एकत्रिंशोऽध्याय :
काश्यपस्य नारदेन सह ब्रह्मलोकगमनम्
। गजेन्द्रमोक्षण कथाप्रश्न : ।
१.शिवशर्मा --अहो विस्तारिता ब्रह्मन् कथेयं भवताधुना । चन्द्रमण्डलनिष्क्रान्ता
मयूखाभिरिव ध्रुवम् ॥
२.अत्राहं श्रोतुमिच्छामि रहस्यं त्वदनुग्रहात् । कोऽसौमन्त्रवरो लब्ध : प्रमोदेन
यतीवरात् ॥
३.तमिदानीं गुरुमुखात् प्राप्स्यामि भवत : प्रियम् । इति संप्रार्थितस्तेन काश्यप
: प्राह तं पुन : ॥
४.काश्यप : --शिवशर्मन् महाभाग श्रुणु ते कथयाम्यहम् । यस्य विज्ञानमात्रेण स्वयमायान्ति
संपद : ॥
५.अश्रोत्रियेषु पापेषु वेदमार्गविरोधिषु । न दातव्यमिदं स्तोत्रं मन्त्रराजं महामते
॥
६.ऋषिरिन्द्र : तथानुष्टुभ् छन्दो देवो घटोद्भव : । सर्वाबीष्टस्य सिध्यर्थे जपोऽयं
विनियोजित : ॥
७.पाटीरशैलकोटीरमणिपीठाय वेधसे । मुनये कुंभजायोद्यदनुकंपाब्धये नम : ॥
८.लोपामुद्रासमायुक्तं महायोगासनस्थितम् । प्रसन्नं तपसां राशिं प्रणुम : कुंभसंभवम्
॥
९.इति ध्यात्वा नमस्कृत्य जपेन्नामावलिं मनुम् । अगस्त्य : कुंभसंभूतो मैतावरुणिरब्धिप
: ॥
१०.लोपामुद्रापतिश्श्रीमान् वातापील्वलभक्षण : । विन्ध्याद्रिमथनो योगी महामलयकेतन
: ॥
११.सर्वतीर्थात्मकपदो भक्ताभीष्टफलप्रद : । लोपामुद्राभुजाश्लेषहर्षरोमाञ्चमूर्तिमान्
॥
१२.नाम्नां द्वादशकं पुण्यमगस्त्यस्य महात्मन : । पठन्त्यपि शृण्वन्ति ते वै सुकृतिन
: परम् ॥
१३.तेषामभीष्टदानाय भगवान् कुंभसंभव : । अद्याभ्युद्यत्करांभोजो नात्र कार्या विचारणा
॥
१४.यशस्यं धन्यमायुष्यं ज्ञानदं भुक्तिमुक्तिदम् । नाम्नां स्तोत्रं पठेत् विद्वान्
पुरुषार्था : करे स्थिता : ॥
१५.विमलहृदयमुच्चैर्वेदवेदान्तवेद्यं विधिमुखसुरपूज्यं भूतिरुद्राक्षभाजम् ।
मुनिवरममलाङ्ग्या धर्मपत्न्याप्तभागं
कलशजमभिरामं नौमि कारुण्यमूर्तिम् ॥
१६.इत्येतत् परमं गुह्यं मन्त्रं सर्वार्थसाधकम् । यतीश्वरादनुप्राप्य प्राप्तवान्
परमं सुखम् ॥
१७.नित्यप्रमोदभूयिष्ठं प्रमोद : प्राप्तसौभग : । उपर्युपरि धर्मस्य प्राप्तभूतो
न संशय : ॥
१८.चन्दनाद्रिसमुद्भूते सत्ये शङ्करलालिते । त्वयि स्नास्ये सुप्रसन्ने पाहि मां
भवसागरात् ॥
१९.इति मम्त्रं समुच्चार्य स्नात्वा ताम्रानदीजले । पितॄन् देवान् ऋषीन् तर्प्य
नाभिदघ्नजले स्थित : ॥
२०.जपेन्मन्त्रमिदं मन्त्री त्रिवारं विजितेन्द्रिय : । षाण्मासादेव सुप्रीत :
तस्य भूयात् घटोद्भव : ॥
२१.शिवशर्मन् त्वया जप्यं प्रत्यहं प्रीतिमिच्छता । इति तेन समाख्यातां कथां कलिमलापहाम्
॥
२२.विषयीकृत्य कर्णस्य विस्मितो द्विजपुङ्गव : । शिवशर्मा पुन:प्राह काश्यपं स्वमनोरथम्
॥
२३.अत्र पुण्यतमे देशे ताम्रप्रण्यास्तटे शुभे । भवतस्सन्निधावेव क्रतुमाहर्तुमुत्सहे
॥
२४.अत : साधयितास्माकं भवानेव गुरुर्मत : । इत्थं संप्रार्थितस्तेन काश्यपो हृष्टमानस
: ॥
२५.शिष्यैरानाय्य संभारान् मुनीनानाय्य सत्तमान् । दीक्षां प्रवेशयामास शिवशर्माणमात्मवान्
॥
२६.क्रतु : क्रमात् समाप्तोऽभूदद्भुतो भूरिदक्षिण : । आवभृथ्यं विधायैव सन्तुष्टा
: सर्व एव ते ॥
२७.काश्यपं पुरत : कृत्वा यज्वान : चाग्निसन्निधौ । कथयन्त : कथा : पुण्या : दीपतीर्थकसंश्रया
: ॥
२८.एतस्मिन्नन्त्रे श्रीमान्नारद : तपसां निधि : । आययौ काश्यपं द्रष्टुमंबरात्
ब्रह्मलोकत : ॥
२९,तं दृष्ट्वा मुनिभिस्सार्धं सहित : शिवशर्मणा
। काश्यप : पूजयाञ्चक्रे नारदं विधिपूर्वकम् ॥
३०.आह चैनं सुविश्रान्तं पृष्ट्वानामयमव्ययम् । कुत : समागतोऽसि त्वं विवक्षुरिव
भाव्यसे ॥
३१.सर्वं कथय मे संयक् अगस्त्यमिह चागतम्। श्री नारद : --अत्र ब्रह्मात्मके क्षेत्रे
वसन्तं त्वां महामते ॥
३२.द्रष्टुमिच्छन्निहायात : पितामहनियोगत : । तवैव दर्शनात् ब्रह्मन् पूर्णकामोऽस्मि
सत्तम ॥
३३.शालातीर्थं दीपतीर्थं तीर्थं च पुरुषोत्तमम् । काश्यपेशं दाहकेशं पश्चिमाभिमुखं
विभुम् ॥
३४.तदग्रत : स्थितं विष्णुं शिवकोपापशान्तिदम् । पितामहस्याग्निहोत्रात् जातं श्रीमूलसंज्ञकम्
॥
३५.द्रूष्ट्वा स्नात्वापि पूज्यापि भूयो भूयो विलोकयन्।कृतार्थोऽस्मि कृतार्थोऽस्मि
विशिष्य तव दर्शनात् ॥
३६.ये चात्र निवसन्त्यद्धा जीवन्मुक्ता हि ते ध्रुवम् । तेषां दर्शनमात्रेण कृतकृत्योऽस्मि
सत्तम ॥
३७.त्वां काङ्क्षति परं स्नेहात् द्रष्टुमिच्छन्पितामह : । अगस्त्य : सह पत्नीको
भवनं परमेष्ठिन : ॥
३८.गन्तव्यं हि मया सार्धं मा विलंबोऽस्तु कार्यत: । इति श्रुत्वा वचस्तस्मात्
प्रीयमाण : पुन :पुन : ॥
३९.शिवशर्माणमामन्त्र्य तत्रस्थान् च विशेषत : । काश्यपेशं दाषहकेशं हरिं च पुरुषोत्तमम्
॥
४०.ताम्रपर्णीं नमस्कृत्य पूजयित्वा घटोद्भवम् । व्योमयान : संप्रतस्थे नारदेन
सहामुना ॥
४१.पुन:पुन : क्षेत्रराजं देवी च मलयात्मजाम् । मलयं चन्दनावासं संभाव्य मुनिपुङ्गव
: ॥
४२.देवैस्सिद्धगणैस्सार्धं गन्धर्वपतगोरगै : । पूज्यमान : समस्तैश्च अर्च्यमान
: पदे पदे ॥
४३.उपर्युपरि मेघानामुत्पतन् भास्करोपम : । सिद्धलोकमतिक्रम्य यक्षलोकमतीत्य च
॥
४४.महावायुपदादूर्ध्वं वैश्वानपदं महत् । अतिक्रम्यार्कपदवीं सिद्धचारणसेविताम्
॥
४५.नक्षत्राणां ग्रहाणां च तथा सप्तर्षिमण्डलम् । ध्रुवं प्रदक्षिणीकृत्य स्मयमानो
मुहुर्मुहु : ॥
४६.अतीत्य दूरमध्वानं महर्जनतपोर्जितम् । नारायणकरोन्मुक्त चक्रराज इवापर : ॥
४७.आससाद शनैर्व्योम ब्रह्मलोकं सनातनम् । अद्यापि तस्य महिमा दृश्यते तीर्थविग्रह
: ॥
४८.पञ्चकोशप्रमाणेन क्षेत्रमेतत् विनिर्मितम् । अत्राविष्कृत्य देवोऽपि मोक्षलक्ष्मी
सुदुर्लभाम् ॥
४९.तदादि सर्वजन्तूनां राजन् अद्यापि दृश्यते । एतत् ते पुण्यमाख्यानं कथितं सारसंग्रहम्
॥
५०.विस्तरात् वक्तुमस्माभि : श्रोतुं वाप्यग्रयायिना । नालं वर्षशतेनापि बहुत्वात्
अवनीपते ॥
५१.इत : परं वक्ष्यामि करिराजस्य मोक्षणम् । यत् आकर्णयतो मर्त्यो न भूय : तनुमान्
भवेत् ॥
५२.शिवशर्मापि विप्रेन्द्र : तत्र स्थित्वा कियच्चिरम् । तत्रत्यान् एव आमन्त्र्य
साग्निहोत्रसमेधित : ॥
५३.गजेन्द्रवरदं दृष्ट्वा स्नात्वा च विधिपूर्वकम् । गङ्गाद्वारमगात् तस्मात् यत्रास्ते
भगवान् हरि :॥
५४.इत : परं प्रवक्ष्यामि करिराजस्य मोक्षणं । यस्य श्रवणमात्रेण कर्मबन्धात् प्रमुच्यते
॥
५५.अगस्त्यशापात् आपन्नमातङ्गत्वं दयानिधि : । मोचयित्वा पाण्ड्यभूपं चक्रे निजपदाश्रयम्
॥
५६.अद्यापि दृश्यते यत्र वरद : सर्वदेहिनाम् । इत्थं ब्रुवति योगीन्द्रे शङ्खे
संशयभेत्तरि ॥
५७.पुन : प्रसादयन् वाचा परिपप्रच्छ भूपति : । राजा --भगवन् योगिनां श्रेष्ठ धर्माख्यानसुधानिधे
॥
५८.तं मे विस्तरतो ब्रूहि वृत्तान्तं च सविस्तरम् । को वा महीपति: पाण्ड्य: किमाघ:
कृतवान् मुने ॥
५९.संप्राप्य तिर्यक् योनित्वे शापोपहतचेतसि । अनुग्रहं मुनि : चक्रे केन वा पुण्यकर्मणा
॥
६०.कथ्यतां विस्तरात् ब्रह्मन् श्रोतुं कौतूहलं हि मे ।
इत्थं सादरमर्थित:क्षितिभुजा भूम्ना
मुनीन्द्रो मुदा चारुस्वादु कथाधुनीमकथयत् कर्णामृतस्यन्दिनीम् ।
श्रीविश्वं परमूर्तिकलितालङ्कारसंभावितां
कारुण्यैकनिधि : विधित्सुरखिलापायव्ययं शृण्वताम् ॥
इति एकत्रिंशोऽध्याय
: Pro.Total = 2540 + 60 = 2600.
द्वात्रिंशोऽध्याय :
गजेन्द्रमोक्षकथावर्णनम्
१.शङ्ख : --श्रुणु राजन् पुरा वृत्तमितिहासं सविस्तरम् । हरेर्भगवतो भूरिकरुणागैरवाश्रितम्
॥
२.वर्णयामि कलिक्लेशशमनैकान्तभेषजम् । पुरा व्यासेन कथितं शुकाय ब्र्ह्मवादिनम्
॥
३.पुरा कश्चित् अभूत् राजा पाण्ड्येषु बलिनां वर : । इन्द्रद्युम्न इति ख्यात
: यक्षराज इवापर : ॥
४.चतुर्मुखमुखामोदमेदुरा यस्य भारती । कलाविशेषकल्लोलरसनारङ्गसाक्षिणी ॥
५.निद्राविशालशीलेन पत्या सासूयमिन्दिरा । अविमुक्तोदया यस्य न जहौ वदनांबुजम्
॥
६.यत्सौन्दर्यसुधासारसोचिताक्षिसरोरुह : । कवयो नैव शंसन्ति निर्दग्धानङ्गविग्रहम्
॥
७.यस्मिन् शासति भूपाले राजनीतिविशारदे । अस्थात् अङ्गमभूत् धर्मो भूमौ पदचतुष्टयम्
॥
८.यस्य प्रतापलेशेन सन्तप्ता इव शत्रव : । समुद्रं शरणं प्रापु : केचित् कान्तारगह्वरम्
॥
९.एवं स राजधर्मेण पालयन् सकलां महीम् । अयजत् वाजपेयेन राजसूयेन चासकृत् ॥
१०.आत्मानं पावयामास हयमेधै : पुन:पुन : । यज्ञेन देवान् सन्तोष्य प्रजया पितॄन्
नृप : ॥
११.गुरून् विप्रान् धनेनैव भोगैरात्मानमेव च । एवं नीत्वा सहस्राणां द्वादशं शरदं
क्रमात् ॥
१२.विरक्त : सर्वभोगेभ्य : विनीत : प्रवया : स्वयम् । मणिवर्णं ज्येष्ठपुत्रं गुण्श्रेष्ठं
विशेषत : ॥
१३.राज्येभिषिच्य मेधावी तीर्थयात्रापर : स्वयम् । पुरोहितं समामन्त्र्य बन्धून्
च प्रेमविह्वलान् ॥
१४.कैश्चित् समन्वितो विप्रै : अनुरक्तै : महात्मभि : । मणलूरात् विनिर्गत्य नगरात्
स महीपति : ॥
१५.क्रमान्निषेव्य तीर्थानि ताम्राया : कूलयो : द्वयो : । आससाद स भूदेवै : पद्मतीर्थं
हरिप्रियम् ॥
१६.तत्र स्नात्वा तर्पयित्वा पितॄन् देवान् ऋषीनपि । तीर्थश्राद्धं क्षेत्रपिण्डं विधाय विधिपूर्वकम्
॥
१७.पुरोधाय गुरुं दान्तो धनानि बहुशो ददौ । सर्वेषु परितृप्तेषु ब्राह्मणेषु समर्हणै
: ॥
१८.माध्यन्दिनविधिं कृत्वा चकाराराधनं हरे : । गन्धै : पुष्पै : तथा धूपै : नीराञ्जनादिभि
: ॥
१९.नानाविधैश्च नैवेद्यै : स्तोत्रै : श्रुतिसमीरितै : । इत्थमभ्यर्च्यमाने तु
देवे देवीसमन्विते ॥
२०.अभ्याययौ महातेजा मुनि : कलशसंभव : । तत्रत्याम्रवणे रम्ये गजेन्द्रवरदप्रभो
: ॥
२१.यं वदन्ति महात्मान : साक्षात् भगवत : तनुम् । यस्यानुग्रहमासाद्य सर्वे जीवन्ति
जन्तव : ॥
२२.यस्मिन् देवाश्च मन्त्राश्च क्रतवो देवतास्तथा । अविश्रान्तमुपासन्ते लोकानां
हितकाम्यया ॥
२३.रुद्राक्षमालाबहुलो जटामण्डलमण्डित : । श्रौतभस्माङ्गरागेण चन्द्रमा इव पाण्डर
: ॥
२४.मुक्तामतल्लिकामिश्रमहामाणिक्यसंभृताम् । व्यावर्तयन् अक्षमालामङ्गुष्ठेन मुहुर्मुहु
: ॥
२५.निरन्तरविनिर्गच्छन् महामन्त्राक्षरोर्मिभि : । ईषत्विस्फुरमाणेन लक्षितो दन्तवाससा
॥
२६.रुरुचर्मोत्तरीयेण किञ्चित् आच्छिन्नकन्धर : । अनुगच्छद्भि : अव्यग्रै : शिष्यै
: परिवृतो महान् ॥
२७.स्वभासा भासयन् विष्वक् भास्वान् बालातपैरिव । द्रष्टुकाम : पाण्ड्यभूपमनुग्रहविधित्सया
॥
२८.तं दृष्ट्वा सहसोत्तस्थु : तत्रत्या : सर्व एव ते । नमस्कृत्य ऋषिं विद्वान्
राजपुरोहित : ॥
२९.कृताञ्जलिरुवाचेदं तमगस्त्यं महामुनिम् । पुरोहित : --ब्रह्मन् प्रसीद सर्वज्ञ
प्रसीद करुणानिधे ॥
३०.त्वदङ्घ्रिपद्मसेवायै राजाभ्येति क्षणादिह । शिवमाराधयन्नास्ते तावत् आस्वेदमासनम्
॥
३१.एवम् ब्रुवाणे वै तस्मिन् दान्ते राजपुरोहिते । तमनादृत्य भगवान् मैत्रावरुणिरीश्वर
: ॥
३२.तावता समयेनैव राजान्तिकमुपागमत् । स भूपालोऽपि तत्काले हरिपादाब्जलीनधी : ॥
३३.नोत्थानमकरोत्तस्य पूजाभङ्गभयात् क्षणम् । तावता कुपित : श्रीमान् समुद्र इव पर्वणि ॥
३४.तवैव हितकामेन क्षुद्रबन्धो मयाधुना । इयतीयमरण्यानी लङ्घिता विषमस्थली ॥
३५.अभ्यागतं परिश्रान्तं मामनादृत्य मूढवत् । स्थितोऽसि यस्मात् दुर्बुद्धे भविता
त्वं वनद्विप : ॥
३६.इति वादिनि वै तस्मिन् कुपिते कुंभसंभवे । स राजा निमिषात् एव समर्प्याभ्यर्हणं
हरे : ॥
३७.वेपमान इवोत्थाय भीतभीत : परिभ्रमत् । प्रणम्य पादयोर्मूर्ध्ना प्रश्रित : प्राह
तं मुनिम् ॥
३८.राजा --किमिदं भगवन् भृत्ये त्व्य्यनाथे मय्यनागसि । आकस्मिकमहं मन्ये शापाशनिविमोचनम्
॥
३९.सविमर्शं त्वदादिष्टपदवीपरिशीलिना । मया न दृश्यते ब्रह्मन् अपराधाण्डता विभो
॥
४०.अस्तु भाव्यमिदं मह्यमनुरूपं हि कर्मिणाम् । भाविन : स्वयमायान्ति मेघा इव नभस्थले
॥
४१.अभाव्यं च न भवत्येव वन्ध्यागर्भमिव ध्रुवम् । तथाप्यहं न शोचामि भुञ्जन् आत्मानुसञ्चितम्
॥
४२.एतावत् पालयन् संयक् अनुरागात् इमं जनम् । अत्यर्थं क्षिपसि ब्रह्मन् अपारे
वृजिनार्णवे ॥
४३.अर्भक : परिगृह्णाति कुपितामपि मातरम् । अनभिज्ञेन मूढेन मया पापं कृतं मया
॥
४४.कृतान्यकृत्य कर्मणि क्षन्तुमर्हसि धर्मत : । उपेक्षिता मे विषया धनदारासुतादय
: ॥
४५.त्वदङ्घ्रिपङ्कजासक्त्या मामवेहि समागतम् । अवसानं तु शापस्य कथं प्राप्स्ये
सुदुस्सहम् ॥
४६.पारंपर्यक्रमात् सर्वे वयं त्वत्पादसेविन : । अहमेक : परिभ्रष्ट : कुवृत्त इव
गोत्रत : ॥
४७.इत्थं दु;खपरीतात्मा विलपन् एव भूपति : । पपात पादयोस्तस्य
पाहि मां पाहि मामिति ॥
४८.एवं दु;खपरिक्रान्तं वेष्टमानं महीतले । विलोक्य कुंभजो
भूयं दयालु : पुनरब्रवीत् ॥
४९.अगस्त्य : --दु;खेनालं महाराज जहीहीह परिभ्रमम् । मयि मन्युर्न
कर्तव्यो भवितव्ये विजानता ॥
५०.त्रिकालज्ञानचतुरा बुद्धिस्ते निरपायिनी । नित्याभवतु दु;खघ्नी मत्प्रसादात् भविष्यति ॥ ५१.अखण्डज्ञानजननी हरिभक्तिरनामया । मदनुग्रहात्
अभिनवा भूयात् तव सुखाप्तये ॥
५२.अकुतश्चित्भयो धीरो बलवान् अत्र भूधरे । निवसन् हरिपादाब्जं मा विस्मर महीपते
॥
५३.मलत्रयविनिर्मुक्तो विहरस्व यथासुखम् । अनेहसा ह्रसिष्ठेन भगवान् हरिरीश्वर
: ॥
५४.मोचयिष्यति शापात् त्वां नात्र कार्या विचारणा । इत्युक्त्वा मुनिभिस्सार्धं
अगस्त्योऽतिदयापर : ॥
५५.तत्रैवान्तरधात् राजन् सर्वेषां पश्यतां तदा । सोऽपि राजा शापबलात् महानासीत्
मतङ्गज : ॥
५६.नागायुतबलो वीरो महाकायो मदोत्कट : । वनद्विपानां सर्वेषां सार्वभौम : चचार
स : ॥
५७.करिण : करिण्यश्च शतशोऽथ सहस्रश : । तमेनमनुतिष्ठन्ते देवा इव बिडौजसम् ॥
५८.प्रत्यहं तीर्थमुख्येषु भक्त्या स्नात्वा गजेश्वर : । हरिमाराधयामास नामभि
: कमलोत्पलै : ।
५९.शरीरयात्रां कुर्वाण : सत्येन सर्वसंमत : । निनाय शरदां पञ्चशतं युगशतोपमम्
॥
६०.एतस्मिन्नेव समये तत्राष्ट्रे राजदोषत : । अनावृष्टिरभूत् राजन् सर्वप्राणिभयावहा
॥
६१.समशिष्यन्त सर्वत्र वापीकूपां तु सिन्धव : । दुर्भिक्षपीडिता सर्वे(सर्वा
:) प्रजा : प्राणपरीप्सया ॥
६२.अपहाय च तत् राज्यं देशान्तरमुपाविशन् । तदा प्रतिदिनं पद्मान्यादायाभिसुदूरत
: ॥
६३.हरिमभ्यर्चयन् भक्त्या करीन्द्र : कालमभ्यगात् । अटमानो वनतटीमन्विष्यन् कुसुमाकरम्
॥
६४.आसायं सञ्चरित्वोष्मक्षुत्क्षान्तश्च श्रमान्वित : । बहुदूरमतिक्रम्य लम्बमाने
दिवाकरे ॥
६५.आससाद महानद्या : ह्रदं कमलमण्डितम् । अगाधमम्बुसंपूर्णं यादोगणनिषेवितम् ॥
६६.नानाविहगसंघुष्टं कमलामोदमेदुरम् । यत्रोदीचीमुखा ताम्रा नदी परमपावनी ॥
६७.तत्र स्नात्वा गजेन्द्रोऽपि तीर्थे सर्वश्रमापहे । उज्जहार स फुल्लानि पद्मान्यर्चयितुं
हरिम् ॥
६८.तावत् तत्र महातोये विशाले गाधवर्जिते । कश्चित् ग्राह : समुत्पत्य जग्राह च
गजेश्वरम् ॥
६९.बली बलिनमागत्य चरणे विचकर्ष ह । आतीरं करिराजोऽपि तं विकृष्य द्रुतं ययौ ॥
७०.आपत्य ह्रदमाकृष्य महान् नक्रोऽपि जग्मिवान् । एवमन्योन्यबलिनौ परस्परविकर्षिणौ
॥
७१.अविश्रान्तं द्वादशाहमासेदतुरविक्लबौ । निराहारतया दूरवनगह्वरलंघनात् ॥
७२.क्षीयमाणबलो दु;खी करिराजस्तु बृम्हयन् । संसारे स्मरतामाधिशमनं
पुरुषोत्तमम् ॥
७३.पुष्कराग्रोद्धृतांभोज : क्षान्तश्च क्षुत्पीडित : । हृदि ध्यायन् हृषीकेशं
तुष्टाव दुरितापहम् ॥
७४.गजेन्द्र : --नाथा नारायणाशेषलोकापायव्यपोहन । आदिमूल हृषीकेश दीने मयि दयां
कुरु ॥
७५.दीनबन्धो दयासिन्धो सिन्धुकन्यानिवास भो । आदिमूलार्चनीयाङ्घ्रे दीने मयि दयां
कुरु ॥
७६.घनश्याभिरामाङ्ग गङ्गाधरमुखार्चित । आदिमूलार्चनीयाङ्घ्रे दीने मयि दयां कुरु
॥
७७.अलब्धशरणोऽन्यत्र त्रस्यमान : स्वकर्मभि : । घर्मतप्त इव छायां काङ्क्षे कमललोचनम्
॥
७८.जन्ममृत्युजराध्वान्तपरिभूत : पुन:पुन : । लोको यथा दिनकरं काङ्क्षे कमललोचनम्
॥
७९.भूयो भूयो परिक्रम्य कर्कशे कर्मवर्त्मनि । अहमासितुमेकान्ते काङ्क्षे कमललोचनम्
॥
८०.त्वामेव शरणं प्राप्तं त्वयि दत्ताखिलेन्द्रियम् । उपेक्षसे कथं नाथ मामनाथं
जनार्तिहन् ॥
८१.मन्दीभूतानि इन्द्रियाणि प्राणा : कण्ठगता इमे । रक्ष मां रक्ष मां नाथ त्वन्नाथं
त्वत्परिग्रहम् ॥
८२.भो नाथ किमिदं भृत्ये पतितं शोकसागरे । मय्युपेक्षा तवेदानीं ऊष्मेव शिशिरद्विष
: ॥
८३.त्राहि त्राहि महामृत्युबडवावह्निपातनात् । त्राहि मां त्राहि मां आदिमूल मूलाक्षर
प्रभो ॥
८४.इत्थमाक्रन्दतस्तस्य करिराजस्य सीदत : । शुश्राव रिदितं घोरं भगवान् गरुडध्वज
: ॥
८५.क्षीराब्धिमध्ये भोगीन्द्रे शयान : चन्द्रपाण्डुरे । अङ्गात् उत्थाय पद्माया
: संभ्रान्त इव तत् क्षणात् ॥
८६.अनपेक्षितनैवेद्यं अनङ्गीकृतपादुकम् । व्याकुलान्त:पुरजनं किमर्थमिति सर्वत
: ॥
८७.अवाहनपरिष्कारं आरुह्य पतगेश्वरम् । व्योमयान : संप्रतस्थे स्तूयमान : सुरासुरै
: ॥
८८.आधावमानैरमरै : अनायुधकरै : भटै : । अनुगम्यमानसिद्धैश्च स्तुवद्भिर्नारदादिभि
: ॥
८९.किरीटकोटिघटितै : मणिभि : चापितल्लजै : । कटिसूत्रब्रह्मसूत्रकनकाङ्गदकुण्डलै
: ॥
९०.भ्राजमानं कौस्तुभेन सामोदवनमालया । स्फुटन् मरकतश्यामचारुपीताम्बरावृत : ॥
९१.शङ्खचक्रगदापद्मै : अलङ्कृतचतुर्भुजै : । सुनन्दनन्दप्रमुखै :पार्षदैरनुसेवित
:
९२.अविलम्बं क्षणादेव करिराजमुपागमत् । माभैष्टेत्यभयारावै : परिपूर्य दिगन्तरम्
॥
९३.तप्तचामीकराकारे वैनतेये महाद्युतौ । भासमान : श्रियो जुष्टो भगवान् मधुसूदन
: ॥
९४.मुमोच सहसा चक्रं नक्रराजवधाय हि । स तु नारायणकरान्मुक्त : चक्र : कोट्यर्कसन्निभ
:॥
९५.निहत्य ग्राहमम्भस्थमाससाद पुनर्हरिम् । स करीन्द्रो विनिर्मुक्तमृत्युरत्यन्तविस्मित
: ॥
९६.अद्राक्षीत् अद्भुताकारं हरिमार्तार्तिभञ्जनम् । ऊर्ध्वमुद्यत्पुष्करेण मकरन्दसुगन्धिना
॥
९७.नमो नारायणायेति पादयोर्हरिमर्चयत् । कन्दलत्करुणापाङ्गसुधासाराभिवर्षिणा ॥
९८.आलोकनेनालिकुलं श्रेणीपदेन चारुणा । सानुरागेण संभाव्य करिराजानमच्युत : ॥
९९.संप्रमृज्य क्षेमकरै : चतुर्भि : स्वकराम्बुजै : । व्याजहार समाभाष्य स्मयमानमुखाम्बुज
: ॥
१००.वत्स मा शोकमोहाभ्यां व्याजहीहि मनोव्यथाम् । वरान् वरय दुर्लभ्यान् अपि ब्रह्माण्डमण्डले
॥
१०१.शङ्ख : --इत्थं प्रसन्नं विज्ञाय भगवन्तं गजेश्वर : । अमन्दमुच्छ्वसन् मूर्ध्ना
कंपमानेन भूयसा ॥
१०२.प्रोद्यन्शुण्डातलामृष्टपयोदपटलीतट : । नत्वा जय जयेत्युक्त्वा वचनं चेदमब्रवीत्
॥
१०३.गजेन्द्र : --भगवन् करुणामूर्ते प्रसीद पुरुषोत्तम । नानायोनिसहस्रेषु भ्रममाण
: पुन:पुन : ॥
१०४.भागधेयवचाल्लब्धं भवत्पादाम्बुजं विभो । नाहं अर्होऽस्मि तुच्छेषु विषयावर्तकोटिषु
॥
१०५.अपारेष्वर्थसारेषु बन्धुसंसारसिन्धुषु । मां मा मुञ्च जगन्नाथ मा मुञ्च पुरुषोत्तम
॥
१०६.मा निपातय भीतं मां कर्मपातालगह्वरे । इति वाचं गजेन्द्रस्य विषयीकृत्यकर्णयो
: ॥
१०७.सहर्षं वचनं चेदं व्याजहार जनार्दन : । तथास्तु करिराजेन्द्र काङ्क्षितस्ते
मनोरथ : ॥
१०८.अत्र मज्जन्ति ये मर्त्या : तीर्थे त्वन्मोक्षदायिनि । तेषां दास्यामि निर्वाणपदवीं
नात्र संशय : ॥
१०९.चन्द्रे मत्तारसहिते सिंहेयुषि पूषणि । स्नात्वात्र मां ये पश्यन्ति ये शृण्वन्त्यावयो
: कथाम् ॥
११०.तेषां दास्यामि सौभाग्यं संपदो नात्र संशय : । अत्रैव निवसन् नित्यमहं क्षीरार्णवे
यथा ॥
१११.भक्तानां संप्रदास्यामि सत्यमेव मनोरथान् । परे पुंसि वदत्येवं पश्यत्सु भुवनेष्वपि
॥
११२.गजराजस्य निर्भिद्य मूर्धानं सूर्यसन्निभ : । स भूमिपाल : सहसा समुत्तस्थौ
श्रिया ज्वलन् ॥
११३.उपर्युपरि रोदस्योरन्तरं संप्रकाशयन् । आविवेश हरेर्वक्ष : स्फ़ुरत्श्रीवत्स्कौस्तुभम्
॥
११४.पुष्पवृष्टि : विष्वगभूत् अस्तुवन् सिद्धचारणा : । ब्रह्मरुद्रमुखा : देवा
: स्तुवन्तो हरिमीडिरे ॥
११५.दिवि भूमौ तदा वाच : बभूवु : हरिसंश्रया : । तदन्तरा ब्रह्मशापात् यक्षराट्
नक्ररूपत : ॥
११६.विमोचितो भगवता स्वरूपमगमत् पुन : । देवदेवं प्रणम्यादौ अनुज्ञातोऽगमत् पदम्
॥
११७.इत्थं सुरैर्मुनिगणैरभिपूज्यमान : सिद्धैस्सनन्दसनकप्रमुखै : स्तुवद्भि : ।
साकं गणेन भगवान् अरविन्दनाभ : सान्निध्यमत्र
विदधे जगतां विभूत्यै ॥
११८.गजेन्द्रमेवं परिपालयित्वा दु:खात् दुरन्तात् मधुकैटभारि : ।
सह श्रिया चोर्वरया गजेन्द्रमुख्यै
: स्वभक्तै : निवासम् ॥
११९.एवं विमोक्ष्य करिराजमशेषबन्धु : इन्दीवरोदरतलाभिनवस्वमूर्ति : ।
अद्यापि सर्वजगतां वरद : समास्ते नद्यास्तटे
सुघटयन् स्वकृतै : स्वभक्तान् ॥
१२०.अखिलतिमिरहन्त्रीमर्कशोभामिवोच्चै : गजपतिपरिमोक्षप्रस्तुतामादिपुंस : ।
पठति य इह भक्त्या सत्कथां श्रावयित्वा
श्रुतिपदमनुगृह्णन् याति विष्णो : पदं तत् ॥
इति द्वात्रिंशोऽध्याय
: Pro.Total = 2600 + 120 = 2720.
त्रयश्त्रिंशोऽध्याय
:
दुर्गातीर्थवैभववर्णनम्
१.श्री सूत : --एवं गजेन्द्रमोक्षां कथामाकर्ण्य भूपति : । वीरसेनो महीपालो विस्मयं
परमम् ययौ ॥
२.भूयो भूयो स्वान्तमन्त : कथामुल्लासयन् इमाम् । आनन्दबाष्पपूर्णाभ्यां लोचनाभ्यां
विलोकयन् ॥
३.अभिष्टूय मुनिश्रेष्ठमभ्यभाषत साञ्जलि : । राजा --भगवन् मुनिशार्दूल कथेयं कथिता
मया ॥
४.कर्णयोरिव पीयूषधारा कल्मषनाशिनी । अज्ञानध्वान्तशमनी हरे : कारुण्यसूचनी ॥
५.कृतार्थयति मामेषा यथा तत्पादसंभवा । इत : परं मे श्रोतव्यं दुर्गातीर्थस्य वैभवम्
॥
६.हरेरियं भगवती सहजा कथिता किल । तस्मात् तथैव विस्तार्य दुर्गाया : श्राव्यमेव
मे ॥
७.केन वा कारणेनैव दुर्गातीर्थमितीरितम् । सान्निध्यं तत्र सा देवी चकाराराधिता
जनै : ॥
८.अनेन पुण्योपाख्यानकथनेन हि मां गुरो । पुनीहि पुरुषार्थानां येन स्याम्यहमाश्रय
: ॥
९.शङ्खयोगी --राजन् कलिमलध्वान्तविध्वंसनविनोदिनीम् । कथामशेषलोकैकसवित्र्या :
कथयाम्यहम् ॥
१०.अवधानानुबन्धेन चेतसाकर्णय प्रभो । पुरा देवयुगे राजन् मनौ स्वायंभुवे सति ॥
११.कश्चित् आसीन् महीपाल ; काञ्च्यां कन्दर्पसन्निभ
: । अग्निवर्ण इति ख्यातो मेधावी वृद्धसंमत : ॥
१२.जुगोप वसुधां सर्वाम् जितामित्र : प्रतापवान् । एतस्मिन्नन्तरे कोऽपि युवा वैश्य
: समाययौ ॥
१३.आदाय वनितारत्नं स्पृहणीयां सुरासुरै : । मणिवीथीमुपागम्य परामृश्य मुहुर्मुहु
: ॥
१४.कस्यचित् वैश्यमुख्यस्य धर्मज्ञस्य विशेषत : । प्रविवेश गृहं रम्यं राजराजगृहोपमम्
॥
१५.स गृहस्थो महाबुद्धि : वृद्धश्रीकर संज्ञक : । वैश्य : समागतं दृष्ट्वा सस्त्रीरत्नं
सुविस्मित : ॥
१६.यथार्हं पूजयामास पृष्ट्वानामयमव्ययम् । उपविष्टे सुविश्रान्ते युवानं प्राह
तं गृही ॥
१७.कस्त्वम् कुतस्समायासि केन वा किं चिकीर्षया । का वेयं तरुणी भद्रा त्वयानीता
वरानना ॥
१८.निश्चितुं त्वां न शक्तोऽस्मि तेजो वै शिष्यसंपदा । देवो वा मनुजो वा त्वं सिद्धो
वेह समागत : ॥
१९.सर्वं मे कथय तात वक्तव्यं यदि चेत् ध्रुवम् । इत्थं युवा तेन पृष्ट : प्रीतो
वक्तुं प्रचक्रमे ॥
२०.तात वैश्योस्म्यहं जात्या स्वसेयं तरुणी मम । धेनुदत्ताभिधानस्य चण्डीनगरवासिन
: ॥
२१.तनयं विद्धि मां भद्र कन्धरं नाम नामत : । पितर्युपरते मातर्शेषविपर्ययात् ॥
२२.अहं बलोऽपि सौहार्दात् मातेवैनामपोषयम् । अस्यां तु वर्धमानायां बालायां रूपसंपदा
॥
२३.अयाचन्त समागत्य सर्वे कामातुरा नरा : । एवं याचत्सु सर्वेषु सासूयेषु ततस्तत
: ॥
२४.अस्मत्पितृष्वसु : पुत्रो धनी प्राप्य मां सुहृत् । पत्न्यर्थे वरयामास तस्मै
दत्ता मया स्वसा ॥
२५.उद्वाह्य विधिनैवेनामुवास सदने मम । पञ्चषट्स्वपयातेषु ततो मासेषु सूक्ष्मधी
: ॥
२६.मामाहूय जगदेदं मद्भगिन्या : पतिर्वच : । मातुलेये सखे पथ्यमावयो : श्रूयतां
वच : ॥
२७.सर्वे कुर्वन्ति कर्माणि नित्यं वर्णोचितान्यपि । ऊरुजानामिवास्माकं वृद्धिर्नियमिता
पुरा ॥
२८.कृषिवाणिज्यगोरक्षा कुसीदैरुपलक्षिता । तां वृद्धिं दैव विहितामपहायैव वर्तिनो
: ॥
२९.आवयोर्जीवनोपायो न भूयात् अन्यथा क्वचित् । अत : त्वयात्र वस्तव्यं भगिनीं रक्षतानिशम्
॥
३०.गृहात् नान्यत्र गन्तव्यक्तमव्यग्रया गिरा(धिया) । अहं समुद्रयानेन गत्वा द्वीपान्तरं
सखे ॥
३१.आनयिष्ये धनं भूरि वणिक्सामर्थ्यविद्यया । षण्मासात् आगमिष्यामि नात्र कार्या
विचारणा ॥
३२.इत्युक्त्वा तं(तां) समादिश्य प्रियामाश्वास्य सुव्रताम् । समन्वित : सार्थवाहै
: प्रययौ धैर्यसंपदा ॥
३३.अतीतसमये तस्मिन् स्वसा मे पतिदेवता । भर्तर्यनागते चेयं न भुङ्क्ते न स्वपित्यसौ
॥
३४.शोकमोहपरिभ्रान्ता प्राणान् त्यक्तुं समुद्यता । स्नेहात् एनां समानीय त्वत्समिपे
निधाय च ॥
३५.अपि द्वीपान्तरं गत्वा तमानेतुमिहोत्सहे । दुष्टा : मम पुरे सर्वे बद्धवैराश्च
पापिन : ॥
३६.तेभ्यो भीत : कामुकेभ्य : गोपयन् दारिकामिमाम् । आगतोऽस्मि महाभाग भवन्तं पितरं
यथा ॥
३७.त्वामहं शरणं प्राप्त : सवित्रीमिव बालक : । इत्थमुच्चावचैर्वाक्यै : प्रीतिं
धर्मं च वर्धयन् ॥
३८.जग्राह वृद्धदम्पत्यो : पदद्वन्द्वे रुदन्निव । व्याकुलीकृतचित्तस्य स्वपादे
पतितस्य च ॥
३९.सानुकंपं शिर : स्पृष्ट्वा समुत्थाप्य प्रमोदयन् । पाणिना पाणिमालम्ब्य निवेश्य
स्वासने सुखम् ॥
४०.प्रमृज्याश्रुकुले नेत्रे स्थविर : प्रत्युवाच तम् । तात मा शोकमोहाभ्यां जहीहि
भयमुल्बणम् ॥
४१.एतावत् अनपत्योऽहं मग्नशोकमहार्णवे । तारितोऽहं त्वया नूनं अनपत्यत्वपातकाम्
॥
४२.त्वं मे पुत्र : पुत्रिकेयं दायादौ मम संपदात् । इति तावङ्कमारोप्य मूर्ध्नुपाघ्राय
दम्पती ॥
४३.अग्निसाक्षिकमाभाष्य सुखं ऊषतुरावृतौ । कतिचित् दिवसान् उष्य संस्थितो वैश्यननदन
: ॥
४४.श्रीकरं वृद्धमाहूय सनयं वाक्यमब्रवीत् । वैश्यनन्दन : --अम्ब तात युवाभ्यां
तु मदभ्यागमनावधि ॥
४५.अनपायं पालनीया दारिकेयं सुदु:खिता । अहं दूरतरं गत्वा तं दृष्ट्वा मित्रसत्तमम्
॥
४६.सधन : पुनरायास्ये मातुलेयेन संयुत : । इति वृत्तं समापृच्छय नमस्कृत्य पुन:पुन
: ॥
४७.आश्लिष्य च समाश्वास्य भगिनीं स्नेहविक्लब : । कथञ्चित् समनुज्ञाप्य संप्रतस्थे
हृष्टवत् ॥
४८.या सा भगवती सर्वजननी परदेवता । कामाक्षीति पुराणेषु पठ्यते ब्रह्मवादिभि :
॥
४९.तां देवतां प्रणम्याग्रे प्रार्थयामास भक्तिमान् । प्रणतापायशमनीमनुकम्पातरङ्गिणीम्
॥
५०.त्वामहं शरणं यामि त्राहि मां दुरितार्णवात् । अम्ब मद्भगिनीं दीनां भर्तारमनुशोचतीम्
॥
५१.त्वामेव शरणं प्राप्तां बालां पालय शांभवीम् । इति देवीं नमस्कृत्य ययौ द्वीपान्तरं
सुधी : ॥
५२.ततस्सा वैश्यभगिनी लालिताश्वासिता परम् । शुश्रूषन्ती च तौ वृद्धौ दुर्गामाराधयन्त्यपि
॥
५३.चिन्तयन्ती च भर्तारं निनायाहर्गणान् क्रमात् । गतेष्वहस्सु गण्येषु चारा दृष्ट्वा
नृपस्य ताम् ॥
५४.त्रिलोकीवनितामौलिमालामायतलोचनाम् । राज्ञो निवेदयाञ्चक्रु : कौतूहलसमन्विता
: ॥
५५.महाराज पुरे चास्मिन् अस्माभिर्दृष्टमद्भुतम् । तदेकान्ततरं तुभ्यं विज्ञापयितुमागता
: ॥
५६.अनुकम्पावलोकस्य यद्यस्मिन् मन्यसे पदम् । इत्थं ब्रुवत्सु चारेषु सभ्रूभङ्गावलोकनै
: ॥
५७.स विभु : चोदयामास प्रवक्तुं तत्कुतूहलम् । तत : प्राञ्जलिरभ्येत्य चारो वाचमवोचत
॥
५८.वैश्यस्य कस्यवित् गेहे वर्तते वनितामणि : । तप्तकाञ्चनसंकाशासंप्राप्तनवयौवना
॥
५९.आपातकेशसौन्दर्यसिन्धुचन्द्रकला किल । लक्ष्मीनिर्माणकौशल्यं पुनर्दर्शयता भुवि
॥
६०.महायत्नो विरिञ्चेन कथञ्चिदपि निर्मिता । बहुनात्र किमुक्तेन संक्षेपात् श्रूयतां
विभो ॥
६१.सेयं स्वर्गात् आगता वा देवी नागाङ्गनापि वा । राजराजैकभोग्या सा न योग्यान्यस्य
कस्यचित् ॥
६२.निशा योजयता चन्द्रं रमया पुरुषोत्तमम् । देवेन सापि भवता योजनीयेति चिन्त्यते
॥
६३.इति तस्य वच : श्रुत्वा राजा कामवशं गत : । भटैरनेकसाहस्रै : गत्वा वैश्यनिकेतनम्
॥
६४.जग्राहातीव रुदतीं नारीमणिमतल्लिकाम् । नीत्वा स्वभवनं बालामेकान्ते सान्त्वयन्
नृप : ॥
६५.लोभयामास विविधै : मणिकाञ्चनभूषणै : । दिव्याम्बरै : दिव्यगन्धै : भक्ष्यभोज्यरसायनै
: ॥
६६.एवं राज्ञा समालब्धपाणिना वराङ्गना । शोकमोहभयाविष्टा सद्य : प्राणान् जहौ तदा
॥
६७.क्षणात् पञ्चत्वमापन्नां बालामुद्वीक्ष्य भूपति : । विललाप सुदु:खार्तो वार्यमाणोपि
बन्धुभि : ॥
६८.चित्यां चन्दनकाष्ठेन संस्कर्तुमुपचक्रमे । शिबिकामतिरोप्यैनां नीत्वा पितृवनं
महत् ॥
६९.अग्नौ प्रज्वाल्यमाने तु क्रोशमाने मुहुर्जने । अवतीर्याम्बरात् कोऽपि भूत
: शार्दूलविक्रम : ॥
७०.विद्राव्य गदया दूरं शूरान् राजभटानपि । चितामुद्धूय तद्देहमादाय निमिषादिव
॥
७१.उत्पपात घनच्छन्नमाकाशं पश्यतां नृणाम् । विस्मयं परमं जग्मु : सर्वे तत्र समागता
: ॥
७२.तौ वैश्यवृद्धौ दु:खार्तौ चिन्तयानौ मुहुर्मुहु : । पुराकृतैरसंख्यातै : आवां
तु सुकृतेतरै : ॥
७३.अनपत्यौ हि सञ्जातौ हा कष्टं समुपस्थितम् । कथं तु वक्ष्ये भगिनीं पृच्छते वैश्यसूनवे
॥
७४.जीवितुं पापिनावावां दारुणौ नोत्सहावहे । इत्युक्त्वा परितो गेहं क्षिप्त्वाग्निं
जहृतु : तनुम् ॥
७५.स वैश्यसूनु : सहितो मातुलेयेन वित्तवान् । आययौ वैश्य सदनं भगिन्या : प्रियकृत्
सुधी : ॥
७६.श्रुत्वा प्रियेतरं वाक्यं हालाहलमिव स्थितम् । भगिनीं च मृतां श्रुत्वा वृद्धावग्निमुपेयुषौ
॥
७७.निराशौ जीविते तस्मिन् साकं मातुलसुनुना । ज्वलत्यग्नौ विचिक्षेप स्वतनुं तरुणवत्
युवा ॥
७८.इत्थं सर्वेषु नष्टेषु प्रेते चाकाशमेयुषि । संविवेशाथ राजानं स्त्रीहत्तिर्दारुणाकृति
: ॥
७९.भर्त्सयन्ती मुहुर्वाचा भीषयन्ती पदे पदे । क्षुधार्तोऽपि निराहारो विनिद्रश्रान्तिमानपि
॥
८०.संप्राप शरणं राजा कण्वाख्यं स्वगुरुं ऋषिम् । अजानता मया ब्रह्मन् मदाविष्टेन
चेतसा ॥
८१.प्राप्तोऽस्मि दुर्दशामेनामपरां यातानामिव । त्राहि घोरतमात् पापात् त्वं हि
न : परमागति : ॥
८२.एवं पदाम्बुजोपान्ते दृष्ट्वा निपतितं मुनि : । सानुकम्पं समाश्वस्य तच्छान्तिं
विदधे मुनि : ॥
८३.मुनिना तेन विधिना हूयमानात् हुताशनात् । दुर्गामूर्तिमुपादाय विचित्रामुपलामयीम्
॥
८४.समुत्तस्थौ महाभूत : कोऽप्यद्भुतवपुर्महान् । स तं मुनिं समाहूय जगाद घननिस्स्वन
: ॥
८५,भूत : --इमामूर्तिमुपादाय तीर्थयात्रां करोत्वसौ
। उद्वहन्तमिमां मूर्तिं हत्तिरेषा न बाधते ॥
८६.यत्र द्रवति पुण्या ते मूर्तिरेषा शिलामयी । तत्रोपशान्ति : पापस्य नात्र कार्या
विचारणा ॥
८७.इत्युक्त्वान्तर्हिते भूते तद्दत्तां मुनिपुङ्गव : । करे ददौ महीपस्य सोऽपि
जग्राह तां मुदा ॥
८८.पाणिभ्यामुद्वहन् मूर्तिं राज्यं पुत्र् निधाय च । गुरुमामन्त्र्य सन्नम्य निश्चक्राम
पुरात् बहि : ॥
८९.प्रतिप्रयाते भूपाले स्त्रीहत्तिरपिदारुणा । अन्वधावत् अनासन्ना वाचा भर्त्स्यती
मुहु : ॥
९०.स मूर्तिहस्त : तीर्थानि स्नात्वा स्नात्वा ययौ व्रती । निषेव्य गङ्गां यमुनां
सरयूं च शरावतीम् ॥
९१.फ़ल्गुनीं गौतमीं नन्दां कपिलां च मलापहाम् । गोदावरीं तुङ्गभद्रां शोणामिन्दुमतीमपि
॥
९२.कावेरीं घनकान्तारां कम्पां वेगवतीमपि । क्रमादवाप्य भूपाल : ताम्रपर्णीं सरिद्वराम्
॥
९३.पदे पदे तीर्थमयीं तीरयोरुभयोरपि । सुरेन्द्रमोक्षात् प्राग्भागे सोमतीर्थात्
तु पश्चिमे ॥
९४.नद्यास्तु दक्षिणे तीरे महजननिषेविते । चकार विधिवत् स्नानं राजा तत् बिम्बमुद्वहन्
॥
९५.यदा ममज्ज सलिले संस्तुवन् मलयात्मजाम् । तदा तत्पाणिपद्मस्था मूर्तिरेषा शिलामयी
॥
९६.द्रवीभूताभवत् राजन् सर्वेषां पश्यतां नृणाम् । तदद्भुतमसौ दृष्ट्वा तीरमारुह्य
सत्वरम् ॥
९७.तदा शापास्तमलिनं स्वं वपु : पूर्ववत् शुभम् । पृष्ठत : परिधावन्तीं न ददर्श
पिशाचिकाम् ॥
९८.परमानन्दसन्दोहमानन्दाश्रुपरिप्लुत : । रोमाञ्चमञ्जुलाकारं महीपालमुपेत्य तु
॥
९९.वामदेवो मुनि : प्राह सान्त्वपूर्वमिदं वच : । वामदेव : --किं त्वया राजशार्दूल
दृष्टमद्भुतदर्शनम् ॥
१००.यदि वक्तव्यमस्माकं वद शुश्रूषवे मम । पृच्छत्येवं मुनिश्रेष्ठे बद्दाञ्जलिपुटो
नृप : ॥
१०१.जगाद वचनं श्लक्ष्णं विस्मितेनान्तरात्मना । राजा --कृत्वा पापात्मना येन मया
पापमजानता ॥
१०२.दु:खेन पृथिवीं कृत्स्नां परं पर्यटता चिरम् । स्मृत्वा स्मृत्वा प्रहृष्यामि
दृष्ट्वा चन्द्रमिवाम्बुधि : ॥
१०३.इति भूपवच : श्रुत्वा वामदेवोऽब्रवीत् वच : । वामदेव : --अत्राश्चर्यं न पश्यामि
तव पापव्यपोहने ॥
१०४.कृत्वेदन्नयनादित्यतीर्थं परमपावनम् । अपि ब्रह्महणो मुक्ता : प्रयान्ति परमां
गतिम् ॥
१०५.पुरा परामृताकारा जगती जननी शिवा । आविर्भूताम्बरात् आदितरुणी भीमदर्शना ॥
१०६.नानायुधधरा भूरि शक्तिसेनासमावृता । दैत्यदानवसङ्घातान् महिषादीन् सुदारुणान्
॥
१०७.असङ्ख्यातान् निहत्याजौ विधाय जगतां हितम् । आसुरास्त्रसमालीढं सन्तप्तं स्वकलेबरम्
॥
१०८.अत्र स्नात्वा महातीर्थे सुखयामास विश्वसू : । तदादिपरमादुर्गा सर्वदुर्गार्तिहारिणी
॥
१०९.कुरुते नित्यसान्निध्यं भक्तानां हितकाम्यया । त्वमभ्यर्च्य तां देवीं राजन्
कामदुघामिमाम् ॥
११०.इति तत् वचनात् राजा तत्र मूर्तिं विहाय स : । पूजयित्वा विधानेन स्तुत्वा
स्तोत्रैरनेकश : ॥
१११.तत्प्रसादमनुप्राप्य वरान् भुवनदुर्लभान् । भस्मीभूतान् ततो वैश्यान् पुनरुज्जीव्य
तां वधूम् ।
तैस्सार्धं बन्धुभि : स्निग्धै : संप्राप
नगरीं निजाम् ॥
इति त्रयस्त्रिंशोऽध्याय
: Pro.Total = 2720 + 111 = 2831.
चतुस्त्रिंशोऽध्याय :
दुर्गाप्रतिष्ठा -- राज्ञा
वरप्रदानम् -- मणिग्रीवपुरकथाप्रश्न :
१.वीरसेन : --ब्रह्मन् श्रुतेयं कथिता कथा कलिमलापहा । माहात्म्यदर्शनी मातु :
दुर्गाया : परमाद्भुता ॥
२.अत्र श्रोतव्यमस्माकं महायोगीन्द्र मद्गुरो । कथामाराधयामास कया स्तुत्याप्यतोषयत्
॥
३.कथमग्नौ मृता वैश्या सा चतन्वी वराङ्गना । पुनर्जीवन्ति तत् सर्वं यथावत् कथयस्व
मे ॥
४.शङ्ख : --राजन् कथयतो मत्त: कथां श्रुणु यथातथम्।पठनात् श्रवणात् यस्मात् नर:
पापै: प्रमुच्यते ॥
५.सोऽग्निवर्णो नरपति : वामदेवेन बोधित : । तत्र देवीं प्रतिष्ठाप्य ताम्राया
: दक्षिणे तटे ॥
६.नानोपहारबलिभि : पूजयामास मन्त्रवित् । धूपै : दीपै : च नैवेद्यै : मन्त्रपुष्पोपहारकै
: ॥
७.पूगनागदलै : पुण्यै : कर्पूरारार्तिकैरपि । महायागक्रमै : कृत्वा ब्रह्मज्ञै
: ब्राह्मणैस्सह ॥
८.प्रदक्षिणनमस्कारै : कालीं सन्तोष्य चण्डिकाम् । तुष्टाव प्राञ्जलि : तिष्ठन्
स्तोत्रेणानेन भूपति : ॥
९.अग्निवर्ण : --जगद्देवि जगद्धात्रि दैत्यदानवहारिणि । जय जम्भान्तकनुते विशीर्णविमदोदये
॥
१०.मात : प्रसीद चामुण्डे दण्डिताशेषदानवे । दुर्गे दुर्गार्तिमथने मातर्मयि दयां
कुरु ॥
११.हरनारायणमुखैरमरैरभिवादिते । मयि प्रसीद विश्वेशि विश्वरक्षाविचक्षणे ॥
१२.माये मायावहे मात : मङ्गलानां च मङ्गले । त्राहि त्राहि भयत्रस्तं संसारार्णवसंप्लवात्
॥
१३.स्वभावकरुणापूरतरङ्गितविलोचने । वञ्चितासुरसंघाते वरदा मे भवाम्बिके ॥
१४.त्वदपाङ्गलोकां च कलया ये परिष्कृता : । उभयत्रापि ते धन्या : त्वमतो मे गतिर्भव
॥
१५.त्वामाहु : कमलां दुर्गां श्रुतयो भारतीमुमाम् । प्रभामर्केन्दुवह्नीनां त्वमतो
मे गतिर्भव ॥
१६.त्वया ततमितं सर्वं हेतुशक्ति : त्वमेकिका । त्वया सञ्जीवितं मात : त्वमतो मे
गतिर्भव ॥
१७.त्वं त्रयी त्रिपदी त्वं हि हविर्हव्यवह : क्रतु : । इज्या त्वं यजमान त्वं
त्वमतो मे गतिर्भव ॥
१८.अम्ब प्रसीद परमेश्चरिपारिजातवल्लीमुशन्ति वचनानि मुहु : श्रुतीनाम् ।
पादाम्बुजद्वयपरागपरायणानां तां त्वां
व्रजामि शरणं भव सुप्रसन्ना ॥
१९.इत्थं स्तुता स्वपादाब्जसंसक्ताशेषवृत्तिन : । राज्ञ : प्रादुरभूदग्रे तद्बिम्बादम्बुजारुणा
॥
२०.चतुर्भुजा चन्द्रचूडा मणिकाञ्चनभूषणा । शङ्खचक्रगदाभीतिकरा कौसुम्भशारिका ॥
२१.स्तूयमाना मुनिगणै ; देवदानवगुह्यकै : । वत्सेति वाचा राजानं हर्षयन्ती
मुहुर्मुहु : ॥
२२.मेघदुन्दुभिराविण्या गिरामुं व्याजहार सा । अनया पूजया स्तुत्या प्रीतास्म्यागमसारया
॥
२३.कामानिष्टान् प्रदास्यामि वृणु मत्तो मनीषितम् । राजा --अम्ब पापसमाचारे मयि
ते करुणेदृशी ॥
२४.श्रुतिमृग्यापि मे चर्मलोचनस्यापि गोचरा । यदि ये तस्मात् वरो भूयात् किमस्ति
भुवनत्रये ॥
२५.तथापि काङ्क्षणीया मे त्वयि भक्ति : सनातनी । किञ्चानीतिमत्तोऽस्मत्तो बहवो
विपदं गता : ॥
२६.तानहं द्रष्टुमिच्छामि प्रसादात् अम्ब ते पुन : । अत्रापि मज्जतां तीर्थे मर्त्यानामनुगृह्णधी
॥
२७.सान्निध्यं कुरु सन्तुष्टा तृतीयोऽयं वरो मम । इति संप्रार्थिता तेन प्रसन्ना
परमेश्वरी ॥
२८.स्मितज्योत्स्नामुद्गिरन्ती मुक्रावृष्टिमिवोज्ज्वलाम् । अपाङ्गरोचिषोत्फ़ुल्लनीलोत्पलततिं
यथा ॥
२९.दयासिन्धुतरङ्गाभे सुधामुद्भाव्य चोपरि । मन्दमान्दोलितोत्तंसचन्द्रं कलयती
करै : ॥
३०.व्याजहार गिरा भूयो राजानं प्रीतिपूर्वकम् । देवी --यथात्थ वचनं तात त्वं तथा
भविता च तत् ॥
३१.स्तुतिपूजानमस्कारतीर्थप्राशनभक्तिभि : । सन्तुष्टाहं तवाभीष्टान् ऐच्छिकी वोपपादये
॥
३२.मा विस्मर महीपाल नित्यं मदनुशासनम् । नित्यं सान्निध्यकरिणीमनुकम्पातटस्थिताम्
॥
३३.काञ्च्यां मामर्चयन् भद्राण्यश्नुह्यब्दान् परश्शतान् । अन्ते तव प्रदास्यामि
सायुज्यमतिदुर्लभाम् ॥
३४.अग्नौ मृता : च सा तन्वी समागच्छत्यनामया । सन्तु भद्राणि सर्वेषां इत्युक्त्वा
तत्र चण्डिका ॥
३५.स्वपाणिपल्लवसखीं शक्तिं घणटाशतोज्ज्वलाम् । क्षिप्त्वा नद्यास्तटे तावत् क्षणात्
अन्तरधीयत ॥
३६.तच्चक्तिकोटिनिर्भिन्नात् महीभागात् महीपते । समुत्तस्थौ वैश्यसुता भोगिराजवधूरिव
॥
३७.तत्गर्तात् कन्दराख्यश्च मातुलेयेन संयुत : । उत्पेततु : वैश्यवृद्धौ शान्तिधर्माविव
स्वयम् ॥
३८.राज्ञा संभाविता : सर्वे मुक्तशोका : तदाभवन् । सोग्निवर्ण : महीपाल : तानाश्वास्य
मुहुर्मुहु : ॥
३९.तै : साकमनुप्राप्य तत्रत्यांश्च महामुनीन् । पुन:पुनश्च तत्तीर्थमतिथीकृत्य
नेत्रयो : ॥
४०.प्रणम्य शिरसा राजा मलयं मल्यात्मजाम् । नमोऽस्तु कुम्भजायेति भूयो भूयश्च संस्तुवन्
॥
४१.प्रतस्थे स्वपुरीं रम्यां काञ्चीं कनकमण्डिताम् । प्रत्युद्यता पौरजनै : मन्त्रिसेनाधिनायकै
: ॥
४२.प्रविश्य नगरीं रम्यामभिवाद्य गुरुं निजम् । आससाद गृहं भूरि मणिकाञ्चनभूषितम्
॥
४३.प्रणतं संपरिष्वज्य स्वसुतं राजसत्तम : । स्वराज्यं पालयामास धर्मेण मघवा यथा
॥
४४.ते च वैश्यवरा राजन् राज्ञानेनाभिपूजिता : । सुखमूषु : सुसंहृष्टा : तस्मिन्नेव
पुरोत्तमे ॥
४५.तत्र दुर्गा भगवती भक्तदुर्गार्तिहारिणी । अद्यापि कृतसान्निध्या ताम्रपर्ण्यास्तटे
शुभे ॥
४६.पालयत्यनुरागेण भुवनानि चतुर्दश । आज्ञया जगदम्बाया : तीर्थानामपि कोटय : ॥
४७.चक्रिरे नित्यसान्निध्यं लोकानामघशान्तये । प्राणत्यागात् वरं मन्ये तीर्थं
संग्राममूर्धनि ॥
४८.अस्त्रशस्त्रभयं नास्ति गतिश्चाप्यनिवर्तनी । विस्तरात् तस्य तीर्थस्य माहात्म्यं
वत्सरायुतै : ॥
४९.वागीशोऽपि न शक्त : स्यात् किं पुनर्भुविमानवै : । तस्मात् उत्तरतो राजन् मणिग्रीवपुराभितम्
॥
५०.स्थलं मया पुरा प्रोक्तं स्मरणात् मुक्तिदं नृणाम् । तस्य माहात्म्यमधुना विस्तरात्
श्रोतुमर्हसि ॥
५१.भद्रारण्ये कामपुरं प्रशस्तं भुवनत्रये । दर्शनात् कीर्तनात् अस्य नर : पापै
: प्रमुच्यते ॥
५२.पुरा कुबेरतनयो मणिग्रीव इति श्रुत : । धरावत्या : सुतो राजन् कुसुमायुधसुन्दर
: ॥
५३.गन्धर्व : श्रान्त : शापेन देवभोगविवर्जित : । प्राप्य कामपुरं पुण्यं स्नात्वा
तीर्थे सभार्यया ॥
५४.निर्मुक्तशाप : संप्राप्त : सर्वसौभाग्यसौभग : । पूज्यमान : सिद्धगणै : अलकामभ्यगात्
पुन : ॥
५५.सूत: --इत्थमाकर्ण्य माहात्म्यं कथितं शङ्खयोगिना । वीरसेनो महातेजा: पुन: पप्रच्छ
विस्मित : ॥
५६.भगवन् योगिनां श्रेष्ठ सर्वागमनिधे गुरो । किञ्चकार कुबेरस्य तनय : पापमुल्बणम्
॥
५७.कथं शशाप गन्धर्व : तनयं केन हेतुना । कथं भद्राटवीं प्राप स्नानं चक्रे यथा
जले ।
एतत् सर्वमशेषेण विस्तरात् वक्तुमर्हसि
॥
५८.इत्थं सादरमर्थितोऽवनिभुजा शङ्ख: सतामग्रणी:आनन्दाश्रुशराविलावपि दृशाचावामृज्य
पाण्यञ्जलात् ।
मन्दं गद्गदया गिरा समधुरं पीयूषधारायिकां
गाथामाह मुनीरितां कलिमलप्रध्वंसनप्रस्तुताम् ॥
इति चतुस्त्रिंशोऽध्याय
: Pro.Total = 2831 + 58 =2889.
पञ्चत्रिंशोऽध्याय :
मणिग्रीवकथा -- मणिग्रीवशापविमोचनम्
१.श्रीसूत: -- तत: शङ्खो महायोगी राजानं संप्रहर्षयन् । कथां विस्तारयामास ज्योत्स्नामिव
निशाकर: ॥
२.शङ्खयोगी --वीरसेन महाबाहो श्रुणु पुण्यामिमां कथाम् । श्रवणानन्दिनी सर्वजनतापापहारिणी
॥
३.सावर्णिके मनौ भूमिमनुशासति पुष्कलाम् । पुत्रो वैश्रवणस्यासीत् मणिग्रीव इति
श्रुत : ॥
४.द्वितीय : सर्वधर्मज्ञ : संपद : तत्वदर्शिनाम् । करुणाभाजनम् शम्भो : हेरम्बस्कन्दयो : सुहृत् ॥
५.स एकदा मुदायुक्त : सानुजीवि जनावलि : । उपत्यकाटवीमाप धाराद्रे : अक्षिकौतुकम्
॥
६.वसन्तलक्ष्मी : सान्निध्यं विनिद्रस्तबकद्रुमाम् । स्यन्दमानमरन्दौघचमत्कारितदुर्दिनाम्
॥
७.उत्फुल्लकमलामोदवातपोतविहारिणीम् । फलभारसमाक्रान्तरसालकदलीकुलाम् ॥
८.मत्तभ्रमरसन्नादां मञ्जुकोकिलकूजिताम् । नानातरुलताकीर्णां नवकासारशीतलाम् ॥
९.इत्थमभ्युदयाकारामरण्यानीमुपागत : । ददर्श शरदुत्फुल्लराजीवरमणीयकाम् ॥
१०.स्वच्छन्दनीलसश्रीकसलिलापूरितोदराम् । हंससारससंघुष्टामगाधामम्बुराशिवत् ॥
११.वापीं कनकपर्यन्तामनन्तमणिमौक्तिकाम् । शङ्खशुक्तिशताकीर्णां शरच्चन्द्रांशुशीतलाम्
॥
१२.तां दृष्ट्वा संभ्रमाविष्टो मणिग्रीव : सकिङ्करै : । उपस्पृश्य जलं शुद्धमपनीय
श्रमं पुन : ॥
१३.विजहार तदभ्याशे विपिनानि विलोकयन् । तत्र गन्धर्वराजस्य चित्रसेनस्य कन्यका
॥
१४.लीलवतीति विख्याता कामास्त्रकलिका यथा । सखीजनसमायुक्ता मज्जनाय समाययौ ॥
१५.कापि तस्या : पुर : कम्बुकण्ठी कनकपाटला । सख्यादिष्टा समाहर्तुं कुसुमानि वनान्तरे
॥
१६.यदृच्छया पुष्पवने सञ्चरन्ती ततस्तत : । ददर्शाचाम्भोजनयनं मणिग्रीवं घने वने
॥
१७.नवकन्दर्पलावण्यं युवानं धनदात्मजम् । अक्षिलक्ष्यं इमं कृत्वा विद्धाभूत् कुसुमायुधै
: ॥
१८.अशक्ता सोढुमस्त्रस्य निपातं पुष्पधन्वन : । तत्समीपमुपावृत्य विनीता वाक्यमब्रवीत्
॥
१९.कन्या वीरसुन्दर दास्यस्मि विज्ञाप्यं श्रूयतां मम । अहं गन्धर्वराजस्य कुम्भनादस्य
कन्यका ॥
२०.चित्रलेखेति विख्याता गानविद्याविनोदिनी । लीलावत्या : प्रियसखी त्वां दृष्ट्वा
लोकसुन्दरम् ॥
२१.पराधीनास्मि कामेन त्वयि नाथे समेयुषि । इयन्तं कालमन्यस्य कस्यापि न परिग्रहा
॥
२२.नाङ्गीकरोषि माम् यत् त्वं प्राणान् त्यक्ष्याम्यसंशयम् ।
इति ब्रुवाणां तां कन्यां कन्दर्पस्यापि
मोहिनीम् ॥
२३.सानुरागमुवाचेदं मणिग्रीव : प्रसादयन् । मणिग्रीव : --अस्तु भद्रमहो सुभ्रु
काङ्क्षणीयं प्रियं मम ॥
२४.बाल्ये पितृवशा नारी प्रौढा भर्तृवशे स्मृता । पुत्राधीना हि वार्धक्ये न स्त्री
स्वातन्त्र्यमर्हति ॥
२५.पितृदत्ता ततो भूय : वल्लभा ते न संशय : । इति श्रुत्वा वचस्तस्य चित्रलेखा
मुदान्विता ॥
२६.पुन : प्रीतिकरं चास्य वचनं धनदात्मजम् । युक्तं धर्मज्ञ भवता कथितं तत् तथा
भवेत् ॥
२७.यावत् पित्रा गमिष्यामि सुहृदाहं सुहृत्जनै : । तावत् अत्रैव भवता वस्तव्यं
धर्मवेदिना ॥
२८.इत्यामन्त्र्य मणिग्रीवं सा ययौ अमरावतीम् । सकुम्भनादो गन्धर्वराजा विज्ञाय
काङ्क्षितम् ॥
२९.स्वपुत्र्या : प्रतिनन्द्यात्मवल्लभाभिस्समन्वित : । बन्धुभिश्च महातेजा : सुतामादाय
सत्वरम् ॥
३०.आससाद हरावासशिखरीसानुकाननम् । तावत् स्वपुत्राभ्युदयं पारयिष्णु : धनेश्वर
: ॥
३१.सानन्दं बन्धुसंपन्न : तदुद्यानमुपागमत् । एवं ते मिलिता : तत्र यक्षगन्धर्वगुह्यका
: ॥
३२.चक्रु : महोत्सवं हृष्टा : पुरस्कृत्य पुरोहितम् । उद्वाहोचितनेपथ्यविद्योदिततवपु:श्रिया
॥
३३.मणिग्रीवो हवीम्ष्यग्नौ जुहाव गुरुणेरित : । कुंभनाद : स्वतनयामलङ्कृत्य सकौतुकाम्
॥
३४.दातुमस्मै सदस्यस्मिन्वरान्तिकमुपागमत् । एतत् श्रुत्वा चित्रसेनसुता लीलावती
तदा ॥
३५.अभ्यभाषत संप्राप्य मणिग्रीवमिदं वच : । लीलावती --अये सर्वज्ञ सौन्दर्यसुधासिन्धो
धनेश्वर ॥
३६.अनया सह मां पाणौ अनुरक्तां गृहाण भो । यदि नाङ्गीकरोषि त्वामनुरक्तां गुणश्रियम्
॥
३७.न हि तारयितुं शक्तास्म्यसूनत्र परानिव । गुणशीलकुलाभिख्या विद्यद्रविणसंपदा
॥
३८.तुल्यं जानीहि मां भद्र मा कृथा: मङ्गलच्छिदम् । इति सञ्जल्पितं तस्या : बहुमान्य
पुन:पुन : ॥
३९.भूय : सानुनयं प्राह सुस्मितो धनदात्मज : । भद्रे भद्रमिदं वाक्यं भवत्या यत्
उदीरितम् ॥
४०.श्रूयताम् वचनं धर्म्यं बन्धुनामपि संमतम् । गुह्यकस्य च यक्षस्य बलिनो यक्षभूपते
: ॥
४१.पुत्र : पुरञ्जयो नाम्ना निधि : सौन्दर्यसंपदाम् । सुहृदस्माकमधिक : प्राणादपि
धनादपि ॥
४२.तदर्थे संभृता त्वं हि बन्धुभिश्चानुमोदिता । अतो न युक्तमस्माकं तव भद्रे परिग्रहम्
॥
४३.त्वत्पित्रोरपि संभाव्यं नान्यथा कर्तुमर्हसि । या कन्या पितृगेगस्था तदाज्ञापरिलङ्घिनी
॥
४४.कुलादी कथ्यते सद्भि : नापवादोऽस्तु ते ध्रुवम् । सुहृद्भार्यापहारीति मां न
शंसन्तु बान्धवा : ॥
४५.इत्थं नैराश्यजननीं वाणीमाकर्ण्य सा वधू : । चिन्ताजालपरिभ्रान्ता भूयो वचनमाददे
॥
४६.भवान् न गृह्णन् मत्पाणिं वोढुमेनां पटुर्नहि । यदि मामपहायात्र चित्रलेखां
वहस्यसे ॥
४७.शापोऽत्र भविता नूनं मा कृथा : साहसं भवान् । प्रथमा चित्रलेखेयं द्वितीयाहं
प्रिया तव ॥
४८.इति पाठमसञ्जातस्फुलिङ्गाक्षरभीषणां । वाणीमसहमानाभ्यां कर्णाभ्यां कम्पयन्
शिर : ॥
४९.मणिग्रीव : पुन : प्राह कोपारुणितविलोचन : । किमिदं साहसं पापे कर्तुमिच्छसि
कर्कशे ॥
५०.न करिष्याम्यहं पापे मित्रद्रोहमिदं खलु । भूयो यद्यनयं वाक्यं वक्तुमिच्छसि
गर्विते ॥
५१.उत्सारये संसदोऽस्मात् त्वं शुनीमिव चाध्वरे । लीलावती --अनुरक्तां कामुकीं
मामनन्यगतमानसाम् ॥
५२.नाङ्गीकरोषि दुर्बुद्धे विड्वराह इवासृजम् । तस्मात् त्वमनया सार्धं कुरूपो
भव सत्वरम् ॥
५३.देवभोगविहीन : च तीर्थबाह्य : चिरं भवान् । मणिग्रीव : --बन्धुदूषणि दुर्दान्ते
गन्धर्वकुलपांसनि ॥
५४.अचिरात् आश्वघग्रस्ता कुरूपा च भविष्यसि । इत्थमन्योन्य शापेन प्राप्ताघस्मररूपिणौ
॥
५५.निश्रीकौ निष्प्रभौ जातौ सर्वेषामेव पश्यताम् । तत् बान्धवाश्च सख्यश्च शोकाक्रान्ता
तदाभवन् ॥
५६.अपश्यन्तौ च शापान्तं भ्रममाणौ विहङ्गवत् । हेरम्ब : कृपयाभ्येत्य सान्त्वयित्वा
सुहृत्तया ॥
५७.इदमाह मणिग्रीवं प्लवमानमिवार्णवे । सखे मा शोकमोहाभ्यां भवितव्ये स्वकर्मभि
: ॥
५८.निष्कृतिं कथयिष्यामि शापस्यास्य महामते । समं लोक हितार्थाय देवी शैलेन्द्रकन्यका
॥
५९.स्वयं तीर्थस्वरूपेण ताम्रपर्णीति विश्रुता । प्रवाहत्यभिनवा सुधासारा पयस्विनी
॥
६०.यदम्बुकणिकापानात् जन्तु : कैवल्यभाग् भवेत् । तत्राभ्यां सहितो याहि ध्यायन्
मां भैरवं शिवम् ॥
६१.प्राप्यानुज्ञां भैरवात् त्वं स्नानं कुरु महामते । तावता मुक्तशापस्त्वं भूय
: प्रकृतिमेष्यसि ॥
६२.एते तरुण्यौ गन्धर्वकन्ये तत्तीर्थमज्जनात् । शापात् विमुक्ते त्वद्भार्ये भवेतां
नात्र संशय : ॥
६३.इत्थमाश्वास्य भगवान् हेरम्बो धनदात्मजम् । स्वशुण्डतलयोद्धृत्य ताभ्यां सह
सुहृत्तमम् ॥
६४.पुष्पवत् निदधे ताम्रारोदस्यखिलपावने । उपदिश्य रहस्यं च तस्य सख्युर्गणाधिप
: ॥
६५.अन्तर्दधे क्षणादेव भास्वान् इव घनच्छदे । ताभ्यां शापाभिभूताभ्यां वधूभ्यामुपसंश्रित
: ॥
६६.यक्षराजसुतो धीमान् शोकमन्ते निगृह्य स : । अनुग्रहात् गणेशस्य ताम्रपर्ण्या
: नदीतटे ॥
६७.विधाय वसतिं तत्र निराहारो जितेन्द्रिय : । उपदिष्टेन मार्गेण तताप परमं तप
: ॥
६८.शुश्रूषया ते पितरि(?) दम्पती विनयान्वितौ । निन्यतु
: समयं यावत् भविष्यति मनोरथ : ॥
६९.इत्थं तपस्यत : तस्य पञ्ज पञ्च दिनान्यगु : ।
७०.अथ हैमवतीमाशां प्रस्थिते तीव्ररोचिषि । प्रत्यहं वर्धमानेन्दुं बिम्बपक्षे
प्रवर्धिते ॥
७१.सप्तम्यामुत्थिते भानौ उदयाचलमस्तकात् । आविरासीत् नदीपूरात् अंशुमान् इव रोचिषा
॥
७२.मणिग्रीवस्य पुरत : शिवो भैरवमूर्तिमान् । शूलखड्वाङ्गमुसलकपालासिपरश्वथै :
॥
७३.वरदेनाभयेनापि परिष्कृतकराम्बुज : । शशाङ्कशुक्लोल्लासिजटमण्डलमण्डित : ॥
७४.भस्माङ्गरागधवलफणिराजोपवीतिक : । बद्धवेत्रकरोटीभि : अभिजातभुजान्तर : ॥
७५.स्वभासा भासयन् विष्वक् अंशुमान् इव पुष्करात् । आविर्भूतं मह:पुञ्जं पुरस्तात्
तपस :फलम् ॥
७६.आलोक्यहर्षसान्तारन्त: समुत्थाय कृताञ्जलि : । किञ्चित् अन्तिकमागम्य प्रणम्य
भुवि दण्डवत् ॥
७७.ज्यालतान्तकोदण्ड नम्रसंभ्रमविग्रह : । तुष्टाव परमेशानं वरदं पारिजातवत् ॥
७८.मणिग्रीव : --नम : सर्वजगत्कर्त्रे पित्रे प्रकृतिसाक्षिणे । भैरवाय परानन्दनिधये
वेधसे नम : ॥
७९.नियन्त्रे सर्वलोकानां निगमागममूर्तये । भैरवाय परानन्दनिधये वेधसे नम : ॥
८०.रोगशोकभयक्लेशमोहतामिस्रभास्वते । भैरवाय परानन्दनिधये वेधसे नम : ॥
८१.प्रसीद मन्त्रागमतीर्थदेवताक्रतुक्रियाक्षेत्रविशेषरूपिणे ।
भवाय पापक्षयहेतवे सतां नमो नमो भैरवभद्रमूर्तये
॥
८२.इति स्तुवन् नयनयुगाञ्जलद्रवं जलौघत : पदयुगमस्य सेचयन् ।
पपात तत्सविधमसौ महीतले भवार्णवात् अव
शिव माम् इतीरयन् ॥
८३.इत्थं स्वपादनालीक षट्पदायितमैलिनम्
। मणिग्रीवं समुत्थाप्य दयालु : स्वकराम्बुजै : ॥
८४.प्रसन्नगम्भीरया वाचा चन्द्रचन्द्रिकया यथा।श्री भगवान् --तात प्रीतोऽस्मि तपसा
तव सर्वमनोज्ञया ॥
८५.मत्प्रसादात् भविष्यन्तु तव भोगा : सनातना : । त्वयि प्रसादं कुर्वन्तु ब्रह्मविष्णुमुखास्सुरा
: ॥
८६.सर्वनिर्वाणजनिता ताम्रा मलयनन्दिनी । त्वयि प्रसन्ना जागर्ति त्वन्मनोरथपूरणे
॥
८७.आभ्यां वधूभ्यां सहित : स्नानं कृत्वा महाम्भसि । सूत : --अनुशिष्ट : भैरवेण
देवेनेत्थं दयालुना ॥
८८.सवधूक : तं प्रणम्य सस्नौ मन्त्रमुदीरयन् । देवि दीनजनापायदलनैककुठारिके ॥
८९.पाटीरशैलतनये पापहारिणि पाहि माम् । इति स्तुत्वा तीर्थराज्ञीं ध्यायन् हृदि
गणेश्वरम् ॥
९०.चक्रे स्नानं महाराज पुण्ये परमपावने । तावदाविरभूदग्रे हेरम्ब : करुणानिधि
: ॥
९१.ब्रह्मविष्णुमहेशानपुरन्दरपुरस्सरा : । आजग्मु : तत्र गीर्वाणा : कुबेरवरुणाग्नय
: ॥
९२.विकिरन्त : च पुष्पाणि प्रशंसन्तो महानदीम् । समायातेषु सर्वेषु सिद्धगन्धर्वयोगिषु
॥
९३.उन्ममज्ज तदा तोये ताभ्यां सह कुबेरभू : । महामरकतश्यामकामराजसमद्युति : ॥
९४.मा विचारोऽस्तु चात्मानमाश्वास्य मनीषया । त्वय्यनुग्रहमादातुमागतान् पश्य भूरिश
: ॥
९५.ब्रह्मविष्णुमुखान् एतान् नमस्कुरु सुरोत्तमान् । प्रीत्यर्थमत्र देवानां बन्धूनां
च विशेषत : ॥
९६.पाणिं गृहाण वै वध्वो : गन्धर्वाधीशकन्ययो : । तव कल्याणयोगेन क्षेत्रमेतत्
जगत्त्रये ॥
९७.कल्याणभवनं नाम्ना लोके विख्यातिमृच्छतु । सान्निध्यात् भैरवं तीर्थं भैरवस्य
महात्मन : ॥
९८.अत्र मज्जन्ति ये तीर्थे तव पापप्रणाशने । तेषां कामान् प्रदास्यामि तस्मात्
कामपुरं भवेत् ॥
९९.इति संप्रीणयन् वाचा मणिग्रीवं गणेश्वर : । गुरुं पुरोहितं कृत्वा तस्मिन् एव
नदीतटे ॥
१००.पाणिं संग्राहयामास विधिना शङ्करात्मज : । ताभ्यां सहैव पत्नीभ्यां शुशुभे
धनदात्मज : ॥
१०१.स्वाहास्वधाभ्यां सहितो हव्यवाह इवोज्ज्वल : । संप्राप्तोचितदारस्य पुत्रस्याभ्युदयं
महत् ॥
१०२.दृष्ट्वा तुतोष नितरां राजराज : स्वबन्धुभि : । तौ च गन्धर्वराजानौ दुहित्रो
: परमोत्सवम् ॥
१०३.ननन्दतु : श्रियं भूम्या पश्यन्तौ मधुमाधवौ । इत्थं महोत्सवं दृष्ट्वा सर्वे
देवा : सहेश्वरा : ॥
१०४.स्वावासाय पुनर्जग्मु : कथयन्त : शुभा : कथा : । पुन:पुन: तीर्थराज्ञीं नमस्कृत्य
कृताञ्जलि : ॥ १०५.पित्रानुमोदित : प्रायात् अलकां धनदात्मज : । तदारभ्य गणेशस्तु कालभैरवसंयुत
: ॥
१०६.अद्यापि निजसान्निध्यं कुरुते पुण्यदो नृणाम् । अधिभू : सर्वतीर्थानां भैरव
: शम्भुशासनात् ॥
१०७.सन्निधत्ते यतो नित्यं तस्मात् सर्वोत्तमं विदु : । येऽत्र मज्जन्न्ति नियता
: मन्त्रेणानेन मानवा : ॥
१०८.तेषामक्षय्यमैश्वर्यं भवत्यायु : शिवे रति : ।
य इदमनुश्रुणोति श्रावयेच्चानुवेलं नियमितविषयेहावृत्तिराख्यानमग्र्यम्
।
अभिमतपुरुषार्थान् आप्नुयात् आदिशम्भो
: पदमविकलमन्ते यत्र भोगा : ह्यवन्ध्या : ॥
इति पञ्चत्रिंशोऽध्याय
: Pro. Total = 2889 + 108 = 2997.
षट्त्रिंशोऽध्याय
:
सोमतीर्थमाहात्म्यम्
१.राजा --अहो मणिग्रीवकथा विचित्रा विस्मयावहा । कथिता भवता ब्रह्मन् कल्मषान्तकरी
नृणाम् ॥
२.अनया परितुष्टोऽहं कथया सुधया यथा । उभयो : तीरयो : तीर्थमाहात्म्यारामवीथिषु
॥
३.उपाख्यानमहाकल्पशाखिनो यान्ति बन्धुरा : । सुगन्धिन : सुमनसां तीर्थै : मधुमुचां
कुलै : ॥
४.फलन्ति परिपक्वानि सदा पुण्यफलानि हि । धुन्वन्ति कलिसन्तापं छायाभिरिव सेवताम्
॥
५.फलैरिव क्षुधां घ्नन्ति किमेभ्य : कल्पकोऽपर : । लब्ध : शङ्खनिधिर्मे त्वं गुरुरूपेण
चाक्षय : ॥
६.इत : परं मे श्रोतव्यं सोमतीर्थस्यवैभवम् । तत्तीर्थस्य कथाजातं सोमाख्यत्वं
महामुने ॥
७.तथैव व्यासतीर्थस्य कथां विस्तार्य शंस मे । इति राज्ञो वच : श्रुत्वा शङ्खयोगी
महातपा : ॥
८.स्मयमान : तमाभाष्य कथां वक्तुं प्रचक्रमे । शङ्ख : --महाराज महानाद्या: कीर्तिमौक्तिकलालिताम्
॥
९.कथां कथयत :कर्णविषयीकुरु मे विभो । पुरा दक्षस्य शापेन क्षुभितो राजयक्ष्मणा
॥
१०.शीतांशु : शरणं प्राप भ्ररद्वाजमहामुनिम् । असह्यात् यक्ष्मण : पाहि दक्षशापसमुद्भवात्
॥
११.शरणं त्वां प्रपन्नोऽस्मि दैवतं हि भवान् मम । इत्थमभ्यर्थित : तेन भरद्वाज
: सुधांशुना ॥
१२.सविमर्शं समालोच्य शास्त्रं दृष्ट्वा पुन:पुन : । इदमाह औषधीशानं भरद्वाज :
प्रसन्नधी : ॥
१३.द्विजराज नमस्तुभ्यं चिन्ताशोकानुतापिने । वदाम्युपायमारोग्यहेतवे तव सांप्रतम्
॥
१४.विद्या काचन कल्याणी सर्वपापविमोचनी । सेविता यदि जन्तूनां नित्यानन्दप्रदायिनी
॥
१५.प्रसूते सेवतां नित्यं कल्पवल्लीव काङ्क्षितम् । इत्थमाश्वास्य सोमाय विद्यां
प्रादान्महामुनि : ॥
१६.प्राप्तमन्त्र : प्रसन्नात्मा गुरुं नत्वा परीत्य च । तमामन्त्र्य यथान्यायं
पर्यन्ते हिमभूभृत : ॥
१७.कृत्वाश्रमपदं चक्रे तपो घोरतरं शशी । आत्मन्यहन्तामादाय तस्यामादाय मानसम्
॥
१८.निरुध्येन्द्रियसञ्चारमन्त: पश्यन् अतीन्द्रिय : । निराहारो विनिद्रश्च निवातगृहदीपवत्
॥
१९.निश्चलाङ्गो महातेजा : नासाग्रन्यस्तलोचन : । ध्यायन् गुरुपदं मूर्ध्नि मन्त्रमन्तर्मुखे
रह : ॥
२०.दैवतं हृदि संस्थाप्य स्थिरधीरभ्यवर्तयत् । एवं तपस्यत : तस्य प्रत्ययात् वत्सरत्रयम्
॥
२१.तत् पुरस्तात् महादेवी गङ्गा परमपावनी । सदाशिवसमादिष्टा प्रादुरासीत् जगत्प्रसू
: ॥
२२.प्रीणयन्ती स्मितरुचा द्विगुणीकृत्य तत्प्रभाम् । बभाषे तपसा क्षीणं रोगेणापि
विकर्शितम् ॥
२३.गङ्गा --द्विजराज महाभाग त्वया जीवन्ति देवता : । त्वदंशुसंश्रयात् भूमौ भवन्त्योषधयो
ननु ॥
२४.घर्मांशुपरिभूतानां भूतानां त्वं परायणम् । त्वत्दत्तामृतसंतृप्ता : सर्वे देवा
: निरामया : ॥
२५.तथापि क्लेशयत्येष राजयक्ष्मा वपुस्तव । तस्मादलङ्घनीयो हि विधिर्देवकुलैरपि
॥
२६.भवितव्ये न शोचन्ति पण्डिता : हि भवादृशा : । श्रूयतामस्य देवस्य महादेवस्य
शासनम् ॥
२७.महामलयसंभूता यत्र पुण्या सरिद्वरा । गन्तव्यं भवता तत्र शापात् मुक्तिमभीप्सता
॥
२८.आगमिष्यत्यदीर्घेण कालेन वृषभध्वज : । वयमप्यागमिष्याम : तव प्रीतिविधित्सया
॥
२९.शिलादस्योपदेशेन स्नानं कुरु महामते । ताम्राया : तीर्थमाहात्म्यात् लब्धारोग्यो
भविष्यसि ॥
३०.एतावत् उक्त्वा तस्यां तु विरतायां सुधानिधि : । तामामन्त्र्य नमस्कृत्य संप्राप
मलयात्मजाम् ॥
३१.सप्तविंशतिसङ्ख्यातै : अवरोधै : अलङ्कृतम् । नद्यास्तु दक्षिणे तीरे शिलादस्याश्रमं
महत् ॥
३२.दृष्ट्वा चैत्ररथप्रख्यं नानाद्रुमलतायुतम् । अवरुह्याम्बरात् इन्दु : आश्रमं
प्रविवेश ह ॥
३३.तं दृष्ट्वा तेजसां राशिं शिलादो मुनिपुङ्गव : । स्वागतेनासनेनापि पूजयित्वापि
सादरम् ॥
३४.बहुमान्य गिरा राजन् व्याजहार महामुनि: । शिलाद: --भगवन् ओषधीशान प्रीतोऽस्मि तव दर्शनात् ॥
३५.परिक्षीणमिदं कान्तं वपुस्ते केन हेतुना । परिश्रान्त इवाभासि चिन्तया परितप्यसे
॥
३६.सर्वं कथय मे तथ्यं श्रोतुं कौतूहलं हि न : । इति पृष्टो मुनीन्द्रेण तमाहेदं
निशाकर : ॥
३७.चन्द्र : --श्रुणु ब्रह्मन् प्रवक्ष्यामि शापात् दक्षस्य दु:खित ; ।
तद्दोषशान्तिमन्विच्छन् त्वामिदानीमुपस्थित
: ॥
३८.कुर्वतानुग्रहं भूरि देवदेवेन शूलिना । अनुशिष्टोऽस्मि गीर्वाणतटिन्या प्रतिबोधित
: ॥
३९.त्वदन्तिकमहं प्राप्तो देवदेवस्य शासनात् । संश्रय : तव विप्रेन्द्र ताम्रपर्ण्यां
च मज्जनम् ॥
४०.द्वयमेतत् हि कथितं प्रायश्चित्तं मम द्विज । तस्मात् त्वां शरणं प्राप्तं त्राहि
मां शापकिल्बिषात् ॥
४१.शिलाद: --द्विजराज महाभाग शिवाज्ञामनुवर्तिनाम् । न पश्याम्यशुभं क्वापि यथा
मृत्यु: सुदर्शिनाम् ॥
४२.मातृशापात् अपुत्रापि मद्भार्या शम्बरावती । ताम्रतीर्थस्नानयोगादसूत सुतमूर्जितम्
॥
४३.स पुत्रो नन्दिकेशो मे स्नात्वात्र शिवसेवया । मृत्युं जित्वा पदं लेभे ब्रह्माद्यैरपि
दुर्लभम् ॥
४४.अष्टौ नागा : पुराभ्येत्य स्नात्वात्र तटिनीजले । संप्रापु : तीर्थमाहात्म्यात्
मित्रभावं गरुत्मत : ॥
४५.अथ तीर्थवरे पुण्ये त्वं दारै : सहितो व्रती । अत्र मङ्क्त्वा महेशस्य प्रसादात्
इन्दुमौलिन : ॥
४६.मनोरथमनुप्राप्य श्रियं प्राप्नुहि पुष्कलाम् । श्वो भविन्यहनि श्रीमान् अहिमांशु
: प्रतापवान् ॥
४७.दक्षिणाशां परित्यज्य स्वतीर्थं विनिवर्तयन् । सप्तसप्तिरुदग्यान : सप्तम्यामरुणान्वित
: ॥
४८.सा तिथि : सर्वपापघ्नी तीर्थरूपा प्रशस्यते । सहास्माभिर्महानद्यां स्नानं कुरु
महामते ॥
४९.इति तत् वचनात् इन्दु : पुरोधाय भूसुरम् । सप्तविंशति सङ्ख्यातै : दारैरुद्दामकीर्तिमान्
॥
५०.सप्तम्यामुदिते सूर्ये आसाद्य मलयात्मजाम् । त्रैलोक्यकलुषध्वान्तविध्वंसनविनोदिनि
॥
५१.पापं नाशय मे शीघ्रं त्वयि स्नास्म्यहं शुचौ । इति मन्त्रं समुच्चार्य मङ्क्त्वा
तत्तीर्थवारिणि ॥
५२.निर्मुक्तशापमालिन्य : सो ममज्ज पुन : शशी । तावदाविरभूदग्रे महोक्षेन्द्रं
समास्थित : ॥
५३.नीलकण्ठ : समाश्लिष्टवल्लभातनुतल्लज : । अशेषसिद्धसंघातस्तूयमानपदाम्बुज : ॥
५४.ब्रह्मनारायणमुखै : गीर्वाणैरभिसंवृत : । परितो विकिरन्तीभि : अमरीभि : कुसुमोत्करम्
॥
५५.संस्तुवत्वत्सकलाम्नायं सन्नमत्भुवनत्रयम् । सानन्दस्मेरसौभाग्यं समालोक्य शिवं
विधु : ॥
५६.स्तुत्वा स्तुतिभिरानन्दनिर्भर : तत्पदाम्बुजे । पपात पाहि मां भक्तमित्युच्चैरुद्गिरन्
गिरम् ॥
५७.तत: शम्भु: प्रसन्नात्मा समाश्लिष्य स्वपाणिभि : । सान्त्वयित्वा निशानाथं व्याजहार
सदाशिव : ॥
५८.अहो विधो विनाशाय साध्वनुष्ठितमंहसाम् । तव तेजो बलं बुद्धि : यशो वैशिष्यमेव
च ॥
५९.तव सन्तु निराबाधज्ञानविज्ञानभूतय : । त्वं वरिष्ठ : समस्तानां देवानामपि भास्वताम्
॥
६०.त्वमोषधीनामीशान : त्वं सोम : सोमपायिनाम् । हव्यकव्योदयस्थानं पितॄणां त्वं
दिवौकसाम् ॥
६१.त्वद्ध्यानमात्रात् नश्यन्ति विषरोगविपत्तय : । पितॄणामपि देवानां जीवनाय विशांपते
॥
६२.श्रुणु वक्ष्यामि कालस्य मर्यादारभ्यते पुन : । पूर्वापरौ तु भूयास्तां पक्षौ
त्वत्बिम्बलक्षणम् ॥
६३.पूर्वेण तु वर्धन्तां कलास्तव दिने दिने । अपरेण तु पिबन्त्यन्ये देवाश्च पितर
: क्रमात् ॥
६४.गङाद्या : सरित : पुण्या : देवाश्चेन्द्रपुरोगमा : । त्वत्तीर्थेऽस्मिन् प्रकुर्वन्तु
सन्निध्यं बद्धसौहृदा : ॥
६५.ये चात्र पुण्ये मज्जन्ति तीर्थे सौम्ये
तु जन्तव : । तेषामभीष्टदानाय नित्यमत्र वसाम्यहम् ॥
६६.इत्युक्त्वान्तर्दधे शम्भु : सार्धं विष्णुमुखैस्सुरै : । अन्तर्हिते चन्द्रचूडे
देवदेवगणान्विते ॥
६७.सोम : सोमेश्वरं लिङ्गं हस्ताभ्यां परिणामगम् । शिलादस्योपदेशेन पूजयित्वा च
सादरम् ।
६८.प्राप्य प्रसादं देवस्य गुरुमामन्त्र्य सादरम् । ताम्रां नदीमभिष्टूय भक्त्या
मातरमम्बिकाम् ॥
६९.सह दारै : संप्रतस्थे स्वदाम परमर्धिमत् । शङ्ख : --एवं शापात् संप्रमुक्तसोमो
यस्मात् महीपते ॥
७०.तदादि सोमतीर्थाख्यम् प्रशस्तं भुवनत्रये । अस्य तीर्थस्य माहात्म्यं सङ्ग्रहात्
कथितं तव ॥
७१.पठनात् श्रवणात् अस्य मर्त्यो रोगै : प्रमुच्यते । अत : परं प्रवक्ष्यामि कथा
नादाम्बुजस्य ते ॥
७२.यत्र विष्णुं समाराध्य व्यासो योगविदां वर : । तत् प्रसादात् अवपोच्चै : ब्रह्मज्ञानमकल्मषम्
॥
७३.जन्तूनामेव सर्वेषां यातायातपरिश्रमम् । यावत् तत् तीर्थ संप्राप्ति : तावत्
इत्याह धूर्जटि : ॥
इति षट्त्रिंशोऽध्याय
: Pro.ToTal = 2997 + 73 = 3070.
सप्तत्रिंशोऽध्याय :
नादाम्बुजतीर्थमहिमा
१.राजा --भगवन् सर्वधर्मज्ञ महायोगीन्द्र सद्गुरो । नादाम्बुजमिति प्रोक्तं भवता
क्षेत्रमुत्तमम् ॥
२.तत्र विष्णुं समाराध्य भगवान् बादरायण : । ब्रह्मज्ञानं कथं प्राप तन्मे कथय
विस्तरात् ॥
३.शङ्ख : --प्रवक्ष्यामि कथां पुण्यां पाराशर्यस्य योगिन : । श्रवणात् एव पापघ्नी
यथा मलयनन्दिनी ॥
४.पुरेयं कथितं पुण्या कथा सूतेन सूरिणा । पुण्यक्षेत्रे नैमिशे तु महर्षीणां महात्मनाम्
॥
५.पुरा कदाचित् भगवान् व्यास : सत्यवतीसुत : । वेदान् विभज्य सर्वत्र शाखा सूत्रान्तराणि
च ॥
६.तेषु प्रवर्तकान् विप्रान् मन्वादीन् पृथक् पृथक् । शौनकादीन् मुनीन् कृत्वा
देवतन्त्रप्रवर्तकान् ॥
७.अष्टादशपुराणानां श्रुतिस्मृत्यनुयायिनाम् । वक्तारं मां समादिश्य कृतकृत्यो
बभूव ह ॥
८.मनीषां चिन्तयामास कृत्यशेषां महातपा : । आश्रमाचारभेदं च शाखासूत्रान्तराणि
च ॥
९.तत्कर्तरश्च विहिता : शिक्षिताश्च यथाविधि । तेषु तेषु प्रवर्तन्ते शास्त्रेषु
मुनय : सुरा : ॥
१०.जाता श्रेय:करी नूनं सफलो मे परिश्रम : । एतदेव किलास्माकमवतारप्रयोजनम् ॥
११.इत : परं इहास्माकं किम् कर्तव्यं सुखावहम् । तदत्रैव करिष्यामि मा भूत् कालपरिक्षय
: ॥
१२.इति निश्चित्य भगवान् कृष्णद्वैपायनो मुनि : । जगाम सहसा हर्षात् मेरुं काञ्चनपर्वतम्
॥
१३.यमेनं नाकपृष्ठाख्यमारुह्य किल योगिन : । गच्छन्ति ब्रह्मसालोक्यं तपसा दुष्करं
परै : ॥
१४.यत्र ब्रह्मपुरं मध्ये समन्तात् शतयोजनम् । यत्र विष्णुपदात् मुक्ता गङ्गा पतति
वै किल ॥
१५.यमाहु : परमं स्थानं स्वर्गस्यापि सुखप्रदम् । नानासिद्धगणाकीर्णं देवगन्धर्वसेवितम्
॥
१६.नानाधातुगणै : चित्रै : सालङ्कारमिव स्थितम् । हाराभिरामै : शतश : निझरै : उपशोभितम्
॥
१७.दिव्यपक्षिगणाकीर्णं दिव्यस्त्रीशतसङ्कुलम् । यत्र वै वातरशना : ऋषय : चोर्ध्वमन्थिन
: ॥
१८.तप:कुर्वन्ति नियता : लोकानाम् हितकाम्यया । तमाससाद वेगेन पितामहदिदृक्षया
॥
१९.ददर्श तत्र लोकानां पितामहमनामयम् । उपास्यमानं सर्वत्र सनकाद्यैर्महात्मभि
: ॥
२०.स ऋचा यजुषा साम्ना अथर्वेणाभ्युपासितम् । मूर्तिमद्भिर्महामन्त्रै : साङ्गै
: चोपनिषद्गणै : ॥
२१.सर्गोपकरणैरन्यै : भूतै : व्याहृतिभि : तथा । सेव्यमानं महात्मानं ब्रह्माणं
भारतीपतिम् ॥
२२.देवगन्धर्वसिद्धैश्च नारदाद्यैर्महर्षिभि : । ददर्श परमासीनं सत्यसिंहासने प्रभुम्
॥
२३.तत : सत्यवतीसूनु : आससाद कनकाचलम् । संप्राप्त : सर्वतोभद्रां सभां साक्षात्
स्वायम्भुव : ॥
२४.तत्र सभ्या : समासीना : ऋषय : चोर्ध्वमन्थिन : । सेवन्तो परितो देवं धातारं
जगतां प्रभुम् ॥
२५.सनकश्च सनन्दश्च कौषीतककहोलकौ । सनत्कुमार : पर्णाद : शैब्य : शाकल्य एव च ॥
२६.यज्ञकेतुर्हविर्धान : काणाद : कण्व एव च । जमदग्नि : शङ्कुकर्ण : पिप्पालदश्च
रोमश : ॥
२७.चमसो माण्दुकर्णिश्च हरश्च करभाजिन : । मेधातिथि : सुमन्थुश्च हिरण्यस्रुव एव
च ॥
२८.शत्रुजित् पुरुजित् पैलो वामदेवोऽत्रिरेव च । गार्ग्यायण : सुयज्ञश्च वसिष्ठो
गौतमस्तथा ॥
२९.एवमन्ये च मुनय : कुत्सगृत्समदादय : । उपासन्ते जगत्योनिं समन्तात् कमलासनम्
॥
३०.एवं दृष्ट्वा सभां दूरात् सन्नतस्तु कृताञ्जलि : । पूज्यमानस्तु मुनिभि : ववन्दे
कमलासनम् ॥
३१.सभां प्रविशति व्यासे सानन्दे मुनिपुङ्गवे । सभा परमसंहृष्टा सोच्चैर्नादा बभौ क्षणात् ॥
३१.सभां प्रविशति व्यासे सानन्दे मुनिपुङ्गवे । सभा परमसंहृष्टा सोच्चैर्नादा बभौ क्षणात् ॥
३२.अभिवाद्य स्वकं नाम ब्रुवन् धातारमग्रत : । भारती च ततो देवीं प्रणयात् अभ्यवादयत्
॥
३३.आगतं तं मुनिं दृष्ट्वा हर्षरोमाञ्चमञ्जुलै : । अङ्गैरलघुवैभ्राजै : सुमेरुरिव
भूर्जकै : ॥
३४.सस्नेहैरमृतालोकैरामृष्टैश्चन्द्रशीतलै : । प्रीणयित्वा मुनिश्रेष्ठं व्याजहार
पितामह : ॥
३५.स्वागतं ते मुनिश्रेष्ठ सुखमास्वेदमासनम् । इदमर्घ्यमिदं पाद्यमिदमाचमनीयकम्
॥
३६.गां च गृह्णीष्व भद्रं ते प्रीतोऽस्मि तव दर्शनात् । भवदानुष्ठितं सर्वं ज्ञातं
मे मुनिपुङ्गव ॥
३७.मत्प्रसादात् इदं लब्धं वेदजालं त्वयानघ । यथावत् विहितं सर्वं कर्मकाण्डं द्विजातिषु
॥
३८.अष्टादशपुराणानि सेतिहासानि कृत्स्नश : । समायातानि कॢप्तानि त्वया सत्यवतीसुत
॥
३९.व्यास : --धर्मशास्त्राणि विज्ञानं त्वत्कृपापरमाणव : । ज्ञानं विज्ञानसंपन्नं
त्वच्छक्त्या सचराचरम् ॥
४०.यथा तथा विनिर्मुक्तो लोको मूकायते ध्रुवम् । तस्मात् प्रसादात् भवत : कृतमेतत्
मया प्रभो ॥
४१.यदादावुपतिष्ठन्ते तथा सर्वं यथाविधि । जन्मलब्धं मया ब्रह्मन् सत्कुले लोकविश्रुते
॥
४२.अभ्यस्ता : श्रुतय : चैव तदर्था : चावधारिता : । आश्रमे प्रथमे सम्यक् स्थीयते
च मया विभो ॥
४३.सर्वं च मम विज्ञातं विना कैवल्यसाधनम् । वेदैश्च निखिलै : शास्त्रै : कर्मजालं
प्रतीयते ॥
४४.कर्मणा नैव पश्यामि श्रेयोऽद्य निरुपद्रवम् । कर्माणि कुर्वतां नॄणां स्वर्गाद्या
: फलभूतय : ॥
४५.ते च क्षीणे पुण्यफले पतन्ति च पुन:पुन : । कारणान्येव कर्माणि नॄणां मरणजन्मनो
: ॥
४६.कर्मणा नरकं स्वर्गम् अनुरूपं समश्नुते । स्वर्गात् च नरकात् मुक्त : पुनर्योनिमुपैष्यति
॥
४७.तस्मात् वेदितुमिच्छामि कर्मनिर्मलकारणम् । केन वा कर्मनिर्मुक्त : परमानन्दमृच्छति
॥
४८.तादृशं विमलं ज्ञानं ब्रह्मानन्दैकसाधनम् । भगवन् मे सकरुणमुदेष्टुं त्वमर्हसि
॥
४९.छिन्धि मे संशयं ब्रह्मन् दु:खशोकमयप्रदम् । कृपया पाहि मां मग्नं दुरन्ते दु:खसागरे
॥
५०.बालं कृच्छ्रगतं मोहात् पिता पाति यथा सुतम् । तथा सीदन्तमशुचौ मामाशु परिपालय
॥
५१.कर्मजालपरिक्षिप्तान् क्लिश्यमानान् मुहुर्मुहु : । दृष्ट्वा भीतोऽस्मि भगवन्
दावाग्निमिव कुञ्जर : ॥
५२.लोकस्य दुर्गतिं दृष्ट्वा यातायातं प्रकुर्वत : । सीदामि घर्मसन्तप्तो मत्स्या
इव जलाशये ॥
५३.आश्वास्य मनस्तप्तं चिन्ताजले चिदग्निना । वाचाभयतया ब्रह्मन् पर्जन्य इव वृष्टिभि
: ॥
५४.प्राञ्जलि : प्रणतकन्धरो मुदा मञ्जुलध्वनिमनोज्ञवर्णया ।
श्रावयन् हरिकथां सुधां गिरा व्याजहार
स मुनिं पितामह : ॥
५५.ब्रह्मा --श्रुणु नान्यमना ब्रह्मन् वक्ष्यमाणं मयाधुना । त्वया संप्रार्थ्यमानस्य
फलस्योदयकारणम् ॥
५६.बोद्धारो बहवस्सन्ति सर्वविद्यासु सर्वत : । नैव तत्वप्रबोद्धारं विना पश्यामि
शार्ङ्गिणम् ॥
५७.ज्ञानत : प्रथमं साक्षात् हरिरेव न संशय : । तदन्ते मोक्षदश्चैव रसानामिव कामधुक्
॥
५८.यद्रूपं तारकं विष्णो : बिन्दुना कृतलक्षणम् । एक एवेश्वरो विष्णु : कैवल्याद्यखिलार्थत
: ॥
५९.यस्तितीर्षुर्भवाम्भोधिं यो जिज्ञासु : सुखावहम् । संसेवते हरिं भक्त्या मनसा
कर्मणा बुध : ॥
६०.तस्मात् त्वमपि विप्रेन्द्र तमेव शरणं व्रज । स एव भगवान् विष्णु : कुर्यादेव
तवेप्सितम् ॥
६१.तमेव मधुहन्तारमाराधय समाधिना । तोषितो विधिना संयक् कैवल्यमपि यच्छति ॥
६२.व्यास : -भगवन् स कथं देव : पूजनीयो मया हरि : । केन वाश्रमधर्मेण केन मन्त्रेण
वा पुन : ॥
६३.कुत्र वास्ते हरिर्नित्यं कुतस्सिद्धिर्भविष्यति । तदत्र श्रोतुमिच्छामि वद
मे करुणानिधे ॥
६४.ब्रह्मा --साधु पृष्टं मुनिश्रेष्ठ भवता धर्मचेतसा । अहो सुदुर्लभा लोके भक्तिर्भगवतीदृशी
॥
६५.स्नेकजन्मसंसिद्धै : सञ्चितै : तपसां फलै : । भवत्येतादृशी भक्तिर्नेतरेषां
कदाचन ॥
६६.भक्त्या परमया युक्त : स लोकान् जयति ध्रुवम् । तस्मात् अलभ्य : सर्वत्र भक्तियोगो
नृणां मुने ॥
६७.त्वया बुद्धिर्मुनिश्रेष्ठा सकला हरिसात्कृता । हरिसात्कृतचित्तानां न गोप्यं
गुरुभिर्भवेत् ॥
६८.अपि गुह्यं च वक्ष्यामि शास्त्रसारं मुने तव । यो विनीतस्य शिष्यस्य भक्तस्य
प्रणतस्य च ॥
६९.स वञ्चयति पापीयान् स गुरुर्नारकी भवेत् । विशिष्य हरिभक्तानां न कुर्यात् वञ्जनं
बुध : ॥
७०.व्याप्य विश्वमिदं कृत्स्नं एधमानस्य वै विभो । स्थानैकदेशं नैवास्ति तैलस्येव
तिलो यथा ॥
७१.तथापि तस्य कथ्यन्ते स्थानान् यद्युत्तमानि च । श्रुतिभि : परिगीतानि तानि वक्ष्यामि
ते श्रुणु ॥
७२.मेरुपृष्ठं च मैनाकं क्षीरोदं वृषभाचलम् । केतुमालं हरिद्वारं द्वारका मथुरा
तथा ॥
७३.अविमुक्तं जगन्नाथं श्रीरङ्गं शेषपर्वतम् । कुम्भघोणं सेतुगर्भं स्यानन्दूरं
हरिव्रजम् ॥
७४.नादपद्मं भोगपुरं नरनारायणालयम् । लक्ष्मीपुरं च वाराहं इन्द्रगोलं बृहद्वनम्
॥
७५.हविर्धानं नैमिशं च ब्रह्मनाभं च शङ्खणम् । वज्रमोक्षं गजारण्यं नागचूडं च वामनम्
॥
७६.सह्यामलकमच्छोदं साकेतं प्रणवाश्रयम् । भागण्डं रैवतं शैब्यं वज्रकोशं खगालयम्
॥
७७.एतानि पुण्यक्षेत्राणि विष्णोरायतनानि च । चत्वारिंशत् मया ब्रह्मन् प्रोक्तं
यद्युत्तामान्यलम् ॥
७८.एतेषु वसतां नॄणां सिद्धो मोक्षो न संशय : । अचिरात् लभ्यते तेषां हरिसान्निध्यमञ्जसा
॥
७९.एतानि पुण्यक्षेत्राणि विभक्तानि त्रिधा मुने । तेषां भेदं प्रवक्ष्यामि श्रुण्वन्येन
चेतसा ॥
८०.कानिचित् वेदगीतानि भोगक्षेत्राणि भूतले । तथा कानिचित् अन्यानि कर्मस्थानानि
केवलम् ॥
८१.अपराण्यभिरामाणि ज्ञानभागानि सूरिभि : । एषां प्रवक्ष्ये पुण्यानां गुणान् भेदान्
च कृत्स्नश : ॥
८२.हरिव्रजं मेरुशृङ्गं मैनाकं क्षीरसागरम् । केतुमालं नागचूडं इन्द्रगोलं बृहद्वनम्
॥
८३.शैब्यं प्रणवकेतं च भोगस्थानानि वै दश । अन्यत्र भारतात् वर्षात् एतानि किल
वै मुने ॥
८४.तथा हि भारते वर्षे कृत्वा कर्माणि भूरिश : । तेषां फलानि भुञ्जन्ते मुनयोऽन्यत्र
निर्मला : ॥
८५.अत एव किलैतेषां भोगभूमित्वमिष्यते । कृतानां कर्मणामेषु फलं कर्म समीरितम्
॥
८६.दशसूत्तमदेशेषु पुण्येषु पुरुषोत्तम : । निर्गुणेन स्वरूपेण सान्निध्यं कुरुते
सदा ॥
८७.अत एव न कुर्वन्ति कर्माण्येतानि सूरय : । विन्दन्त : सुखसंसिद्धिं पश्यन्त
: परमं पदम् ॥
८८.द्वारका मथुरा चैव हरिद्वारं वृषाचलम् । स्यानन्दूरं शेषचैलं कुम्भघोणम् च रैवतम्
॥
८९.शङ्खणं भोगनगरं नैमिशं चक्रमोक्षणम् । गजारण्यं च साकेतं वज्रकोशं खगालयम् ।
९०.भागण्डं अच्छतीर्थं च हविर्धानम् च वामनम् । विंशत्येतानि पुण्यानि कर्मस्थानानि
वै मुने ॥
९१.एतेषु किल कर्माणि कुर्वतां विधिपूर्वकम् । सफला किल जायन्ते सिद्धयोऽष्टौ न
संशय : ॥
९२.एतेषु पुण्यक्षेत्रेषु भगवान् हरिरीश्वर : । राजसेन गुणेनैव सान्निध्यं कुरुते
स्वयम् ॥
९३.तेषु कर्मविशेषेण सुप्रीतो मधुसूदन : । पालयिष्यति वै भक्तान् भवभीतान् इवामृतम्
॥
९४.अविमुक्तं जगन्नाथं श्रीरङ्गं कमलापुरम् । नरनारायणक्षेत्रं वाराहं सेतुबन्धनम्
॥
९५.ब्रह्मनाभं चामलकं नादपङ्केरुहं तथा । दशैतानि मुनिश्रेष्ठ ज्ञानक्षेत्राणि
भूतले ॥
९६.एषु सत्वगुणेनैव हरिरास्ते निरन्तरम् । तस्मात् तदनुरूपेण तत्वज्ञानेन विद्यया
॥
९७.समाधियुक्ता : सेवन्ते सर्वेन्द्रियजिगीषव : । निर्मुक्तमत्सरा : शान्ता : मुनयो
मुक्तसंशया : ॥
९८.ज्ञानप्रदानि चैतानि मुक्तिसाधनवन्ति च । विमृश्य सेवितव्यानि गुणाधिक्यानि
सूरिभि : ॥
९९.पापीयान् वा वसीयान् वा यो मृतो यत्र मुक्तिभाक् । अविमुक्तं तत् क्षेत्रं मृतं
मुक्तिर्न मुञ्चति ॥
१००.सुकृतं दुष्कृतं चैव वृद्धिंमत्र न मुञ्चति । यत्र शंसन्ति निर्बन्धं कुलस्तम्भे
सुदुस्सहम् ॥
१०१.यत्र जीवति वै जन्तौ ज्ञानं नोपदिशेत् चेत् शिव : । अत एवात्र वत्स्यामि यत्र
नास्ति परिश्रम : ॥
१०२.ब्रह्मयोनौ समुत्पन्ना : शतवारं धृतव्रता : । ते लभन्ते जगन्नाथं नान्यथा लभते
सुखम् ॥
१०३.अतो न सद्य : सुखदं क्षेत्रं वै पुरुषोत्तमम् । श्रीरङ्गं च तथा क्षेत्रमपि
मोक्षदमुत्तमम् ॥
१०४.प्राप्य रक्ष :पतिरभूत् विदधात्ममनोरथ : । तस्मात् अत्रान्तरायन्तु श्रेयसामस्ति
निश्चयम् ॥
१०५.यत्र स्थिता : मर्त्यगणा : कामरागवशानुगा : । प्रच्यवन्ते स्वाश्रमाचारात्
भयमेतत् रमापुरे ॥
१०६.अत्र धर्माण्याचरतां वसुशापात् सुदारुणात् । ध्रुवोऽन्तराय : तद्भीत्या श्रीपुरं
मे न रोचते ॥
१०७.नरनारायणक्षेत्रे मुनिरासीत् जनार्दन : । स्वयं जप : प्रकुरुते जिघृक्षु :
फलमुत्तमम्॥
१०८.तत्वोपदेशा : सर्वेषां कर्तुमस्य जगत्पते : । अभावात् अवकाशस्य मनो मे न प्रहर्षति
॥
१०९.वराहे च मुनिश्रेष्ठ : भूमिमुद्वहतामुना । संभ्रामो नाम गन्धर्वो रक्षार्थे
विनियोजित : ॥
११०.तत्रत्यानां तु जन्तूनां वासविघ्नकरो यत : । अत : तत्रापि विघ्नानां समाहारं
प्रतीयत : ॥
१११.यत्राप्सु मज्जतामब्धेर्महापातककोटय : । नश्यन्ति सहसा नूनं हिमानीवार्कदर्शनात्
॥
११२.मासात् ऊर्ध्वं धनुष्कोट्यां ये वसन्त्यपि वञ्चिता : । तेषां सुकृतजालानै भैरवो
भक्षयेत् ध्रुवम् ॥
११३.अत एव चिरं वस्तुमवकाशविपर्ययात् । परिभ्रमति वै चित्तं फललुब्ध इवार्भक :
॥
११४.यत्र क्रीडति कल्याण्या रमया सह केशव : । तत्र मुक्तिर्नृणां नूनं ब्रह्मनाभे
श्रुतीरितम् ॥
११५.तथापि स्वर्गभोगानां भोक्तव्यान्यत्र सूरिभि : । अत एव विचारोऽस्ति कर्मबन्धनशङ्कया
॥
११६.तथैव सह्यामलकं विष्णोरायतनं महत् । सेवतां नियता मुक्तिरन्ते श्रुतिसमीरिता
॥
११७.नैवात्र वसतां ज्ञानं हरिर्नोपति चेत् इति । परिभ्रमति चित्तं मे दृष्ट्वौषदिमिवार्भक
: ॥
११८.अत एव परं मन्ये श्रेयसामुत्तमोत्तमम् । नादपद्ममिदं क्षेत्रं नादब्रह्मैकदर्शनम्
॥
११९.यत्र स्थितानां जन्तूनां भजतां प्रीति पूर्वकम् । ज्ञानोपदेशं कुरुते स्तन्यं
मातेव वत्सला ॥
१२०.तस्मात् त्वमपि विप्रेन्द्र तत् क्षेत्रं याहि मा चिरम् । तुरीयाश्रमधर्मेण
वर्तमानो दिवानिशम् ॥
१२१.जपन् अष्टाक्षरं मन्त्रं ज्ञानं प्राप्स्यसि केशवात् । न लभ्यते ज्ञानविद्या
तपसा केशवं विना ॥
१२२.व्यास : --एतदुक्तं भगवता भवता करुणात्मना । पीयूषमिव मे पीतं श्रोत्राभ्यां
वचनामृतम् ॥
१२३.श्रुत्वैनामद्भुतां वाणीं कल्याणीं सर्वदेहिनाम् । हृष्यामि परमानन्दसुधाकल्लोलसागरे
॥
१२४.हृदयात् दूरतो नष्टा चित्तसन्तापसन्तति : । संप्राप्तमद्य कल्याणं सफला मे
तप:क्रिया ॥
१२५.न तृप्तिमुपगच्छामि पिबन्नपि कथासुधाम् । प्राप्य हृष्यामि ते पादम् रसायनमिवातुर
: ॥
१२६.भूयोऽपि श्रोतुमिच्छामि कथामेनां पुरातनीम् । कुत्र वा वर्तते क्षेत्रं तदेतत्
ज्ञानसाधनम् ॥
१२७.नादपद्ममिति ख्यातं विष्णोरायतनं महत् । अद्य तत् क्षेत्रमाहात्म्यं वक्तुमर्हसि
मे विभो ॥
१२८.ब्रह्मा --पाराशर्य महाप्राज्ञ सर्वशास्त्रविशारद । श्रुणु वक्ष्याम्यहं पुण्यमितिहासं
पुरातनम् ॥
१२९.पुरा विश्वमिदं कृत्स्नं स्रष्टुकामोऽहमद्भुतम् । तपसा तोषयन् देवं विश्वातीतं
पुरातनम् ॥
१३०.ततो वर्षसहस्रान्ते ध्वान्ते तपसि दारुणे । तेज:पुञ्जं मया दृष्टं कोटिसूर्यसमप्रभम्
॥
१३१.तत्तेजो महदाश्चर्यं दुर्निरीक्ष्यमहं तदा । सभयोऽहं मुनिश्रेष्ठ प्रणयात्
अस्तुवम् तदा ॥
१३२.तावत्तस्मिन् महद्धाम्नि ब्रह्मण्यभुदयास्पदे । संजज्ञे सहसो नादो मेघनाद इवापर
: ॥
१३३.यस्तारक इति ख्यातो मन्त्रो वेदेषु गीयते । तमश्रौषं महामन्त्रं जगतां बीजपूरकम्
॥
१३४.तदग्रे परमं मन्त्रं अवाप्याह महामुने । अपश्यदग्रतो दिव्यं कमलं तत्र तेजसि
॥
१३५.अष्टपत्रं सुवर्णाभं अष्टाक्षरमयं परम् । तस्मादुदञ्चत् वदनं हंसं परमभास्वरम्
॥
१३६.चन्द्रपाण्डरवर्णाभ्यां पक्षाभ्यामुपशोभितम् । साक्षात् तत्वात्मकं भद्रमालोकितमकल्मषम्
॥
१३७.ससत्यरूप : सहसाभिजातैरालोकनैरादिमपास्य चित्तात् ।
आभाष्य मामाह मुदा स भूमा सृजस्व लोकानिति
नादरूपी ॥
१३८.अपास्य मोहं मलिनायमानं विचित्रवाचा विशदीचकार ।
तत्वात्मकं मह्यमथोपदिश्य व्यक्तं पुनर्मे
गिरमुज्जहार ॥
१३९.तां पौरुषीं गां कथयामि सत्यां श्रुत्यन्तबद्धां मुनिभिर्विमृश्याम् ।
श्रुणुष्व विप्रेन्द्र सुखानुभूत्यै
सुदुर्लभां भूमितले नराणाम् ॥
१४०.श्री भगवान् --मय्यावेश्य मनो नित्यं मां यजस्व यथातथम् ।
मामेव भजतां नित्यं ददामि परमां गतिम्
॥
१४१.इत्युक्त्वा दर्शयामास नादब्रह्मसरोरुहम् । क्षेत्रं स्वकीयं विमलं मह्यं मधुनिषूदन
: ॥
१४२.पुनरेवाह मां भक्तं कृपया पुरुषोत्तम : । आब्रह्मस्तम्बपर्यन्तं प्रकटीकृत्य
चात्मनि ॥
१४३.नादब्रह्मस्य मे ब्रह्मन् विश्वरूपस्य भास्वत : । एतदेव परमं स्थानं विद्धि
मद्रूपकं परम् ॥
१४४.नित्यमत्रैव वत्स्यामि भक्तानां ज्ञानदोऽस्म्यहम् । अत्र मां ये भजन्यद्धा
मत्तो विन्दन्ति तत्फलम् ॥
१४५.तदेतत् परमम् क्षेत्रं बद्रूपं विद्धि वै मुने । अत्र भक्तानहं सर्वान् पालयिष्ये
मुहुर्मुहु : ॥
१४६.अन्ते संक्षीयमाणानि भूतानि मम तेजसा । पश्यन्नपि न मुञ्चामि क्षेत्रमेतत्
सुखावहम् ॥
१४७.अपि मुञ्चामि कमलामपि मुञ्चामि वै क्षमाम् । नैव मुञ्चाम्यहं भक्तान् क्षेत्रमेतं
च शाश्वतम् ॥
१४८.क्षेत्रमेतं न मुञ्चामि मामेतं च न मुञ्चति । प्रीतिर्भक्तेषु मे नूनं क्षेत्रेऽस्मिन्
च तथाविधे ॥
१४९.द्विधा कृत्वाहमात्मानं वत्स्यामि जगदीश्वर : । स्थूलरूपमिदं क्षेत्रं मदीयं
बोद्धुमर्हसि ॥
१५०.तदन्तर्ज्योतोषां राशिं विमलं काञ्चनप्रभम् । सूक्ष्मरूपमिदं विद्धि मदीयं
भारर्तीपते ॥
१५१.कल्पे कल्पे परिद्यूनान् भक्तानिह वसन् अहम् । पालयिष्यामि सत्येन ज्ञानदानेन
भूयसा ॥
१५२.तस्मादेवेह मां सर्वा : श्रुतय : सूक्ष्मया गिरा । भक्तप्रियं प्रशंसन्ति पुराणान्यपि
पद्मज ॥
१५३.अद्य ते नादरूपेण कमलेन स्वयंभुवा । दृष्टवानसि मां यस्मात् भूयात् तन्नामकं
स्थलम् ॥
१५४.मत्प्रसादात् इदं विश्वं विधाय सचराचरम् । मामेवाराधयन् नित्यं शाश्वतीं भूतिमश्नुहि
॥
१५५.इत्थं मामनुशास्यादौ भगवान् लोकपावन : । स्तूयमानो मया भक्त्या तत्रैवान्तरधीयत
॥
१५६.ततोऽहमपि संप्राप्य विद्यां सर्गोपसाधनीम् । तमेव मनसाधाय भगवन्तमधोक्षजम्
॥
१५७.सृष्ट्वा चराचरं विश्वं स्वस्थो वत्स्याम्यहं मुने । नैवास्ति शक्तिर्मे विद्यामुपदेष्टुं
तवाधुना ॥
१५८.तस्मात् त्वमपि विप्रेन्द्र तदेव क्षेत्रमुत्तमम् । संप्राप्य देवमाराध्य मुक्तो
भवितुमर्हसि ॥
१५९.विन्ध्यात् दक्षिणभगे तु पूर्वे तु मलयाचलात् । ज्योतिषामयनं क्षेत्रं नादाम्भोरुहसंज्ञकम्
॥
१६०.यत्र देवा सगन्धर्वा : सिद्धाश्च परमर्षय : । उपासन्ते समागत्य भगवन्तं जगत्पतिम्
॥
१६१.यत्र वेदाश्च मन्त्राश्च मूर्तिमन्त उपासते । तत्क्षेत्रमध्ये कल्याणी ताम्रपर्णी
सरिद्वरा ॥
१६२.सङ्गता याति सिद्धार्था सागरं सरितां पतिम् । यत्र बिन्दुमयी भूमि : तीर्थं
चापि कलात्मिकम् ॥
१६३.अम्भोजहंसरूपेण सदाध्यास्ते हरिस्स्वयम् । तत्राभ्यर्च्य हरिं भक्त्या विधिना
मुनय : पुरा ॥
१६४.तत्वज्ञानं हरेर्लब्ध्वा जीवन्मुक्ता : चरन्ति हि । तथैव राजर्षय : समभ्यर्च्यात्र
केशवम् ॥
१६५.तरन्ति दुस्तरां मायां वैष्णवीं सुखभागिन : । बहुना किं मुनिश्रेष्ठ वक्ष्ये
सारतरं वच : ॥
१६६.दधिमन्थात् इवानेकात् धैर्यं भवमशेषत : । चाण्डाला : च सुरापा : च पुल्कसा
: च पुलिन्दका : ॥
१६७.ये चान्येवात्र सङ्गत्य ज्ञानं विन्दन्ति केवलम् । तस्मात् त्वमपि विप्रेन्द्र
गत्वा तत्क्षेत्रमुत्तमम् ॥
१६८.भजस्व परया भक्त्या ततो विन्दत्यभीप्सितम् । तीर्थं विष्णुपदं विद्धि तद्ध्यानं
तीर्थमुत्तमम् ॥
१६९.तन्नामकीर्तनं तीर्थं तीर्थं तज्जनसङ्गमम् । ये च वै भगवत्भक्ता : संसक्ता
: साधुचारिण : ॥
१७०.एते हि तत्वज्ञानस्य भागिनो नात्र संशय : । तत्र गत्वा त्वया ब्रह्मन् समभ्यर्च्य
जनार्दनम् ॥
१७१.लङ्घ्यते वैष्णवी माया दुस्त्यजा देहिनां परा ।
इत्थं प्रसादमुपलभ्य विधे : प्रसन्नात्
आधिं विहाय मनसो मलिनत्वहेतुम् ।
बद्धाञ्जलिस्तुति पिलालयन् सभायां स्वान्तं
विभोर्मुनिवरो निरगात् नगेन्द्रात् ॥
इति सप्तत्रिंशोऽध्याय : Pro.Total = 3070
+ 171 = 3241.
अष्टत्रिंशोऽध्याय :
नादाम्बुजक्षेत्रे
व्यासागमनम्
१.प्रणम्य तं समापृच्छ्य शिष्यैस्सह मुदान्वित : । निष्क्रान्तो ब्रह्मनगरात् हिमवन्तमुपागमत्
॥
२.तत्रापश्यत् वधूसङ्गं वसन्तं व्याकुलात्मकम् । व्रणरक्तपरीताङ्गं क्लिश्यमानमिवस्थितम्
॥
३.ता : च दृष्ट्वा दयाविष्टो विस्मयोल्लासिमानस : । उपसृत्य च पप्रच्छ का यूयमिति
कौतुकात् ॥
४.व्यास : --काश्च यूयं महाभागा रुजा जर्जरिता इव । किं च व : करणीयं मे वक्तव्यं
यदि भण्यताम् ॥
५.कन्यका : --व्यासं सत्यवतीसुनुं जानीम : त्वां मुनीश्वर ।
त्वदागमनत : प्रीता : कथयाम
: चिकीर्षितम् ॥
६.यदप्सु मज्जनात् मर्त्यो मुच्यते सर्वकिल्बिषै : । ताश्च तीर्थमया : पुण्या
: गङाद्या सरितो वयम् ।
७.स्नात्वा स्नात्वाप्सु नो मर्त्या : त्यजन्त्यंह : सुदारुणम् । प्रयान्ति परमं
स्थानमन्तर्बहिरकल्मषम् ॥
८.सद्योत्सृष्टानि पापानि दूषयन्ति न : तनू : । तत्पापनाशनायाद्य यास्याम : क्षेत्रमुत्तमम्
॥
९.यस्य दर्शनमात्रेण जन्तवो जगतीतले । विमुक्तपापा : गच्छन्ति तद्विष्णो : परमं
पदम् ॥
१०.एषा गङ्गा तुङ्गभद्रा चैषा पुण्या कलिन्दजा । एतास्वेकत्र विन्दन्ति भुक्तिं
मुक्तिं च मानवा : ॥
११.तथाप्येता महापुण्या : तीर्थान्तरमनामयम् । संभूय परमं क्षेत्रं नादाम्बुजमुत्तमम्
॥
१२.गच्छन्त्यनादिनिधनमात्मपापानुनुत्तये । व्यास : --अलं भवत्यो लोकानां सर्वपापप्रशान्तये
॥
१३.तथापि काङ्क्षा युष्माकं तीर्थान्तरनिषेवणे । स्मरणादेव पापघ्नी गङ्गा चैषां
प्रशस्यते ॥
१४.किं पुनर्मज्जतां पुंसां कैवल्याद्यर्थसाधने । तथैव यमुना पुण्या हरिसायुज्यसाधनी
॥
१५.कवेरजा तीर्थमहो लोकानां भवभेषजाम् । या चैषा नर्मदा पूर्वं ब्रह्मलोकविहारिणी
॥
१६.सर्पाणां मातृशब्दानां स्मृता तच्छान्तिमातनोत् । तुङ्गभद्रा तथा चैषा श्रीशैलेशप्रियङ्करी
॥
१७.अस्यास्तु तीर्थलेशेन नृणां निर्वाणद : शिव : । तथैव चन्द्रभागाद्या : पुण्योदा
: श्रुतिचोदिता : ॥
१८.अष्टादशपुराणानि पुण्यान्यासां प्रसङ्गत : । इत्थमभ्युदयार्थानां नदीनां स्रोतसामिह
॥
१९.पवित्रकरणं तीर्थं कुतो जागर्ति भूतले । एतद्विज्ञातुमिच्छामि कौतूहलकरं परम्
॥
२०.वक्तुमर्हत कल्याण्यो महानद्या : कृपात्मिका : । एवं पृष्ठवति व्यासे कृष्णद्वैपायने
मुनौ ॥
२१.गङ्गा सरस्वती प्राह व्यासं सत्यवतीसुतम् । गङ्गा --श्रुणु त्वं वासवीसूनो वक्ष्यमाणं
मयाधुना ॥
२२.पुरा विश्वमिदं सृष्ट्वा विधाता सचराचरम् । तथैव तेषु मर्यादां द्विधा चक्रे
बृहस्पति : ॥
२३.अधर्मम्ग्रे ससृजे ततो धर्मं सनातनम् । दैतेयादित्यो : प्रादात् तौ चोभौ तत्र
भागिनो : ॥
२४.अधर्मं प्राप्य दैतेया मूढा हृष्टा प्रतस्थिरे । देवाश्च धर्ममादाय गन्तुमेवोपचक्रमु
: ॥
२५.धर्मलाभात् मदान्धानां देवानां च महात्मनाम् । करात् विगलितो धर्म : पपात हरिपादयो
: ॥
२६.ततो देवा : समागम्य भ्रान्ता : विष्णुमतोषयन् । सोऽपि प्रसन्नो भगवान् देवदेवो
जनार्दन : ॥
२७.धर्मं स्वपादयुगलात् ससृजे विश्वभूतये । सृज्यमान : तच्चरणात् चतुर्धा समजायत
॥
२८.तत् सत्यनामकं ज्येष्ठं द्वितीयं तीर्थनामकम् । तृतीयं क्रतुमाहुस्तत् चतुर्थं
मन्त्रमुयते ॥
२९.सत्यां सुराणां वदने क्रतुं तेषां करे तथा । मन्त्रं चकार जिह्वायां तीर्थमङ्गेषु
माधव : ॥
३०.आह चैतान् हरि : प्रीत्या देवानां हितकाम्यया । सत्यमुख्या : तथा यूयं पापं
हर देहिनाम् ॥
३१.इत्युक्तवति वै देवे पुन : प्राहु : तदीश्वरम् । ससत्या इव शार्दूल कृताञ्जलिपुटा
: पुरा ॥
३२.वयं तदाशात् देहिनामघसन्ततिम् । नाशयिष्यामहे नूनं नात्र कार्या विचारणा ॥
३३.कुत्र वा शुद्धिरस्माकं भूयात् विधीयताम् । एतत् श्रुत्वा वचो विष्णु : पुन
: प्राह मुदान्वित : ॥
३४.अत्राहं तीर्थरूपेण श्रेयसे जगतां सदा । वसामि ब्रह्मनिर्वाणं दर्शयन् सर्वदेहिनाम्
॥
३५.यत्र सत्वकलाशक्तिर्मामकी परदेवता । मामेव तीर्थरूपेण ताम्राख्या समुपासते ॥
३६.तदेतत् मामकं क्षेत्रं नादाम्बुजमितीरितम् । परमात्मेति सर्वत्र वेदेषु परिपठ्यते
॥
३७.यत्र मां अर्चयिष्यन्ति सततं सकला : कला : । तत्र देवा : च मे नित्यं पादौ परिचरन्ति
हि ॥
३८.तत्र यूयं समागत्य सत्यमुख्या : समन्तत : । धूतपापा : भविष्यन्ति प्रत्यब्दं
मत्प्रसादत : ॥
३९.मदात्मके मार्गशीर्षे व्यतीपादेऽरुणोदये । तदा मज्जन्ति ये तत्र ते मुक्ता नात्र
संशय : ॥
४०.तत्र जप्तं हुतं दत्तं कृतं कोटिगुणं भवेत् । यूयं तस्मात् इहागत्य धूतपापा
: भविष्यत ॥
४१.इत्यादिष्टा भगवता सत्यमुख्या महामुने । स्थानानि भेजिरे सर्वे हरेरादेशकारिण
: ॥
४२.तदादि वयमन्ये च सत्यक्रतुपुरस्सरा : । धूतपापा : भविष्याम : प्रत्यब्दं हरिदर्शनात्
॥
४३.सूत : --इत्युक्त : गङ्गाया : व्यास : ताभिस्साकं मुदान्वित : ।
संप्राप नादकमलं सच्चिदान्न्दलक्षण : ॥
४४.ददर्श दूरतो व्यास : तेज:पुञ्जमिव स्थितम् । भगवन्तं वासुदेवं तिष्ठन्तं क्षेत्ररूपकम्
॥
४५.कृताञ्जलि : केवलतत्वदर्शनं पदं हरे : प्राप्य परावरात् मन : ।
ददर्श तीर्थं परमं पुराणं स्थानम् च
साक्षात् प्रणवात्मकस्य ॥
४६.विचार्य निपुणां बुद्धिं व्यास : सत्यवतीसुत : । तत्रैव विश्वकर्माणं सस्मार
स्वर्गवर्धकिम् ॥
४७.तावदाविरभूत्तस्य पुरस्तात् संप्रहर्षयन् । किं कृत्यमिति पप्रच्छ विश्वकर्मा
मुनीश्वरम् ॥
४८.अत्रैव देवदेवस्य विष्णोरभ्युदयात्मन : । मूर्तिं संस्थापयिष्यामि जन्तूनां
दर्शनक्षमम् ॥
४९.समानय भवानत्र विष्णोर्मूर्तिमकल्मषम् । इत्युक्त : तेन सहसा कृत्वा तां मुनये
तदा ॥
५०.शुभे मुहूर्ते देवस्य मूर्तिं संस्थाप्य मन्त्रत : । पूजयामास विधिना कलातीर्थेन
माधवम् ॥
५१.पुष्पै :च तुलसीपत्रै : धूपदीपादिभिस्तथा । तथैव परमान्नेन पूजयामास वै मुनि
: ॥
५२.तावत् व्योम्नि महानासीत् देवदुन्दुभिनिस्वन : । पुष्पवृष्टि : पपातोच्चै :
देवमुक्ता नभस्थलात् ॥
५३.देवाश्च ऋषयश्चैव तुष्टुवुस्तं मुनीश्वरम् । दिश : प्रसेदुर्वसुधा सानन्दां
समजायत ॥
५४.ततो मुनि : प्रसन्नात्मा शिष्यै : सह मुदान्वित : । तोषयामास विधिना देवदेवं
जनार्दनम् ॥
५५.एवं हरिं प्रतिष्ठाप्य् नादब्रह्मणि निर्मले । तत्रैव भगवान् व्यास : तपश्चक्रे
सुदारुणम् ॥
५६.देवस्य पश्चिमे भागे पीठे शारदसंज्ञिके । पर्णशालां शिवां कृत्वा तत्र वासमकल्पयत्
॥
५७.कलातीर्थे कृतस्नात : तुरीयाश्रमधर्मत : । सर्वत्र पूजयामास तीर्थे बिम्बे च
केशवम् ॥
५८.ब्रह्माण्डे यानि तीर्थानि वर्तन्ते हरिशासनात् । तान्याजग्मु : तत्र तीर्थे
आत्मपापानुनुत्तये ॥
५९.सर्वतीर्थमयं तीर्थं दृष्ट्वा व्यास : कृताञ्जलि : । इमं मन्त्रं जजापोच्चै
: तीर्थानां स्तोत्रमुत्तमम् ॥
६०.नमोऽस्तु तीर्थराजाय हरिपादाब्जभूतये । त्वदम्भसाहमात्मानं क्षालयामि प्रसीद
मे ॥
६१.महामङ्गलदे मात : मलयाद्रिसमुद्भवे । दातुमर्हसि मे तीर्थं मज्जनात् मलिनापहम्
॥
६२.माया मलयजा पुण्या ताम्रा मुक्ताफलप्रसू : । गौरी मरुद्वृधा गङ्गा शिवचूडा शिवोद्भवा
॥
६३.सर्वतीर्थेडिता सत्या सर्वपापप्रणाशिनी । ज्ञानप्रदीपिका नन्दा हरिसायुज्यदायिनी
॥
६४.षोडशैतानि नामानि ताम्राया मुनिपुङ्गव : । नित्यं स्नात्वा महातीर्थे देवर्षीनभिपूज्य
च ॥
६५.पूजयामास मन्त्रेण महापुरुषविद्यया । एवं पूजयत : तस्य वेदव्यासस्य धीमत : ॥
६६.अत्यगु : क्रमशो विप्रा : क्षणवत् शरदां शतम् । तत : कदाचित् उत्थाय प्रात
: प्रयतमानस : ॥
६७.विद्यातीर्थे च स स्नात्वा यात्रां कृत्वा यथाविधि । पूजयामास पुरुषं मन्त्रेणानेन
मन्त्रवित् ॥
६८.पूजान्ते नियतो भूत्वा कृताञ्ज्लिपुट : शुचि : । तुष्टाव देवदेवेशं स्तोत्रेण
पुरुषोत्तमम् ॥
६९.व्यास : --नम :परमशान्ताय निगमान्त :प्रबोधिने । नित्यानन्दरूपाय योगिने ब्रह्मणे
नम : ॥
७०.योऽसौ विभूतिभि : सर्वं आत्मदेहसमुद्भवै : । आवृत्य बहुधा भाति भूषणैरिव हाटक
: ॥
७१.नामानि यस्य पुण्यानि जपन्त : जन्तव : परम् । पदं गच्छन्ति कल्याणं नमस्तस्मै
महात्मने ॥
७२.ओं नमो वासुदेवाय कृष्णाय परमात्मने । भक्तप्रियाय शान्ताय भक्तिमुक्तिप्रदायिने
॥
७३.नमो नम:पङ्कजलोचनाय नमो नम;पङ्कजभूषणाय ।
भक्तप्रियायाखिललोकधाम्ने नमो नमो नादनवाम्बुजाय
॥
७४.स्तुवत : तस्य भक्तस्य देवोऽप्याह कृताञ्जले : ।
भगवान् --प्रीतोऽस्मि मुनिशार्दूल व्रियतां
यदभीप्सितम् ॥
७५.व्यास : --अभीप्सितं मे भगवन् तव पादाम्बुजद्वयम् । नान्यं वृणे श्रीनिकेतात्
यातायातश्रमादहम् ॥
७६.खिन्नोऽस्मि कर्मजालेन पङ्काक्रान्त इव द्विप : । तस्मात् अपारदु;खाब्धे : त्रातुमर्हसि मां प्रभो ॥
७७.नानायोनिशतारण्ये धावमानो मुर्मुहु : । नान्तं पश्यामि भगवन् मृगवन्मृगतृष्णया
॥
७८.त्वामखण्डपरानन्दं दुर्दर्शमपि योगिनाम् । दृष्ट्वा भूयो न शोचामि यथा कुरु
तथा विभो ॥
७९.श्री भगवान् --मा शोचथा: विप्रेन्द्र हर्षं प्राप्नुहि वै चिरात्। मदाराधनयुक्तानां
न हि बन्धनतो बलम् ॥
८०.ये मां भजन्त : सततं भक्त्या परमया युता : । तेषां न जायते क्वापि पुन : संसृतिबन्धनम्
॥
८१.ये मामनुकरिष्यन्ति ते मामायान्त्यसंशयम् । अन्तरात्मनि सर्वेषां मयि चित्तं
निवेश्य तु ॥
८२.प्रत्याहारपरो भूत्वा पश्य मां योगमुद्रया । सर्वद्वन्द्वसह : शान्त : सर्वत्र
समदर्शन : ॥
८३.मामेव पूजयात्मानमत्रैव ज्ञानविद्यया । दत्तं मया ते निर्वाणमन्ते विश्वस्य
केवलम् ॥
८४.एतन्मे परमं क्षेत्रं ये भजन्ति हि मानवा : । तेषां दर्शय मे मुद्रां मदीयां
ज्ञान रूपिणीम् ॥
८५.इत्युक्त्वा मुनिशार्दूलं देवदेवो जनार्दन : । दर्शयित्वा ज्ञानमुद्रां तत्रैवान्तरधीयत
॥
८६.शङ्ख: --एवमन्तर्हिते देवे व्यास : सत्यवतीसुत : । अद्याप्यास्ते हरिं भक्त्या
पूजयन् पुरुषोत्तमम् ॥
८७.तस्मात् तत्क्षेत्रमाहात्म्यं वक्तुं वाचामगोचरम् । ज्ञानतोऽज्ञानतो वापि तत्क्षेत्रं
यस्तु गच्छति ॥
८८.तेषामज्ञानसंभूतं बन्धनं नैव जायते ।
स्नात्वा कलशतीर्थमिदं हि जन्तु : सकृत्
प्रपश्यत्यपि देवदेवम् ।
न याति मातुर्जठरीकरण्टं स मुक्त एवात्र
न चिन्तनीयम् ॥
८९.व्यासस्य साक्षात् अखिलात्ममूर्ते : गुरोरशेषस्य गुणैकधाम्न : ।
श्रुण्वन् गृणन् वापि कथामुदारामपास्तपापो
भविताचिरेण ॥
इति अष्टत्रिंशोध्याय
: Pro.Total = 3241 + 89 =3330.
एकोनचत्वारिंशोऽध्याय :
रोमशतीर्थप्रस्ताव
:
१.शङ्ख : --तस्मात् ऐन्द्रीमवष्टभ्य दिशं
किञ्चिददूरत : । रोमशाख्यं महातीर्थं दर्शनादघनाशनम् ॥
२.यत्तीर्थकणिकामात्रसंसर्गात् मुक्तबन्धना : । तिर्यञ्चोऽपि प्रपद्यन्ते तद्विष्णो:परमं
पदम् ॥
३.पुरा शार्ङ्गेण कथितां कथामाकर्ण्य रोमश : । अद्यापि न त्यजत्यद्धा तीर्थमाहात्म्यमित्यत
: ॥
४.तस्मात् तत्तीर्थसदृशं नास्ति तीर्थम् विशिष्टता । मनुष्यत्वेऽपि दुष्प्राप्ये
ज्ञानविज्ञानसाधने ॥
५.नैव मज्जन्ति तत्रैव तरते ह्यात्मवञ्चिता : । अस्वाधीनमिदं विश्वं विधिना कर्मरूपिणा
॥
६.विकृष्यते तत्र तत्र बद्ध्वा पाशैरिव ध्रुवम् । सुकृतं दुष्कृतं चैव कर्तुं नालं
हि जन्तव : ॥
७.स्वकृतै : सुकृतैरेव प्राप्नोति सुकृतं पुन : । तथापि यत्न : कर्तव्य : धर्मे
बुद्धिमता सदा ॥
८.यतमाना : प्रपद्यन्ते पुण्यतीर्थानि मानवा : । नान्यथा लभ्यते कल्पकोटिभि : चाल्पतेजसा
॥
९.राजा --भगवन् का कथा तेन कथिता शार्ङ्गपक्षिणा । कथां शुश्राव भगवान् रोमश :
कुत्र वा मुनि : ॥
१०..तत्राश्रमपदं चक्रे स्वावासाय कथं पुन : । एतत् सर्वमशेषेण वद विस्तरतो मम
॥
११.इति पृष्टो मुनिस्तेन शङ्खयोगी महीपतिम् । संभाव्य भूयो राजानं व्याजहार कथामिमाम्
॥
१२.शङ्ख : --श्रुणु राजन् प्रवक्ष्यामि कथां शुश्रूषवे तव।पुरा कदाचित् भगवान्
रोमश : तपसां निधि : ॥
१३.सह शिष्यै : सिद्धगणै : अन्यै : चापि महात्मभि : । ब्रह्मलोकात् विनिष्क्रम्य
मेरुमाप महीधरम् ॥
१४.तत्र गन्धवती नाम वायोरुद्यानवाटिका । काञ्चनै : कदलीषण्डै : महामाणिक्यपादपै
: ॥
१५.सुधासदृक्षपानीयै : तप्तहाटकपङ्कजै : । महीसोपानसंपन्नै : वपीकूपजलाशयै : ॥
१६.सर्वर्तुसम्पदोल्लासिमन्दमारुतमञ्जुलै : । अविमुक्तमहाभाग्यै : महामरकतस्थलै
: ॥
१७.सर्वार्तिशान्तिसामग्रीं दर्शयन्तीमिवस्थिताम् । नानापक्षिगणाकीर्णां नानासिद्धनिषेविताम्
॥
१८.तां प्रविश्य महोद्यानवाटीं वातैकपालिताम् । मधुद्रवासरस्तीरे रसालतरुमूलके
॥
१९.वासं चकार भगवान् विश्रमाय महामुनि : । तमेनमुपतस्थुस्ते योगिनो योगवित्तमा
: ॥
२०.कथयन्त : कथा: चित्रा : तोषयन्त : परस्परम् । तत्रान्तरे महाराज कोऽपि काञ्चनसन्निभ
: ॥
२१.नभ : प्रकाशयन् भासा विहग : प्रत्यदृश्यत । पीतलोहितनीलाभान् स्वपक्षान् विक्षिपन्
मुहु : ॥
२२.अखण्डचित्रकलनमम्बरे कलयन् इव । परस्परं समाबद्धचरणा : विस्तृतच्छदा : ॥
२३.पक्षिस्वनै : स्वपक्षीयान् आह्वयन्तीव सादरम् । तं विलोक्य समायान्तं तत्रत्या
: तादृशा : खगा : ॥
२४.उपगम्य सुसंभ्रान्ता : पक्षै : संश्लिष्य सौहृदात् । तरुस्कन्धे समानीय परित
: तं व्यतस्थिरे ॥
२५.उपविष्टं सुविश्रान्तं प्रेम्णा वचनमब्रुवन्।पक्षिण: सखे सुहृत्तमान् विहायानुचरान्
इमान् ॥
२६.कुत्र यात : किमर्थं वा कथयस्व महामते । सुकुमारं वपु : केन परिम्लानमिदं तव
॥
२७.चन्द्रशीतमिदं गात्रं सोष्मलं केन हेतुना । इति पृष्ट:सुहृद्भि: तै: स पक्षीपक्षिपुङ्गवै
: ॥
२८.स्ववृत्तान्तं यथातत्वं व्याजहार महीपते ।रे रे सुहृत्तमा: किञ्चित् आश्चर्यं
चरता महीम् ॥
२९.दृष्टं मया तद्वक्ष्यामि शृण्वन्तु विगतज्वरा :। यत्र चन्दनशैलेन्द्रशिखरात्
निर्गता नदी ॥
३०.ताम्रपर्णीति विख्याता सर्वपापापहारिणी । वहते कुम्भजमुने : प्रसादात् दक्षिणापथे
॥
३१.यदम्बुपरिणामेन जायन्ते मणय : परम् । यत्तोयकणिका पानादपि कीटोद्भिज्जातय :
॥
३२.गच्छन्त्यपुनरावृत्तिं तद्विष्णो:परमं पदम् । तत्र काचन भीमाक्षी राक्षसी विकृतानना
॥
३३.पक्षिपक्षावधूतेन तत्तीर्थजलबिन्दुना । विहाय देहं विकृतं राक्षसं भीमदर्शनम्
॥
३४.स्पृहणीयं त्रिजगतां प्राप्य नारीवपु:क्षणात् । विमानवरमारूढा गच्चन्ती गगनाङ्गणे
॥
३५.दृष्टा संभाषिता चापि विस्मयेनान्तरात्मना । तदेतदद्भुतं वक्तुं युष्माकं सुहृदामहम्
॥
३६.इत: परं हि गन्तव्यमस्माभि : सह बन्धुभि : । तत्तीर्थवरमाप्लुत्य यास्यामि परमां
गतिम् ॥
३७.कालातिपातो न कर्तव्य : गन्तव्या दक्षिणाहरित् । द्रष्टव्यो मलय : शैल : सेवितव्यो
घटोद्भव : ॥
३८.ताम्रपर्णी धर्मतोया सेव्या सर्वमणिप्रसू : । इति ब्रुवति पक्षीन्द्रे सानन्दो
रोमशो मुनि : ॥
३९.शुश्रूषु : तत्कथां पुण्यामुपसृत्य तदन्तिकम् । संभाव्य वाचा विहगमभ्यभाषत हृष्टवत्
॥
४०.रोमश : --रे रे विहङ्गममणे सद्गुणामृतवारिधे । धर्मैकबुद्धिर्मय्येव यथाब्धौ
रत्नसन्तति : ॥
४१.त्वां मन्ये सत्कुलोद्भूतं त्वामेव तपसां निधिम् । विधे : अन्त:पुरं किन्तु
विन्यस्तं ते मुखाम्बुजे ॥
४२.सुस्पष्टवर्णता वाचि कान्तिर्वपुषि तैजस : । आर्जवं च दयाचित्ते द्विजमुख्यत्वशंसिनी
॥
४३.भस्मच्छन्नं वह्निमिव त्वां मन्ये मुनिसत्तमम् । केन कर्मविपाकेन तिर्यक्त्वं
प्रापितो भवान् ॥
४४.नामकर्मकृताचारान् तव तत्वेन सांप्रतम् । ज्ञातुमिच्छामि सौहार्दात् पूर्यतां
मे मनोरथ : ॥
४५.वक्तव्यं यदि मा कालविलम्बोऽस्तु विहग्गम । कुत्र दृष्टं त्वया पुण्यं तीर्थं
श्रेयस्करं परम् ॥
४६.का वा निशाचरी मुक्ता महापातकबन्धनात् । संभाषिता तया देवगतिं संप्राप या कथा
॥
४७.मदर्थं सकलं व्यक्तमाख्याहि विहगोत्तम । इति पृष्टो मुनीन्द्रेण तथा पक्षी विचक्षण
: ॥
४८.उद्धूय पक्षिमूर्धानमानमय्य स्फुटेक्षणम् । उत्क्षिप्य दक्षिणं पादं व्याजहार
स पक्षिराट् ॥
४९.पक्षी --भगवन् श्रूयतां वक्ष्ये मद्वृत्तान्तमशेषत : । भगवन् विश्ववृत्तान्तवेदिना
भवताततम् ॥
५०.अनुशिष्ट : प्रवक्ष्यामि पुनरुक्तमिव द्विज । पुरा शरद्वान् नामाभूत् वैश्वानरकुलोद्भव
: ॥
५१.अर्चिष्मान् इति विख्यातो वेदवेदाङ्गपारग : । तपसामेकमयनं संपदामेकमाश्रयम्
॥
५२.आहर्तारं क्रतूनां च वक्तारं च वेदशास्त्रयो : । यमेनं सूरयो विप्रा : स्तुवन्ति
गुरुगौरवात् ॥
५३.ज्वालावत्यां धर्मपत्न्यां तपसा सप्तसूनव : । मित्रोऽरिष्ट : कविस्सन्धि : अर्चिष्मान्
रोषण :क्रतु : ॥
५४.सप्तैते लोकविख्याता : वेदवेदाङ्गपारगा : । क्रमात् गुरुकुले वासं कुर्वन्तो
गौतमाश्रमे ॥
५५.निर्ययौ बहुल : काल : अस्खलत् ब्रह्मचारिण : । एतस्मिन् अन्तरे ब्रह्मन् गुरुरस्मान्
समादिशत् ॥
५६.पञ्चलक्षादिकान्तु गवां संरक्षणाय वै । मेरुसानुषु रम्येषु तृणतोयसमृद्धिषु
॥
५७.वयं गृहीत लगुडा : सन्नद्धास्तु पदे पदे । वारयन्तो महासत्वान् सिंहशार्दूलस्खादिकान्
॥
५८.घृतक्षीरादिपानेन गुर्वादिष्टेन जीविता : । हायनानां शतं साग्रं क्रमादेवं हि
यापितम् ॥
५९.तदा जगत्क्षोभकरी प्राणिप्राणापहारिणी । अनावृष्टिरभूत् घोरा सागस्यापि शोषिणी
॥
६०.निस्तोया पृथिवी जाता विशीर्णतृणवीरुधा । क्षुधासंक्षुण्णसर्वाङ्गा : पतिता
जीवकोटय : ॥
६१.क्षीराभावात् मृता वत्सा : वत्सतर्य : ततस्तत : । निर्वीर्या वृषभा : जाता
: सह गोभिर्महीतले ॥
६२.गोकुले व्याकुले चैव वयमाहारवर्जिता : । विमृश्य बुद्ध्या कर्तव्यमुपायं प्राणधारणम्
॥
६३.मृतान् मृतान् प्रत्यहं हि समानीय पशून् वयम् । विधिना तेन मांसेन श्राद्धं
कृत्वा दिने दिने ॥
६४.तच्छेषेणैव जीवन्त : स्थिता : तत्रैव निर्वृता : । समास्वेवं वर्तमाना : स्वायुष
: क्षयगैरवात् ॥
६५.महाव्यालपरिप्लुष्टा : युगपत् पञ्चतां गता : । यमस्य सदनं नीता : किङ्करै :
तीव्रकारिभि : ॥
६६.ततो राजा यमो दृष्ट्वा धर्मज्ञोऽस्मान् समागतान् । चित्रगुप्तादिभि : सभ्यै
: समालोच्य मुहुर्मुहु : ॥
६७.उवाचास्मान् भयाविष्टान् वाचा भेरीगभीरया। यम : --भो: भो: सत्कुलसंभूता : ह्यधीतसकलागमा
: ॥
६८.निर्णीताशेषधर्मा : च कृतवन्तो जुगुप्सितम् । तथापि श्रद्धया श्राद्धं सम्यगाचरितं
पुन : ॥
६९.ततो गोमांसभक्षाणामवाप्तपितृतोषिणाम्(दोषिणाम्) । अथ जातव्यमधुना न पश्याम
: क्षणान्तरे ॥
७०.तस्मात् युष्माकमाप्तानां भ्रातॄणां सप्तवारकम् । तिर्यग्योनिमुपागम्य भोक्तव्यं
कर्मण : फलम् ॥
७१.तथापि पितृपूजाया : प्रभावात् ब्रह्मसंस्मृति : । अस्तु त्रिकालविज्ञानविमला
बुद्धिरक्षया ॥
७२.जन्मद्वये चक्रवाका : चतुर्वारं मृगायने । अन्ते शार्ङ्गत्वमासाद्य ब्रह्मज्ञानपरायणा
: ॥
७३.रोमशस्य ऋषेस्सङ्गात् महातीर्थावगाहनात् । अक्षयं परमं स्थानमन्ते गच्छत मा
चिरम् ॥
७४.इत्थं धर्मेण वै राज्ञा समादिष्टा : वयं मुने । अनुभूय क्रमात् योनिं शार्ङ्गं
प्राप्ता : सुदु;खिन : ॥
७५.चिरमाकाङ्क्षितं भाग्यं क्रमात् युष्मात् समागतम् । त्वदङ्घ्रिपङ्कजध्याननिर्धूताशेषकल्मषा
: ॥
७६.प्राप्स्याम : परमां सिद्धिं सुधां लब्ध्वामरा इव । एतावत् अनुभूतं यत्कर्मजातं
महामुने ॥
७७.तदशेषं समाख्यातं त्वदाज्ञागौरवादिह । तत : परं वक्ष्यामि यन्मे दृष्टं च कौतुकम्
।
समाकर्णय विप्रेन्द्र सावधानेन चेतसा
॥
इति एकोनचत्वारिशोऽध्याय : Pro.Total = 3330 + 77 =3407.
चत्वारिंशोऽध्याय
:
तत्र प्रस्थानम्
१.शङ्ख : --कथयित्वात्मवृत्तान्तं तथ्यमित्थं स पक्षिराट् । भूय : कलिमलापायकलनैकविनोदनीम्
॥
२.कथां कन्दलयामास रोमशाय महात्मने । किञ्चित् चञ्चलयन् मौलिं विधून्वन् पक्षिपालिकाम्
॥
३.उद्धृत्य दक्षिणं पादं व्याजहार मुनीश्वरम् । पक्षी --श्रुणु ब्रह्मन् प्रवक्ष्यामि
दृष्टं मे कौतुकं हि यत् ॥
४.प्रसादचन्द्र नामाभूत् पाण्ड्यदेशे महीपति : । आस्थानमागमस्थानमावासं सर्वसंपदाम्
॥
५.त्रय्या : सङ्केतसदनं सिन्धु : सौन्दर्यसंपदाम् । यं प्रशंसन्ति गन्धर्वा : वसुधावासवं
मुहु : ॥
६.यत्कोदण्डगुणक्वाणश्रवणात् अरियोषिताम् । निष्पतन्ति परित्रस्ता गर्भा निर्भरबिन्दव
: ॥
७.धर्मज्ञ : वदान्य : च युवा पञ्चास्यविक्रम : । स राजा महतींं कृत्स्नां भारती
दिग्जिगीषया ॥
८.परिक्रम्यादाय भूपेभ्यो धनमादाय पुष्कलम् । मणलूरुपुरं प्राप सैन्येन महता वृत
: ॥
९.तत्र तत् वृत्तमाकर्ण्य नागराजो मणिध्वज : । परिभूत : शत्रुसंघै : तमेनं शरणं
ययौ ॥
१०.तमागतं पूजयित्वा पाण्ड्यनाथो यथोचितम् । प्रसाद्य वाचा नागेन्द्रं व्याजहार
सकौतुकम् ॥
११.प्रसादचन्द्र : --कस्त्वं सखैरेभि : समागमनकारणम् । त्वयानीतेन रत्नेन लोकमूल्येन
भूयसा ॥
१२.प्रीतोऽस्मि नितरां साधो कथयस्व मनीषितम् । ये मामुपागता : प्रीत्या काङ्क्षन्त
:स्वमहोदयम् ॥
१३.तेषां शतगुणं कामं दास्ये कल्पतरुर्यथा । तस्मात् कथय तत्वेन काङ्क्षितं कैतवं
विना ॥
१४.इति पृष्टो महीपेन प्रसन्नेन्द्रियचेतसा । स भोगिराज : प्राहेदं प्रशस्य जगतीपतिम्
॥
१५.नागराज : --महाराज सखे सर्वजनतातापापनोदन । त्वयि चित्रं न पश्यामि वदान्यत्वं
महोदयम् ॥
१६.शीतलत्वं निशानाथे प्रतापत्वं दिवाकरे । उत्तुङ्गता महामेरौ गंभीरत्वं महोदधौ
॥
१७.वाग्मिता गीष्पतौ नित्यं वदान्यत्वं सुरद्रुमे । त्वयि सर्वगुणावासे कथं स्तोतुमिहोत्सहे
॥
१८.विचार्य सुचिरं बुद्ध्या निश्चितार्थोऽहमागत : । लब्धमनोरथास्सर्वे पूर्णा मे
संपद : स्थिरा : ॥
१९.त्वदाननेन्दुसान्निध्ये मयि ताप : कुतो भवेत् । श्रुणु राजन् प्रवक्ष्यामि मदागमनकारणम्
॥
२०.जातिसामान्यवैरी च वैनतेय : खगेश्वर : । अस्मासु बन्धुतां यात : शेषराजसुहृत्तया
॥
२१.अकारणविरोधेन बाधते डम्भकोऽसुर : । उधूटकस्य दैत्यस्य कन्या कनकसुन्दरी ॥
२२.रूपसौन्दर्यवैदुष्यवीर्ययौवनवत्तया । तत्पुत्रं शारदं नाम्ना भर्तारमवृणोत्
प्रिया ॥
२३.उद्वाहमङ्गले तत्र सुहृज्जनसमागमे । असूयानिर्भर : पापी संग्रामाय समाह्वयत्
॥
२४.तेनातिबलिना युद्धे वयं सर्वे पराजिता : । त्वयि सौख्यं हि मन्वाना : त्वयि
निश्चितमानसा : ॥
२५.इत : परं महाराज कर्तव्यं सुविचार्यताम् । इत्युक्तवति वै तस्मिन् भुजङ्गे शरणागते
॥
२६.प्रसादचन्द्रो भूपाल : प्रहसन् वाक्यमब्रवीत् । राजा --मा भैष्ट यूयं भोगीन्द्र
भवन्तु स्थिरचेतस : ॥
२७.व्यसनं तेऽपकर्षामि नीहारमिव भानुमान् । अद्य तं नाशयिष्यामि दानवं पापचेतसम्
॥
२८.इत्युक्त्वा रथमारुह्य सर्वगं मेरुसन्निभम् । अकुण्ठितमहावेगैरश्वरत्नैरलङ्कृतम्
॥
२९.महाकार्मुकतूणीरशक्तितोमरमुद्गरै : । सन्नद्ध : कवची खड्गी प्रायात् तेन रसातलम्
॥
३०.सर्वत : काञ्चनाकारा मही माणिक्यशर्करा । महाभाग्यसुसंपूर्णा स्वर्गादपि गरीयसी
॥
३१.नन्दनादिकसौभाग्यरुद्यानै : मधुगन्धिभि : । महादानवसंघातै : महाभोगीन्द्रमन्दिरै
: ॥
३२.कीडन्तीभिर्वधूभिश्च समन्तादुपशोभितम् । तत्र गङ्गमुखी नाम नगरी काञ्चनारुणा
॥
३३.यस्यां रत्नप्रभाजालै : न जानन्ति तम : कलाम् । मणिप्राकारवलया महादानवसमाकुला
॥
३४.निर्मदाख्येन दैत्येन पालितां बलशालिना । तं बभञ्ज महाबाणैराशीविषोपमै : ॥
३५.रुद्रदत्तवर : श्रीमान् अभेद्यकवचो युवा । तत्र युद्धे महाघोरे जिगायारीन् समागतान्
॥
३६.तत्र कोटिसहस्राणि दानवानां महौजसाम् । यामार्थेनैव वीरेण सर्वान् जित्वा महामुने
॥
३७.तद्दृष्ट्वा कर्मभूपस्तु दुष्करं भुवनत्रये । महाबलिमुखास्सर्वे तेन सख्यं वितेनिरे
॥
३८.तैर्महादानवैसौख्यं प्राप्य रत्नैर्महाधनै : । प्रसादचन्द्र : सन्तुष्ट : सुहृदं
प्रीतिवर्धनम् ॥
३९.मणिध्वजं स्थापयित्वा स्वस्थाने सह संपदा । तमामन्त्र्य यथान्यायं मित्रानामन्त्र्य
दानवान् ॥
४०.प्रतिप्रयाते भूपाले स्वपुरीं तु जयश्रिया । अनुव्रज्यानुरागेण प्राहैनं मणिध्वज
: ॥
४१.महाराज सखे किञ्चित् कर्तव्यं मम विद्यते । सफलं तु करिष्याद्य सानुरागेण चेतसा
॥
४२.कन्या : चतस्र : कल्याण्यो वर्तते मम वेश्मनि । तासु शेषगुणाभिख्यां विद्यास्वेकतमां
प्रियाम् ॥
४३.अङ्गीकुरु महालक्ष्मीमनुरूपामिव प्रभो । इत्याकर्ण्यानुरागेण तथास्त्वित्यनुमान्य
ताम् ॥
४४.स्वराजधानीं संप्राप्ते ते राज्ञि प्राज्ञो मणिध्वज : । सपुत्रबन्धु : सामात्य
सह कन्याजनेन च ॥
४५.सहानीत महाराज सर्वभोगसमृद्धिमान् । तमभ्यर्च्यागतं स्निग्धं सवाहनपरिच्छदम्
॥
४६.सुमुहूर्ते सुनक्षत्रे समादिष्टे पुरोधसा । विवाहोद्यमं चक्रे राजा विहितकौतुक
: ॥
४७.समागतेषु सर्वेषु ज्वलत्यपि हुताशने । मणिध्वज : स्वतनयामलङ्कृत्य महाधनै :
॥
४८.सहसैव समारेभे सहिरण्योदपूर्वकम् । तावत् कन्याप्यदृश्याभूत् विद्युन्मेघान्तरे
यथा ॥
४९.हा हेति किञ्चिदालभ्य धैर्यचित्तो मणिध्वज : । द्वितीयां दातुमारेभे सापि कन्या
तिरोदधे ॥
५०.तृतीया तुरीया क्वापि नष्टेव जनसंसदि । तत : शुशोच नागेन्द्र : राजाभ्यन्तरशोचत
॥
५१.महाकष्टमिति वाचाटा सा सभाभूत् भयाकुला । चिन्ताक्रान्ते महीपाले नागेन्द्रे
शोकसंप्लुते ॥
५२.तावदाविरभूत् व्योम्ना नारद : तपसां निधि : । प्रसादचन्द्र : तं दृष्ट्वा समुत्थाय
निजासनात् ॥
५३.प्रणम्य पूजयित्वैनं विस्मितो वाक्यमब्रवीत् । स्वागतं ते महायोगिन् सर्वसंशयनाशन
॥
५४.त्वदङ्घ्रिपङ्कजप्राप्त्या कृतकृत्योऽस्मि सांप्रतम् । अभ्युत्थानमिदं सर्वं
मन्वाना : चित्रदर्शनम् ॥
५५.अस्पन्दतारकेणाक्ष्णा प्रतीक्षन्ते समन्तत : । पुराकृतानां तपसां पचेलिमतया
मुने ॥
५६.मन्ये त्वद्दर्शनं भूयो जात्यन्धस्य यथा मणि : । किं कर्तव्यं यथा ब्रह्मन्
कैङ्कर्यं पदपद्मयो : ॥
५७.मयि प्रसीद ब्रह्मर्षे कर्तव्योऽनुग्रह : तथा । इत्यञ्जलिपुरोत्तंसमौलिना व्याकुलात्मना
॥
५८.प्रार्थ्यमानो मुनि : प्राह राजानं तत्र संसदि । सैषा परिष्कृता संसद् चक्राकारो
व्यतिष्ठत ॥
५९.इत्थं मुनीन्द्रागमनोत्सवेन तरङ्गितानन्दसुधाशयानाम् ।
समागतानां हृदयं जनानां ब्रह्मानुभूत्येव
समाधिभाजाम् ॥
No comments:
Post a Comment