्वाहान्तरालस्य कारणत्वमुपागता : । त्वदग्रे किल वर्तन्ते मायच्छन्ना हि ता: स्त्रिय : ॥
२२.यदासौ राक्षसी नाशं नीयते भवता विभो । भविष्यन्ति तत : प्रीता : देवाश्च मुनय : परे ॥
२३.तव श्रेयांसि भूयांसि भविष्यन्ति न संशय : । ब्रह्मविष्णुमुखास्त्वां वै तोषयन्ति संपदा ॥
२४.ताश्च कन्या : समुद्वाह्य चिरं जीवितुमर्हसि । पक्षी --इत्थं निशम्य वचनं महर्षे : भावितात्मन : ॥
२५.प्रसादचन्द्र : भूपाल : तं प्रणम्य मुनीश्वरम् । तथेति समुपामन्त्र्य सभ्यान् अन्यान् च भूसुरान् ॥
२६.आरुरोह रथं दिव्यं कामगं पुष्पकोपमम् । जगाम तीरं ताम्राया : यत्रास्ते सा निशाचरी ॥
२७.नीलाञ्जनशिलाकारां गर्जन्तीं घनसन्निभाम् । निजघनेषुणा राजा वज्रेणैव शतक्रतु : ॥
२८.तद्बाणभिन्ना हृदयात् स्रुवन्ती रुध्रं बहु : । निपपात महातोये ताम्राया भीमराविणी ॥
२९.तत्तीर्थसङ्गभूताया : राक्षस्या : पश्यतां नृणाम् । उत्पपात महत्तेजो व्योम्ना निर्भित्य मस्तकम् ॥
३०.अपूर्वभूतरूपाङ्गी नारीकुलमतल्लिका । पूज्यमाना देवगणै : सिद्धगन्धर्वकिन्नरै : ॥
३१.विमानवरमारुह्य प्रययौ ब्रह्मण : सभाम् । अनुयाताय मे सर्वं निजवृत्तान्तमद्भुतम् ॥
३२.कथयित्वा पुन : प्रायात् भानुभास्वरवर्चसा । देवताभ्यो वरं प्राप्य पूजिताश्च यथोचितम् ॥
३३.स्वराजधानीं प्रययौ भोगिराजमुखैर्नृप : । ताश्च कन्या : समुद्वाह्य मणलूरुपुरेश्वर : ॥
३४.वसते तत्र राजर्षि : श्रिया कीर्त्या समुज्ज्वलन् । एतत् वृत्तान्तमालोक्य हर्षमाणोऽहमागत : ॥
३५.भ्रातृभ्य : कथितं ब्रह्मन् तीर्थमाहात्म्यमुत्तमम् । ताम्रादर्शनमाहात्म्यसंभिन्नाशेषपातके ॥
३६.मयि प्रसादमादातुमागतोऽसि महामुने । इत : परं न शोचामि वयं येनेह कर्मणा ॥
३७.तदनुष्ठाय भगवन् पाहि न : पापसञ्चयात् । इति पक्षिमुखात् प्राप्तां कथामाकर्ण्य रोमश : ॥
३८.विस्मयं परमं प्राप सह सर्वैर्महर्षिभि : । अभिनन्द्य महादेवीं साञ्जलिं मलयात्मजाम् ॥
३९.आनन्दसान्द्रहृदय : तूष्णीं क्षणमतिष्ठत । बहुमान्य पुन : शार्ङ्गं सान्त्वयानं कथामृतै : ॥
४०.तैश्च साकं मुनिगणै : पक्षिभिश्च समन्वित : । प्रतस्थे दक्षिणामाशां दिदृक्षुर्मलयात्मजाम् ॥
४१.अतीत्य महदध्वानमम्बरेणैव वर्त्मना । आससाद महातीर्थं ताम्राया : परमाद्भुतम् ॥
४२.यत्र मुक्तिमवापैषा राक्षसी तीर्थमज्जनात् । तत्र स्नानं चकारासौ सह सिद्धैश्च पक्षिभि : ॥
४३.तेषां तीर्थं ददौ प्रीत्या शार्ङ्गाणां मन्त्रभावितम् । विधिना तेन मुनिना स्नापित : पक्षिण : तथा ॥
४४.अपहाय महद्घोरं तिर्यक्रूपमशोभनम् । दिव्यं वपु : समासाद्य पूज्यमाना : सुरासुरै : ॥
४५.तं प्रणम्य मुनिश्रेष्ठं स्तुत्वा स्तोत्रैरनेकश : । अनुज्ञाता मुनीन्द्रेण विमानमधिगम्य तु ॥
४६.प्रययु : ब्रह्मसदनं पुनरावृत्तिवर्जिता : । सर्वे देवगणा : सिद्धै : पुष्पवृष्टिमुचो दिवि ॥
४७.स्तुवन्तो रोमशमुनिं नमस्कृत्य महामुनीन् । उपस्पृश्य महातीर्थं प्रययु : स्वपदान्यमी ॥
४८.तेषु तेषु प्रयातेषु सिद्धेषु च सुरेष्वपि । तत्रैव श्रद्धया भक्त्या विदधे वसतिं मुनि : ॥
४९.व्यासाश्रमात् पूर्वभागे ताम्राया : दक्षिणे तटे । महालिङ्गं प्रतिष्ठाप्य शाम्भवं मुक्तिसाधनम् ॥
५०.पूजयामास विविधै : स्तोत्रै : वेदान्तगर्भितै : । तत्रेऽपि किञ्चित् पुरत : स्थाप्य नारायणं विभुम् ॥
५१.तत्रापि पूजयामास येन प्रीतोऽभवत् विभु : । उभयत्राप्यहरह : त्रिवारं मुनिरर्चयन् ॥
५२.तप : चचार परमं शरदामयुतत्रयम् । अवाप परमां सिद्धिं शम्भोर्विश्वम्भरादपि ॥
५३.तदन्तरे प्रशस्तानि तीर्थानि च महीपते । स्नानसंस्पर्शनध्यानदर्शनान्मुक्तिदान्यपि ॥
५४.शिवस्योत्तरभागे तु तीर्थं रोमशसंज्ञितम् । यत्र पूर्वं मृकण्डुश्च जनेऽपि निमज्जनात् ॥
५५.अवाप परमां सिद्धिमशेषजनपूजिताम् । तदग्रे भृगुतीर्थं च तत् पूर्वे शापमोचनम् ॥
५६.अनयोश्चापि माहात्म्यं वक्तुं वाचामगोचरम् । ततोऽपि किञ्चित् पुरतो हरेरुत्तरतो महत् ॥
५७.तच्चापि रोमशं तीर्थमशेषौघाघनाशनम् । यत्र ब्रह्मा गुरो : तस्मात् ब्रह्मज्ञानमवाप्तवान् ॥
५८.तस्मात् तां महिमां राजन् वक्तुं वर्षशतैरपि । न शक्यं शङ्करेणापि किं पुन : चेतरैरपि ॥
५९.अद्यापि भगवान् विष्णु : नीलकण्ठश्च भूपते । विदधाते हि सान्निध्यं लोकानुग्रहकारिणौ ॥
६०.नैव मुञ्चति तत्क्षेत्रं रोमश : स्वाभिमानत : । अद्यापि वर्तते प्रीत्या तप : कुर्वन् अविश्रमम् ॥
६१.इत्थं महाराज कथा मयोक्ता महामुनेर्वा मलयात्मजाया : ।
   प्रपठ्यते भक्तिविनम्रबुध्या न तत्र तापत्रय ईतिबाधा :: ॥

                           इति एकचत्वारिंशोऽध्याय :  Pro.Total = 3466 + 61 =3527.

                              द्विचत्वारिंशोऽध्याय :

                              दौर्वासतीर्थमाहात्म्यम्

१.श्रीशङ्ख : --अत्रैव रोमशतीर्थे सर्वसिद्धिमहोदये । देवस्य पूर्वभागे तु तीर्थं दैवाससं महत् ॥
२.यत्र स्नाता नरा राजन् प्रयान्ति शिवतुल्यताम् । पुरा पुरहरादेशात् अत्रिसूनुर्महामुनि : ॥
३.कृत्व स्वनाम्ना तीर्थं च स्थाप्य लिङ्गं च शांभवम् । क्रोधाग्ने : त्राणमकरोत् तपसा तत्र भूपते ॥
४.राजा --भगवन् कथमात्रेय : शिवानुज्ञामवाप्तवान् । कथं वा स्थापयामास शिवलिङ्गं स्वसिद्धये ॥
५.कथं वा त्राणं चक्रे क्रोधाग्ने : स्वतपोनिधे : । एतत् विस्तार्य मे ब्रूहि श्रोतुं कौतूहलं मे ॥
६.शङ्ख : --श्रुणु राजन् प्रवक्ष्यामि पुण्यमाख्यानमुत्तमम् । यस्मात् तच्छ्रवणात् मुच्यते सर्वकिल्बिषै : ॥
७.पुरा विरिञ्चभवने वसन्तं भारतीपतिम् । उपासांचक्रिरे सर्वे देवाश्च ऋषय : परे सभाया॥
८.तत्र पौराणिका : गाथा : पठन्ति शौनकादय : । क्वचित् त्रयीं महाविद्यां क्वचित् आन्वीक्षकीमपि ॥
९.क्वचित् जजल्पु : धर्मान् च मन्त्रशास्त्रं तथापरे । उच्चरन्ति क्वचित् ब्रह्मविज्ञानमपरे जना : ॥
१०.एवं भगवत : तस्य ब्रह्मण : परमेष्ठिन : । सभा समग्रसन्नादा चकाशे चित्ररूपिणी ॥  
११.एवं सर्वेषु देवेषु मिलितेषु महात्मसु । सुमन्थुनानुजनेनैव कृत्वा कलहमुत्तमम् ॥
१२.क्रोधान्ध : साम गायन् तु दुर्वासा ब्रह्मसन्निधौ । अकरोत् अपस्वरं घोरं सभ्यानां दुस्सहं तदा ॥
१३.तूष्णीं स्थितेषु सर्वेषु सभायां शापशङ्कया । वीजयन्ती चामरेण ब्रह्माणं पार्श्ववर्तिनी ॥
१४.शब्दब्रह्मात्मिका वाणी किञ्चित् उल्लोलचेतसा । जहास दन्तज्योत्स्नाभि : विशदीकृत्य तां सभाम् ॥
१५.तत : कोपारुणापाङ्गरोचिषा तु पिशङ्ग्गया । शशाप भारतीं देवीं स मुनि : तामसार्भक : ॥
१६.कुर्वन्त्या मेऽवमानं दुर्विदग्धे सरस्वति । मामविज्ञाय दुर्बुद्धे हासं कृतवती यत : ॥
१७.मत्तपोऽग्निबलात् नूनं भवती नात्र संशय : । इति ब्रुवति वै तमिन् मुनौ कोपवशाकुले ॥
१८.भारतीं सान्त्वयामास व्याजहार पितामह : । मा भारति वरारोहे वैमनस्यं प्रायास्यसि ॥
१९.क्षमस्व क्षमया युक्ता : लोकपूज्या भवन्ति हि । त्वयि प्रतिप्रयातायां मर्त्ययोनौ वरानने ॥
२०.तत्र त्वामनुयास्यामि लोकानां हितकाम्यया । तत्र शास्त्राणि चोद्दिश्य वेदमार्गप्रवर्तने ॥
२१.सन्निवेश्य यथान्यायं भुक्त्वा भोगान् यथेप्सितान् । चतुष्षष्टिसमा: स्थित्वा पुन: प्राप्स्यामहे परम् ॥     
२२.इत्युक्त्वा पद्मभूर्देवीं पुन : प्राह मुनिं स्मयन् । अथ साधो मुनिश्रेष्ठ किमिष्टं ते विचेष्टितम् ॥
२३.तपो दानं दम : शौच नियमाश्च यमा : तथा । अविवेकवतां पुंसां विमला इति वै श्रुति : ॥
२४.तथाप्यभिज्ञो मेधावी त्वं न जहासि कृतं न भो । एतावता प्रकारेण भवता सञ्चितं तप : ॥
२५.अकाण्डे कोपत : श्रेष्ठे गुरुभूते विशेषत : । सर्वं ते विमलं यातं नीहार इव भानुना ॥
२६.अतस्त्वस्मात् दैवलोकात् भुवमेत्य महामुने । तीर्थयात्राचरो भूत्वा चर वर्षत्रयं क्रमात् ॥
२७.ततो निर्धूतकलुष : पुनरेष्यसि मत्सभाम् । तेनैवमनुशिष्ट : तु मुनि : कमलभूतिना ॥
२८.अवतीर्य ब्रह्मलोकात् चचार पृथिवीमिमाम् । मानसं चार्चपानीयं नरनारायणालयम् ॥
२९.हरिद्वारं गयां गङ्गां सरयूं च सरस्वतीम् । नैमिशं च कुरुक्षेत्रं साकेतं द्वारकामपि ॥
३०.अविमुक्तं च गोकर्णं श्रीशैलं पुरुषोत्तमम् । क्रमात् निषेव्य तीर्थानि मुनिरत्रितनूर्भव : ॥
३१.आससाद महाशैलं कालहस्तीति विश्रुतम् । यत्र पुण्या प्रवहति सुवर्णमुखिनी नदी ॥
३२.यत्र शम्भु : समध्यास्ते लोकानां क्षेमहेतवे । यत्र ज्ञानप्रसूनाम्बा मोक्षश्री : मोक्षकाङ्क्षिणाम् ॥
३३.तत्र स्नात्वा यथान्यायं देवमाराध्य शङ्करम् । तपश्चचार भगवान् दुर्वास : तपसां निधि : ॥
३४.जितेन्द्रिय : जितक्रोध : निराहारश्च भूपते । इत्थं तपस्यत : तस्य व्यतिचक्राम वत्सरम् ॥
३५.वरद: तस्य भगवान् आविरासीत् पुरो विभु:। शिव: --प्रीतोऽस्मि तपसा ब्रह्मन् वरं दास्यामि भूरिश:॥
३६.क्रुद्धस्यापि तवाक्षय्यं तपस्सम्यग्भविष्यति । इतो गत्वा दक्षिणाशां मलयं चन्दनालयम् ॥
३७.यत्र पुण्यद्रवा नाम नदी मुक्तामणिप्रसू : । पावयन्ती जगत्कृत्स्नं प्रयाति वरुणालयम् ॥
३८.तस्यां स्नात्वा महानद्यामर्चयित्वा विधानत : । मय्यर्पितानि पुष्पाणि भावभक्तिमथात्र वै ॥
३९.तानि ताम्रजले यत्र दृश्यन्ते कैतवं विना । तत्र मां स्थापयित्वा त्वमभ्यर्च्य विधिपूर्वकम् ॥
४०.अनपायमनुस्यूतं मनोरथमवाप्स्यसि । इत्युक्त्वा शङ्कर : तस्मै ददौ लिङ्गमनुत्तमम् ॥   
४१.प्रेषयामास भगवान् अनसूयात्मजे शिव : । इत्थं प्रसादमासाद्य मुनि : कालगिरीशितु : ॥
४२.विनिर्गत्य महाक्षेत्रात् संप्राप मलयाचलम् । बद्धाञ्जलि : प्रह्वतनु : संस्तुवन् मलयात्मजाम् ॥
४३.क्रमात् निषेव्य तीर्थानि तीरयोरुभयोरपि । प्रार्थिताभ्य्दयक्षेत्रं रोमशस्य महात्मन : ॥
४४.तं दृष्ट्वा पूजयामास रोमश : प्रीतमानस : । तत्र त्रिरात्रमुषितो मुनि : सोमानुजो मुदा ॥
४५.कार्तिक्यां कृत्तिकायोगे प्रातरुत्थाय वाक्यत : । प्रात : स्नानाय ताम्राया : तीरमाप महर्षिणा ॥
४६.तथेव पुष्पनिकरं ताम्राया : सलिले शुभे । दृष्ट्वा महामुनि : प्रीत्या प्रणम्य च पुन:पुन : ॥
४७.सूक्तै : मणिप्रसूं स्तुत्वा तत्र स्नानं चकार स : । तदा देवाश्च ऋषय : साधु साध्विति वादिन : ॥
४८.मुमुचु : पुष्पवर्षाणि ब्रह्मविष्णुपुरोगमा : । तावत् वृषभमारुह्य गौर्या सह महेश्वर : ॥
४९.वरान् प्रदात् अभद्रौघशमनैकविचक्षणान् । प्राह चैनं शिव : प्रीत्या (अत्रिसूनुम्)रोमशं मुनिपुङ्गवम् ॥
५०.महामुने तव क्वापि न तप : संक्षयो भवेत् । अत्र लिङ्गं प्रतिष्ठाप्य मामभ्यर्च्य विधानत : ॥
५१.भूय : प्राप्नुहि भद्राणि काङ्क्षितानि महामुने । त्वयात्र भक्त्या जप्तेन सूक्तेनाद्भुतरूपिणा ॥
५२.सुप्रीता दास्यति नदी चन्दनाचलकन्यका । ये पठन्ति स्तुतिमिमां तीर्थे मज्जन्ति ते नरा :
५३.लभन्ते मत्प्रसादेन पुरुषार्थचतुष्टयम् । इत्थं दत्वा वरं तस्मै देवदेव : पिनाकवान् ॥
५४.सह देवै : भृत्यगणै : प्रायात् कैलासभूधरम् । तत : प्रीतमना : भूत्वा दुर्वासा : तपसाम् निधि :
५५.लिङ्गं स्थाप्य तत्तीरे कालहस्तीश्वराह्वयम् । पूजयन् साम्बमव्यग्रमनसा शरदां शतम् ॥
५६.अद्यापि वसते राजन् सह शिष्यैर्महामुनि : । राजा --ब्रह्मन् केनैव सूक्तेन स्तुत्वा मलयनन्दिनीम् ॥
५७.स्नानं चकार दुर्वासा : तं मे शंसितुमर्हसि । शङ्ख : --महाराज प्रवक्ष्यामि रहस्यं सर्वसिद्धिदम् ॥
५८.एनं दृष्ट्वा ताम्रपर्णी तस्मै भाग्यमकल्पयत् । यदा प्रात : प्रवाहेऽस्मिन् कुसुमान्युत्थितान्यसौ ॥
५९.सदा सन्तुष्टहृदयो बद्धाञ्जलिपुटो मुनि : । जजाप परमं सूक्तं नाभिदध्नजले स्थित :
६०.दुर्वासा : --मलयाचल संभूते मलयानिलसोदरि । मरुद्वृधे महाभागे मङ्गलानि प्रयच्छ मे ॥
६१.नारायणि शिवे गङ्गे गौरीदेहसमुद्भवे । सर्वपापहरे मात : तुभ्यं नित्यं नमो नम : ॥
६२.महापापपरिप्लुष्टं देहं मम तवाम्भसा । क्षालयामि जगन्मात : मह्यम् नित्यं प्रसीद मे ॥
६३.इति सूक्तत्रयं जप्त्वा स्नात्वा तत्तीर्थवारिणा । उन्ममज्ज जलात्तस्मात् ध्यात्वा मनसि देवताम् ॥
६४.तत्प्रभावात् आविरभूत् पुरतोऽस्य महामुने : । बालातपारुणा तन्वी तपनीयविभूषणा ॥
६५.स्तूयमाना देवगणै : सिद्धै : सन्नद्धकन्धरै : । पीयूषमिव सिञ्चन्ती करुणापाङ्गवीक्षितै : ॥
६६.मन्दस्मितारुचा मुक्तामणिजालमिवाग्रत : । वीणारवोक्तवर्णेन वाचा प्राह महामुनिम् ॥
६७.श्रीदेवी --प्रीतोऽस्मि ते मुनिश्रेष्ठ सूक्तेनानेन भूयसा। ये मां स्तुवन्त्यनेनैव तेषान् कामान् ददाम्यहम् ॥
६८.तपोवृद्धिरविच्छिना तव भूयात् न संशय : । अत्रैव भवता नित्यं वस्तव्यं प्रीतये मम ॥
६९.शिष्यैरेभिस्तपोनित्यै : श्रेयस्ते भवति ध्रुवम् । त्वन्नाम्ना लक्षितं तीर्थं ये सेवन्ते तु जन्तव : ॥
७०.तेषामिष्टान् प्रदास्यामि नात्र कार्या विचारणा । इत्युक्त्वान्तर्दधे देवी ताम्रा मलयनन्दिनी ॥
७१.सोऽपि लब्ध्वा वरान् इष्टान् दुर्वासा : प्रीतमानस : । तत्रैव वसतिं चक्रे शिष्यै : सह महातपा : ॥
७२.इत्थं ते कथिता : पुण्या : कथा : दुर्वाससो मुने : । पठतां शृण्वतां चैव कामदोग्ध्री न संशय : ॥

                           इति द्विचत्वारिंशोऽध्याय : Pro.Total = 3527 + 72 =3599.

                             त्रिचत्वारिंशोऽध्याय :

                             छायातीर्थमाहात्म्यम्

१.शङ्ख : --ततोऽपि पूर्वदिग्भागे नद्याश्चैवोत्तरे तटे । छायातीर्थं प्रशंसन्ति स्मरणात् पापनाशनम् ॥
२.यत्र विद्याधरसुता तपसाराध्य पार्वतीम् । लब्धवत्याश्रमं तत्र दुर्ज्ञेयमजितात्मभि : ॥
३.महाभाग्यैकनिलयं निवसन्ती तथाश्रमम् । प्रपन्नं पालयामास पापेभ्यो ब्रह्मराक्षसम् ॥
४.राजा --कथं विद्याधरसुता तपसाराध्य पार्वतीम् । आश्रमं प्राप परमम् अक्षयाशेषमङ्गलम् ॥
५.राक्षसं पालयामास को वा केन च हेतुना । एतानि वद विस्तार्य विमृश्य करुणानिधे ॥
६.शङ्ख : --वक्ष्यामि पुण्यमाख्यानं पूर्ववृत्तान्तदर्शनम् । यस्मिन् श्रुतिभिरापूर्ये विलयं यान्ति बाधका : ॥
७.पुरा कण्डूलको नाम सांवर्तकमुनेस्सुत : । सत्यवाक् सत्यसंकल्प : ब्रह्मज्ञानविशारद : ॥
८.तपश्चचार मेधावी विन्ध्याद्रे वा नदीतटे । तावत् दुरालपा नाम विध्याधरकुमारिका ॥
९.मुनिं शुश्रूषयामास काले काले यथोचितम् । ततो वर्षसहस्रान्ते प्रीतात्मा स मुनीश्वर : ॥
१०.प्राह विद्याधरवधूमन्तिकस्थां कृताञ्जलिम् ।
   कण्डूलक : --का त्वं तरुणि कल्याणि कस्य वासि परिग्रहा ॥
११.का ते माता पिता को वा किमर्थं मामुपागता । तव शुश्रूषया तन्वि प्रीतोऽस्मि नितरामहम् ॥
१२.वरान् वरय भद्रं ते दास्यामि च मनीषितम् । इत्थं तेनानुशिष्टा सा संप्रीता प्राह तं मुनिम् ॥
१३.यक्षी --भगवन् मम वृत्तान्तं वक्ष्यमाणं मयाधुना । सावधानेन मनसा समाकर्णय सादरम् ।
१४.पुरा कुमुद्वान् नामाभूत् विद्याधरजनेश्वर : । कुलीनो धर्मविद्वाग्मी शूरो वीरजनेडित : ॥
१५.तस्याहं दयिता भार्या छायेव परिवर्तिनी । एवमावां चिरं कालं भुञ्जानौ भाग्यसंपद : ॥  
१६.कदाचित् मलयप्रस्थं प्राप्य पुष्पितकाननम् । क्रीडतोरावयोस्तत्र राक्षस : कोऽपि दारुण : ॥
१७.कृपीडो नाम शालेय : पूर्ववैरमनुस्मरन् । निहत्य मम भर्तारं स्वयं तेन हतोऽभवत् ॥
१८.भर्तारमनुगन्तं मां यत्तां वागशरीरिणी । निषेधयित्वा सान्त्वय्य त्वत्छुश्रूषणकर्मणि ॥
१९.नियोजयामास वाणी मां प्रसाद्य च पुन:पुन : । तद्विस्रम्भात् मुक्तशोका त्वामेव शरणं गता ॥
२०.मम प्रीतोऽसि भगवन् यदि दातुं वरं पुन : । त्वत्तुल्यतपसं शान्तं तनयं दातुमर्हसि ॥
२१.इति तस्या वचश्श्रुत्चा मुनि : परमहर्षित : । तव कुक्षौ महातेजा पुत्रो ब्रह्मविदां वर : ॥
२२.वर्तते नात्र सन्देह : गच्छ तन्वि निजालयम् । इति लब्ध्वा वरं देवी तं प्रणम्य मुनीश्वरम् ॥
२३.संप्रतस्थे सखीयुक्ता स्वावासाय महीपते । उवास स्वगृहे तन्वी भृशमाश्वासिता जनै : ॥
२४.तावत् वच : कुर्वन्त्यामाराधयितुमीश्वरम् । सर्वे कौतूहलधिया निर्जग्मुरमरालया : ॥
२५.इन्द्रादयो लोकपाला : सर्वे चाप्सरसां गणा : । मिलिता : दारान्तिकारै : सपुत्रज्ञातिबान्धवै : ॥
२६.सापि कण्डूलका भक्त्या तै : प्राप रजतालयम् । स्तुत्वा नत्वा महादेवं (कृष्ण)चतुर्दश्यामुपोषिता ॥
२७.प्राप्य प्रसादं श्रीकण्ठात् सर्वे जग्मुर्यथागतम् । सापि विद्याधरवधू : मुग्धा नारी कदम्बकै : ॥
२८.शिवालयात् विनिष्क्रम्य तत्परेऽहनि संभ्रमात् । तुषारशैलराजस्य दक्षिणे चित्रकानने ॥
२९.महत्स्थाणुत्वं नाम स्थानं भूतपतेर्विभो : । तत्राभ्येत्य क्षणं स्थित्वा विश्रान्ता गर्भिणी शनै : ॥
३०.मलयं प्राप शैलेन्द्रं सखीजनसमावृता । असूत तनयां तत्र चन्द्ररेखामिव प्रभाम् ॥
३१.तत : कुमारिकां दृष्ट्वा विद्याधरकुमारिका । दु;खिता प्राह तां वीक्ष्य वयस्था देवयोषित : ॥
३२.किमिदं प्राप्तमधुना विपरीतो मनोरथ : । ऋषिवाक् अपि वन्ध्याभूत् दुर्भगायां मयि ध्रुवम् ॥
३३.इत्युक्त्वा सा सखीयुक्ता निर्विण्णा निस्पृहा सती । निधाय दारिकां भूमौ जातमात्रां वनान्तरे ॥
३४.जगाम तरसा सर्गं यत्रास्ते वसतिर्निजा । ततो रुदन्तीं  तां दृष्ट्वा दयाविष्टा वसुन्धरा ॥
३५.अङ्केनादाय वै प्रादात् स्तन्यम् स्वममृतोपमम् । तत्पानात् ववृधे तावत् दशवर्षमयाकृति : ।
३६.पुष्पाङ्गीं प्राप्तचैतन्यां बुद्धिज्ञान घनोदयाम् । तां कन्यां प्राह भूदेवी स्वपुत्रीमिव संस्थिताम् ॥
३७.श्रीभूमिदेवी --वत्से जीव चिरं श्रेय : प्राप्तुमर्हसि वाञ्छितम् ।
   तव सन्तु पुरो नित्यं काङ्क्षितानि ममाज्ञया ।
३८.तत्र वस्तव्यमाराध्य भवत्या परमेश्वरी । यदा यदा मां स्मरसि तावत् तावत् शुभायते ॥
३९.आगमिष्याम्यहं प्रीत्या देवी कामदुघा यथा । इत्युक्त्वा तां मही देवी काञ्चित् विद्यां प्रदाय च ॥
४०.तिरोदधे घनच्छन्ना रेखा चान्द्रमसी यथा । प्रवालमञ्जरीतल्पे शयानां वनदेवता : ॥
४१.तन्नाम्ना चक्रिरे सर्वा : सिद्धाश्च परमर्षय : । प्रवालमञ्जरी नाम्ना सापि चक्रे तपो महत् ॥
४२.इत्थमब्दत्रये पूर्णे संप्रीता शैलकन्यका । पुर : प्रादुरभूत् तस्मिन् प्रवर्षन्ती सुधामिव ॥
४३.बालिके ते प्रसन्नास्मि वरं दातुमिहागता । मदंशभूता त्वं वत्से मामकी नात्र संशय : ॥
४४.इत : परं त्वया गत्वा ताम्राया उत्तरे तटे । कुन्दाटव्यां निवसती तप : कुरु वरानने ॥
४५.वैरोचनि : पुरा यत्र स्थाप्य लिङ्गमनुत्तमम् । पूजयामास नियमात् अप्रमत्त : पुरोधसा ॥
४६.काव्येन शरदां त्रीणि सहस्राणि समन्वित : । अवध्यत्वं परै : प्राप देवदेवात् पिनाकिन : ॥
४७.तस्मात् त्वयापि वस्तव्यं सहस्रं शरदां क्रमात् । तत्र वर्षसहस्रान्ते पुंभावं लप्स्यसे शिवात् ॥
४८.एवं ब्रुवत्यामम्बायां विस्मिता ता तपस्विनी । प्रवालमञ्जरी प्राह प्रणता परमेश्वरीम् ॥
४९.कथमम्ब भविष्यामि पुरुषो महिला स्वयम् । स्त्रिय : क्वापि न गच्छन्ति पुंभावमिति मे श्रुतम् ॥
५०.एतन्मे संशयं छिन्धि लोकमातर्दयानिधे । श्रीदेवी --श्रुणु वत्से तप:क्लान्ते कारणं कथयाम्यहम् ॥    
५१.तव मात्रा वरो लब्ध : सन्तुष्टात् मुनिपुङ्गवात् । तव कुक्षौ सुतो भूयात् इति तन्न मृषा वच : ॥
५२.तव मातुरकृत्येनाप्यनभिज्ञया पुरा । अध्वश्रमापनोदनाय प्रवेशात् स्थाणुकानने ।
५३.गर्भस्थोऽप्यर्भकस्तावत् त्यक्रपौरुषलक्षण : । ये विशन्ति वनं तावत् भवन्तु वनिता इति ।
   (अलङ्घनीया हि देवस्य मर्यादा भुवनत्रये ॥)
५४.तस्मात् त्वं पुरुष : पूर्वं स्थाणुकाननसंभवात् । नारीभूता च तदघं विजहीहि कृतोद्यमा ॥
५५.इति तच्छासनं मूर्ध्ना समादाय मणिं यथा । कुन्दाटवीं समासाद्य तपस्तेपे च सादरम् ॥
५६.सर्वद्वन्द्वसहा शान्ता संयम्य सकलेन्द्रियम् । स्नात्वा त्रिषवणं भक्त्या ताम्राया निर्मले जले ॥
५७.निनाय शरदां साग्रं सहस्रमनपायिनी । तत : कदाचित् आकाशात् अञ्जनाचलसन्निभ : ॥
५८.मुखेन विकृताकारेणानन्देन कृताञ्जलि : । लम्बमानोष्ठजिह्वाग्र : राक्षस : कोऽप्यशोभन : ॥
५९.आससाद महाघोर : पुरतोऽस्या : जरत्वपु : । हाहेति भृशमालभ्य तामुवाच तपस्विनीम् ॥
६०.राक्षस : --मात : प्रसीद कल्याणि विद्याधरकुलाङ्कुरे । प्राञ्जलिं पाहि मां दीनमनाथं पापकर्शितम् ॥
६१.परिश्रान्तोऽस्मि नितरां दुष्कर्मध्वान्तगह्वरे । दैवात् त्वां शरणं प्राप्तं पाहि मां करुणात्मिके ॥
६२.इत्थं वदन्तं पतितं पादयो : भीमदर्शनम् । दृष्ट्वा किञ्चित् भयाविष्टा व्यवष्टभ्य पुनर्दृढम् ॥
६३.प्रवालमञ्जरी प्राह सान्त्वपूर्वमिदं वच : । कस्त्वं भद्र कुत : केयमवस्था ते समागता ॥
६४.सर्वं कथय तथ्येन मयि गोप्यमिति चेत्। राक्षस : --श्रुणु वक्ष्याम्यम्ब सिद्धे मम वृत्तान्तमादित : ॥  
६५.पुरा देवयुगे देवि काश्यपान्वयवर्चस : । कौषीतक इति ख्यातो विप्रो वेदविदां वर : ॥
६६.आङ्गीरसीं समुद्वाह्य कन्यामञ्जलिकाह्वयाम् । गार्हस्थ्यं वर्तयामास विधिना स्मृतितत्ववित् ॥
६७.एवं तपस्विनो : काले तयोरासीत् तनूभव : । कुशकेतुरितिख्यात : पूर्वजन्मन्यहं किल ॥
६८.अतीत्य वेदशास्त्राणि पित्रो : शुश्रूषणे रत : । कलाजातं समस्तं मे विधेयमभवत् क्रमात् ॥
६९.विधिना विहिता तावत् भूयिष्ठा भूरि दक्षिणा । गुरुणानुमत : स्नानं कर्म निर्मितवानहम् ॥
७०.तत : पिता मे सुप्रीत : कर्तुं वैवाहिकीं क्रियाम् । उद्योगमकरोत् आप्तै : बन्धुभि : प्रीतिपूर्वकम् ॥
७१.तदा रहो निषिध्याहमुक्तवान् पितरं मम । तात कोऽयं समारंभो दारिद्रयोपहतात्मनाम् ॥
७२.अर्थसाध्यमिदं विप्र अनर्थ : करवाम किम् । तस्मात् राजानमासाद्य तोषयिष्ये बहुप्रदम् ॥
७३.आनयिष्याम्यसंख्यातमर्थं सर्वसुखप्रदम् । इति तातं समाश्वस्य मातरं च तपस्विनीम् ॥
७४.गत्वा च श्रीधरं नाम्ना राजानं मनुनन्दनम् । अर्थदं संसदि प्रज्ञां विद्यां विस्तार्य विस्मितम् ॥
७५.राजन् प्रदेहि मे वित्तं येन तृप्तिं भजाम्यहम् । इति पृष्ट : स भूपालो मया वित्तानुकाङ्क्षिणा ॥
७६.प्रादात् स्वदेहतुलितं मणिकाञ्चनसञ्चयम् । प्रतिगृह्य पुनर्गेहं निर्यातो भारमुद्वहन् ॥
७७.शनैरुत्तीर्य चाध्वानं विन्ध्यं प्राप्तोऽहमद्भुतम् । सञ्चारवान् पुन : श्रान्त : क्षुत्पिपासार्तित : पुन : ॥
७८.कस्मिंश्चित् तरुमूले वापीकूलोपकण्ठत : । न्यषीदं परं गन्तुं तदध्वानमशक्नुवन् ॥
७९.तत्र तावत् दैवयोगात् कन्या काचित् समागता । मां समीक्ष्य सस्नेहमिदं वचनमब्रवीत् ॥
८०.को भवान् नरवैदूर्य किमर्थमटवीं गत : । कन्दर्पो वाथवा देव सिद्धो वा मानुषोऽपि वा ॥
८१.त्वां दृष्ट्वा विस्मयाकारं युवानमतिसुन्दरम् । परं गन्तुं न शक्नोमि कन्दर्पशरपीडिता ॥
८२.उपेक्षसे मामिह चेत् प्राणान् त्यक्ष्ये न संशय : । इत्थं वदन्तीं तां दृष्ट्वा कामराजकलामिव ॥
८३.कौतूहलसमायुक्त : प्रोवाचमहमङ्गनाम् । अद्य कल्याणि कथय कौतुकोत्साहरूपिणी ॥
८४.ममापि वर्तते बुद्धि : तव प्रतिविधित्सया । त्वदालोकन सौभाग्यात् गतो मेऽथ परिश्रम : ॥
८५.यदाभिलषितं कार्यमावयोरस्तु कानने । इत्युक्तवति मय्येषा समागत्य शुचिस्मिता ॥
८६.समाश्लिष्य रतिं चक्रे सौख्यं स्वर्गेऽपि दुर्लभम् । एवं तस्मिन् वने देवि रममाणौ परस्परम् ॥
८७.कुलोचितानि कर्माणि वेदशास्त्रोचितान्यपि । विस्मृत्य सहकैराध्या तद्वर्गैरनुमोदित : ॥
८८.राज्ञा दत्तनि वित्तानि व्ययीभूतानि कालत : । एवं निवसतोऽटव्यां संमिल्य च वनेचरै : ॥ 
८९.मरणं चापि मे प्राप्तमाशीविष इवाग्निना । नीतो व वैवस्वतपुरं किङ्करैर्घोरदर्शनै : ।
९०.अनुभूय चिरं कालं नरकान् एकविंशतिम् । आज्ञया धर्मराजस्य ब्रह्मरक्षोऽभवं तथा ॥
९१.महेन्द्रात् दक्षिणे भागे निर्जने जलवर्जिते । क्षुत्पिपासापरिश्रान्त : शुष्ककण्ठोष्ठतालुक : ॥
९२.न पश्यामि जलं क्वापि पातुं स्वच्छन्दतोऽनघम् । पश्यामि शाखिन: स्निग्धान् फलपुष्पोपबृंहितान् ॥
९३.छायां तदापि मे वस्तुं न पश्यामि महीतले । मादृशा : बहव : सन्ति चरन्तो ब्रह्मराक्षसा : ॥
९४.ते लभन्ते क्वचित् क्वापि अन्नपानादिकान्यपि । अहो पापस्य बाहुल्यं पश्यामि परमाद्भुतम् ॥
९५.अरण्ये सन्ति पक्वानि फलमूलादिकान्यपि । तोयान्यमृतकल्पानि वापीकूपनदीषु च ॥
९६.इत्थं मया श्रान्तिजुषा दु:खिते नाटता महीम् । चतुरशीति सहस्राणि अष्टौ पञ्चशतान्यपि ॥
९७,वर्षाणि वातवर्षाणां सहमानेन केवलम् । व्यतीतानि विनाहारै : पानीयैश्च समन्तत : ॥
९८.बहुना किं प्रलापेन श्रुणु मात : तपस्विनि । केन वा कारणेनापि क्रौर्यं मे हृदयं कथम् ॥
९९.अज्ञानमतिरौद्रत्वमपयातं हृदि स्थितम् । पूर्वजन्मस्मृतिर्जाता केन वा पुण्ययोगत : ॥
१००.पूर्वेषु च यथा जाता क्षुद्घोरा बलशालिनी । सुप्तोत्थित इवारण्यं पश्यमान : समन्तत : ॥
१०१.त्वामग्रे परिपश्यामि जननीमिव संस्थिताम् । शरणं त्वां प्रपन्नोऽहं पापान्मोचय मामिह ॥
१०२.येन केनाप्युपायेन त्राहि मां दु:खसागरात् । इति ब्रुवाणं पतितं पातयो : भयविह्वलम् ॥
१०३.प्रसादपूर्वं प्राहेदं विस्मिता ब्रह्मराक्षसम् । पश्यन्ती कृपया चैनं विद्याधरवधूरियम् ॥
१०४.प्रवालमञ्जरी --भद्र मास्तु मन:खेदो माविषादमुपैहि च ।इत: परं विधास्यामि श्रेयसे तव केवलम् ॥
१०५.एतत् हि परमं क्षेत्रं दयितं तु हि दुहितुर्गिरे : । तयाद्र स्थापितो लिङ्गो लोकमात्रा पुरातन : ॥
१०६.अद्यापि लोकरक्षायै जागर्ति भगवान् शिव : । अत्र तीर्थे महापुण्ये गौरीसन्तोषणाय हि ॥
१०७.आविर्भूतानि तीर्थानि कोटिश : शंभुशासनात् । एषा पीयूषधाराख्या चन्दनाचलकन्यका ॥
१०८.गङ्गादिभिर्नदीमुख्यै : प्रत्यहं सेव्यते मुदा । अत्र शैलेन्द्रदुहितु : वक्षोजघटसङ्गिना ॥
१०९.संयोगात् कुङ्कुमेनैतत् सानुरागमिवस्थितं । पश्य तीर्थवरं पुण्यं दर्शनात् भुक्तिमुक्तिदम् ॥
११०.अत्र छाया जले यस्य बिम्बता दृश्यते यदा । तदा निर्धूतकलुषो जायते जन्तुरञ्जसा ॥
१११.इति मह्यं पुरा गुप्तं कथितं शैलकन्यया । छायासंयोगत : तीर्थे तव पपो विनाशित : ॥
११२.मया सह महातीर्थे स्नानं कुरु विधानत : । अत्रैवाराधयन् नूनं पूतात्मा त्वं भविष्यसि ॥
११३.इत्युक्त्वा राक्षसं देवी विद्याधरवधू : स्वयम् । तमेनं स्नापयामास तस्मिन् तीर्थे दयावती ॥
११४.प्रणाममाचरत् शंभो : अग्रत : त्राहि मामिति । शिवं प्रदक्षिणीकृत्य शिवेति शिवसन्निधौ ॥
११५.पपात गिरिसंकाशो राक्षसो घोरदर्शन : । मूर्धानं च विनिर्भिद्य किञ्चित् तेजस् समुत्थितम् ॥
११६.देवरूपवपोच्चै : कोटिकन्दर्पलक्षणम् । आजग्मुरखिला देवा : हरिनारायणादय : ॥
११७.मुञ्चत : पुष्पनिकरं स्तुवन्तश्च महेश्वरम् । सिद्धचारणगन्धर्वयक्षविद्याधरोरगा : ॥
११८.दिदृक्षवो भूतगणा : मुनयो नारदादय : । विमानैर्निबिडं व्योम भूतैरन्यैर्महीतले ॥
११९.एतस्मिन्नन्तरे तस्मात् महालिङ्गात् उमापति : । आविर्बभूव पार्वत्या कोटिसूर्यसमद्युति : ॥
१२०.गङ्गाधर : शशिधर : वृषारूढ : पिनाकधृत् । सानुकम्पं समभ्येत्य विद्याधरसुतामिमाम् ॥
१२१.पस्पर्श पाणिभि : प्रीत्या शन्तमै : धरणीपते । नारीभावं ततो मुक्त्वा पश्यतां सर्वदेहिनाम् ॥
१२२.षोडशाब्दवया : राजन् पुमानासीत् मणिप्रभ : । हा हेति तत्र गीर्वाणा : सिद्धाश्च परमर्षय : ॥
१२३.नेदुरुच्चैर्स्मयाविष्टा : सन्तुष्टाश्च बभूविरे । त्यक्तस्त्रीभावकालुष्यात् प्राप्तपुंस्त्वेन शोभन : ॥
१२४.तुष्टाव परमेशानं बद्धाञ्जलिपुट : स्थित : । द्वैतीभूय जगत् पाति तस्मै पूर्णाय ते नम : ॥
१२५.पुरातनाय पुण्याय पुरुषार्थप्रदायिने । पुरान्तकाय भूतानाम् पतये स्थाणवे नम : ॥
१२६.एकत : पुरुषाकारमेकत : महिलात्मकम् । प्रपञ्चपितरं वन्दे वन्दे विश्वैकमातरम् ॥ 
१२७.क्वचित् कर्बुरवर्णाय क्वचित् कुङ्कुममूर्तये । नीलग्रीवाय देवाय निष्कलाय नमो नम : ॥
१२८.त्वमादौ रजसाविष्ट : सत्वेनासौ जगत्स्थिति : । त्वमेवान्ते तु तावात्मन् त्वामहं शरणं गत : ॥
१२९.त्वामाहु : श्रुतय : सत्यमव्यक्तं व्यक्तमेव च । तस्मात् त्वां जगदाधारं प्रणतोऽस्मि सदाशिवम् ॥
१३०.तत्तत्कर्मफलप्राप्त्यै यदाज्ञारूढमौलिन : । ब्रह्माद्या : सकला : देवा :  तस्मै पूर्णात्मने नम : ॥
१३१.नमश्शिवाय शान्ताय नमस्सोमार्धधारिणे । नमस्सकलकल्याणसौभाग्यामरशाखिने ॥
१३२.शेखरीकृतपीयूषनिधये निधये नम : । यदेकममलं ब्रह्मनिर्गुणं परमाद्भुतम् ॥
१३३.नम : पराय सर्वेषां भास्कराय नमो नम : । इत्थं स्तुवन्तं प्रणतं कृताञ्जलिमुपस्थितम् ॥
१३४.पुन : प्राह महादेव : प्रणतार्तिप्रभञ्जन : । वत्स धर्मभृतां श्रेष्ठ श्रेष्ठ : त्वमसि देहिनाम् ॥
१३५.स्तोत्रेण तपसा चैव प्रीतोऽस्मि नितरामहम् । तव नित्या तु गान्धर्वविद्या कौतूहलावहा ॥
१३६.तव सन्त्वक्षया भोगा : सर्वलोकेषु सर्वदा । त्वया यत् द्रोहत : पापात् राक्षसत्वात् विगर्हित : ॥
१३७.सखा ते भविता नित्यं यावदाभूमिसंप्लवम् । सायुज्यं युवयोरन्ते दास्याम्यहमसंशयम् ॥
१३८.त्वां दृष्ट्वा प्राप्तमुंभावं ब्रह्माद्या सकलास्सुरा: । हा हेति विस्मयात् प्रोचु : तस्मात् हाहेति नामवान् ॥
१३९.पूज्यमानैस्समस्तैस्वं त्वं गन्धर्वो भविष्यसि । अविच्छन्नोऽनुहार्दत्वात् अविमुक्त : सुहृत्तया ॥
१४०.हूहू नाम सखा तेऽस्तु तुल्यभोग स्वयंसख : । अत : स्नात्वा महातीर्थे मां पश्यन्ति सकृन्नरा : ॥
१४१.ते भुक्त्वा चिरं भोगान् अन्ते मां यान्तु केवलम् । इत्युक्त्वान्तर्दधे देवे तौ च देवैरभिष्टुतौ ॥
१४२.विमानवरमारूढौ समायातौ सुरालयम् ।
    इत्थं कथामखिलकल्मषमोहहन्त्रीं पुण्यां शिवां पुरहरस्य च तीर्थमूर्ते : ।
    शृण्वन् पठन् अपि दिनेषु महोदयेषु निर्मुक्तपापकलुषो भवतीह मर्त्य : ॥

                           इति त्रिचत्वारिंशोऽध्याय :    Pro.Total = 3599 + 142 =3741.

                             चतुश्चत्वारिंशोध्याय :

                             ज्योतिर्वनमाहात्म्यम्

१.इत्थं निगद्य धर्मात्मा शङ्खयोगी महीभुजे । कथां कर्णैकपीयूषां दोषापायधुरन्धराम् ।
२.भूयो राजानमाभाष्य पुनर्वक्तुमुपचक्रमे । पुरा वृत्तमाख्यानं पुण्यानामिव कन्दलम् ॥
३.शङ्ख ; --श्रुणु राजन् प्रवक्ष्यामि पुरा वृत्तां कथामिमाम् । श्रृण्वतां पठतां चापि पुरुषार्थोदयावृताम् ॥
४.पुरा देवयुगे देवी देवदेवस्य वल्लभा । उमा कदाचित् कैलासे कनकोज्ज्वलमण्डपे ॥
५.संस्थिताङ्गे महेशस्य भक्तानां दर्शनं ददौ । तदा पाण्ड्यमहीपस्य तपसा तुष्टमानसा ॥
६.देवं विज्ञापयामास अवस्थां पाण्ड्यभूपते : । देवेदानीं परिश्रान्ते भक्ते पाण्ड्यमहीभुजि ॥
७.अविलम्बं प्रदातव्यं काङ्क्षितं परमेश्वर । इति देव्या वच : श्रुत्वा स्मयमानो महेश्वर : ॥
८.व्याजहार पुनर्देवीं भक्तानां हितकाम्यया । लोकमात : श्रुणुष्वात्र त्वमेव जगतां प्रसू : ॥
९.त्वयैवाभिमतो देयो भूपतेरस्य भामिनि । पुत्रीभूता त्वमस्यैव श्रेय : कुरु कुलोचितम् ॥
१०.अहं त्वामुपयास्यामि तव प्रीति विधित्सया । इत्यादिष्टा भगवता मलयध्वजभूपते : ॥
११.कन्या तटातका नाम्ना संजज्ञे साप्ययोनिजा । त्रिस्तनी दिव्यसौभाग्यशीलोदारगुणान्विता ॥
१२.साध्वीं राजपदे चक्रे स भूपाल : प्रहृष्टवान् । अभ्षिच्य सुतां बालामनपत्याघसञ्चयात् ॥
१३.विमुक्तोऽप्यटवीमेत्य ततस्तप्त्वा सुदारुणम् । समियाय चिरेणैव शिवसायुज्यमञ्जसा ॥
१४.सैषा बालापि सर्वज्ञा राजसिंहासनस्थिता । शशास वसुधां कृत्स्नां पारावारवरां पराम् ॥
१५.विजित्य लोकपालान् च महेन्द्रवरुणादिकान् । यत्प्रतापाग्निसंतप्ता भूपाला भीतिसंप्लवे ॥
१६.निमज्जन्त : करं दत्वा जीवनं यापयामासु : । यदालोकनलेशेन तिरोधत्ते पयोधर : ।
१७.स पतिर्भविता तस्या इति वागाह पुष्करात् । इति निश्चित्य सा कन्या विजित्य भुवनत्रयीम् ॥
१८.कैलासकटके देवं समालोक्य पिनाकिनम् । तृतीयस्तनहीनाभूत् चकमे तां च शङ्कर : ॥
१९.तामुद्वाह्य महादेवो मधुरायां महेश्वर : । नाम्ना सुन्दरपाण्ड्योऽभूत् कामराज इवापर : ॥
२०.तस्यां तस्य च पुत्रोऽभूत् स्वयमेव षडानन : । श्रिया बलेन च बुध्या च नाम्ना श्रीबलधिर्महान् ॥
२१.स शास्त्राणामागमानां निगमानां च पारग : । पित्रो : शुश्रूषणं चक्रे विनयाचारसंपदा ॥
२२.सोऽयं लब्ध्वा तपश्शक्त्या शाम्भवं लैङ्गमद्भुतम् । ज्योतिर्वने स्थापितवान् सनकस्यानुशासनात् ॥
२३.चिरन्तनीं कथां श्रुत्वा निर्मलाभ्युदयोज्ज्वलाम् । अनुग्रहात् आदिपित्रो : अर्चयामास तत्र हि ॥
२४.तदादि तद्वनं लोके प्रशस्तमभवत् विभो । तत्प्रीतिं कुर्वतोरादिपित्रोस्सान्निध्यगौरवात् ॥
२५.तद्वनं श्रवणात् एव महापातकनाशनम् । ये पश्यन्ति तत्क्षेत्रं ते स्युर्मुक्ता न संशय : ।
२६.तत्र ब्रह्ममयं ज्योति : जागर्त्याभूत संप्लवम् । यत्रेन्द्राय महज्ज्योतिं दर्शयामास शङ्कर : ॥
२७.उन्मादरोगान्मुक्तोभूत् यत्र नन्दो महीपति : । पुत्रवात्सल्यसंपन्ना गौरी प्रादुरभूत् जलात् ॥
२८.तदादि गौरीतीर्थं तत् तत्र नाम्ना प्रशस्यते । दुर्वासशापात् निर्मुक्ता तत्रैव हि सरस्वती ॥
२९.वृषो नाम पुरा यक्षो स्तेन(स्वेन) शापात् वृषाकृति : । यत्र क्षेत्रदर्शनादेव भूय : स्वं रूपमवाप्तवान् ॥
३०.तस्मात् तत्क्षेत्रमाहात्म्यं राजन् वाचामगोचरम् । मया वर्षशतेनापि वक्तुं नालं हि विस्तरात् ॥
३१.इति तद्वचनं श्रुत्वा क्षेत्रमाहात्म्यसंप्लुतम् । स वीरसेनो भूजानि : प्रत्युवाच मुनीश्वरम् ॥
३२.राजा --भगवन् योगिनां श्रेष्ठ सर्वज्ञ करुणानिधे । मयि प्रसीददात्यर्थं त्वत्पादाब्जावलम्बिनि ॥
३३.अपारमहिमाधारे क्षेत्रे ज्योतिर्वनाह्वये । दृश्यन्ते देवदेवस्य लीलावैशिष्ट्यसंपद : ॥
३४.उग्रश्रीवलधि : श्रीमान् राजा पाण्ड्यकुलोद्भव : । कथं मेघात् महालिङ्गं लब्धवान् परमाद्भुतम् ॥
३५.कथं वा स्थापयामास महायोगीन्द्रशासनात् । कथमिन्द्रो महद्धाम ददर्शानुग्रहात् प्रभो : ॥
३६.शापग्रस्त : कथं यक्ष : पशुरूपात् विमोचित : । सरस्वती कथं मुक्ता मुनिशापात् सुदारुणात् ॥
३७.पार्वती पुत्रवात्सल्यात् सान्निध्यं विदधे कथम् । एतानन्यानि विस्तार्य कथय त्वं महामते ॥
३८.विचित्रं तत्र पश्यामि चरितं शूलपाणिन : । इत्थं राज्ञा भक्तिभारप्रणम्रमणिमौलिना ॥
३९.संपृष्ट : स महायोगी हर्षरोमाञ्चविग्रह : । प्रशस्य भूयो राजानं व्याजहार कथामिमाम् ॥
४०.शङ्ख : --अस्तु भद्रमनुस्यूतधर्ममार्गविहारिण : । तव प्रीतोऽस्मि नितरामनर्गलधिया विभो ॥   
४१.त्वदन्तर्वृत्तिकलिकामभिज्ञातुमिवाधुना । कथा सङ्कुचिता भूरि विस्तरा सागरोपमा ॥
४२.चित्तवृत्तिरभिव्यक्ता तवादर्शोपमामला । धर्मादन्यत्र च्यवते कौमुदीव निशाकरे
४३.अतिगोप्यमनर्हेभ्य : पुरा वृत्तान्तमीदृशम् । सत्पात्रे त्वयि वक्ष्यामि नात्र कार्या विचारणा ॥
४४.कुलीनता सदाचारसंपन्नत्वमवक्तता । ब्रह्मण्यता विवेकत्वं त्वयि धत्ते समाजताम् ॥
४५.सन्तुष्टोऽस्मि महाराज श्रद्धया तव केवलम् । वक्ष्यमाणं महाराज इतिहासकथामिमाम् ॥
४६.संभावय महाराज श्रोत्रयोरथितिं पदे । कथेयं कलिकालुष्यकलना कर्मनिर्मदा ॥
४७.धर्ममार्गैकसञ्चारसाचिव्यमणिदीपिका । अपारनरकद्वारपिधानकरवालिका ॥
४८.सम्पदागमनैकान्तवर्धनी ध्वस्तकण्टका । श्रुणु राजन् कथामेनां पुण्यां कोऽपि वनेचर : ॥
४९.अन्धोऽपि भूय : संप्राप लोचने दीर्घदर्शने । एतामद्भुताकारां श्रुणु नान्येन चेतसा ॥
५०.पुरा लोकहितार्थाय भगवान् परमेश्वर : । उपयम्य विधानेन पाण्ड्यकुमारिकाम् ॥
५१.तस्यामुत्पादयामास पञ्च पञ्चास्यविक्रमान् । सुतान् विद्यासु निपुणान् सोमसूर्याग्निवर्चस : ॥
५२.सर्वश्रेष्ठो महाराज यथा रत्नेषु कौस्तुभ : । उग्रश्रीवलधिर्नाम प्राणताशेषभूपति : ॥
५३.यमेनं कथयन्त्यद्धा साक्षात् क्रौञ्चान्तकारिणम् । तस्यानुजो वज्रधर्मा नाम्ना लोकेषु गीयते ॥
५४.तमेनं परिशंसन्ति साक्षात् नन्दीश्वरं सुरा : । तृतीयो तनयो राज्ञो सौदासो नाम नामत : ॥
५५.माणिभद्रं प्रशंसन्ति प्रमथानामधीश्वरम् । तस्यानुज : कुम्भकेतु : प्रशस्तो वीरसंमत : ॥
५६.वीतिहोत्रां च संभूतं तमेनं मुनयो विदु : । सोमा(शत)धामाभवत् तेषां मनुज : तुल्यविक्रम : ॥
५७.येन लोकमिदं सर्वं क्षेमयुक्तमभूत् पुरा । शिवयो : प्रीतिमातन्वन् अवतीर्णा हि चन्द्रमा : ॥
५८.इत्थं सुहृत्सु वीरेषु प्रशस्तेषु पराक्रमै : । प्रहर्षमतुलं लेभे देवदेवश्च पाण्ड्यराट् ॥
५९.वपुषा पुष्पधन्वानं वपुषा प्राप्तयौवनम् । तेजसा सूर्यसंकाशं धिषणं प्राप्तविद्यया ॥
६०.समाहूय सुतं ज्येष्ठं सुन्दराख्यो महीपति : । यौवराज्येऽभिषिच्यैनं सुमेरो : दक्षिणापथे ॥
६१.द्वितीयं पश्चिमे देशे तृतीयं चोत्तरापथे । तुरीयं पूर्वभागे च कृत्वा सन्तुष्टमानस : ॥
६२.कैलासात् दक्षिणे भागे शतश्रृङ्गाख्यभूतले । मध्ये जनपद : पुण्य : सर्वभाग्यसमृद्धिमान् ॥
६३.तप्तचामीकरमयी महामाणिक्यशर्करा । दिव्योद्यानगुणोपेता नानानगरमण्डिता ॥
६४.तन्मध्ये कौतुकाभिख्या नगरी योजनायता । चम्पावती शतह्रादा त्रिस्रोता च सरस्वती ॥
६५.एता : पीयूषसलिला : प्रवहन्ति समन्तत : । यत्र जीवन्ति मनुजा वर्षाणामयुतं क्रमात् ॥
६६.तद्राज्ये शतधामानं राजानमकरोत् विभु : । एवं निधाय भूभारं पुत्रेषु गुणशालिषु ॥
६७.अवात्सीत् सह धर्मिण्या मधुरायां महीपति : । इन्द्रादिभिर्लोकपालै ; प्रत्यहं परिपूजित : ॥
६८.बुभुजे विषयान् भौमान् उमया सह शङ्कर : । अथ श्रीवलधि : पाण्ड्यो धर्मात्मा पितृसंमत : ॥
६९.मणलूरुपुरं प्राप्य महाभोगसमृद्धिमान् । विनीतैश्च स्वसामन्तै : राजधर्मपरायणै : ॥
७०.सूक्ष्मार्थवेदिभि : स्निग्धै : आत्मभक्तैर्महाकुलै : । विस्मित : पालयामास त्रिलोकीं मघवा यथा ॥ 
७१.कदाचित् आस्थानमस्य देवर्षिर्नारदो महान् । तत्र संभावितस्तेन राजानमिदमब्रवीत् ॥
७२.वत्सायुष्मन् महाभाग शूरोऽसि बलवान् असि । त्वय्येव धर्मो नीतिश्च सौमनस्यं वदान्यता ॥
७३.आलोकालोकमास्वर्गमापातालान्तरालकम् । त्वत्कीर्तिसंपद : पुण्या : श्रूयते पठिता जनै : ॥
७४.तस्मात् त्वां वासवो राजा काङ्क्षन् मैत्रीपदं विभु : । स्पृहयत्यन्वहं श्रेय : तस्मात् नूनं भविष्यति ॥
७५.तारकाख्यस्य दैत्यस्य नप्ता कुण्डोदराह्वय : । नष्टेष्वशेषदैत्येषु तारकाख्येषु भूपते ॥      
७६.हतशेषो भयाविष्ट : कान्तिशीकत्वमागत : । मानसोत्तरमासाद्य गुहायां ववृधे बली ॥
७७.भार्गवस्योपदेशेन तपसाराध्य शङ्करम् । अवध्यत्वं सुरै : प्राप्य समुद्वेजयते सुरान् ॥
७८.तदुपद्रवविद्धस्य सर्वसौभाग्यविभूतय : । नितरां सुखिनो नैव हेमन्तनलिनी यथा ॥
७९.तस्मात् त्वया पालनीया बलिना त्रिदिवौकस : । तव श्रेयांसि भूयांसि भवन्त्येव न संशय : ॥
८०.इत्युक्तवति देवर्षौ पुष्करात् इन्द्रचोदित : । मातलि : समधिष्ठाय विमानं काञ्चनारुणम् ॥
८१.आविर्बभूव सहसा प्रत्यूषे भानुमान् इव । स राजसूनुमासाद्य जय जयेति कीर्त्यन् ॥
८२.प्राह प्रसन्नवदन : यथेन्न्द्रेणानुशासितम् । मातलि : --पाण्ड्यराजकुलोत्तंस कुमार जयतां गुरो ॥
८३.त्वामिन्द्र : प्राह सौहार्दात् देव : कुशलमब्रवीत् । त्वया वयं स्वर्गभुज : जीवाम : खलु शत्रुहन् ॥
८४.कुण्डोदरभयात् अस्मान्(त्) त्राता मा ते विडम्बनम् । एतत् विमानमारोह वर्म चेदं गृहाण भो ॥
८५.अनेन धनुषा बाणै : अमोघै : वज्रसन्निभै : । शक्त्या चैवानया क्षिप्रं त्वं हत्वा दानवं रणे ॥ 
८६.जयलक्ष्म्या च समायुक्त : पुनरेष्यस्यसंशयम् । इति श्रुत्वा वचस्तस्य प्रीत : श्रीवलधिर्नृप : ॥
८७.तथेति प्रतिश्रुत्य चोदयामास मातलिम् । गृहीतधनुरापत्य तूणीराक्षयसायकौ ॥
८८.शक्तिपाणि : प्रसन्नात्मा समारोहत् प्रतापवान् । अथोत्पपात वेगेन स्यन्दनो व्योपवर्त्मना ॥
८९.संप्राप्य भानुपदवीं प्रतस्थे वारुणीं दिशम् । अतीत्य भारतं देशं उल्लङ्घ्यलवणार्णवम् ॥
९०.प्लक्षादीन् अन्तद्वीपान् च सागरं च महीपते । दधिमण्डोदधिं तीर्त्वा पुष्करं तीर्थमण्डलम् ॥
९१.अनेकशतसाहस्रं योजनायातमण्डितम् । आससाद स भूपाल : समृद्धनगरीं पुरीम् ॥
९२.विभजन् इव मध्येन पुष्करद्वीपमण्डलम् । यं प्रशंसन्ति सूर्यस्य बहुमान्य च मातलिम् ॥
९३.नारदं प्रणिपत्याग्रे सभ्यान् आमन्त्र्य सान्त्वयन् । रथं प्रदक्षिणीकृत्य व्याजहार तदा गिरा ॥
९४.महामहीधरं नाम मानसोत्तरमद्भुतम् । तत्राभ्यन्तरभागे तु मयमाया विनिर्मिता ॥
९५.गुहा परमविस्तीर्णा दुष्प्रवेशा सुरासुरै : । तच्छरानलसन्तप्ता दानवास्ते बिलोदरात् ॥
९६.निर्जग्मु : कोटिसङ्ख्याका : सायुधा : सपरिच्छदा :। असङ्ख्यातैर्हयैर्मत्तै : मातङ्गै : स्यन्दनैरपि ॥
९७.पादातै : सर्वथाक्रान्तै : छादयन्तो महीतलम् । अष्टाष्टपूर्वमत्युग्रं जन्यमासीत् जनक्षयम् ॥
९८.ववर्ष शरवर्षाणि दैत्या : पाण्ड्येन्द्रनन्दने । शक्तिगदामरभुशुण्डिं च भिण्डिफालपरश्वधान् ॥
९९.शतघ्नीशूलकुन्देषून्युगपत् चिक्षिपुर्मृधे । स राजसूनुर्बलवान् स्मयमान इव क्षणात् ॥
१००.नाशयित्वा स्वशस्त्रै : च बाणैराशीविषोपमै : । महानारायणास्त्रेण दैत्यसैन्यं क्षणादिव ॥
१०१.भस्मसात् अकरोत् रक्ष : मातलिं संप्रहर्षयन् । स्वबले संक्षयं प्राप्ते स दैत्यो राजसूनुना ॥
१०२.निर्बिभेद शरैस्तीक्ष्णै : सूर्यवैश्वानरोपमै : । युयुधे चास्त्रशस्त्रौघै : अमोघैर्मर्मभेदिभि : ॥
१०३.तत्सर्वं शमयामास रौद्रास्त्रेण स्मयन् इव । आग्नेयेन तदास्त्रेण यन्तारं स जघान ह ॥
१०४.धनु : छित्वा हयान् हत्वा विरथीकृत्य दानवम् । शक्तिमादाय चिक्षेप तस्मै दैत्याय पाण्ड्यराट् ॥
१०५.सा शक्ति : तत्करान्मुक्ता द्योतयन्ती नभ:स्थलम् । संजहारास्य मूर्धानं शैलात् इव घनं मरुत् ॥ 
१०६.एवं निपतिते दैत्ये सभृत्यबलवाहने । सर्वे मुमुदिरे देवा : सेन्द्रा : सर्पनगोरगा :॥
१०७.मुञ्चन्त : पुष्पवर्षाणि स्तुवन्तो राजनन्दनम् । अभिजग्मुर्विनिहते सर्वदेवविरोधिनि ॥
१०८.इन्द्र : तं प्राप्य सानन्दम् समाश्लिष्य मुहुर्मुहु : । व्याजहार वच : प्रेम्णा उग्रश्रीवलधिं तदा ॥
१०९.महावीर त्वया सर्वे पालिता सुमहत् भयात् । त्वया मित्रेण नित्येन सौख्यं विन्दामहे वयम् ॥
११०.त्वयैव तारकाद्या : च विनष्टा : पूर्वजन्मनि । इदानीमपि तच्छेषं विहितं दैत्यनाशनम् ॥
१११.तस्मात् त्वां सुहृदं प्राप्य स्वर्गिण : सुखभोगिन : । तस्मात् वयमिहाभीष्टं कर्तुं काङ्क्षामहे तव ॥
११२.यत्ते मनोरथम् मत्त :प्रीत्या प्राप्नुहि भूपते । पूर्णकामस्य ते नूनं कर्तुं काङ्क्षन्यमी सुरा : ॥
११३.बह्वप्यण्डतरं वापि प्रीत्या दत्तं हि साधव : । प्रतीच्छन्ति महाभाग नदीतोयमिवार्णव : ॥
११४.श्रीवलधि : --देवराज दयासिन्धो तवैतत् उचितं खलु।त्वत्प्रसादेन जीवन्ति त्रयो लोका: सनातना: ॥
११५.योगक्षेमेण युष्माकं प्रहृष्यामि न संशय : । तथापि तव हर्षाय त्वद्दत्तं वरमञ्जसा ॥
११६.प्रीतिपूर्वं प्रगृह्णामि सुहृत् त्वमनुपालय । येन तुष्यन्ति गीर्वाणा : यदन्ते तत्र मानवा : ॥
११७.देवेषु तेषु तुष्टेषु स्वयमायान्ति संपद  : । तस्मात् प्रियतरं कर्म भूयस्ते कर्तुमुत्सहे ॥
११८.भूतेषु च दया नित्या शिवे भक्तिश्च शास्वती । ब्रह्मण्यता वदान्यत्वं प्रार्थनीयानि अमूनि मे ॥
११९.एतत् एव महाराज युष्माभि : करुणा यदि । क्रियते सततं तस्मात् श्रियं काङ्क्षो न मे क्वचित् ॥
१२०.इति ब्रुवति राजेन्द्रे नन्दने लोकनन्दने । तथास्त्विति समाभाष्य सह देवै : शचीपति : ॥
१२१.सह मातलिना भूय : प्रस्थाप्य प्रीतिपूर्वकम् । ऐरावतं समारूढ : समीयाय शतक्रतु : ।
   पुरीं पुलोमजायुक्त : सह देवै : मरुद्गणै : ॥
१२२.तत : प्रहृष्ट : स नृपात्मजो बली समास्थितो मातलिना रथोत्तमम् ।
    गतक्लम : पुष्करवर्त्मना सुतो नभश्चरै : सिद्धगणैश्च किन्नरै : ॥
१२३.अतीत्य पन्थानमह:पतेरत : प्रभृत्यमेतावलिमेत्य भूतले ।
    प्रविश्य हालास्यमथाबिवाद्य आसाद्य पित्रो : चरणाम्बुजद्वयम् ॥

                          इति चतुश्चत्वारिंशोऽध्याय :     Pro.Total = 3741 + 223 = 3964.

                            पञ्चचत्वारिंशोऽध्याय :

      ज्योतिर्वनमागत्य स्नात्वा शिवाराधनं कुर्वत : भगस्य नष्टनयनयुगल : प्राप्ति :

१.अथ सुनरपाण्ड्योऽपि दण्डितारि(अराति)मण्डल : । मुमुदे तनयं दृष्ट्वा निशाकरमिवार्णव : ॥
२.समुत्थाप्य सुतं दोर्भ्यामङ्कमारोप्य संभ्रमात् । समाघ्राय च मूर्धानं षट्पद : कुसुमं यथा ॥
३.अघ्रायाघ्राय सौहार्दात् न तृप्तिमुपजग्मिवान् । उभयोरङ्गसंसर्गात् सौख्यस्यैवान्तरं यथा(तथा) ॥
४.समूहे सन्ततोदञ्चत्रोमाञ्च : पुष्पितैरिव । सर्वसाम्राज्यसौभाग्यपदे भाविनि भूपति : ॥
५.अभ्यषेचयत् आनन्दबाष्पपूरैरिवात्मजम् । सर्वे सभास्थ : तत्र प्रेमवैक्लव्यमिशितु : ॥
६.सर्वे मुमुदिरे हृष्टा : नीपा इव घनागमे । अथ भूपतिराहूय मातलिं चेन्द्रसारथिम् ॥
७.बहुमान्य समायुक्तं वाक्यमेतत् उवाच ह। सुन्दरपाण्ड्य : --मातले भवता साधु कार्यमेतत् अनुष्ठितम् ॥
८.अपि कुण्डोदरं दैत्यं दानवं जितवानसि । इन्द्राय कुशलं ब्रूहि देवेभ्योऽपि विशेषत : ॥
९.प्रणामं ब्रूहि गुरवे जीवाय यदनुष्ठितम् । आवयोरस्तु सौहार्दमाकल्पमनपायवत् ॥
१०.इत्थं प्रशस्य तं सूतं सुन्दरे  शमहीपति : । स्वर्गं प्रस्थापयामास संभाव्य मणिकाञ्चनै : ॥  
११.विसर्जयित्वा सभ्यान् च मन्त्रिण : यथोचितम् । अन्त:पुरं कुमारेण स्वयमाप समृद्धिमत् ॥
१२.तत : श्रीवलधि : प्रीत्या मातरं लोकमातरम् । विनयेनोपसंप्राप्य पादयोरभ्यवादयत् ॥
१३.सा तमागतमालोक्य चिरात् इव निजात्मजम् । अभ्यनन्दत् समाश्लिष्य स्नेहस्नुतपयोधरा ॥
१४.असुरास्त्रसमालीढमङ्गमप्यङ्गजन्मन : । पश्यन्ती परितापार्ता सौहार्दात् इदमब्रवीत् ॥
१५.तत : किन्ते वपु : क्लान्तं सुकुमारं सुमादपि । कथं सोढासि शस्त्राणामसुराणां महौजसाम् ॥
१६.एतानि व्रणजालानि त्वदङ्गस्थानानि पुत्रक । तुदन्त्यन्तर्मनो मह्यं बडवाग्निरिवार्णवम् ॥
१७.कथमासीत् तव रणं बालकस्य महाबलै : । जितवानसि तान् दैत्यान् केनोपायेन वार्भक ॥
१८.इत्थं मुहुर्मुहु: पृष्ट्वातिवेलं विलोक्य सा । शुशोच राजमहिषी गौरिवालोक्य तर्णकम् ॥
१९.इत्थं व्याकुलचित्ताया जनन्यां राजनन्दन : । प्रत्युवाचाञ्जलिं मूर्ध्ना पद्मकोशमिवोद्वहन् ॥
२०.अनुग्रहात् पितुर्मातुरपि प्राप्य महारणम् । नैवोद्विजन्ति मर्माणि तेषामस्त्राणि पुष्पवत् ॥
२१.पातिताश्च महादैत्या : निश्शेषा : सपरिच्छदा : । किन्तुर्मर्माणि मातर्मे त्वद्वियोगानलावली ॥
२२.व्यथयत्यशनिप्रख्या : दुर्बलं बलवान् इव । इति पुत्रवच : श्रुत्वा स राजा सुन्दरेश्वर : ॥
२३.परिरभ्य पुन : पुत्रं मन्दमामर्चयत् गुरु : । वितीर्य कवचं तस्मै पुत्रायाभ्येत्य मन्त्रिभि : ॥
२४.तात मा शोकमोहाभ्यां वियोगो भविता न ते । त्वदन्तिके वसिष्यामि सन्ततं जननी च ते ॥
२५.एनां पश्यसि सुस्निग्धां मातरं पितरं सुत । तथा करिष्ये गन्तव्यं स्वपुरं बन्धुभिस्सह ॥
२६.इत्थं सन्तोष्य तनयं दिव्याम्बरविभूषणै : । प्रेषयामास मालेयीतीरभूमिं सुशोभनाम् ॥
२७.मात्रा पित्रा च सौहार्दात् संपरिष्वजय नन्दित : । कृताञ्जलि : संप्रतस्थे पितरौ प्रणिपत्य स : ॥
२८.देवसूते दिवं प्राप्ते सवाहनपरिच्छद: । मणलूरुपुरं प्राप्य निवासमकरोत् विभु : ॥
२९.कदाचित् आस्थानगतमासने परमाद्भुते । उपतस्थुर्महात्मानं मन्त्रिणो मुनयस्तदा ॥
३०.श्रेणीमुख्या : च सामन्ता : पौरजानपदा अपि । श्वेतच्छत्रसमायुक्तं चामराभ्यां च शोभितम् ॥
३१.तुष्टुवुस्संस्तवै : पुण्यै : सूतमागधवन्दिन : । धर्मेण पालयन् आस्ते सुकुमारो महीमिमाम् ॥
३२.एतमिन् अन्तरे व्योम्ना दिश : प्रावृत्य सर्वश : । ददर्श सतडिन्माल : स्तनयन् मेघमण्डलम् ॥
३३.विमुञ्चन् सन्ततां तारां नादैर्भिन्दन् इवाम्बरम् । महायुद्धपरिश्रान्तिमपवाहयितुं किल ॥
३४.हिमशीतैरम्बुकणै :मृणालधवलैर्मुहु : । अपि सर्वेषु पश्यत्सु धाराधरगृहोदरात् ॥
३५.अचिरांशुमहादीपो मेघवारणवाहनात् । शिवलिङ्गत्रयं तावत् महामरकतोपमम् ॥
३६.निपपात महीपृष्ठे सह वैदूर्यवृष्टिभि : । एधतेव धनं राजन् एतत् अभ्युदयन् इव ॥
३७.अनेन भूय : श्रेयांसि भविष्यन्ति न संशय : । चिरार्जितानां धर्माणां तपसामपि भूपते ॥
३८.परिपक्वफलमिदं समाधत्स्व मुदान्वित : । यत्र ज्योतिरनुस्यूतमनपायं प्रकाशते ॥
३९.तत्र संस्थाप्य विधिवत् समाराधय शंभवम् । इति श्रुत्वाम्बरात् वाणीमधीनामशरीरिणीम् ॥
४०.समुत्थायासनात् प्रीत्या समुदाय नृपात्मज : । राजासने समावेश्य विस्मयं परमं ययौ ॥ 
४१.महामुक्तामणिमयीवृष्टि : काञ्चनपुञ्जिता । पूरयित्वा पुरं तस्य विराममगमत् क्षणात् ॥
४२.आसन् प्रसन्ना ककुभ : विबभु : व्योम्नि तारका : । मदयन्तीव राकात् ऊर्ध्वं वलते भृशम् ॥
४३.मुनीनामग्न्यागारेषु प्रसन्नार्चिर्हुताशन : । आदधे हविरामोदं मन्त्रपूतं प्रदक्षिणम् ॥
४४.भूरभूत् सस्यसंपन्ना फलवन्तश्च पादपा : । मनाम्स्यासन् प्रसन्नानि ब्राह्मणानां महात्मनाम् ॥
४५.आकस्मिकमभूत्तत्र रोमाञ्चो सभाजुषाम् । देवदुन्दुभिनिर्घोषै : पूर्णमासीत् वियत्तलम् ॥
४६.व्याभुष्टहर्षसन्नादं सभास्थानं महीपते : । सूतमागधमुख्यानां तथा विद्योपजीविनाम् ॥
४७.संजज्ञे स्तुतिसन्नादो हंसानामिव मानसे । इति संभ्रमसन्नादकरम्बितनभस्थले ॥
४८.सञ्चचालेव संभ्रान्ता सा सभा नर्तकी यथा । हिरण्यगर्भधनयावं परा वर्त्मना गता(तथा) ।
४९.सनातनो मुनि : श्रीमान् आजगाम सभामिमाम् । समुत्थाय महीपाल : प्रत्युद्गम्य प्रणम्य च ॥
५०.आसने च समावेश्य मधुपर्कार्हणादिभि : । कृताञ्जलि : कृत्यविदामग्रणी : नृपनन्दन : ॥
५१.विश्रान्तं स्वस्थमनसं प्रश्रितो वाक्यमब्रवीत्।श्रीवलधि: --भगवन् स्वाग्तं तेऽद्य गतो वाध्वपरिश्रम: ॥
५२.अद्य मे सफलं जन्म जीवितं च महामते । त्वदागमनकल्याणसुधाकल्लोलितात्मन : ॥
५३.कृतार्थोऽस्मि कृतार्थोऽस्मि कृतकृत्योऽमि सांप्रतम् । यस्त्वदीक्षणपीयूषधाराभाजनतां गत : ॥
५४.अवन्द्यमङ्गलाध्वानविहारिणि गुरौ त्वयि । अक्षिलक्ष्यत्वमेतेषामुपयाते महात्मनि ॥
५५.सर्वे विस्मयसंफुल्लस्वान्तपङ्गजवृत्तय : । सभ्या : परे च काङ्क्षन्तो श्रोतुं त्वद्वचनामृतम् ॥
५६.निस्पृहस्यापि ते ब्रह्मन् त्वय्यागमनसंभ्रम : । शुभां जगतां जातां स्पृहां द्योतयतीव मे ॥
५७.काङ्क्षितेष्वपि कृत्येषु भृत्यं यदि मां योक्ष्यसे । इत्थं विनयसंपत्या भक्त्या च परमार्थया ॥
५८.सहर्षमाणो भगवान् देवर्षिर्वाक्यमब्रवीत् । सनातन : --राजन् ते साधुवचनै : हर्षणैर्विनयोज्ज्वलै : ॥
५९.प्रीतोऽस्मि निस्पृहस्यापि स्पृहा जनयतीति यत् । श्रुणु वृत्तान्तमीशस्य तव हेतोर्विनोदजम् ॥
६०.पूर्वेद्यु : पूर्वपक्षस्य त्रयोदश्या निशामुखे । धाराद्रे : दिव्यशिखरमणिकाञ्चनमन्दिरे ॥
६१.दिव्यसिंहासने देव्या सहितो लोकशङ्कर : । सेव्यमानो भूतगणै : देवानां दर्शनं ददौ ॥
६२.तत्र नन्दीश्वरमुखा : गणेशस्कन्दनन्दिन : । कुम्भजम्भालभम्भाद्या : माणिभद्रमणिध्वजौ ॥
६३.वज्रकण्ठ : शिखण्डी च हरिकर्ण : सुकेतुक : । चण्डीशभृङ्गिमालूका : प्रमथा : शतकोटय : ॥
६४.सिषेविरे वीरभद्रं क्षेत्रपालसमन्विता : । स्तुवन्तो देवदेवेशं रुद्रसूक्तै : स्वसूक्तिभि : ॥
६५.उपतस्थु : च कुर्वन्त : शुश्रूषां विविधां विभो । तत्र देवा : समाजग्मुर्महेन्द्रोपेन्द्रसंयुता : ॥   
६६.सिद्धगन्धर्वयक्षैश्च लोकपाला : तथापरे । नारदप्रमुखादेवा : ऋषय : काश्यपादय : ॥
६७.स्वै : स्वै: विभूतिविभवै : आनर्चु : साम्बमीश्वरम् । करुणासान्द्रपीयूषवर्षिणापाङ्गवर्चसा ॥
६८.मन: प्रह्लादयामास देवस्तेषां वृषध्वज : । एतस्मिन्नन्तरे ब्रह्मा आजगाम सभान्तरे ॥
६९.शनैर्विज्ञापयामास त्वद्वीर्यविभवं रणे । पराजयं च दैत्यानां विजयं च तवाद्भुतम् ॥
७०.गन्धर्वोद्गीयमानानि चरित्राण्यपि भूरिश : । तानि तद्वर्णितान्युच्चैराकर्णयतीव हर्षित : ॥
७१.विभुर्विस्तारयामास शिवलिङ्गमभूमिजम् । त्वदर्थे पाशहस्तस्य पाणौ त्राणाय देहिनाम् ॥
७२.तदेतत् आलोकयितुं तस्मात् कैलासमन्दिरात् । आगतोऽस्मि महाराज तव श्रेयो विधित्सया ॥
७३.स राजा वरुणस्तुभ्यं कुर्वन् अभ्युदयं महत् । मणिवृष्ट्या सहेदानीं मेघैरर्पितवान् ननु ॥
७४.तदेतत् अधुना लिङ्गं प्रथमानं महीतले । क्रियाभूतं त्रयीसारं सञ्चयत्वैकसूचकम् ॥
७५.लिङ्गस्यास्य परं मत्वा साभ्यन्तरनिर्मले । तथैवाहाम्बरात् वाणी तत्प्रमाणं कुरु प्रभो ॥
७६.इति तस्यादिसिद्धस्य सनातनमुनेर्वच : । श्रुत्वा श्रीवलधिर्भूयो विस्मित : प्रत्यभाषत ॥
७७.राजा --किं वात्र तैजसं स्थानं कुत्र वा कथ्यतां मुने। कथं मया स्थापितव्यं शाम्भवं लिङ्गमद्भुतम् ॥
७८.ज्योतिस्थानं महीपृष्ठे कूपिकायां तिमिङ्गिवत् । अस्निग्धमशेषेण ब्रह्मन् मे वक्तुमर्हसि ॥
७९.शङ्ख : --इति भूपुरुहूतेन तेन पृष्ट : सनातन : । प्रसान्नहृदयो धीमान् विस्मितो वाक्यमब्रवीत् ॥
८०.सनातन : --श्रुणु राजन् पुरा वृत्तमितिहासं पुरातनम्।श्रवणात् कीर्तनात् मर्त्यो मुच्यते पापबन्धनात् ॥
८१.पुरा दक्षे तु कोपेन भगवान् परमेश्वर : । विद्राव्य देवान् अखिलान् छित्वा देवं प्रजापतिम् ॥
८२.उत्पाटयामास दृशौ भगस्याप्यपराधिन : । पुन: प्रशान्ते देवेशे याते कैलासमन्दिरम् ॥
८३.दु;खितो लोचनाभावात् परिश्रान्तो मुहुर्मुहु : । भग : शरणं संप्राप शरणं गीष्पतिं गुरुम् ॥
८४.तं सान्त्वयित्वा वचनै : हेतुभि : चापि सद्गुरु : । प्रत्यवोचत् स्वया बुध्या विचार्य परमार्थयाा ॥
८५.श्रुणु वक्ष्याम्यहं साधो मर्यादामादिकल्पिताम् । य : करोति शिवद्रोहं दूषयत्यपि तद्गुणान् ॥
८६.तेषां कदापि जन्तूनां पुरुषार्थो न हि ध्रुवम् । अन्धंतम : प्रपद्यन्ते यावत् आभूतसंप्लवम् ॥
८७.तथाभ्युदयं वक्ष्यामि तेन सौख्यमुपैष्यसि । या वा को वा पुमान् लोके शैवं पाशुपताभितम् ॥
८८.अनुवृत्य स्थितो भक्त्या स कदापि न शोचति । कृतघ्न : पिशुनो लुब्ध : हेतुनिष्ठ : च दूषक : ॥ 
८९.यन्नामकीर्तनात् एव मुक्तिमेत्यनपायिनीम् । न यमो यमदूताश्च नारयो नाधयस्तथा ॥
९०.परिक्लेशयितुम् शक्ता : शिवपादाम्बुजाश्रयात् । सैषा षडाक्षरी विद्या शाम्भवी पापहारिणी ॥
९१.ब्रह्मविष्णुमुखैर्देवैसेव्यते चात्मसिद्धये । त्रिपुण्ड्रश्चैव रुद्राक्षो महापञ्चाक्षरो मनु : ॥
९२.प्रशस्यन्ते त्रयी मूर्ध्ना मोहायासोपशान्तये । एवं त्रिधा विभज्येशो लोकान् पाति स्वलीलया ॥
९३.तस्मात् त्वमद्य देवेशं शरणं याहि शङ्करम् । इत्थं प्रबोधितस्तेन भगो देव : पुरोधसा ॥
९४.तथैव गुरुमाराध्य शिवदीक्षामदीक्षयत् । सनातन : --उपलभ्य महामन्त्रं तस्मात् शैवषडाक्षरम् ॥
९५.शिवाराधनतन्त्राणि यथावत् उपगम्य स : । प्रणम्य भूय : पप्रच्छ भगोऽसौ धिषणं गुरुम् ॥  
९६.भगवन् गीष्पते प्राप्तं मया सर्वमभीप्सितम् । त्वयोपदिष्टेन मार्गेण मन्त्र्णानेन भूयसा ॥
९७.कस्मिंचित् तोषयामास सिद्धक्षेत्रे सदाशिवम् । येन सद्य : प्रसन्नो मे भविता त्रिजगद्गुरु : ॥
९८.इत्युक्तवति वै तस्मिन् पुन : प्राह स गीष्पति : । यत्र ज्योतिरविच्छिन्नं भूमौ जागर्ति शाम्भवम् ॥
९९.अनायासेन तत्र सिद्धि : स्यात् सर्वशरीरिणाम् । तत्र गत्वा महादेवं ताम्राया दक्षिणे तटे ॥
१००.तपसाराधयन् भक्त्या प्राप्तकामो भविष्यसि । पुरा कुम्भाटको नाम राजसूनु : प्रतापवान् ॥
१०१.हत्वा स्वमातरं साध्वीं पापान्ध : परितो भ्रमन् । दैवात् अवाप्य तत्स्थानं निर्धूताशेषकल्मष : ॥
१०२.यतीनां यज्वनां वापि(चापि) दुर्लभ्यां परमां गतिम् । आससाद महायोगी पुनरावृत्तिवर्जिताम् ॥
१०३.इत्युक्त्वा प्रेषयामास काश्यपिं तं गिरां पति : ।
    इत्थं भग : परमकारुणिकात् अवाप्य जीवात् गुरो : परमपाशुपतं व्रतं तत् ।
    तेनाध्वना विषमलोचनमीशमिष्ट्वा ज्योतिर्वनात् नयनयोर्युगमाप शम्भो : ॥

                         इति पञ्चचत्वारिंशोऽध्याय :    Pro.Total = 3964 + 103 =4067.

                             षट्चत्वारिंश्ऽध्याय :

           ज्योतिर्वने कुम्भाटकनाम्न : कस्यचित् राज्ञ : मातृहत्तिमोचनम्

१. सनातने मुने योगिन् सर्वतत्वार्थसारवित् । एतदेव पुन : श्रोतुं काङ्क्षे विस्तरतो मुने ॥
२.कथं बृहस्पति : तस्मै कथामकथयत् पुरा । कुम्भाटकस्य विषया : अशेषापन्निवारणीम् ॥
३.सनातन : --अहो चित्रतरं पुण्यं पुरा गीष्पतिनेरितम् । आख्यानं संप्रवक्ष्यामि यथावत् अवधार्यताम् ॥
४.भग : --नमस्तुभ्यं महाभाग सर्वदेवनमस्कृत । त्वया जीवन्ति यद्देवा : जीवोऽसि जगतां गुरो ॥
५.को वा कुम्भाटको नाम कस्य पुत्रस्तु कीदृश : । किमर्थमवधीत् मोहात् जननीं क्रूरलोचनाम् ॥
६.पापोऽप्यगात् पुण्यवनं केन वा कर्मणा पुन : । कथं चकार तपो घोरं कथं वा मुक्तिमाप स : ॥
७.एतानि विस्तरात् ब्रह्मन् वक्तुमर्हस्यसंशयम्। बृहस्पति: --हन्त ते कथयिष्यामि कथां कलुषनाशिनीम् ॥
८.तथाकर्णनतो जन्तु : नैव पश्यति दुर्गतिम् । पुरासीत् वसुषेणाख्य : राजा वैशालिको महान् ॥
९.यस्य कोदण्डवैशिष्यं गायन्त्यद्यापि देवता : । यमाहु : सूरयो नित्यं द्वितीयं वा शतक्रतुम् ॥
१०.जीमूतवाहात् अधिकं दातारं कवयो विदु : । स राजा काशिराजस्य तनयां वसुमालिनीम् ॥
११.स्वयंवरे जहारैको नारीकुलमतल्लिकाम् । तामुद्वाह्य वरारोहां चक्रे धर्माण्यनेकश : ॥
१२.वाजपेयाश्वमेधादीन् राजसूयमुखान् मखान् । मखान्ते तस्य भगवान् देवदेवो रमापति : ॥
१३.सन्तुष्ट : प्रददौ तस्मै व्योमयानं सभास्वरम् । तद्विमानं समारुह्य जित्वाभूत् मण्डलं बली ॥
१४.धनान्याहृत्य भूरीणि भूमौ धर्माण्यकारयत् । एवं पालयतस्तस्य भूमण्डलमखण्डकम् ॥
१५.संपद : प्रशशंसुस्ते देवदानवमानवा : । अनपत्यतया किञ्चित् अपूर्वत्वेन सर्वत : ॥
१६.तच्छ्रुत्वोद्विग्नहृदयो विचार्य सह मन्त्रिभि : । राज्यभारं समादाय मन्त्रिमुख्ये सुधार्मिके ॥
१७.धर्मपत्न्या समं राजा तपसा वनमेयिवान् । चकरोग्रतप : पत्न्या नियमै : दुष्करै : परै : ॥
१८.कुलोचितं मे तनयं शूरमत्यधिधार्मिकम् । दातुमर्हसि मे शम्भो त्वामहं शरणं गत : ॥
१९.इति संप्रार्थ्य मनसा तोषयामास शङ्करम् । कुलधर्मकरीं कन्यां (शीलो)शीलौदार्यगुणान्वितम् ॥
२०.मातर्मे देहि कल्याणि त्वामहं शरणं गता । इति संप्रार्थ्य सञ्चक्रे सपत्नीक : चिरं तप : ॥
२१.एवं वर्षशते पूर्णे संप्रीतावादिदम्पती । सान्निध्यं पुरत : कृत्वा युगपत् वाचमूचतु : ॥   
२२.युवयोरीप्सितं वस्तु रूपसौभाग्यसंभृतम् । लोकैकविस्मयकरं भविष्यति न संशय : ॥
२३.एवममन्तरधात् दाता दत्वापि लक्षितं वरम् । स्वपुरं प्रत्यपद्येतां यथाभिलक्षितोदयौ ॥
२४.कालेन सैषा महिषी प्राप दौर्हृदलक्षणम् । सोऽपिराजवर : श्रीमान् कृत्वा पुंस्सवनादिकम् ॥
२५.चिन्तयान : सुतोत्पत्तिं तद्रक्षां विधिवत् व्यधात् । साप्यसूत शुभे लग्ने मासे वैजनने सति ॥
२६.स्त्रीपुंसलक्षणोपेतां प्रजामालोक्य ते जना : । हा कष्टमिति जल्पन्त : शोकाक्रान्ता सदाभवन् ॥
२७.स राजा परमोद्विग्नो ज्ञातिसंबन्धबान्धवै : । अभूतपूर्वचिह्नानि निशाम्यातीव दु;खित : ॥
२८.क्वेयं दुर्लक्षणावाप्ति : क्व वा मे तपस : फलम् । किं कुर्म : कस्य वा ब्रूम : दैवे विषयवर्तिनि ॥
२९.एवमुद्विग्नचिह्नेषु जनेष्वन्येषु भूपतौ । यदृच्छया महायोगी वामदेव : समागत : ॥
३०.तं दृष्ट्वोत्थाय भूपाल : प्रत्युद्गम्य प्रणम्य च । आसनाद्युपचारै : च पूजयित्वा यथाविधि ॥
३१.उपविष्टं सुविश्रान्तं नृप : प्राह कृताञ्जलि : । राजा --भगवन् योगिनां श्रेष्ठ त्वदागमनगौरवात् ॥
३२.प्रीतोऽस्मि कृतकृत्योऽस्मि कृतार्थोऽस्मि न संशय : । इदमुत्पातरूपं मे किं प्रजावपुषाभवत् ॥
३३.आलोचित : ते भविता पुत्र इत्याह संकर : । मिथ्या तत् कथमभूत् देवदेवस्य भाषितम् ॥
३४.इत्थं शोकविकल्पेन जल्पन्तमवनीपतिम् । चिन्तयित्वाह भगवान् वामदेव : त्रिकालवित् ॥
३५.वामदेव : --राजन् क्वापि शिवयोर्न मिथ्या जायते गिर : ।
            त्वया संप्रार्थित : पुत्र : बलौदार्यगुणान्वित : ॥
३६.तथैव वसुमालिन्या पुत्री संप्रार्थिता किल । आवयो : काङ्क्षितं दात्रो : शिवयोर्कथितं वच : ॥
३७.कदापि न मृषा भूयात् तत्र को विस्मय : प्रभो । तस्मात् तव संशयमपहर्तुमिहागत : ॥
३८.आशानुरूपं जन्तूनां कर्मण : फलमिष्यते । यथायं प्रार्थितो देव : पूजितु : तादृशो भव : ॥
३९.चिन्ता मास्त्वत्र राजेन्द्र करिष्याम्यद्य ते प्रियम् । पुत्रोऽसौ भविता नूनं हायनत्रितयं पुन : ॥
४०.पुन : त्रिवत्सरं नारी भविष्यति पुन : पुमान् । पर्यायेणैव राजन् पुत्री पुत्रो भविष्यति ॥
४१.अनेन पुत्ररूपेण श्रेयस्ते संभविष्यति । दुहितेयं पुनर्भूत्वा युवामाह्लादयिष्यति ॥
४२.इत्युक्त्वा कारयामास जातकर्मादिकम् मुनि : । आशीर्भि: योजयित्वैतौ पुन : प्रायात् यथागतम् ॥
४३.अपयाते वामदेवे स्मयमानो महीपति : । कृतसंस्कारसंपन्नो पुत्रमेनवर्धयत् ॥
४४.कालेनाभ्यस्तशास्त्रोऽयं शस्त्रास्त्रेषु कृतश्रम : । ब्रह्मविद्यामवाप्यासौ ब्रह्मचर्यमुपाचरन् ॥
४५.तथैव केकयेन्द्रस्य पुत्रीमुद्वाह्य माधवीम् । तया रेमे कुमारोऽथ रमया माधवो यथा ॥
४६.स्त्रीत्वेऽपि ब्रह्मदत्तस्य पत्नी पाञ्चालविद्यया । भूत्वा चचार धर्माणि पातिव्रत्योचितान्यपि ॥
४७.द्विवर्त्मानमिमं नाम्ना प्रशशंसु : समन्तत : । द्विवर्त्मकामिमां स्तोकं प्रशशंसुर्हि : नामत : ॥
४८.वसुषेणो महाबुद्धि : पुत्रं राज्येभिषिच्य च । स्व पत्न्या वनं प्राप्य तपसाराध्य शङ्करम् ॥
४९.कर्मबन्धविनिर्मुक्त : संप्राप परमां गतिम् । सोऽपि द्विवर्त्मा माधव्यां पुत्रं लेभे सुवर्चसम्(सुमेधसम्) ॥
५०.द्विवर्त्मनोऽपि पाञ्चालं भूपते : महिषीसुतम् । असूत समये पुत्रं कुम्भाटक इति श्रुतम् ॥
५१.अपयाते शतं तस्मिन् शरदां कालयोगत : । स पाञ्चालमहीपालो रोगात् पञ्चत्वमेयिवान् ॥
५२.पितर्युपरते तस्मिन् स्वयं राज्यमाकारयत् । उभौ तौ बालकौ स्नेहात् यथाकालं यथोचितम् ॥
५३.पोषयित्वा कलास्वेतावशिक्षयत् अनुक्षणम् । तावुभौ तु महावीरौ सर्वशास्त्रेषु शिक्षितौ ॥
५४.गजस्कन्धेऽश्वपृष्ठे च रथचर्यासु कोविदौ । राजकृत्येषु निष्णातौ प्रकृतीनाम् च संमतौ ॥
५५.बभूवतुर्वीरवरौ युवानौ पितृसंमतौ । एतस्मिन् एव समये स कुंभाटकनामक : ॥
५६.बोधित : पिशुनै : दुष्टै : पापमचिन्तयत् । ज्येष्ठ एव सुतो राज्ये पित्रा समभिषिच्यते ॥
५७.कनिष्ठ: तत्परो राजा शास्त्रेषु विहित : किल । ज्येष्ठं करोति राजानं न कनिष्ठं करोति माम् ॥ ५८.विशाला नगरी ज्येष्ठा पाञ्चालनगरी तथा । अस्माकं विमुखी जाता मज्जाड्यत्वेन केवलम् ॥
५९.इमामम्बां ज्येष्ठपुत्रकृतस्नेहां ममाहिताम् । हनिष्यामि न सन्देहो तत्र दोषो न विद्यते ।
६०.ज्येष्ठो वैशालिको भूयात् पाञ्चालस्येन्द्रो भवाम्यहम् । इति निश्चित्य मनसा कुंभाट : कुलपांसन : ॥
६१.असद्बिर्बोधितो मूर्खै : अर्धरात्रे स्वमातरम् । शिर: चिछेद खड्गेन पशुं (शौ)सौनिकवत् बली ॥
६२.अनभिज्ञातमन्यैस्तु कृत्वा कर्मातिपातकम् । संभ्रान्त : स्वगृहं प्राप वल्मीकमिव पन्नग : ॥  
६३.तत : प्रभाते विमले सर्वे राजानुचारिण : । हतां दृष्ट्वा भयाविष्टा : हा कष्टमिति चुक्रुशु : ॥
६४.जना : संभूय सामन्ता : मन्त्रिणो मित्रबान्धवा : । दु;खेन महता दीना : चक्रु : तस्यौर्ध्वदेहिकम् ॥
६५.सुमेधसं ज्येष्ठपुत्रं बलिनम् सर्वसंमतम् । पुरोधसा मन्त्रिवृद्धा : विधिना चाभ्यषेचयन् ॥
६६.मातृहत्या समाविष्ट : परिभ्रान्तो जडोऽनुज : । हा हतोऽस्मीति विक्रोशन् चचार पृथिवीं भयात् ॥
६७.पृष्ठत :तस्य भीमाक्षी दण्डहस्ता पिशाचिका । कापि हत्तिर्महाघोरा तर्जयामास भर्त्सनै : ॥
६८.तया विद्राव्यमाणोऽसौ श्रान्त : खेदमपारयन् । निराहारो विनिद्रश्च शुष्ककण्ठोष्ठतालुक : ॥
६९.अन्विष्य शरणं किञ्चित् न लेभे सौख्यमात्मन : । परिभ्राम्य महीं कृत्स्नां काशीकौसलमालवान् ॥
७०.काश्मीरान् मागधान् वङ्गान् साल्वानारट्टकानपि । चोलकेरलकंभोजान् अतीत्य विपिनान्यपि ॥
७१.पुण्यक्षेत्रान्यनासाद्य पुण्यतीर्थानि हत्यया । विद्राव्यमाण : सर्वत्र प्राप्य पाण्ड्यमहीमिमाम् ॥
७२.यत्र चन्दनसौरभ्यमलयेन्द्रनभस्वता । ताम्रातरङ्गशीतेन महापापापहारिणा ॥
७३.पवित्राम्बरम् राज्यं यदाप परितो भ्रमन् । तथैव पृष्ठतो यान्तीं स्त्रीहत्यां घोररूपिणीम् ॥
७४.न ददर्श क्षणादेव तमस्सूर्योदये यथा । समन्तात् ब्रह्मभुयिष्ठां ब्रह्मघोषनिनादितम् ॥
७५.ऋषिवृन्दै : स्तूयमानै : अग्निभिर्मन्त्रमन्त्रितै : । वर्णाश्रमसदाचरै : जनैरानन्दनिर्भरै : ॥
७६.पूर्यमाणा पुरी पुण्यैर्दक्षिणाशा सुशीतला । महामणिगणाकीर्णा कुंभयोनिपवित्रिता ॥
७७.सैषा दर्शनमात्रेण कुंभाटं शरणागतम् । अपालयत् इवाभ्याशे स्वपुत्रं जननी यथा ॥
७८.इत्थमाश्वासित : तावत् देवेन नृपनन्दन : । स्मयमान : परिभ्राम्य ताम्राया उत्तरे तटे ॥
७९.निषाद्य मूले वृक्षस्य पिप्पलस्य महीयस : । ताम्रामालोकयन्नग्रे महापीयूषवाहिनीम् ॥
८०.चिन्तयामास बहुधा व्याघ्रमुक्त इवोरग : । हा घोररूपिणी हत्या क्व याता केन वारिता ॥
८१.अत्याहारविहीनस्य तीर्णाध्वानस्य मे कुत : । परिश्रम : परामृष्ट : भयं चापि पलायितम् ॥
८२.अन्धकारोपऽयशेषश्च शान्त : स्वस्थं च मे मन : । आकस्मिकमहासौख्यं सञ्जातं केन हेतुना ॥
८३.मातरं पितरं भार्यां ब्राह्मणं शरणं गतम् । ये च निघ्नन्ति पापिष्ठा तेषां काश्यपि कालिका ॥
८४.महापातकयुक्तानां मातृहत्यालसात्मानाम् । गङाप्यङ्गारपूरेति कथयन्ति पुराविद : ॥
७५.इत : परं किं करिष्ये शरणं कं व्रजाम्यहम् । अत्रावधिम् न पश्यामि मित्रं संरक्षणक्षमम् ॥
८६.इति चिन्तयस्तस्य राजपुत्रस्य धीमत : । कापि कल्याणजननी बुद्धिरासीत् पुराकृतै : ॥
८७.पुण्यै : तत्तीरसंयोगात् अरणेर्हव्यवाट् इव । इयं पुण्यनदी साक्षात् सर्वपापप्रणाशिनी ॥
८८.यदालोकनमात्रेण स्त्रीहत्या यद्विनाशिता । तस्मात् स्नातव्यमस्माकं तीर्थमेतत् न संशय : ॥
८९.अत : परं गमिष्यामि शरणं कमपि द्विजम् । इति निश्चित्य मनसा तत्र स्नात्वा यथाविधि ॥
९०.दक्षिणं तीरमाश्रित्य ददर्श महदाश्रमम् । सर्वत : शोभनाकारां तपन्तीमिव दुष्करम् ॥
९१.तत्र काञ्चनतन्वङ्गीं तपनीयनिभप्रभाम् । भस्मोद्धूलितसर्वाङ्गीं भास्वद्रुद्राक्षमालिकाम् ॥
९२.चीरकृष्णाजिनधरां तपस्यन्तीं सुनिश्चलाम् । चञ्चत् अङ्गुष्ठकोटीरव्यावृद्धाक्षिस्रगुज्ज्वलाम् ॥
९३.महामन्त्राक्षराटोपस्फुरमाणौष्ठपल्लवाम् । अचञ्चलतटित्प्रख्यां अर्धोन्मीलितलोचनाम् ॥
९४.अनासाद्यामन्यजनै : दीप्तामग्निशिखामिव । तां दृष्ट्वा विस्मयाविष्ट : शनैरासाद्यशान्तिगम् ॥
९५.प्रणिपत्याञ्जलिं मूर्ध्ना लालयन् नृपनन्दन : । उपतस्थे तथा देवीं गायत्रीं ब्राह्मणो यथा ॥
९६.उपहृत्य समाधिं सा शनैरुन्मील्य लोचने । ददर्श पुरतो दान्तमुपचारमुवाच ह ॥
९७.कस्त्वम् कुतस्समायात : किं वागमनकारणम् । सर्वमाख्याहि तत्वेन यद्यगोप्यं मयाधुना ॥
९८.अनुशिष्ट : तया तन्व्या स्ववृत्तान्तमशेषत : । स्वगोत्रकर्मनामानि व्याचचक्षे विशांपते ॥
९९.मया पापात्मना मातृहत्या पापान्धचेतसा । प्रायश्चित्तं पातकस्य कृतस्यादेष्टुमर्हसि ॥
१००.का त्वमेकाकिनी बाला तपो घोरम् वितन्वती । परिश्राम्यसि मातस्त्वं श्रोतव्यं मे कृपास्ति मे ॥
१०१.पापान्धसिन्धौ पतितं गभीरे पारानवाप्त्या परिशोचमानम् ।
   त्राहि प्रसन्ने जननीव पुत्रान् सत्यम् पुरस्तात् शरणागतं माम् ॥
१०२.इत्थं दु;खार्तिकंपमानहृदयं कारुण्यकल्लोलिनी सैषा स्वाङ्घ्रिसरोरुहैकचरणं पाञ्चालभूपात्मजम् ।
    पापात् एनं अमोचयत् परशिवानन्दैकदीक्षाक्रमात् दावाग्नेरिव कालिकाजलकणैघर्मेव नान्यां गतिम् ॥

                            इति षट्चत्वारिंशोऽध्याय :   Pro.Total = 4067 + 102 =4169

                            सप्तचत्वारिंशोऽध्याय :

               ज्योतिर्वने कचावत्या : ताम्रास्नानमहिम्ना भर्तृत्वप्राप्ति :

१.भगवन् करुणामूर्ते ज्ञानविज्ञानवारिधे । स्वर्गापायतमस्सूर्ये कार्याकार्यविचारवित् ॥
२.त्वदङ्घ्रिपङ्कजालम्बात् अनपायमिदम् जगत् । तस्मात् त्वं शरणं प्राप्य न पश्ये शोकमुल्बणम् ॥
३.एतत्वृत्तान्तमाश्चर्यं भूयो विस्तरतो गुरो । श्रोतुमिच्छाम्यशेषेण प्रसाद : क्रियतां मयि ॥
४.केयमेकाकिनी बाला किमर्थं तप आस्थिता । कथं कुम्भाटवीं पापात् दुरन्तात् तामचोदयत् ॥
५.इति तेनार्थित : तावत् गुरुर्गिरमथादधे । बृहस्पति : --श्रुणु नान्यमना पुण्यां कथां काश्यपनन्दन ॥
६.पुरा वात्स्यायन : कश्चित् अजमीड इति श्रुत : । तस्य धर्मचरी पद्मा नाम्ना गार्ग्यस्य नन्दिनी ॥
७.असूत कन्यामाश्चर्याम् रूपौदार्यगुणान्विताम् । कचावतीति विख्याता चतुष्षष्टिकलावती ॥
८.पित्रो : शुश्रूषणपरा वर्धमानेव चन्द्रिका । बाल्ययौवनमध्यस्था वयसा चारुहासिनीम् ॥
९.अनुरूपतप:कर्मविद्याविनयशालिने । हारीताख्यवरायैनामदात् आत्मैकवेदिने ॥
१०.हारीतस्तां समुद्वाह्य लक्ष्मीमिव जनार्दन : । सभार्य : स्वाश्रमं प्राप बान्धवैरनुमोदित : ॥
११.सापि बाला पतिगृहे गृहकर्मरता सती । शुश्रूषमाणा भर्तारं श्वश्रू : प्रीतिमर्धयत् ॥
१२.एतस्मिन्नन्तरे चारु मिथुनं कृकलासयो: । रममाणौ रतिपरौ संस्प्राक्षीत् कचावती ॥
१३.विनोदनाय तदा काष्ठमङ्गुष्ठप्रमाणकम् । तस्योपरि चिक्षेप पतत्प्रहारैकदेशत : ॥
१४.मिथुनमूर्च्छितमभूत् पतितं व्याजहार ताम् । दुर्भगे रतिवेलायां विघ्नं कृतवती यत ॥
१५.तव भर्तृवियोगोऽभूत् पापेनेनानेन भूयसा । इत्युक्त्वा कृकलासस्त्यक्त्वा तं मिथुनं वपु : ॥
१६.स्पृहणीयतराकारावास्ताममरदम्पती । विमानवरमारुह्य प्रयाणाभिमुखौ तदा ॥
१७.कचावतीं शोचमानां तरुणीं सास्रलोचनाम् । सान्त्वयित्वा दयायुक्त : वाचमेनामभाषत ॥
१८.प्रिये कल्याणि मा भैषी : शोकं नार्हस्यपि श्रुणु । भवितव्ये न शोचन्ति मण्डिता : सूक्ष्मदर्शिन : ॥
१९.अनभिज्ञातयावाभ्यां लब्ध : शापोऽयमुल्बण : । द्वादशाब्दावधिर्भूयात् तावत् श्रेय : समेष्यसि ॥
२०.इत्युक्तवन्तौ तौ नत्वा विमानवरमास्थितौ । व्याजहार नयभिज्ञा दिव्याकारौ कचावती ॥
२१.कौ युवां कमनीयाङ्गौ महाभोगैकभागिनौ । अदृष्टपूर्वसौभाग्यौ सुरसंपूर्णविग्रहौ ॥
२२.भास्कराविव निष्क्रान्तौ रोहिणीचन्द्रवर्चसौ । केन कर्म विपाकेन संप्राप्तौ कृकलासताम् ॥
२३.केन वा सापराधायां मयि वात्सल्यभगिनौ । एतानि श्रोतुमिच्छामि वक्तव्यं यदि विस्तरात् ॥
२४.गन्धर्व : --वत्से त्वामभिधास्येऽहं जन्मकर्म च पूर्विकम् । पुरा गन्धर्वराजस्य वसुनाभस्य धीमत: ॥
२५.पुत्रोऽहं सुरुचिर्नाम मद्भृत्यानां मदौदय : । रूपेणासगुणेनापि कान्तिसौभाग्यवत्तया ॥
२६.गण्यमानेषु गन्धर्वेष्वग्रेसरमिमं जन : । प्रशंसन्ति जनास्सर्वे देवदानवमानवा : ॥
२७.सङ्गीतविद्यासर्वस्वसारस्वते चोमापति : । तपसाराधिता : चक्रु : ऋषी नारदपर्वतौ ॥
२८.एषा पुष्करकेशस्य गन्धर्वाण्मधिशितु ; । तनया सौरगत्येन विद्याविनयसंपदा ॥
२९.तुलिता सा वराटेयं मया चोढा स्वयम्वरे । देवदत्तविमानेन कामगेनार्कवर्चसा ॥
३०.परीत्य सकलान् लोकान् अनया भार्यया समम् । गन्धमादनशैलस्य मणिकन्धरमन्दिरे ॥
३१.मयानीतामरकक्ष्या : कीडताक्षैरहर्निशम् । एतस्मिन्नन्तरे तन्वि तनयौ यज्ञकेतुन  : ॥
३२.प्रियमित्र : सुमित्रश्च सङ्गीतागमपारगौ । अन्योन्यविद्याप्रागल्भ्यात् मदन्तिकमुपागतौ ॥
३३.तावनादृत्य क्रीडन्तावावामन्योन्यविभ्रमात् । तावदाविष्टरोषाभ्यां शापुत्सृष्टतयेदृश : ॥
३४.अन्यच्च श्रूयतां भद्रे शोकमत्युल्बणं मम । षड्जपाल इति ख्यात : गन्धर्व : मत्सुहृत्तम : ॥
३५.कलाकलापदुग्धाब्धि : मम प्राणो बहिश्चर : । देवराजस्य शापेन हेतुना केनचित् पुरा ॥
३६.स्त्रीत्वमासाद्य गोकर्णे शुचावासीत् शतं समा : । तावत् तत्परितोऽर्थी तु स्त्रीहेतो : कोपि दानव : ॥
३७.जघान गदया तत्र तद्भार्यां च विचकर्ष स : । पातिव्रत्याग्निना तस्या सोऽपि भस्मीकृतोऽभवत् ॥
३८.स दैत्योऽभूत् द्विवर्त्माख्य: नाम्ना कुम्भाटक : स्वयम् । निहत्य मातरं तत्र हत्या संभ्रान्तचेतन : ॥
३९.यावत् त्वदन्तिकं याति तावत्तस्मै ससान्त्वकम् । इमां शैवीं महाविद्यामुपदेष्टुं त्वमर्हसि ॥
४०.तावद्भर्त्रा समायुक्ता श्रेय : प्राप्स्यसि बालिके । इत्युक्त्वा तां स गन्धर्व : शैवीमेनां षडक्षरीम् ॥
४१.उपदिश्य यथान्यायं तामामन्त्र्य प्रियान्वित : । विमानेनातिवेगेन प्रययौ व्योमवर्त्मना ॥
४२.सापि विस्मयसंफुल्लनयना चारुहासिनी । स्वभर्त्रे कथयामास रहस्येषा कचावती ॥
४३.प्रियावियोग : प्राप्तव्यम् मन्वानो मुनिपुङ्गव : । प्रियासख : प्रीतिकरं पित्रोर्नियमकारयत् ॥
४४.केषुचित् शापया तेषु दिनेषु पितरौ मुने : । दैवात् पञ्चत्वमापन्नौ शिवसायुज्यमीयतु : ॥
४५.तावत्पित्रोर्यथान्यायं सविधायौर्ध्वदेहिकम् । निवापाञ्जलिमादातुं स्वपत्न्या बन्धुभिस्सह ॥
४७.स्नातुं मलयनन्दिन्या : तीर्थमाविश्य मन्त्रवित् । ममज्ज शीतले तीर्थे शिव पाहीत्युदीरयन् ॥
४८.तावत् कश्चित् बलेर्भृत्यो दैत्य : तत्तीर्थसंश्रय : । विनोदाय तमानीय निनाय बलिमन्दिरम् ॥
४८.तं दृष्ट्वा मुनिमानीतं स्वभृत्येनावजानता । स्वागतासनपाद्यार्घ्यमधुपर्कार्हणादिभि : ॥
४९.तोषयित्वा स्वभवने मुनिमेनमवासयत् । अथ तीरगता : स्निग्धा : मुनयोऽपि बान्धवा : ॥
५०.हारीतं तमश्यन्त : चुक्रुशु : शोककर्शिता । कथमम्भसि निर्मग्न : पुनर्नागन्तुमक्षम : ॥
५१.गृहीतो वा ग्राहमुख्यै : नीतो वा स्रोतसा पुन : । मृत्यु : प्राणैकहर्ता स्यात् न देहस्य कदाचन ॥ 
५२.अहो पिता च माता च द्वादशाहात् परं गतौ । एषा कचावती बाला तनीयस्यामलाशया ॥
५३.कथं सोढुं सम्रर्था स्यात् संप्राप्तं विरहज्वरम् । विलप्य बहुधा चैव सुहृदो दिवसत्रयम् ॥
५४.सान्त्वयित्वा च तत्पत्नीं स्वानि स्वानि गृहान्यगु : । सापि भाव्यमिदं दु;खमवस्थाप्य हृदयङ्गणे ॥
५५.तस्याश्रमस्था तपसा तोषयामास शङ्करम् । निराहारा यदाहारा स्थिता स्थण्डिलशायिनी ॥
५६.ताम्रायास्तु महातीर्थे दर्शनात् पापहारिणि । त्रिकालं कुर्वती स्नानं महानियममास्थिता ॥
५७.द्वादशाब्दं क्रमेणैव सा निनाय शनै : शनै : । तावत् कुम्भाटकं दृष्ट्वा तद्वृत्तान्तं निशम्य च ॥
५८.स्नेहात् स्वकर्मनामानि कथयित्वा यथोचितम् । दीक्षां अस्मै समावेश्य प्रादाच्चैव षडाक्षरम् ॥
५९.प्राप्य पाशुपत्ताभिख्यं व्रतं तत्र नृपात्मज : । पशुवृत्तिं समाधाय तस्याम् अहरह : कृती ॥
६०.साम्बमाराधयामास महानियममास्थिता । दिनेष्वेवं नीयमानेष्वबला दुर्बलाशया ॥
६१.कचावती निशामध्ये चिन्तामाप दुरत्ययाम् । अहो मे दुरितस्यान्तो नाभ्येति चिरकालत : ॥
६२.गन्धर्वराजवचनं यथार्थं फलते न मे । द्वादशाब्दमपाक्रान्तं समयो ह्यत्यवर्तत ॥
६३.मन्त्रौषधीतपस्तीर्थदेवपूजादिकान्यपि । सद्य : सुकृतिनं पाति नैव पाताकिनं खलु ॥
६४.पापास्तु त्रिविधा प्रोक्ता ह्यागम्यारब्धसंशया : । आद्यन्तकौ सुकृतिनां विलीयेते तपोबलात् ॥
६५.मधमस्तु गरिष्ठोऽयं यमनुभोगात् विनश्यति । अवश्यमनुभोक्तव्यं कृतं कर्मशुभाशुभम् ॥
६६.नाभुक्तं क्षीयते कर्मकल्पकोटिशतैरपि । कदापि धर्मशीलानां विद्यन्ते नापद : क्वचित् ॥
६७.अभाग्यपापिनं पापं निकृन्दन्ति पदे पदे । जन्मान्तरार्जितै : पापै : पतिविश्लेषणं स्त्रिय : ॥
६८.तदिदानीं प्रमुञ्चन्ति किं दुष्कृतकारिणम् । मृते भर्तरि नारीणां धर्मो ह्यनुमृति : ध्रुवम् ॥
६९.तमेनमपहायात्र वर्तन्तीं मां दुराशयाम् । हसन्ति सन्त : सीदन्तीं व्यर्थकर्मैकपालिनीम् ॥
७०.तस्मादित : परं कार्यमस्माकं सौख्यहेतवे । विमलापहायैनां ननु धर्मार्जनक्षमाम् ।
७१.त्यक्त्वा मलयनन्दिन्या : तीर्थे पापापहारिणि । भर्तारमनुगच्छामि नात्र कार्या विचारणा ॥
७२.तप:कर्तुमशक्तानां समाधिमुपगच्छताम् । असामर्थ्यवतां लोके फला : सन्दर्शिता : च तै : ॥
७३.भृगुपातोऽग्निपतनं संग्रामे निधने तथा । महाप्रस्थानकरणं तीर्थे देहविसर्जनम् ॥
७४.अनायासेन कुर्वन्ति मोक्षलक्ष्मीमिति श्रुति : । अनुयान्ति स्वभर्तारं कूटस्था : पूर्वपूर्विका : ॥
७५.अद्यापि सद्भि : गीयन्ते स्त्रियो धर्मपरायणा : । पारंपर्यकथामेनाम् पदवीं भाग्यदायिनीम् ॥
७६.अपहाय महामोहात् कालो मे पर्यवर्तित : । दैवात् इदानीमस्माकं सञ्जाता बुद्धिरीदृशी ॥
७७.सर्वतीर्थमयी देवी देवता मन्त्ररूपिणी । महामङ्गलदा नॄणां माला मलयनन्दिनी ॥
७८.पालयिष्यति मां व्यक्तं नात्र कार्या विचारणा । इति निश्चित्य मनसा वैशाखे बहुलागमे ॥
७९.उपोष्य नवमीं शुद्धामाराध्य गिरिजासखम् । अपरेद्युरसंभ्रान्ता किञ्चित् अभ्युदिते रवौ ॥
८०.निर्गत्य स्वाश्रमात् तन्वी कीर्तयन्ती शिवं शिवाम् । स्मरन्ती गुरुपादाब्जं स्मरन्ती पारलौकिकम् ॥
८१.छिन्दन्ती कर्मपाशान् च प्रविशन्ती परात्परम् । तीरमासाद्य ताम्राया : निगृहीताखिलेन्द्रिया ॥
८२.आशान्ता स्वान्तसंफुल्लपरतत्वार्थदीपिका । अनुयाते शनैरेनामारूढेव मनोरथम् ॥
८३.शिरस्यनुस्यूतगुरुपादुकातपवारणा । परमानन्दपीयूषपाथेयोल्लासिताशया ॥
८४.परलोकप्रयाणार्थं परिच्छेदवती च या । नमस्कृत्य मुहुर्भक्त्या गुरुहेरम्बभैरवान् ॥
८५.कण्ठलग्नजले स्थित्वा ध्यायन्ती परमेश्वरम् । जजाप परमं मन्त्रं कर्मनिर्मूलनक्षमम् ॥
८६.कल्याणि कलिपङ्कघ्ने कन्दलत्करुणाशये । सदाशिवहृदावासे सायुज्यं संप्रयच्छ मे ॥
८७.गङ्गाद्यशेषालिलालितामृतवाहिनि । सदाशिवहृदावासे सायुज्यं संप्रयच्छ मे ॥
८८.ब्रह्मविष्णुमहेशेशसदाशिवमनोरथे । मलयाद्रिसमुद्भूते मार्गं देहि महेश्वरि ॥.
८९.इति मन्त्रं समुच्चार्य ममज्जाम्भसि निर्मले । कचावती निराशा सा निर्मलं पदमेयुषी ॥
९०.तावत्कलाकलाराव : संजज्ञे तीरवर्तिनाम् । निषेधतीव निर्याणं तरङ्गनिकरै : करै : ॥
९१.चकाशे तटिनीहंससारसारवमेदुरा । तस्मादाविरभूदग्रे तडित्वान् तत्क्षणादिव ॥
९२.तरुणादित्यसंकाशा तरङ्गितकृपाशया । चतुर्भुजाभुदोञ्चत्पाशाङ्कुशवराभया ॥
९३.मणिकोटीरघटिता शर्वरीविटरूपिका । किरीटहारकेयूरकनत्कनककुण्डला ॥
९४.कर्पूरवृष्टिविभ्रान्तिकारिणी स्मितरोचिषा । कृपातरङ्गितापाङ्गपरिपूता शुभावलि : ॥
९५.नित्यकल्याणदा गौरी मायापाशविमर्दिनी । स्तूयमाना मुनिगणै : पूज्यमाना सुरासुरै : ॥
९६.लोकापायोपशमनै : स्वकै : करसमोन्मुखै : । दृशा व्योमाम्बुपूरात् अभिमृश्य कचावतीम् ॥
९७.मा भैष्ट मा विचारोऽस्तु त्वया च सविजृभणम् । जहि शोकमिमं वत्से धैर्यमालम्ब्यतां हृदि ॥
९८.विद्यया तपसा सौख्यसौभाग्याभ्युदयश्रियम् । पश्य पश्य भजस्वेमां परमानन्दसंपदम् ॥
९९.मुहूर्तात् एव भर्तारं तीर्थात् अस्मात् उदित्वरम् । द्रष्टुमर्हसि सानन्दम् पूर्णकामा भविष्यसि ॥
१००.अस्मिन् मत्संश्रये तीर्थे स्मरणात् अशुभापहे । त्वदीरितामिमाम् जप्त्वा स्तुतिं मुक्तामणिप्रसो : ॥
१०१.ये मज्जन्ति मां स्तुत्वा नूनं सायुज्यभागिन : । मध्याह्ने वाथवादित्ये समुन्मिषति मानव : ॥
१०२.स्नात्वा स्वपितॄन् विप्रान् तर्पयित्वा यथोचितम् । ज्योति:स्थानं समालोक्य कर्मबन्धात् विमुच्यते ॥
१०३.त्वया युक्त्या भक्त्या वस्तव्यं पूर्णभाग्यया । स्वभर्त्रा सुखदान् भुक्त्वा विषयान् धर्मसम्मितान् ॥
१०४.अन्ते निरामयं तेजो युवाभ्यां प्राप्यमञ्जसा । इति तामनुशास्याम्बा प्रीणयित्वापरोत्तमै : ॥
१०५.पश्यतां सर्वदेवानां तत्रैवान्तरधात् जले । तत : प्रसन्नहृदया समेता तत्र बान्धवै : ॥
१०६.प्रवाहलक्ष्मीमक्षीणां प्रसन्नकमलाननाम् । फेनावलिदुकूलाढ्यामुच्चलन्मीनलोचनाम् ॥
१०७.आवर्तनाभिशोभाढ्य़ां नीलशैवालकैशिकाम् । चक्रवाकस्तनवतीं हंससारसनादिताम् ॥
१०८.अस्पन्दनिमिषोल्लाससानन्दै : लोचनोत्पलै : । आभिमुख्यप्रवाहैस्तै : अभावनिबिडैर्जनै : ॥
१०९.एवं प्रतीक्षमाणेषु मुनेरभ्यागमार्थिषु । तत्तीरपूरादाश्चर्यप्रभा प्रादुरभूदग्रत : ॥
११०.ऐन्द्रीमिव परिक्षिप्तां आशामरुणरश्मिभि : । चकाशे सा नदी पुण्या कुङ्कुमोदकवाहिनी ॥
१११.उपर्युपरि पूरस्य जृंभमाणै : च बुद्बुदै : । उदयारुणिते व्योम्नि समभावीव तारकै : ॥
११२.इतस्तत : प्रसर्पिद्भि : शफरै : प्रांशुभिर्जले । उन्ममज्ज मुनिर्मीनकेतुशङ्कां विकल्पयन् ॥
११३.सदैत्यराजदत्तै : च मणिकाञ्चनभूषणै : । किरीटेनार्कवर्णेन द्योतयन् इव रोदसी ॥
११४.प्रादुरासीत् मुनि : तीर्थात् पश्यतां तीरवर्तिनाम् । ऊह्यमानो बहुगणै : हेतुभि : तत्वदर्शिभि : ॥
११५.प्रियामानन्दयन् स्निग्धां बन्धून् चैवानुवर्तिन : । तीरमासाद्य सानन्दं भीतान् निर्वापयन् तदा ॥
११७.प्रियां संप्रीणयामास ज्ञातीन् चान्यान्यथोचितम् । तावत् गीर्वाणनिर्मुक्तै : कल्पतरुकुसुमैस्समम् ॥
११८.देवदुन्दुभयो नेदु : सिद्धाश्चैवास्तुवन् मुनिम् । हंसारूढ : तदा ब्रह्मा सेव्यमान : सुरासुरै : ॥
११९.तमेनं प्रीणयन् वाचा व्याजहार पितामह : । हारीतक महाप्राज्ञ त्वया तप्तं महत्तप : ॥
१२०.सैषा कचावती भार्या ह्यनुरूपा तव प्रिया । अरुन्धतीव कल्याणी लोपामुद्रेव सत्प्रिया ॥
१२१.युवाभ्यां तपसा यस्मात् तोषितं भुवनत्रयम् । चिरमत्राश्रमे पुण्ये विविधैराप्तदक्षिणै : ॥
१२२.यज्ञै : सन्तोष्य देवान् च प्रजया स्वपितॄनपि । नित्यमाराधयस्वैवं महदेवमुमापतिम् ॥
१२३.तदन्ते परमं स्थानं युवामेष्यत निर्वृतौ । एतत्तीर्थपरं पुण्यं त्वद्भूषणमरीचिभि : ॥
१२४.परिक्षिप्तं क्षणं यस्मात् प्रभातीर्थमितीर्यते । ये चात्र जन्तव : तीर्थे प्रभा नाम्नि प्रसादितम् ॥
१२५.स्नात्वा ज्योतिर्मयं दृष्ट्वा न पुनर्दु;खभागिन : । एषा महानदी पुण्या ताम्रा भुवनपावनी ॥
१२६.सेवितव्या त्वया नित्यं श्रेयस्ते ऋद्धिमेष्यसि । इत्युक्त्वा सह गीर्वाणै : सिद्धैश्च परमर्षिभि : ॥
१२७.पितामह : स्वभवनं प्रतस्थे व्योमवर्त्मना । सोऽपि हारीतक : प्रीत्या वरान् लब्ध्वा पितामहात् ॥
१२८.प्रसाद्य च यथान्यायं सह पत्न्या स्वमाश्रमम् । प्रविश्य बन्धुभिस्सार्धं सुखमास तथा मुने ॥
१२९.सर्वे च बान्धवा: स्निग्धा: स्वागतेनाभिनन्द्य तम्। पारिपप्रच्छु : आदृत्य तत्रत्या : च मुनीश्वरा : ॥ 
१३०.तेषां स कथयामास निजवृत्तान्तमद्भुतम् । यदाकर्णतो भूय : सर्वे विस्मयमानसा : ॥
१३१.नानाविधै : नगरगोपुरहर्म्यजालै : आरामविभ्रमरसातलराजलक्ष्मी ।
   दृष्टं यथावत् अभिवर्णयितुं महात्मा बुद्धिं चकार यदपत्रशामैकदीक्षाम् ॥
१३२.इत्थं सुहृद्बिरमरैर्निजबन्धुवर्गै : हर्षोन्मिषत्पुलककोमलिताङ्गवह्नि : ।
    अभ्यर्च्यमाननिजवृत्तिविलासमेषां हारीतको मुनिरशेषमसावद्वादीत् ॥
१३३.सुविस्मितै : स्पष्टमुदीतकण्ठकै : वपुर्परानन्दसमृद्धिसूचकै : ।
    उदश्रुभिर्लोचनपङ्कजैर्निजै : अभूयतासारघनैर्घनैरिव ॥
१३४.समाजमाश्चर्यकथारसायनै : उदञ्चयन् हर्षमपां निधिं यथा ।
    हिमांशुरंशुप्रकरै : सुधासरै : बभौ मुनिस्तत्र कचावतीपति : ॥

                           इति सप्तचत्वारिंश : अध्याय :  Pro.Total = 4169 + 134 = 4303.

                               अष्टाचत्वारिंश : अध्याय :

                          हारीतस्य कचालिकायाश्च तपश्चरणम् 

१.श्रीवलधि : -(भगवान्)ब्रह्मन् ब्रह्मात्मसंभूतब्रह्मानन्दसुधानिधे । भवता कथिता चेयं कथा कर्णसुधाधुनी ॥
२.अतिकण्ठमनुस्यूतमावृण्वत्यपि मे गुरो । तृप्तिं न कुरुते भूय : तृष्णां जनयतीव मे ॥
३.कथं बृहस्पतिस्तस्मै स्पष्टमाचष्ट विस्तरात् । तामिदानीं विस्तरत : कथयस्व कथां पुन : ॥
४.रसातलात् समागत्य  स हारीतो मुनीश्वर : । बन्धुभ्य : कथयामास कथां वा लिङ्गमद्भुतम् ॥
५.स्थापयित्वार्चयामास कथं वा मुक्तिमाप्तवान् । कुम्भाटको राजपुत्र : किं चकार तत : परम् ॥
६.कथं आभाषिणी देव : भग : काश्यपननदन : । एतानि विस्तरात् ब्रह्मन् कथयस्वाद्य मे गुरो ॥
७.इति राजाधिराजस्य मलयध्वजभूपते : । कुमारेणानुसंपृष्ट : सिद्धनाथ सनातन : ॥
८.तमेनमभिनन्द्यादौ भूयो विस्तार्य तां कथाम् । राजनन्दन वक्ष्यामि तामिदानीं पुरातनीम् ॥
९.शृण्वनन्यधिया पुण्यां हारीतकगुणोज्ज्वलाम् । इत्थं काश्यपिना पृष्ट : जीवो देवपुरोहित : ॥
१०.कथां कन्दलयामास तस्मै विस्मयकारिणीम् । श्रुणु देव प्रवक्ष्यामि वृत्तान्तं तस्य धीमत : ॥
११.वयस्यै : बन्धुभिस्स्निग्धै : मुनिभिश्च तपोधनै : । संपृष्ट : स हारीतो विस्मितो वाक्यमब्रवीत् ॥
१२.शृण्वन्तु बान्धवास्सर्वे सावधानेन चेतसा । मयि मज्जति तीर्थेऽस्मिन् कोऽपि दैत्येश्वरानुग : ॥
१३.गृहीत्वा तत्क्षणादेव निनाय बलिमन्दिरम् । तत्र रत्नप्रभाजालै : बालातपसमप्रभै : ॥
१४.न जानन्ति तत्रत्या : जनास्सर्वे तम : गताम् । नानाविधैर्मणिमयै : उद्यानै : कल्पकोपमै : ॥
१५.नदीनां च शतै : पुण्यै : इक्षुकाण्डरसोदकै : । तप्तहाटकसंकाशै : मही तत्र प्रकाशते ॥
१६.नवमाणिक्यखचितप्राकारद्वारमण्डिता । कापि कल्याणनिलया नगरी नलिनावती ॥
१७.तत्र राजगृहे कोऽपि मणिसिंहासने विभु : । अनङ्गानेकसौन्दर्यसंपूर्णनिजविग्रह : ॥
१८.दैत्यदानवरक्षोभि : सेव्यमानस्समन्तत : । महाबलिरिति ख्यात : स्तूयमान्श्च बन्दिभि : ॥
१९.मां दृष्ट्वा सदयाविष्टो समावेश्य निजासने । पूजयित्वार्घ्यपाद्याद्यै : यथालोके तथैव माम् ॥
२०.स्नानहारानुलेपाद्यै : भूषणैर्वसनोत्तमै : । स्वागतै : प्रीतिवचनै : सौहार्दातिशयोज्ज्वलै : ॥
२१.कृत्वा द्वादशरात्रं तु पूजां पूज्यतमोऽपि स : तावन्मदङ्गमामृज्य पाणिना पङ्कजश्रिया ॥
२२.एकासनं समासीनो मामिदं प्राह दैत्यराट् । ब्रह्मन् कुतस्समायात : केनेनानीतोऽसि मद्गृहम् ॥
२३.किन्ते मत्त : प्रीतिकरं काङ्क्षितं वक्तुमर्हसि । त्वया चिरतरं भक्त्या पूजित : परमेश्वर : ॥
२४.स एव पुरुषार्थानां दाता तावन्न संशय : । तथापि तव तुष्ट्यर्थं दातुमीहे सुहृत्तया ॥
२५.काङ्क्षितानि प्रदास्यामि दुर्लभानि महीतले । किन्ते व्यवसितं ब्रह्मन् वक्तव्यं यदि मे गृहे ॥
२६.कन्यारत्नं प्रदास्यामि भवनं स्वर्गसन्निभम् । वक्तुमर्हस्यसंकोचं वदान्यं मामवेहि भो ॥
२७.इति तस्य वच : श्रुत्वा बलेर्विनयगौरवम् । सन्तुष्टोऽहं पुनर्दैत्यं अनुरागादवादिषम् ॥
२८.दैत्यराज महाभाग सर्वज्ञ करुणानिधे । पौन:पुन्येन कर्णैकरसायनसुधानिधिम् ॥
२९.श्रुत्वा श्रुत्वा वदान्येषु कीर्त्यमानेषु सूरिभि : । निरन्तरसहावासं मन्ये राजन् सुहृत्तमम् ॥
३०.पुरा कृतानां पुण्यानां महतां परिणामत : । मम लब्धमिदं भाग्यं त्वदालोकनकौतुकम् ॥
३१.मदाश्रममनुप्राप्य तपस्विन्या च भार्यया । आराधयितुमिच्छामि प्रसादात् ते महेश्वरम् ॥
३२.इति मद्वचनं श्रुत्वा स राजा विनयोज्ज्वलम् । दिव्याम्बरमणिप्रान्तमुकुटाङ्गदकङ्कणै : ॥ ३३.अम्लानकमलामृष्टै : हारैर्मृगमदैरिव । शालीकृत्य मदग्रे तु पुन : प्राह स दैत्यराट् ॥
३४.दयादत्तमिदं लिङ्गं पूजयिस्वेति सादरम् । दत्तवान् च महाभूतै : चतुर्भि : मेघसन्निभै : ॥
३५.वर्षयित्वा च वसून् मामाह वचसादरम् । प्रस्थापयित्वा स्वलोकात् भूलोकं स दयानिधि : ॥
(इत्थमाकर्ण्य मुनय : स्निग्धा : च सुहृद : परे । आनन्दबाष्पपूर्णाभ्यां लोचनाभ्यां क्षणान्तरम् ॥
रोमाञ्चमञ्जुलैर्गात्रै : अभूवन् अग्रतो मुने : । स्नानाभरणैर्दिव्यै : गन्धस्रगनुलेपनै : ॥)
३६.रे रे सुहृत्तमा : स्निग्धा : मुनयो ब्रह्मवादिन : । भवतामाशिषा नूनमागतोऽस्मि न संशय : ॥
३७.तोषयित्वा सुहृद्वर्गं प्रेषयामास वै गृहम् । रह : कचावतीं भार्यां कृशाङ्गीं तपसा पुन : ॥
३८.प्रीणयित्वा यथान्यायं नया धर्मान् चचार स : । ज्योति:स्थानात् वायुभागे ताम्राया : दक्षिणे तटे ॥
३९.कचालिकाया : प्राग्भागे लिङ्गं संस्थाप्य शाम्भवम् । पूजयामास विधिवत् प्रत्यहं प्रीतिपूर्वकम् ॥
४०.यज्ञै : विविधैरिष्ट्वा दक्षिणापूरितैर्मुनि : । प्रजया च पितॄन् सर्वान् तर्पयित्वा च धर्मवित् ॥
४१.ततो वर्षसहस्रान्ते स्नात्वा ताम्रामहोदके । दम्पती नियतात्मानौ यतवाक्कायमानसौ ॥
४२.प्रदक्षिणीकृत्य देवं ज्योतिश्चक्रे विलिल्यतु : । तावत् कुसुमवर्षेण पूरयित्वा स्थलं महत् ॥
४३.अस्तुवन् देवता : सर्वा : सिद्धविद्याधरोरगा : । हारीतकं प्रपश्यन्त : स्तुवन्त : प्रीतमानसा : ॥
४४.जग्मुर्यथागतं देशान् तदद्भुतमिवाभवत् । कुम्भाटकोऽपि संप्राप्त शिवदीक्षां यथाविधि ॥
४५.कचावत्या तपस्विन्या : तप:कर्तुं प्रचक्रमे । हारीतकाश्रमात् तस्मात् क्रोशार्धात् एव पूर्वत : ॥
४६.ज्योतिश्चक्रस्य चैशान्यां कृत्वाश्रमपदं निजम् । पूजयामास विधिना साम्बं चन्द्रार्कशेखरम् ॥
४७.निगृह्य चारिषड्वर्गं नियम्येन्द्रियमण्डलम् । सर्वद्वन्द्वसह : श्रान्त : समाधिमुपसंश्रित : ॥
४८.सर्वं शिवमयं पश्यन् समन्तात् व्योमरूपिणम् । ध्यानयोगबलेनैव निर्मलात्मा बभूव ह ॥
४९.एवं वर्षशते पूर्णे तपसाराधितो विभु : । प्रादुर्बभूव तस्याग्रे भगवान् वृषरूपधृत् ॥
५०.स्वलोचनविनिष्क्रान्तै : करुणासान्द्रशीतलै : । पीयूषतोयैर्विमलै : अभ्यषेचयत् आदरात् ॥
५१.तत्सुधावृष्टिधाराभि : सिच्यमानो कुशात्मज : । शनैरुन्मीलयामास समाधिस्थ : स्वलोचने ॥
५२.ददर्श पुरतो देवं चन्द्रमण्डलपाण्डुरम् । स्तूयमानं सिद्धगणै : महावृषभरूपिणम् ॥
५३.समुन्नताभ्यां श्रुङ्गाभ्यां द्विकूटमिव दर्पितम् । तप्तहाटकसंभिन्नै : महामणिविभूषणै : ॥
५४.देदीप्यमानं देवेशं कामदं कल्पकोपमम् । दृष्ट्वा तत्पुरतो नत्वा कृताज्जलिपुटोऽनघ : ॥
५५.तुष्टाव परमेशानं धर्मं धर्मभृतां वर : । कुम्भाटक : --नमो नमस्ते लोकानामादिकर्त्रे महात्मने ॥
५६.धर्माकाराय साराय श्रुतीनामात्मने नम : । त्वां भजन्त : तथा भक्त्या स्तुवन्ति त्वां सुरासुरा : ॥
५७.ध्यायन्ति योगिन : स्वान्ते त्वामेव च परात्परम् । त्वत्कृपालोककणिकालाभमात्रेण जन्तव : ॥
५८.जगत् क्षोभयितुं कर्तुं त्रातुं पटुतराभवन् । त्वन्मुखान्निर्गता वेदा मर्यादां व्यक्तयन्ति ते ॥
५९.तेषु तेषु च वर्तन्ते त्वदाज्ञागौरवाय ते । येषां त्वं विमुखो देवो ते वै सीदन्ति सर्वदा ॥
६०.त्वदालम्बनयोगेन सिद्धयोऽष्टौ न संशय : । ऐहिकामुष्मिकौ मार्गौ त्वत्सृष्टौ लोकहेतवे ॥
६१.नम : पूर्वाय पूर्वाणां पुरुषाय महात्मने । वृषाय वृषरूपाय वेदरूपाय ते नम : ॥
६२.त्वच्छक्त्या धार्यते सर्वं त्वल्लीलाकलनात्मकम्।त्वं विष्णुस्त्वं शिवो ब्रह्मा त्वं मित्रो वरुणो यम : ॥
६३.त्वं गुणै : त्रिगुणाभिख्यां बिभर्षि कलया स्वया । प्रसीद देवदेवेश प्रसीद परमेश्वर ॥
६४.पाहि पापार्णवाद्भीतं भक्तं मां शरणागतम्।नमो नम:कारणकारणाय ते कलाविशेषै: कलिताखिलात्मने ।
६५.प्रसीद विश्वेश्वर विश्वमूर्ते प्रसीद देवेश दयासुधानिधे ॥
६६.इति स्तुत्वा स कुम्भाटो भक्त्या परवशो मुहु : । प्रणामममकरोत्तस्मै दण्डवत् पुरतो विभो : ॥
६७.तत : प्रसन्नो भगवान् स्तोत्रेणानेन तोषित : । तमुत्थाप्य वराभीतिरताङ्गजलजोज्ज्वलै : ॥
६८.भुजै : पीयूषसंसिक्तैरभिमृज्याङ्गमादरात् । प्राहैनं प्रहसन् वाचा भगवान् राजनन्दनम् ॥
६९.भगवान् --संहृष्टोऽस्मि महाराज स्तोत्रेण तपसा पुन: । पापाश्च संक्षयं नीता : विमुक्तो मातृहत्यया ॥
७०.षड्जपालाभिधस्त्वं हि गन्धर्वाणामधीश्वर : । प्रारब्धदोषात् मर्त्यत्वं प्राप्तवानसि केवलम् ॥
७१.देवो न भविता भूय : सर्वभोगसमृद्धिमान् । संपूजित : त्वया शम्भु : पूजिता परमेश्वरी ॥
७२.अत्र ज्योतिर्महद्दृष्ट्वा भूयो नार्हसि शोचितुम् । इत्थं सन्दर्शयामास तस्मै संवित् महापगा ॥
७३.अनन्तमक्षयं नित्यमनपायमकल्मषम् । तेजसामपि तेजिष्ठमविषह्यमनातुरम् ॥
७४.काङ्क्षितानि प्रदास्यामि दुर्लभानि महीतले । गजहस्तप्रमाणेन भूमिभागात् समुत्थितम् ॥
७५.उपास्यमानं श्रुतिभि : स्तूयमानं महर्षिभि : । दृष्ट्वा तदद्भुतं तेजो कुम्भाटो हर्षनिर्भर : ॥
७६.संप्राप परमानन्दं तत्तेज:पुञ्जदर्शनात् । ततो देवो राजपुत्रीं पाणिमालम्ब्य पाणिना ॥
७७.प्रदक्षिणं परीत्यैनं धर्मो वृषरूपधृत् । तमेनं राजतनयं तीर्थे तस्मिन् न्यमज्जयत् ॥
७८.तथैव भगवान् तत्र संविवेश महाम्बुनि । तावत् सर्वेषु पश्यत्सु दिवि देवेषु सर्वत : ॥
७९.तत्तीरपूरात्ताम्राया : मुहूर्तात् उन्ममज्ज स : । कन्दर्पस्पृहणीयेन वपुषा भानुवर्चसा ॥
८०.राजपुत्रो मणिव्रातै : तप्तकाञ्चनभूषणै : । पूजित : तरुणाकारो दीर्घबाहु : सुलोचन : ॥
८१.त्यक्त्वा तु मानुषं भावम् देवभावेन भाषित : । स्मयमानमुख : श्रीमान् चकाशे भानुमान् इव ॥
८२.आवव्रु: तथा स्निग्धा : ज्ञातयो मित्रबान्धवा : । गन्धर्वा : स्वै : विमनै :तं मिथुनीभूय कौतुकात् ॥
८३.निस्तीर्णशापं कुम्भाटं निर्मुक्तं पापपञ्जरात् । प्रीणयन्त : स्तुवन्तश्च जल्पन्तो विविधा : कथा : ॥
८४.केचित् च चन्द्रसंकाशा : केचित् वैश्वानरोपमा : । प्रकाशयन्तो गगनं स्वभूषणमरीचिभि : ॥
८५.तमूचु : स्वागतैर्वाक्यै : स्वागतस्तोत्रसञ्चितै : । अये सुहृत्तमाभ्येहि कुशलं किन्तु सांप्रतम् ॥
८६.त्वद्वियोगा : वयं सर्वे विप्राणा इव जीविता : । इत्थं सञ्जल्पमाणेषु गन्धर्वेष्वखिलेष्वपि ॥
८७.परिभ्रान्त इवालोक्य तूष्णीमासीत् स केवलम् । तावदेनं समासाद्य नारदो वाक्यमब्रवीत् ॥
८८.अजानन् इव किं साधो बन्धून् अभ्यागतान् इमान् । न मेलयसि नाभ्येषि न ब्रूषे प्रियभाषणम् ॥
८९.त्वन्नाथकेतोर्मालिन्यां जातो गन्धर्वभूपते : । नामत : षड्जपालं त्वां प्रशंसन्ति सुरासुरा : ॥
९०.किन्ते व्यवसितं साधो किं वा कर्तव्यमद्य ते । अक्षय्यास्ते महाभोगा : एवं पूर्वतना : खलु ॥
९१.महातीर्थेन पूतात्मा तपसा धूतकल्मष : । आराधितो महादेवो देवास्ते परितोषिता : ॥
९२.इदानीं वृषरूपेण समागम्य महेश्वर : । अत्र तीर्थवरं कृत्वा त्रीन् लोकान् स पुनाति हि ॥
९३.अपि पापशताविष्टो मर्त्यो मलयजामिमाम्। स्पृष्ट्वा संछिन्नकर्मपाश: स्यात् एति एव परां गतिम् ॥
९४.ज्योतिर्वनमिदं नाम्ना ख्यापितं परमात्मना । तपोभिर्दुष्करैर्वापि नियमैर्वा यमैस्सदा ॥
९५.ददर्श हि महत्तेज : तत्रैतत् दृष्टवानसि । मन्ये त्वामुत्तमं लोके गन्धर्वाणां महत्कुले ॥
९६.त्वया तपो विशेषेण लब्धमेव हि नान्यथा । क्षणमात्रमुषित्वापि जन्तुर्ज्योतिर्वने पुन : ॥
९७.न याति जननीगर्भदु;खजालसमावृत : । त्वादृशा शतशो मर्त्या : तपस्तप्त्वा सुदुस्तरम् ॥
९८.प्रयाता परमं स्थानं अत्र ज्योतिर्वने घने । क्षेत्रमेतत् हि जन्तूनां दुष्कर्मपरिकृन्दनम् ॥
९९.ज्ञात्वैव मुनयोऽत्रैवं तप:कुर्वन्ति निर्मला : । अत्रान्तरायशान्त्यर्थं भगवान् आदिपूरुष : ॥
१००.स्वभृत्यौ कल्पयामास श्रीपुष्कलसपुष्कलौ । अद्यापि क्षेत्रवर्यस्य शास्तारौ बालकाविमौ ॥
१०१.तस्मात् तव महाबहो प्राक्तनै : तपसां फलै : । लब्धं क्षेत्रमिदं न्यूनमनायासेन सिद्धिदम् ॥
१०२.कृतार्थोऽस्मि कृतार्थोऽस्मि कृतकृत्योऽस्मि कर्मणा । मा विलम्बोऽत्र सर्वेषां जन्तूनां प्रीतिमावहन् ॥
१०३.इदं विमानमारुह्य प्रयाहि पदवीं निजाम् । इत्युदीरितमाकर्ण्य देवर्षे : प्रीतिपूर्वकम् ॥
१०४.षड्जपाल: प्रणम्यैनं प्रत्युवाच कृताञ्जलि: । षड्जपाल : --नमस्तुभ्यं भगवते योगिवर्याय धीमते ॥
१०५.गुरवे सर्वविज्ञान निधये वेधसे नम : । तत्तथैव करिष्यामि भवातात्रानुशासितम् ॥
१०६.लोकपालादिभिमूर्ध्र्ना त्वदाज्ञा धार्यतेतराम् । सैषानुवर्तिनी या मे श्रुतिवाक् इव ते गुरो ॥
१०७.कञ्चित् कालमिहैवाहं भूयोऽभ्यर्च्य सदाशिवम् । तत : परं करिष्यामि यदि ते मय्यनुग्रह : ॥
१०८.इत्युक्तवति वै तस्मिन् भक्त्या विनयपूर्वकम् । नारदोऽतीव संहृष्ट : तथास्त्वित्युदीरयन् ॥
१०९.सह गन्धर्वनिवहै : व्योमयानं प्रतस्थिवान् । अथ तस्मिन् मुनिवरे यते सह नभश्चरै : ॥
११०.षड्जपाल: स गन्धर्व: किञ्चिदेवं व्यचिन्तयत् । तपोभि : मत्कृतैश्शम्भु : सन्तुष्टो नात्र संशय : ॥
१११.स्तुवन्ति मां सवयसो गन्धर्वा : स्तुतिगौरवात् । मां वदन्ति समानेषु देवा : श्रेष्ठतमं पुन : ॥
११२.पूजिता : विबुधास्सर्वे तारितोऽस्म्यसंशयात् । इत : परं चरिष्यामि मर्त्यानां हितकाम्यया ॥
११३.अत्रागमनमात्रेण सर्वे निर्धूतपातका : । प्रपश्यन्ति महत्तेज : यद्दृष्ट्वा मुच्यते जन : ॥
११४.कृतघ्न : पिशुनो मूर्ख : ब्रह्महा गुरुतल्पग : । परिवित्तापहर्ता च परनारीरतोऽपि वा ॥
११५.परापवादी पाषण्ड : परहिंसापरायण : । दूषको वेदमार्गस्याप्यवमन्ता महात्मनाम् ॥
११६.विष्णुभक्त : शिवद्रोही विष्णुद्रोही शिवप्रिय : । एते चान्ये च पापिष्ठा : पश्चात्तापानुतापिता : ॥
११७.प्रायश्चित्तानुसंगम्य तीर्थेऽस्मिन् कृतमज्जना : । प्रवेशमात्रात् क्षेत्रस्य महतोऽप्याहतैनस : ॥
११८.पश्यन्ति निर्मलात्मान : परञ्ज्योतिस्सनातनम् । एतदर्थं करिष्यामि तप : परमदुष्करम् ॥
११९.ममैव काङ्क्षितं भाग्यं सर्वेषामुपकारकम् । दातुमर्हसि विश्वात्मन् तपसाराधितो मया ॥
१२०.इति निश्चित्य संकल्प्य षड्जपालो दृढव्रत : । प्रदक्षिणं परिक्रम्य ज्योतिश्चक्रमनामयम् ॥
१२१.महतोऽस्यैव नैऋत्यां विष्णुचक्राश्रमस्थले । स्ववासायोटजं कृत्वा षड्जपालो यथोचितम् ॥
१२२.दर्भान् आस्तीर्य तत्रैव दृढधीरुपविश्य स : । प्राणान् आरोपयन् नाड्यां सुषुम्नायां विकासयन् ॥
१२३.स्वान्ते पङ्केरुहं ध्यायन् निश्चलाङ्ग : तु तत्ववित् । निरुध्य सर्वतो वायुं निराहारोऽभ्यवर्तत ॥
१२४.एवं वर्षशते पूर्णे समग्रे तस्य धीमत : । निष्पेतू रोमकूपेभ्यो ज्वाला : बालार्कसन्निभा : ॥
१२५.धूमराशिरभूदङ्गात् अम्बुदालिसमप्रभा । एवं तपोऽग्निना कॢप्तं सकलं भुवनत्रयम् ॥
१२६.भयाविष्टा जनास्सर्वे तमेवं शरणं ययु : । अनिश्चितार्थो मघवा लोकपालै : सहेतरै : ॥
१२७.समेत्य लोककर्तारं तस्मै सर्वं व्यजिज्ञपत् । भगवन् षड्जपालेन तपसाक्रम्यते जगत् ॥
१२८.तत्तपोऽग्ने : क्षणादेव जगदेकाहुतिर्भवेत् । यावत् तावत् प्रदातव्यमभीष्टं भवतास्य हि ॥
१२९.अपि सूर्यत्वमिन्द्रत्वं चन्द्रत्वं वाप्यभीप्सितम् । तस्मै दत्वाखिलान् लोकान् त्रातुमर्हसि मा चिरम् ॥
१३०.तदत : करुणाज्ञानकलास्वकुशला : वयम् । नानोपायधृतोपायकलना दैवतै : कृता ॥
१३१.तपसोऽस्य विघाताय कृतं सैकतसेतुवत् । इत्थं वैक्लब्यमेतेषां दृष्ट्वा दृष्ट्वा दयार्द्रधी : ॥
१३२.सान्त्वपूर्वमिदं वाक्यं व्याजहारामरेश्वरम् । चिन्तां कुर्वन्तु मा देवा : ह्यपनेष्यामि साध्वसम् ॥
१३३.श्रुण्वन्तु सर्वे गीर्वाणा : मद्वश : कार्यसाधने । ऋतुधामा महीपाल : पुरासीत् पाण्ड्यमण्डले ॥
१३४.तस्यैव यजमानस्य राजदूये महाक्रतौ । यूपावटे खन्यमाने कचालि : समदृश्यत ॥
१३५.तस्मात् आश्चर्यसंभ्रान्तै: तस्मात् मृदमपोह्य तु। ऋत्विग्भि : अपरै : सभ्यै : तत्रापश्यत दारिकाम् ॥
१३६.तामादाय स भूपाल : पुत्रीकृत्य स्वभार्यया । पुपोष नामत : कृत्वा ब्राह्मणै : च कचालिकाम् ॥
१३७.लालिता पोषिता बाला मात्रा पित्रा च सादरम् । व्यवर्धेन्दुरेखेव समये संस्कृता तदा ॥
१३८.सा प्राप यौवनावस्थां कालेनैषा कचालिका । रूपयौवनसंपन्नां बालामालोक्य भूपति : ॥
१३९.वराय रूपसौभाग्य वराय कुलशालिने । प्रदातुकामो भूपालान् आजहार स्वयंवरे ॥
१४०.सर्वेषु राजपुत्रेषु मिलितेषु एकतो वधू : । सखीभिस्सह संयुक्ता साक्षात् श्रीरिव रूपिणी ॥
१४१.वरणस्रजमादाय स्वयंवरसभामगात् । आलोक्य मञ्चादिगतान् महीपालसुतानियम् ॥
१४२.तुच्छीकृत्यधिया तन्वी तामिमां वरणस्रजाम् । व्योम्नि वेगात् प्रचिक्षेप सुपर्णो भुजगीमिव ॥
१४३.तत्र कोऽपि युवा कोटिकन्दर्पोद्दाममूर्तिमान् । स्कन्धेनादाय तां मालां क्षणात् अन्तरधीयत ॥
१४४.तावत्कलाकलारावो मिलितानां महीभुजाम् । कन्यात् आदातुकामानां बलात् बलवतां तथा ॥
१४५.सन्नाहसंभ्रमं व्योम्ना रुन्धती वाक् अजायत । देवभोग्येयं अनघा तन्वी साक्षात् उमांशजा ॥
१४६.यस्त्वेनां स्पृहते कन्यां बलात्कारेण दुर्मति : । तस्य मूर्धा भवेत् नूनं शतधा नात्र संशय : ॥
१४७.इति श्रुत्वा वचो भीत्या राजपुत्रास्तु निस्पृहा : । ययुर्यथागतं सर्वे विस्मयमाना महामते ॥
१४८.उमांशजां प्रियां पुत्रीं निश्चित्य सह मन्त्रिभि : । ब्रह्मार्पणधिया तत्र दत्तवान् कृतकृत्यधी : ॥
१४९.सापि निर्विण्णहृदया तपसा देवमीश्वरम् । आराधयामास तथा नन्दाटव्यां कृतोटजा ॥
१५०.वायुभक्षा निराहारा स्वात्मन्यारोप्य चेतसम् । निश्चलाङ्गी निरातङ्का निगृहीतेन्द्रियावलि : ॥
१५१.इत्थं तत्र तपस्यन्त्या : निरपायं तपोवने । भूर्युगानां त्रितयं क्षणप्रायमिवाभवत् ॥
१५२.सैषा तपस्विनी युष्मत्परितापोपशान्तये । भविष्यति न सन्देहो भूमेर्वृष्टिं यथोचिता ॥
१५३.इत्युक्त्वा तां समाहूय ब्रह्मा लोकपितामह : । वचोभिस्सान्त्वयित्वाह लोकानां हितकाम्यया ॥
१५४.ब्रह्मा --तपस्विनि महाभागे राजपुत्रि कचालिके । जितास्ते सकला : लोका : देवाश्च परितोषिता : ।
१५५.मनोरथ : समीपस्तो मास्तु चिन्तापरिश्रम : । ज्योतिर्वने समासीनं तपस्यन्तं सुदुस्सहम् ॥
१५६.षड्जपालं समाधाय लोकानुग्रहकारिणि । ताम्राया : उत्तरे तीरे क्षेप्तुमर्हस्यपां चयै : ॥
१५७.लोकाश्च सुखिन : सन्तु देवो निर्वृतिमृच्छतु । सखीभूत्वा त्वमम्बाया मालेय्या लोकसंमता ॥
१५८.सायुज्यमुपगच्छध्वमखण्डब्रह्ममण्डले । लोके विस्तार्य विमलां कीर्तिं पापप्रणाशिनीम् ॥
१५९.इत्यादिष्टा भगवता ब्रह्मणा सा कचालिका । देवैस्सह महीं प्राप्य तत्तथाभिदधे मुखम् ॥
१६०.नन्दाटवीमुपगता तरुणी चिराय संप्राप्य काङ्क्षितमशेषजगद्धिताय ।
    तीर्थप्रवाहपुषिता मिषतां सुराणां तं षड्जपालमुदवासयत् आत्मशक्त्या ॥
                          इति अष्टचत्वारिंश : अध्याय :  Pro.Total = 4303 + 160 =4463.
                              एकोनपञ्चाशोऽध्याय :
                             गन्धर्वतीर्थमहिमवर्णनम्
१.बृहस्पति : --तपोधन महाभाग कश्यपप्रियनन्दन । श्रुणु वक्ष्यामि ते पुण्यां कथां पापप्रणाशिनीम् ॥
२.यस्या : श्रवणतो जन्तु : न भूयो जन्म गच्छति । सर्वेषामेव जन्तूनामाकैवल्यफलप्रसू : ॥
३.इत्थं कचालिका देवी समादिष्टा स्वयंभुवा । पुलिन्दशैलपर्यन्तां निष्क्रान्तां नन्दकाननात् ॥
४.महातीर्थप्रवाहेन प्लावयित्वा वसुन्धराम् । महावेगसमुत्कृष्टनानातरुलतावृता ॥
५.समाधिनिष्ठं गन्धर्वं षड्जपालं क्षणादिव । आदाय दूरे चिक्षेप कूले नद्यास्तथोत्तरे ॥
६.आश्लिष्यमाणो सस्नेहं ताम्रपर्ण्या मुहुर्मुहु : । अभिवृष्ट : पुष्पचयै : स्तूयमान : मुनीश्वरै : ॥
७.पश्यतां सर्वलोकानां ज्योतिश्चक्रमुपाविशत् । इत्थं तया स गन्धर्व : संक्षिप्तोऽन्य्त्र चाश्रमात् ॥
८.ताम्राया उत्तरे तीरे योगात् मुक्तोन्मिमील स : । अदृष्टपूर्वं विपिनं नानाद्रुमलतायुतम् ॥
९.दृष्ट्वा चिरेण संजज्ञे किमेतत् इति विस्मित : । कुतोऽहं प्राप्तवान् एतत् विपिनं चित्रवृक्षकम् ॥
१०.ममाश्रमं न पश्यामि तस्मात् मत्पुरतो वनम् । कथं ज्योतिर्वनाद्बभ्रष्ट : केनानीतोऽस्मि दूरत : ॥
११.कस्समर्थोऽस्ति वै स्थानात् मां विचालयितुं भुवि । देवभावेन हीनत्वात् प्रक्षीण इव दृश्यते ॥ 
१२.तत्र सन्धुक्षितं गात्रं विस्मृतिश्चापि चेतसि । हा कथं करणीयं मे कर्म काङ्क्षितसिद्धये ॥
१३.किमत्र कृत्यं युक्तं मे कं सहायं वृणोम्ऽयहम् । आशा का वा विग्रहस्या श्रेय : प्राप्स्ये पुन:पुन : ॥
१४.इत्थं विभ्रष्टयोगोऽयमपास्थासनबन्धन : । अधैर्यदूषितस्वान्त : परमार्थविचारण : ॥
१५.स गन्धर्वो विसृष्टार्थ : गन्धहस्तीव नि:श्वसन् । समुत्तस्थौ शनै:पश्यन् समन्तात् तटिनीतटम् ॥
१६.विलुलोके न पश्यामि तमालतरुकाननम् । जम्बुजम्भीरनारङ्गकेरवानीरनीपकै : ॥ १७.मालूरमालतीचिञ्चाप्रवालबकुलेन्द्रिकै : । माक्न्दकुन्दमाध्वीकनमेरुपनसादिभि : ॥
१८.अन्यैरनोकहै : श्रेष्ठै : सपुष्पफलपल्लवै : । निवारितातपोद्गारं निरन्तरमधुस्रवम् ॥
१९.मन्दमारुतसंपातं कूजत्कोकिलसारसम् । सुखानामिव संवासं सुपुण्यादानामिवोदयम् ॥
२०.सिद्धैर्मुनिगणैर्दिव्यै : ब्रह्मध्यानपरायणै : । अस्खलद्द्रुतमर्यादै : मुनिदारैश्च शोभितम् ॥
२१.सुकुमारै : कुमारैश्च व्रतस्वाध्यायलम्पटै : । अलङ्कृतमिवात्यर्थं वनमासाद्य नि:श्वसन् ॥
२२.इतस्तत : परिक्रम्य विश्राम्य च मुहुर्मुहु : । दैवात् आलोकयाञ्चक्रे वसतिं पर्णनिर्मिताम् ॥
२३.तस्यां तपस्विनीं दृष्ट्वा वृद्धां विगतकल्मषाम् । तां प्रणम्य स गन्धर्व : प्रश्रयावनतोऽब्रवीत् ॥
२४.का त्वमम्ब महाभागे तीर्थे लक्ष्मीर्विभासि मे । ज्ञातुमिच्छामि तत्वेन कस्याश्रमपदन्त्विदम् ॥
२५.अहं गन्धर्वराजस्य तनय : स्वेन कर्मणा । शापात् अवाप्य मानुष्यं मदान्ध : कृतकिल्बिष : ॥
२६.दैवात् ज्योतिर्वनं प्राप्य कचावत्या : प्रसादत : । मुक्तशापोऽपि मोहेन भूय : श्रेयो विधित्सया ॥
२७.समारब्धतपस्तत्र केनाप्यस्मद्विरोधिना । नीतोऽस्म्यम्ब तवोपान्ते जनन्या इव बालक : ॥
२८.न जानाम्यपरं कृत्यं मित्रमापत्सहायिनम् । त्वां प्रपन्नोऽस्मि तत्वेन त्रातुमर्हसि किल्बिषात् ॥
२९.इत्थं संप्रार्थिता तेन प्रणतेनानुशोचता । ध्यायन्ती क्षणमात्रं तु निश्चितार्था तपस्विनी ॥
३०.अभिनन्द्यार्हणैर्वाचा व्याजहार तमागतम् । तपस्विनी --गन्धर्वज्येष्ठ जानामि त्वद्वृत्तान्तमशेषत : ॥
३१.अलं शोकविकल्पेन धैर्यमालम्ब्य चेतसा । भूयांसि ते भविष्यन्ति श्रेयांस्यायान्ति संपद : ॥
३२.अस्याश्रमस्य माहात्म्यं शृण्वताम् पुण्यवर्धनम् । वक्ष्यमाणं मया कर्णविषयीक्रियतां त्वया ॥
३३.पुरा हिमवत : पृष्ठे धाराटव्यामुमाश्रमे । तपश्चक्रे महातेजा : वल्कलाख्यो महामुनि : ॥
३४.सर्वद्वन्द्व : शान्त : जितक्रोधो जितेन्द्रिय : । दुष्करैर्नियमैर्देवं तोषयामास शङ्करम् ॥
३५.तदन्तरायजननी कापि रातिञ्चराङ्गना । उलूकाक्षीति विख्याता तमेनं पुत्रगर्दिनी ॥
३६.प्रणम्य तरुणीभूय प्राह रूपगुणान्विता । राक्षसी --प्रसीद भगवन् ब्रह्मन् प्रसीद करुणानिधे ॥
३७.हतबन्धुं ज्ञातिहीनामनन्यजनसंश्रयाम् । अङ्गीकुरु महाभाग यावत् आप्रसवं प्रियाम् ॥
३८.पुत्रमेकं प्रतीक्षन्ती तपोबलसमन्वितम् । उलूकाक्षीति विख्याता जानीहि तपसां वर ॥
३९.इति तद्गदितां वाणीमाकर्ण्य मुनिपुङ्गव : । समाप्य काल्यं नियमं पराधीनोऽग्गजन्मना ॥
४०.व्याजहारानुरागेण तामिमां रजनीचरीम् । अयि प्रीतोऽस्मि भद्रं ते त्वयास्त्वभिमतो रति : ॥
४१.इत्थं प्रसाद्य च तया रेमे रात्रिञ्चरस्त्रिया । अजनिष्ट तथा तस्यामात्मजो भीमविक्रम : ॥
४२.जायमानोऽतिरौद्रस्तु क्रन्दन् मण्डूकवत् यत : । तस्मात् मण्डूक नामानं तमेनं मुनयो विदु : ॥
४३.स पितु : प्राप्य परमां विद्यां क्षिप्रप्रसादिनीम् । तया संप्रीणयन् शम्भुं तताप परमं तप : ॥
४४.ततो वर्षशते पूर्णे प्रीत : प्रादुरभूत् शिव : । तमाह वत्स प्रीतोऽस्मि वरान् दास्ये मनोरथान् ॥
४५.इति तद्वचनं श्रुत्वा सुप्रीत : प्रणतोऽब्रवीत् । देवदेव दयासिन्धो यदि देयो वरो मम ॥ 
४६.अवध्यत्वमजय्यत्वमशेषैरमरैरपि । कामगत्वं च मे देहि त्वामहं शरणं गत : ॥
४७.एवमस्त्विति संभाष्य गौर्या मौलिभूषण : । कञ्चिन्मणिवरं तस्मै दत्वा भूयोऽभ्यभाषत ॥
४८.यावदेव मणिर्मौलौ ज्वलते भास्करोपम : । तावत् त्वमखिलैर्देवै : अवध्यो भविता ध्रुवम् ॥
४९.इत्युक्त्वान्र्तर्दधे देव ; सोऽपि तुष्टो निशाचर : । स्वमात्रे कथयामास स्ववृत्तान्तमशेषत : ॥
५०.संहृष्टा चोदयामास स्वविपक्षविनाशने । सोऽपरेद्यु : समाहूय स्वमित्रान् रजनीचरान् ॥
५१.स् जिगाय जगच्चक्रं सब्र्ह्मेन्द्राग्निमारुतम् । सप्तद्वीपादिपान् खण्डान् इलावृतमुखानपि ॥
५२.विशेषात् भारतं वर्षं संप्राप्य सह राक्षसै : । समन्तात् भक्षयामास प्रजा : कालान्तकोपम : ॥
५३.काशिकौसलकाश्मीराकामरूपकुविन्दकान् । अङ्गवङ्गकलिङ्गान् च मद्रमागधमौसलान् ॥
५४.पारसीकान् च सौराष्ट्रान् पाञ्चालान् अथ कौरवान् । आन्ध्रकर्णातकारट्टचोलकेरलदौलवान् ॥
५५.एतानन्यान् जनपदान् क्षपयित्वा शनै:शनै : । आससाद महीं पुण्यां मान्यां पाण्ड्येन पालिताम् ॥
५६.क्षोभयामास सकलान् तिमिङ्ग इव सागरम् । क्रमात् इमम् समासाद्य मुनेराश्रममद्भुतम् ॥
५७.आश्चर्यगुणसर्वस्वं ताम्रातटविभूषणम् । अत्रैव वसतिं कृत्वा क्रव्यादै : स्वानुयायिभि : ॥
५८.मुनीन् विद्रावयामास तपोनिष्ठान् यतव्रतान् । कालेनाल्पीयसा तेन निर्मानुष्यमभूत् जगत् ॥
५९.ब्राह्मणा : च तपोनिष्ठा : ऋषय : च वनेचरा : । अगस्त्यं शरणं प्रापु : प्रजापतिमिवप्रजा : ॥
६०.सर्वं विज्ञापयामासु : राक्षसस्य विचेष्टितम् । स तान् मुनीन् समाश्वास्य विचार्य मनसा चिरम् ॥
६१.हरिमाराधयामास समाधिं समुपागत : । तेनैवाभ्यर्च्यमानस्तु भगवान् पुरुषोत्तम : ॥
६२.दत्वाभयं तदा तस्मै प्रीत : कलशजन्मने । मायामास्थाय तरुणीरूपेणाद्भुतदर्शिना ॥
६३.वीणाविलासिनापाणियुगलेनाब्जचारुणा । नीलोत्पलदलश्रेणीचमत्काराक्षिवर्चसा ॥
६४.वपुषा कुङ्कुमश्रेणीवर्षिणा वारुणश्रिया । मन्दं वृतश्रियास्यन्दिकुन्दपुष्पविडम्बया ॥
६५.रूपसौन्दर्यकान्तिश्रीसारपीयूषपूरया । तरङ्गिण्येव मूर्त्यात्र भगवान् अभ्यवर्तत ॥
६६.अवाप्तयौवनाकारां नारीमस्पष्टयौवनाम् । आपादमौलिविलस्त्मणिकाञ्चनभूषणाम् ॥
६७.क्वणन् नूपुरमञ्जीरमेखलादामकङ्कणै : । परस्परं भाषमाणै : अङ्गैरिव मनोहराम् ॥
६८.तामिमां मोहिनीरूपां तरुणीमौलिमालिकाम् । विलोक्य मोहिता : तैस्तै : समाचख्यु : निशाचरा : ॥
६९.एतदाश्चर्यगुणश्रेणीसुधासन्धुक्षितश्रुति : । स राक्षसेशो तुष्टेशोऽप्यनङ्गेनैव वञ्चित : ॥
७०.तां मोहिनीं समालोक्य परिश्रान्त इव आतुर : । ययाचे प्रीणयन् वाचा पत्य्रर्थे चारुहासिनीम् ॥
७१.प्रणतं याचमानं तं लुठन्तमिव चेतसा । मदगद्गदया वाचा माया नारायणी जगौ ॥
७२.भगवान् --राक्षसेन्द्र महासत्व श्रेष्ठ : त्वं बुद्धिशालिनाम् । गुणेन संपदा सर्वं जयलक्ष्म्या बलेन च ॥
७३.रूपेण यौवनेनापि प्रभावत्वात् प्रतापत : । श्रुत्वा श्रुत्वानुरागेण त्वां द्रष्टुमहमागता ॥
७४.त्वामुद्दिश्येह संप्राप्तां मां राक्षसकुलेश्वर । मां वृणीष्वेह भद्रं ते पूरयित्वा मनोरथम् ॥
७५.इति तस्या : सुधातुल्यपीयूषाक्षरचारुणा । वचसा मोहितस्सोऽयं राक्षस : प्राह सान्त्वयन् ॥
७६.राक्षस : --अशेषतरुणीसारसंपदासि विनिर्मिता । लोकैकमान्यास्थमूल्यं नालं लोकत्रयं ननु ॥
७७.अपि प्राणान् प्रदास्यामि किमन्यत् काङ्क्षितार्पणे । यद्यन्मनोरथं त्वेदं वस्तु तत्तत् प्रकल्प्यते ॥
७८.तवादेशं करिष्यामि नात्र कार्या विचारणा । त्वया ये परिरब्धाश्च न हि काङ्क्षा त्रिविष्टपे ॥
७९.प्रसाद : करणीयोऽयं अस्मिन् भृत्ये सुहृत्तमे । इति तद्वचनं श्रुत्वा निश्तितार्था प्रदर्शनम् ॥
८०.व्याजहार तदा देवी माया नारायणी वच : । माया --अनुरूपमहं मन्ये श्रुतस्य तव सर्वदा ॥
८१.औदार्यबन्धो सद्बन्धो तव चूडापथेस्थिताम् । मणिश्रेष्ठमिमां मह्यं दत्वा श्रेयोऽधिगच्छसि ॥ 
८२.इति मायाविलासिन्या वाणीमदिरया तया । प्रददौ मौलेर्मणिवर्यं विकृष्य स : ॥
८३.तस्यैव मोचयामास परिव्राट् ईषणामिव । तत्करात् उज्जहारैनां सचैतन्यबलश्रिया ॥
८४.प्राणेनैवायुषा सार्धं मणिमालां महाविभु : । तदा गतायुर्निष्प्राणो निस्सत्वो रजनीचर : ॥
८५.पपात सहसा भूमौ वज्ररुग्ण इवाचल : । तं दृष्ट्वा पतितं भूमौ सर्वे देवा : सुरर्षय : ॥
८६.प्रहृष्टा : पुष्पवर्षेण किरन्तो हरिमस्तुवन् । ब्राह्मणाश्च तदा सर्वे सहिता : कुम्भजन्मना ॥
८७.समजग्मुरिदं क्षेत्रमाराधयितुमीश्वरम् । हतेष्वशेषरक्षस्सु विद्रुते दिक्षु सर्वश : ॥
८८.सुदर्शनेन चक्रेण नीष्कण्टकमभूद्वनम् । भरद्वाज : सुमन्थु : च गौतमोऽत्रिर्महातपा : ॥
८९.विश्वामित्र : शतानन्द : शतजित् च सहस्रजित् । पुरुचि : पुलहोचथ्य : कलविङ्गप्रसादन : ॥
९०.वसिष्ठो वाम्देवश्च जाबालि : कपिलो जप : । आह्लादो मुद्गल : शङ्कु : आपस्तम्भ : कुशध्वज : ॥
९१.यज्ञकेतु : सुकेतुश्च याज्ञवल्क्योऽग्निमान् क्रतु : । शङ्ख : पराशरो व्यास : दुर्वासा श्रुतविश्रुतौ ॥
९२.मार्कण्डेयोऽऽणिमाण्डव्यो याजक : चोपयाजक : । पुरुधामा बृहद्धामा शरभङ्ग : सुतीक्ष्णक : ॥
९३.मोदक : शररोमा च शतरोमा च रोमश : । एते चान्ये च मुनय : सहशिष्या : समाहिता : ॥
९४.अभ्यायौ : प्रीतिमन्त : प्रसादयितुमीश्वरम् । आगतैरमरश्रेष्ठै : महेन्द्रवरुणादिभि : ॥
९५.समन्तानिबिडं व्योम विमानै : काञ्चनोज्ज्वलै : । ब्रह्मणा प्रययौ देवो नीलकण्ठ : शिवान्वित : ॥
९६.ते सर्वे समभिष्टूय मिलिता गरुडध्वजम् । अपूर्वतरुणीरूपामावव्रु : प्रीतिपूर्वकम् ॥
९७.तावदेषा भगवती मणिमादाय राक्षसात् । प्रददौ प्रणतायाग्रे प्रकृष्टं विश्वकर्मणे ॥
९८.तावत्परवशो बाणै : अनङ्गस्य वृषध्वज : । पत्न्यर्थे वरयामास तामिमामादिमोहिनीम् ॥
९९.सैषा भगवती माया शङ्करप्रियकाम्यया । पतिं वव्रे हरं मालामवसज्यास्य कन्धरे ॥
१००.ततो देवा : सहेन्द्रेण सिद्धाश्च परमर्षय : । तुष्टुवु : विविधै : स्तोत्रै : किरन्त : कुसुमोच्चयम् ॥
१०१.तावुभावादिपुरुषौ नरनरीवपुर्धरौ । गृहस्थाश्रममासाद्य रममाणौ परस्परम् ॥
१०२.ऊषतुस्सह सिद्धै : च शुश्रूषद्भिरिहाश्रमे । अग्निहोत्री च होता च लीलया हरशङ्करौ ॥
१०३.शतान्तं शरदामास्तां लोकानुग्रहहेतवे । तावत्तयोराविरभूत् कुमार : कोपि सुन्दर : ॥
१०४.तमेनं क्षेत्ररक्षार्थं समादिश्य विभु : स्वयम् । रहस्योपनिषत् तत्वमुपदिश्य द्विजन्मनाम् ॥
१०५.मुनीनामादिसिद्धानां मुमुक्षूणां महात्मनाम् । प्रतस्थाते च वैकुण्ठकैलासाभ्यां प्रहृष्टवत् ॥
१०६.तदस्तु भक्तिसान्द्रानन्दकरणा : ब्रह्मवादिन : । वसन्त्यद्यापि देवाश्च ऋषयश्च तपोधना : ॥
१०७.केचित् अभ्यागमनसिद्धिं केचित् मुक्तिमुपागमन् । तस्मात् हरिहराख्यं व क्षेत्रमेतत्च्च पावनम् ॥
१०८.अधिष्ठाय महादेवं मद्भक्ता : भृगुनन्दनम् । सहस्रं शरदां देवावाराध्य हरिशङ्करौ ॥
१०९.परां सिद्धिमुपागम्य तद्विष्णो:परमं पदम् । सशरीर : संप्रतस्थे मया चाराधित : पति : ॥
११०.आत्मानमनुयान्तीं मामनुरक्तां पतिव्रताम् । निषेधयित्वा सान्त्वोक्त्या दत्वा च स्वकमण्डलुम् ॥
१११.एवमुक्त्वापरेणैव जगाम परमं पदम् । यत्र यदा निशानाथे साकल्य्रेन स्वतेजसा ॥
११२.पूर्णतामेयुषि तदा तीर्थेऽस्मिन् पापहारिणि । स्नात्वा हरिहराख्ये तु विधिना वरवर्णिनि ॥
११३.ध्यात्वा हरिहरौ देवौ स्मृत्वा मामपि सादरम् । किञ्चिदभ्युदिते सूर्ये माषमात्रं शिलाकणम् ॥
११४.कलशेऽस्मिन् विनिक्षिप्य पूजयित्वा दिने दिने । एवं त्वयाद्य कर्तव्यं प्रतिपूर्वमुखं प्रति ॥
११५.यदापूर्णा भवेदेषां कलशीं मे शिलाकणै : । तदा त्वां कोऽपि गन्धर्व : शरणं समुपैष्यति ॥
११६.तावत्तस्मै समर्प्येमां कथयित्वा कथामिमाम् । मामुपैष्यसि भद्रं ते शोकं जहि सुदारुणम् ॥
११७.इति भर्तृवचश्श्रुत्वा त्वदागमनकाङ्क्षिणी।बृहस्पति : --अत्र स्थितवती कालमियन्तं तप आस्थिता ॥
११८.इत्थमग्निशिखा नाम ऋषिपत्नी मुदान्विता । दत्वेमाम् कलशीं तस्मै गन्धर्वाय महात्मने ॥
११९.स्नात्वा च तीर्थे च नियता सशरीरा दिवं ययौ । स्वभासा भासयन्ती सा स्मन्तात् गगनाङ्गणम् ॥
१२०.ज्योतिश्चक्रं परिक्रम्य भर्तृलोकमुपागमत् । सोऽयमाकर्ण्य गन्धर्व : सुप्रीतेनान्तरात्मना ॥ १२१.तयेरितामिमां वाणीं प्रतिगृह्य च कुण्डिकाम् । मेने कृतार्थमात्मानं प्राप्त : चासौ मनोरथ : ॥ १२२.आदित्यैर्मुनिवर्यैश्च शंसद्भि : शाम्भवीं कथाम् । पूज्यमान : स गन्धर्व : स्वपाणिस्थां कमण्डलुम्॥
१२३.लिङ्गशर्करप्रभापूर्णां पश्यतां कौतुकावहाम् । शिवलिङ्गे समालोक्य ह्यहो चित्रमिति ब्रुवन् ॥
१२४.मुहूर्तमभवत् स्तब्ध : परमानन्दगौरवात्  तदा समस्तविज्ञानज्ञानेन विमलाशयम् ॥
१२५.भरद्वाज : समागत्य गन्धर्वं वाक्यमब्रवीत् । स्वस्त्यस्तु ते महाभाग गन्धर्वान्वयवर्धन ॥
१२६.भूपते विधिनात्रैव लिङ्गमर्चय मा चिरम् । श्रेयांसि तव भूयांसि ददाति हि महेश्वर : ॥
१२७.इति तद्गीतिमाकर्ण्य तं पुरोधाय देशिकम् । तदादिष्टेन मार्गेण स्थाप्य लिङ्गमनुत्तमम् ॥
१२८.शतरुद्रीयमन्त्रेण स्नापयित्वा महाम्बुभि : । धूपै : दीपै : च नैवेद्यै : सुगन्धै : कुसुमैरपि ॥
१२९.पूजान्ते परमेशानमस्तावीत् संयताञ्जलि: । गन्धर्वराज : --नमो नमस्समाजानां पतये पापहारिणे ॥
१३०.पशूनां पतये तुभ्यं मन्त्राणां पतये नम : । महते मह्तां नित्यं अणूनामप्यणीयसे ॥
१३१.तेजीयसे तेजसां हि परस्मै ब्रह्मणे नम : । आर्तानामार्तिशमनमशेषाभीष्टदायकम् ॥
१३२.उमासखमहं वन्दे वन्द्यमानं सुरासुरै : । देवदेव दयासिन्धो गङ्गाधर पुरान्तक ॥
१३३.शरणं त्वां प्रपन्नोऽस्मि त्राहि मां दु;खसागरात् । नमस्सोमाय सोमार्धजटाचूडाय ते नम : ॥
१३४.पापघ्नाय मखघ्नाय दु;खघ्नाय नमो नम : । त्रिशूलिने महेशाय महामोहापहाय च ॥
१३५.नमो रुद्राय गौराय गौरीनाथाय ते नम : । नमो ब्रह्मस्वरूपाय नमस्ते विष्णुरूपिणे ॥
१३६.नमो रुद्रस्वरूपाय त्रिमूर्तिप्रेषितात्मने । अन्तराय तमस्तोमभेदिने भानवे नम : ॥
१३७.भक्तभाग्यमहाम्भोधिसुधादीधितिमूर्तये । मृत्युञ्जयाय रुद्राय नीलण्ठायशम्भवे ॥
१३८.अमृतेशाय शर्वाय महादेवाय ते नम : । अपराधशतोद्भूतनानासुकृतवर्त्मनि ॥
१३९.क्षमाकर दयासिन्धो देवदेव जगत्पते । इत्थं स्तवैरभिमतै: परितोष्य शम्भुम्
    अस्रैरजस्रगलितै : नयनाम्बुजाभ्याम् । १४०.आर्द्रीकृतस्वतनुरग्रज एव शम्भो :
    साष्टाङ्गवत् प्रणतिमाचरयां बभूव । तत्रैवं संस्तुत : तेन भगवान् परमेश्वर : ॥ 
१४१.उदियाय च तल्लिङ्गात् अरणेर्हव्यवाट् इव । अर्धमिन्दीवरश्यामर्धं कर्पूरपाण्डुरम् ॥
१४२.नरनारीवपुर्बिभ्रन् नवलावण्यसुन्दरम् । किरीटहारकेयूरकनकाङ्गदभूषणै : ॥
१४३.गङ्गाधर  : शशिधर : भस्मरुद्राक्षभूषण : । वृषमारुह्य धवलं देवैश्च समभिष्टुत : ॥
१४४.नन्दीभृङ्गीमुखैरन्यै : प्रमथैरभिसंवृत : । वराभयकरो देव : स्मयमानमुखाम्बुज : ॥
१४५.मा भैरिति ब्रुवन् वाक्यं व्याजहारामृतोपमम्।श्रीभगवान्--उत्तिष्ठ वत्स भद्रं ते मा ते शोकविकल्पना ॥
१४६.इत : परं न ते भूयात् मनोरथनिरोधनम् । वृथा व्यवसितं ह्येतत् त्यज दूरे परिश्रमम् ॥
१४७.श्रूयतामभिधास्यामि गन्धर्वप्रवराधुना । या चेष्टा जगदाधारा वसुदा विष्णुवल्लभा ॥
१४८.सर्वप्रसूरिति व्यक्तं पुराणै : परिपठ्यते । भारत्या : च विशेषेण तस्या : कर्मप्रसोर्नृणाम् ॥
१४९.मुखस्थानमिदं क्षेत्रं ज्योतिस्थानम् तु यत् स्मृतम् । तृतीयम् नयनं प्राहु : श्रुतय : च सनातनम् ॥
१५०.तददृष्टमनिर्देश्यमदृश्यमनपायवत् । अपि ब्रह्ममुखैर्देवैरनादिमुनिमुङ्गवै : ॥
१५१.दुर्दर्शं तदिदं तेज : गतं सर्वत्र गोचरम् । अपि नारायणो देव : सर्वपितामह : ॥
१५२.अद्याप्याराधयन् आस्ते शिवं तेजोपलब्धये । तद्गतं सर्वजन्तूनामक्षिलक्ष्यं चिकीर्षति ॥
१५३.पुरा कुण्डलाख्यस्य महर्षेर्भावितात्मन : । प्रियां ऋतुमतीं साध्वीं हठात्कृत्य शतक्रतु : ॥
१५४.तत्कोपात् नष्टदृक् भूत्वा नारदस्योपदेशत : । कुशस्तम्भाग्रसंस्पृष्टस्वाङ्गुष्ठाग्रेण संस्थित : ॥
१५५.चिरं तत्र तप:कृत्वा तत्प्रसादात् पुनर्वृषा । ज्योतिर्वनमनुप्राप्य लब्धदृष्टिस्सनातन : ॥
१५६.महर्ज्योतिस्समालोक्य कृतार्थ : स्वर्गमेयिवान् । तस्मात् गन्धर्वराजस्त्वमपहाय मनीषितम् ॥
१५७.पुन : पश्यसि तत्तेज : मत्प्रसादात् न संशय : । अस्मिन् हरिहरक्षेत्रे तीर्थे कलुषापहारिणि ॥
    स्नात्वा मामर्चयन् नित्यं न भूय : तनुमान् भवेत् ॥
१५८.एतावत् उक्त्वा वचनं गिरीशो गन्धर्वराजस्य करं गृहीत्वा ।
    सन्दर्शयामास महान्तमुच्चै : यदक्षरं परमं वेदितव्यम् ॥
१५९.पुनश्च तस्मिन् अभिजातरूपे श्रीकण्ठलिङ्गे स तिरोबभूव ।
    संपूर्णकामोऽर्णवपूरसाम्यमानन्दसौख्यं परमं जगाम ॥
१५०.तत्राम्बरात् अम्बरचारिमुक्तां प्रसूनवृष्टिं मणिचारुवर्णां
    पपात तत्क्षेत्रभुवं समन्तात् आनन्दयन्तीव सतां जनानाम् ॥
                          इति एकोनपञ्चाश : अध्याय : Pro.Total = 4463 + 150 =4613.
                              पञ्चाशत्तम : अध्याय :
१.सनातन : --राजन् अभिनवां पुण्यां कथां गन्धर्वभूपते : । आकर्णय मयेदानीं वर्णितामत्र विस्तरात् ॥
२.देवदेवस्य भूयोऽपि प्रसादात् शूलपाणिन : । दृष्ट्वान्तरायरहितमखण्डानन्दमण्डलम् ॥
३.तेज:पुञ्जमविच्छन्नमक्षयं परमं शिवम् । अवाप परमानन्दं चन्द्रं दृष्ट्वेव वारिधि : ॥
४.अन्ते स्वान्तोचितानन्दसुधावारिधिपूरिता : । उन्निद्ररोमनिकरै : अङ्गै : संसूचयन् इव ॥
५.दिशो विलोकयन् अक्ष्णा फुल्लपङ्कजचारुणा । देवं प्रदक्षिणीकृत्य प्रसाद्य च पुन:पुन : ॥
६.तत्रत्यान् च मुनीन् सर्वान् समापृच्छ्य सुहृत्तमान् । ज्योतिर्वनात् अथ क्षेत्रात् प्रस्थातुमुपचक्रमे ॥
७.तावत् ववर्षु : देवैश्च पूर्यमाणै : नभस्थलात् । द्योतमाना : तदा सर्वा : प्रभया काञ्चनश्रिया ॥
८.भेरीमृदङ्गसंपुष्टै : जयशब्दै : दिवैकसाम् । रोदसी पूर्यमाणेव मेघानामिव निस्स्वनै : ॥
९.प्रत्यदृश्यन्त दिव्यानि विमानानि नभ:स्थले । प्रशंसन्त : स्तुवन्तश्च हृष्यमाणा : परस्परम् ॥
१०.तमासेदुर्महात्मानं गन्धर्वा : सह चारणै : । विश्वावसुर्वीतिहोत्रो वीरसेनो विभावसु : ॥ 
११.वसु : चित्ररथोद्दाल : कीर्तिकेतु : प्रियंवद : । हाहाहूहू : महाहिश्च ऋतधामा मणिध्वज : ॥
१२.एते चान्ये च बहवो गन्धर्वाणां महारथा : । शतक्रतुं पुरस्कृत्य तमेनं पर्यवारयन् ॥
१३.तानिमानागतान् दृष्ट्वा बान्धवान् च सुहृत्तमान् । पिप्रिये प्रेमसंरम्भसंभावितविलोकनै : ॥
१४.समाश्लिष्ट : तदा सर्वै : प्रशंसद्भिर्मुहुर्मुहु : । तं षड्जपालमाहूय सुहृत्तमजनायुतम् ॥
१५.महेन्द्र : प्राप्य पाणिभ्यां पाणिमालब्य संभ्रमम् । इन्द्र : --साधु साधु महाभाग भवता धर्मचारिणा ॥
१६.दुष्करैर्नियमैर्घोरै : तपोभि : समुपार्जितम् । श्रेयो लोकत्रयोत्कृष्टम् अलमन्यैजर्नैर्न तु ॥
१७.इत:परं त्वया साकं प्राप्य ज्योतिर्वनं महत् । देवमाराध्य गौरीशं काङ्क्षे यातुं सुरालयम् ॥
१८.इत्युक्त्वेन्द्र : षड्जपालं गृहीत्वा पाणिना करम् । गन्धर्वेशं संप्रणम्य कृत्वा चापि प्रदक्षिणम् ॥
१९.सह देवैस्संप्रतस्थे ज्योतिर्वनमनुत्तमम् । अवगाह्य महातीर्थम् ताम्रामुत्तीर्य पावनीम् ॥
२०.दक्षिणं तीरमासाद्य गौरीतीर्थकान्यपि । क्रमात् निषेव्य विधिना स्तुत्वैनां तीर्थदेवताम् ॥
२१.तर्पयित्वा पितॄन् देवान् ब्राह्मणान् च विशेषत : । सक्षिनाथं गणेशानं चक्षुष्मन्तं च भास्करम् ॥
२२.उमादेवीं च भद्राख्यां तथा हारीतकाश्रमे । देत्येश्वराभितं लिङ्गं पूजयित्वा सहोमया ॥
२३.धर्माश्रमे वृषेशानमभिवाद्य यथाविधि । शतरुद्राभिधं तत्र शास्तारं संप्रणम्य च ॥
२४.पुलिन्दशैललपुण्येशं तत्रैव प्रमथेश्वरम् । विष्णुचक्राश्रमे विष्णुं ब्रह्मतीर्थं गुहेश्वरम् ॥
२५.कचावत्या : पूर्वभागे नत्वा हरिहरात्मजम् । उत्तरे तु महाकालीं तत्पूर्वे सकलेश्वरम् ॥
२६.भूतनाथं पूजयित्वा देव्या : प्राक् उत्तरे स्थितम् । ददर्शेन्द्रधनु:प्रख्यं बालातपसमप्रभम् ॥
२७.ज्वलत्पावकसंकाशं चन्द्रपाण्डुरवर्चसम् । अनाद्यन्तमनाकारमकालकलनात्मकम् ॥
२८.अपूर्वरूपमक्षीणमनादिममृतोपमम् । तस्मै सन्दर्शयामास महेन्द्र : पाकशासन : ॥
२९.तेन तद्दर्शितं ज्योति : महागन्धर्वरूपिणम् । प्रणम्य दण्डवत् भूमौ तिष्ठन् अग्रे कृताञ्जलि : ॥
३०.तुष्टाव प्रणावाकारं ज्योतिश्चक्रं शिवाकृतिम् ।
   गन्धर्व : --ओं तत्प्रपद्ये यदशेषपूर्णं तेजस्तमस्तोमहरं परस्तात्॥
३१.अपारमानन्दघनार्णवौपममहेतुवीताश्रयमप्रतर्क्यम् ।
   अतीन्द्रिये रागविशेषकल्पनाविशुद्धचित्तां पुरुहोतरालयम् ॥
३२.यदागमैर्वा नियमैरुपास्यते तदस्तु नो वस्तु पुर:पुरातनम् ।
   पुरातनैरागमगर्भनिर्णयप्रगल्भविज्ञानविशुद्धबुद्धिभि : ॥
३३.सनन्दनन्दादिभिरादियोगिभि : विभाव्यमस्माकमिदं पुरो भवेत् ।
   यदक्षरं चैवमचिन्त्यवैभवं भवार्णवोद्धारणकल्पितप्लवम् ॥
३४.शुभाय भूयात् पुरत : पुरातनै : अधिष्ठितं योगिवरप्रमाद्यत : ।
   अलं परिभ्राम्य भवार्णवोदरे ममैषणाग्राहवती दुरूत्तरे ॥
३५.त्वदङ्घ्रिपङ्केरुहसावलम्बनं पुनीहि भूम्ना सदयाक्षिवर्चसा ।
   शिवोऽद्वितीयोऽपि भवान् अरूपक : गुणक्रियारूपविभागवर्जित : ॥
३६.स्वभक्तलोकैकहिताय केवलं विनोदतो भाति विशेषरूपकै : ।
   न नाकपृष्ठं न रसादिनाथता न पार्मेष्ठ्यं न च पौरुषं पदम् ॥
३७.स्पृशामि चित्ताणुतवाङ्घ्रिसत्पते भवेत् पदालम्बनभाग्यमन्तरा ।
   उपेत्य वागीश्वरदोयित : प्राक्करोषि कृत्यं रजसा गुणेन तु ॥
३८.निदाघपुष्टो निरयत्विषा च वा पुन : स्वयं  ताटस्थ्यमसावपीडनात् ।
   बालशशाङ्कमौलिवान् भवार्णवात् पातुमिदं जनं क्षमम् ॥
३९.वाञ्छामि नाहं विषयेन्द्रियार्थान् मरन्द्बिन्दुसदृशान् अलभ्यान् ।
   शम्भो भवत्पादसरोजसेवा सुखान्तरायान् दुरितैकहेतून् ॥
४०.परित : पूरवतामियान् विषयासक्तिविकृष्टचेतसा ।
   शरणं करुणात्मना हितं भवता लब्धमिदं पदं विभो : ॥
४१.शिवशङ्करशाश्वतादिदेव न परैर्नामपरैरपीशते ।
   अमृतत्वम् अयं निजं तप : किमुताक्ष्णा विषयीकृते मयि ॥
४२.तपत्यसौ मामियं मुहुर्विषयाशा भुजगीव भूयसी ।
   भवभेषजपण्डितैरमुं  जनमङ्गीकुरु नाप्यलक्षितै : ॥
४३.क्षणमप्यसहामि कल्पकल्पं करुणादुग्धपयोनिधे विभो : ।
   अनवाप्य भवत्पदाम्बुजं नहि कालेन विलम्बनं कुरु ॥ 
४४.चिरमिति कलुषाकूपारपागतिमतिसुखदात्रीमप्यदृष्ट्वा समन्तात् ।
   परमिह विनियोगं नयनौघं त्राहि दीनानुकम्पिन् ॥
४५.अभयमहह मह्यं देहि दीनाय शम्भो जनमिममनुपश्यन् आर्द्रयात्मीयबुद्ध्या ।
    सकरुणमविलम्बादक्षिकान्त्या दयालो भुवनजननतापं मोक्तुकामोऽस्मि देव ॥
४६.इति स्मयन् स गन्धर्व : खिद्यमानेन चेतसा । आविवक्षुरिवेशानं पपात भुवि दण्डवत् ॥
४७.शङ्ख : --इत्थं तस्मिन् महाभागे पतिते भक्तवत्सल:।अरूपैर्व्याजहारोच्चै : प्रीणयन् गगनात्मक : ॥
४८.श्री भगवान् --गन्धर्वराज प्रीतोऽस्मि स्तोत्रेण तपसामुना।वरान् लोकैरमूल्यान् ते मनोरथपरिष्कृतान् ॥
४९.दास्याम्युत्तिष्ठ भद्रं ते श्रुणु मे वचनं हितम् । इमं विमानमारुह्य तप्तकाञ्चनसन्निभम् ॥
५०.शातकुम्भमणिव्रातनानामणिभूषिता : । तुरगा : कोटिसंख्याता : सारोहा : चारुदर्शना : ॥
५१.इमान् वृणीष्व मातङ्गान् उत्तुङ्गान् चन्द्रपाण्डुरान् । चतुर्दन्तान् च सारोहान् ऐरावतसमौजस : ॥
५२.भूता : तवानुचरा : शूरा : चारुविलोचना : । कन्दर्पसुन्दराकारा : स्वामिभक्ता : प्रियंवदा : ॥
५३.तवानुयायिन : सन्तु नित्या : चित्तानुवर्तिन : । इमा : चामीकरा : चारुप्रमदा : प्रियदर्शना : ॥
५४.अनेकगुणसंपन्ना : विद्युज्ज्वलितवर्चस : । स्त्रियामङ्गस्पृशो यत्र वान्ति वाता : सुगन्धिन : ॥
५५.मरुता : च तत्र जीवन्ति सुधासृष्टेऽत्र जन्तव : । इत्थमत्यद्भुतैर्भोगैरुपेतस्त्वं महीपते ॥
५६.अनेन सुहृदा सख्यं देवराजेन धीमता । संप्राप्य नाकपृष्ठाख्यं सुखीभव मदाज्ञया ॥
५७.अथ राथन्तरे कल्पे क्रमादागामिनि स्वयम् । भवितव्यमदित्यां त्वं अंशुमान् नाम नामत : ॥
५८.विधाय जगतो रक्षां हत्वा दैत्यान् बहूनिह । अत्रैव मामनाद्यन्तमखण्डब्रह्ममण्डम् ॥
५९.अपारमकुतोमोहमानन्दामृतमेष्यसि । इत्युक्त्वा विरते तस्मिन् अम्बरात् अम्बरात्मनि ॥
६०.आसीत् कलाकलाराव : स्तुवतां वै दिवैकसाम् । ववर्षु : पुष्पवर्षाणि परमामोदवायुना ॥
६१.जहर्षु : च तदा सिद्धा : ऋषयो नारदादय : । आसन् प्रसन्नसलिला ह्रदा जलरुहश्रिय : ॥
६२.सतामासीत् अकलुषम् अन्तस्वान्तसरोरुहम् । इत्थं जगदि सानन्दे स गन्धर्व : प्रसन्नधी : ॥
६३.अनुशिष्टो महेन्द्रेण सुहृद्भिश्च समावृत : । विमानवरमारुह्य देवदत्तै : महाधनै : ॥
६४.अनुयायिगणैराप्तै : स्त्रीरत्नैरपि सेवित : । उद्गीयमानसौभाग्य : छत्रचामरसेवित : ॥
६५.रराज देवराजेन सहित : चन्द्रमा इव । तावदाविरभूत् श्रीमान् वैनतेयरथो हरि : ॥
६६.सेव्यमान : सुरगणै : तस्यैव प्रियकाम्यया । संस्तुत : पूजितस्तेन तमेनं प्राह माधव : ॥
६७.श्री भगवान् --गन्धर्वराज प्रीतोऽस्मि तपसा व्रतचर्यया । सर्वाणि अस्तु भद्रं ते जीवेश्च शरदां शतम् ॥
६८.अत्रैव शम्भुर्भगबान् आत्मज्योति : प्रकाशयन् । भक्तानां श्रेयो विधायन् आस्ते सत्वगुणान्वित : ॥
६९.अत्र सर्गसमारम्भस्थित्यां रम्योपि मायया । उपसंहरण कार्यं च कुर्वन् सदा शुभङ्कर : ॥
७०.अत्र एवात्मतत्वज्ञै : आवासं अद्य क्षेत्र एव हि । उपासना च कर्तव्या सर्वदा मम वासरे ॥
७१.भाग्यमेतादृशं प्राप्तं अक्षय्यं मोक्षलक्षणम् । प्रत्यब्दमत्र स्नातव्यम् मीनमेयुषि भास्करे ॥
७२.भरण्यामर्चनीयोऽयं शङ्करो लोकशङ्कर : । एषु तीर्थेषु च स्नात्वा पुण्यं ईयु : सदा जना : ॥
७३.ब्राह्मणा : पूजनीया हि विधिज्ञ विधिना त्वया । अत्रैव देवाश्च सर्वे हितकाम्यया पूजनीया : ॥
७४.यत्ते जागरणं नित्यं प्रजानां पितरो यथा । तस्मात् अत्रैव कुर्वन्तु पूजां हरिहरात्मकम् ॥
७५.य : चात्र पुण्यतीर्थेषु स्नात्वा मलयजोदके । तेज : प्रदक्षिणीकृत्य जप्त्वा त्रिपदिकामपि ॥
७६.मुक्तपापो भवेत् क्षिप्रं नात्रकार्या विचारणा । स्नात्वा प्रभामये तीर्थे कण्ठदध्नोदकस्थित : ॥
७७.महाविद्यामनुं जप्त्वा ब्रह्महा मुच्यते परम् । सूर्यतीर्थे नर ; स्नात्वा सौरमष्टाक्षरं स्मरन् ॥
७८.निर्मुक्तपापो मर्त्य : सद्य : सायुज्यमेष्यति । त्रयम्बकं सप्रणवं तथा पञ्चाक्षरं जपेत् ॥
७९.अवगाह्य महातोयं जपन् हरिहरे तत : । ध्रुवं मुक्तिमवाप्नोति विद्यां शैवीं षडाक्षरम् ॥
८०.स्नात्वा तीर्थे जपन् चापि ध्यात्वा मामपि सादरम् । नारायणात्मकं मुक्तिमष्टाक्षरं स्मरन् ॥
८१.श्रीसूक्तं पावनं त्रिसुपर्णमथापि वा । तथैव पौरुषं सूक्तं विष्णुसूक्तमथापि वा ॥
८२.महान्यासेन सहितं शिवसंकल्पमेव च । शतरुद्रीयं ये जपन्ति तेषां मुक्ति : करे स्थिता ॥
८३.ये वज्रकीटरचितसालग्रामं द्विजन्मने । दत्वा प्रयान्ति निर्मुक्ता : तद्विष्णो:परमं पदम् ॥
८४.स्फाटिकं मणिसंकॢप्तं स्वर्णतारादिकल्पितम् । शिवलिङ्गं प्रदायैव ब्राह्मणाय महात्मने ॥
८५.अभयं तैजसं लोकं प्रयाति निरपायवत् । गोदातान्नप्रदाता वा वस्त्ररत्नप्रदोऽपि वा ॥
८६.आज्यदाताम्भसां दाता शय्यावाहनदायिन : । क्षेत्रारामप्रदाता वै रथवाजिप्रदायिन : ॥
८७.वसन्ति सुखिनो नित्यं रुद्रलोके निरामये । ये चात्र स्थापयन्त्यद्धा शिवलिङ्गं विधानत : ॥
८८.आकल्पं भोगिनो मर्त्या : ते यान्ति शिवतुल्यताम् । ममैव मूर्तिं परमां स्थापयन्ति महामते ॥
८९.न ते भूय : प्रपद्यन्ते जननीगर्भगह्वरम् । भोगस्थानमिदं नॄणां मुमुक्षूणां च मुक्तिदम् ॥
९०.तपस्सिद्धिकरं भोगसाधनोपायदर्शनम् । तस्मात् एतत् परं क्षेत्रं सेवितव्यं प्रयत्नत : ॥
९१.काङ्क्षद्भि : परमं श्रेय : नात्र कार्या विचारणा । तस्मात् अवश्यं भवता प्रत्यब्दं सह बन्धुभि : ॥
९२.आमुक्तकलनाप्राप्ति : आश्रितव्यमिदं स्थलम् । कर्मपाशानुबन्धानां यातायातश्रमावताम् ॥
९३.जन्तूनामुपकारार्थमेतावत् कथितं मया । इत्थं विभु : समादिश्य गन्धर्वं गरुडध्वज : ॥
९४.सर्वान् संभावयन् वाचा देवराजपुरोगमान् । पश्यतां सर्वजन्तूनां तेजस्यन्तरधीयत ॥
९५.इत्थमन्तर्हिते देवे देवदेवे जनार्दने । गन्धर्वराजो हृष्टात्मा सर्वदा बलसंयुत : ॥
९६.देवदत्तं महाभोगविभूतिविभवार्चितम् । देवस्थानं संप्रणम्य विमानेनाम्बरात्मना ।
   योगिलभ्यं परं स्थानमवाप परमाद्भुतम् ॥

                           इति पञ्चाशत्तमोऽध्याय : Pro.Total = 4613 + 96 =4709.








No comments:

Post a Comment