உ
ஸ்ரீ பூதநாதர் துணை.
श्री पाणिनिविद्यापीठम्
विषयसूचिका
1.Foreword
2.Introduction
3.64 अध्यानानां विषयक्रमाणि
4.ताम्रपर्णीमाहात्म्यम्
in detail
5.Appendix
6.Conclusion
Foreword
श्री ताम्रपर्णीमाहात्म्यम् has been written in manuscript by विद्यारत्नम् N.Ramasubrahmanya Sastrigal, residing at Suttamalli, a village near
Tirunelveli, Tamil Nadu, with the help of palm leaf manuscript obtained from
Andi Vadyar, Tirunelveli. That manuscript written by विद्यरत्नम्, has got the blessings of Sringeri Mutt and Kanchi Komakoti Mutt. विद्यारत्नम् has composed श्री
ताम्रपर्णीसहस्रनामावलि : with a copyright publication which
is available with विद्यारत्नम् ।
Introduction
श्री ताम्रपर्णीमाहात्म्यम् is a portion of शैवपुराणम्.
It consists of 6400 verses divided into 64 chapters. विद्यारत्म्नम् श्री रामसुब्रह्मण्य शास्त्री obtained this work in palm leaf manuscript from Aandi vadyar of
Tirunelveli. Mr.Sastri made a rough copy in paper manuscript. His desciple Mr.K.Bhoothanathan
made two paper manuscripts one in Tamil and the other in Devanagari script and
handed over Devanagari manuscript to his Guru and the Tamil manuscript is kept
with K.Bhoothanathan. The following is the tranliteration done from Tamil to
Devanagari script by K.Bhoothanathan with the help of his family members which consists of his wife B.Visalakshi alias Vasanti, son Mr B.K.S.Gokul,
daughter-in-law Usha Meenakshi, grand daughter Visalakshi Aashrita and grand
son G.B.Aaditya Sairaj.
अध्यायम्
विषयाणि
१. शैलेन्द्रकन्याया : उत्पत्ति : - विवाहप्रस्ताव :
२. दक्षिणदिशि
ताम्रपर्ण्या सह अगस्त्यस्य आगमनम्
३. मलयाचलेन
अगस्त्यानीताया : ताम्रपर्ण्या : पुत्रीत्वेन स्वीकरणम्
४. अगस्त्येन
वैष्णवमतनिराकरणपूर्वकं शैवमतस्थापनम्
५. त्रिकूटाचलमाहात्म्यम्
६. चित्रानद्या
: रोदिनीनद्याश्च उद्भव :
७. वज्राङ्गदशापनिवृत्ति : शिवशैले घटनोत्पत्तिनिरूपणम्
८. हयग्रीवाश्रमं
प्रति अगस्त्य आगामनम्
९. वीरसेन-शङ्खयोर्संवाद
:
१०. ताम्रपर्णी-समुद्रयोर्विवाह
: - श्रीपुरम्
११. बाणतीर्थमाहात्म्यम्
१२. वृषाङ्कनगरे
कादम्बरीवने ताम्राया : सागरे प्रवेशप्रस्ताव :
(आत्तूर्)
१३. कादम्बरीवनमाहात्म्यवर्णने
ब्रह्मतपस्थान वर्णनम्
१४. ब्रह्मकृतो
विष्णुस्तव :
१५. तामसीशापविमोचनम्
१६. वेणुवनमाहात्म्यम्
- तिरुनेल्वेलि
१७. गौतमाश्रमे
अगस्त्य आगमनेन राक्षसीपैशाचयो : मोचनम्
सुरेन्द्रमोक्षादिकथनं
अगस्त्यकृता पुटार्जुनेश्वरस्तुति :
१८. अगस्त्यकृता
गोष्ठीश्वरलिङ्गप्रतिष्ठापनपूर्विका गोष्ठीश्वरस्तुति :
(ऊर्क्काडु
-उहिर्क्काडु - नखारण्यम्)
१९. इन्द्रकीलादिक्षेत्रागमनपूर्वकं
स्वाश्रमं प्रति अगस्त्यस्य
आगमनम्
२०. ताम्रपर्ण्या
: मुखे एनोपजनसंबन्धकृतनीलिमा अपनोदनाय
इन्द्रकीलक्षेत्रे
शाम्भवव्रतानुष्ठानाय अगस्त्येन ताम्रपर्णीं प्रति
उपदेश
: । ताम्रपर्ण्या इन्द्रकीलनाम प्रति कृतप्रश्नोत्तरसमयेन्द्रेण
वृत्रवधाय
दधीचीमहर्षे : अस्थियाचनं तद्दानाय तेन देहत्याग :
२१. विश्वकर्मनिर्मितवज्रायुधेन
वृत्रहननम् । ताम्रपर्ण्या : शाम्भवव्रत
अनुष्ठानेन
पापविमोचनम् । स्वस्थानगमनम् ।
२२. ताम्रपर्ण्या
: उत्पत्तिमारभ्य सङ्गमपर्यन्तं विद्यमानानां तीर्थानां
नामधेयानि
२३.&२४ श्येनोपाख्यानम् - काळहस्तीश्वर
: - चाट्टुप्पत्तु
२५. यमगीता
२६. श्येनपारावतानां
पुण्यलोकगमनम्, द्विजसुतस्य च ताम्रपर्णी
प्रसादात्
ब्रह्मपदप्राप्ति : - शालातीर्थम् - किडारङ्गुळम्
२७. वसुमना
इति नाम्ना राज्ञा अगस्त्यवचनेन ताम्रपर्ण्यां -
स्नानपूर्वकं
काश्यपतीर्थे याग : कृत : - विक्रमसिंहपुरम्
२८. देवानां
रक्षणाय तप:कुर्वतो : अदितिकाश्यपयो : ताम्रपर्ण्या
वरप्रदानम्
। काश्यपेन लिङ्गप्रतिष्ठा - अम्बासमुद्रम्
२९. काश्यपेन
ईश्वरस्तुति : । शिवशर्माख्यस्य ब्राह्मणस्य काश्यप-
तीर्थादिस्नानपूर्वकम्
काश्यपं प्रति प्रश्न : ।
३०. दीपिकेश्वरोद्भव
:
३१. काश्यपस्य
नारदेन सह ब्रह्मलोकगमनम् । गजेन्द्रमोक्षणकथा-
प्रश्न
: ।
३२. गजेन्द्रमोक्षणकथावर्णनम्
- वीर, करुणा, भक्ति
३३. दुर्गातीर्थवैभववर्णनम्
- शृङ्गार, शोक - अरियनायकीपुरम्
३४. दुर्गया
राज्ञो वरप्रदानम् । मणिग्रीवपुरकथाप्रश्न : ।
३५. मणिग्रीवकथा
- मणिग्रीवशापविमोचनम्
३६. सोमतीर्थमाहात्म्यम्
- शेर्मादेवी
३७. नादाम्बुजक्षेत्रमाहात्म्यम्
- शेर्मादेवी
३८. नादाम्बुजक्षेत्रे
व्यासस्य गमन्म्
३९&४० रोमशतीर्थप्रस्ताव :(शार्ङ्ग
:) - कोडकनल्लूर्
४१. रोमशतीर्थवैभववर्णनम्
४२. दौर्वासतीर्थमाहात्म्यम्
- करिशूळ्(zh)न्दमङ्गलम्
४३. छायातीर्थमाहात्म्यम्
४४. ज्योतिर्वनमाहात्म्यम्
४५. ज्योतिर्वनमागत्य
स्नात्वा शिवाराधनं कृत्वा भगस्य नष्ट-
नयनयुगलप्राप्ति
:
४६. ज्योतिर्वने कुम्भाटकनाम्न : कस्यचित् राज्ञ : मातृहत्या-
मोचनम्
४७. ज्योतिर्वने
कचावत्या : ताम्रास्नानमहिम्ना भर्तृत्वप्राप्ति :
४८. कुम्भाटकस्य, हारीतस्य, कचालिकायाश्च तप:करणम्-
(षड्जपाल
:)
४९. गन्धर्वतीर्थमहिमवर्णनम्
- शुद्धमल्ली
५०. गन्धर्वराजसिद्धि
:
५१. श्यामनदीसङ्गमे ज्योतिर्वने श्रीवलधि
नाम्ना राज्ञा लिङ्गत्रय-
प्रतिष्ठा
५२. मन्त्रतीर्थमाहात्म्यम्
- ओमनल्लूर्
५३. वन्हि(अग्नि)तीर्थप्रस्ताव
: - तरुवै
५४. वन्हितीर्थमाहात्म्यम्
५५. रामतीर्थ, जटायुतीर्थमाहात्म्यम् - अरवङ्गुळम्
५६. चित्रानदीसङ्गमे
वनमहिमवर्णनम् - श्रीविलिप्पेरि
५७. विष्णुवने
दोषनिलयप्रस्ताव :
५८. विष्णुवने
विष्णुप्रसादात् विश्वेषां देवानां पितृशापविमोचनम्
५९. विष्णुवने
चक्रराजस्य विमोचनम्, जन्मनिवृत्ति :,
चक्रराजकृत
- विष्णुस्तुति :
६०. विशेषतो
विष्णुवनमहिमानुवर्णनम्
६१. श्रीवैकुण्ठादि
श्रीपुरादि क्षेत्रमाहात्म्यम् - नवतिरुप्पति
६२. श्रीपुरम्
- चिञ्चातरुमूलम् - क्षेत्रतीर्थयो : तत्तरोश्च
माहात्म्यम्
६३. सोमारण्यमहिमानुवर्णनम्
- मानसाङ्ग :
६४. ताम्रासागरसङ्गममहिमानुवर्णनम्
। जयन्तीपुरे गुहस्य
प्रादुर्भाव
: । ताम्राया : स्तुति : । फलश्रुतिश्च निरूपिता ।
உ
श्री गुरुभ्यो नम : हरि : ओम्
श्री ताम्रपर्णीमाहात्म्यम् |
प्रथम : अध्याय :
शैलेन्द्रकन्याया : उत्पत्ति
: । विवाहप्रस्ताव : ।
१.शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम्। प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥
२.
अखण्डपरमानन्दपरिपूर्णात्ममूर्तये। निर्गुणायगुणाविष्टकर्मणे ब्रह्मणे नम :।
३.यद्वश
:कणिकावेदा : यल्लोक : कणिका जगत्। यद्प्रभारिन्दुरिन्द्वाद्या : नमस्तस्मै परात्मने॥
४.पुरा विधात्रा ब्रह्माण्डखरग्रहमेधिना। लीलया कलिता कापि तपस्सीमा तपस्विनाम् ॥
५.भूरेषा भूतिजननी पुरातनकृताश्रया । जायते नैमिशाभिख्याविख्याता जगतीतले ॥
६.पापानामूषरक्षेत्रं पुण्यानामुदयस्थलम् । आनन्दानामिवावासमाश्चर्याणामिवाकरम् ॥
७.नैमिशं मुनिशार्दूलै
: समन्तादुपसेवितम् । तत्र सर्वे मुनिगणा : मिलिता
: धर्मचारिण : ॥
८.काङ्क्षन्त
: परमां सिद्धिं सत्रं द्वादशवार्षिकम् । यज्वानं शौनकं कृत्वा चक्रुरक्रोधमध्वरम् ॥
९.तावत् अभ्यायौ श्रीमान् सूत
: पौराणिकोत्तम : । ददर्श महतीं शालां तपसा निर्मितामिव ॥
१०.हूयमानै
: हव्यवाहै : प्रफुल्लाशोकमल्लिकाम् । आस्तीर्णकुशसंघातै : कौशेयाम्बरधारिणीम् ॥
११.श्रीमद्युत्तरवेद्यां तु यूपसीमन्त पद्धति : । शामित्राध्वर्युणा बाहुयुगलिं कलशस्तनीम् ॥
१२.वेदिमध्यां धूमकेशां संभारभरणोज्ज्वलाम् । एवं भूतां चिररूपां क्रतुलक्ष्मीम् इव स्थिताम् ॥
१३.शालामालोकयन् अग्रे मध्ये मुकुलिता
: शिला : । विनयात् उपसृत्यैतान् क्रमादेवाभ्यवादयत् ॥
१४.तं दृष्ट्वा मुनय : प्रीता : शौन्काद्या : समाहिता : । आसनाद्युपचारै: तै :
स्वागतैर्वचनैरपि १५.अभिनन्द्य महात्मानमासीनं विष्टरे शुभे । विश्रातं
स्वस्तमनसं पप्रच्छु: प्रीतिपूर्वकम् ॥
१६.ऋषय : --
स्वागतं ते महाभाग दृष्टोऽसि चिरकालत : । का : च वै सरिता : पुण्या : दृष्ट्वात्र
निष्कृता : ॥
१७.कानि पुण्यानि तीर्थानि स्नातानि नियतात्मना । कुत : समागतोऽसि त्वं किं वा दृष्टैवाद्भुतम्
॥
१८.दृष्ट्वा चित्र् इवाभासि सुप्रसन्नतया मुखे । अन्त:करणजं भाव्म् सर्वेषामपि
देहिनाम् ॥
१९.प्रकाश्यते मुखेनैव स्वच्छस्वच्छातवत् स्तिथम् । इति तेषाम् वच : श्रुत्वा सूतस्तु
विनयोज्ज्वल :॥
२०.प्रत्यभाषत सानन्दमभिष्टूय च तान् मुनीन् । श्री सूत : ---
नमो वो ब्रह्मवादिभ्यो महद्भ्य : सततं
नम :॥
२१.विनिष्क्रम्य महाक्षेत्रात् नरनारायाणलयात्। अर्थदर्शनकामेन मया सञ्चारिता मही
॥
२२.दृष्ट्वा तीर्थानि पुण्यानि क्षेत्राणि विविधानि च । गच्छता दूरमध्वानं मया
विश्रान्तिमेयुषा ॥
२३.अक्षिप्रागुणिकी जाता पाण्ड्यगुप्ता महामही । तत्र श्रीसुन्दरेश : च दृष्टो
वेगवती तटे ॥
२४.ततो दक्षिणतो दूरात् दृष्टो मे मलयाचल : । महामङ्गलदा यत्र वर्तते परदेवता ॥
२५.यत्र साक्षात् भगवती पराशक्तिरूपस्थिता । ताम्रपर्णीति विख्याता प्रयाति वरुणालयम्
॥
२६.स्मरणात् दर्शनात् ध्यानात् स्नानात् पानादपि ध्रुवम् । कर्मविच्छेदिनी सर्वजन्तूनां
मोक्षदायिनी ॥
२७.अन्यच्च श्रूयतां विप्रा : मया दृष्टं तदद्भुतम् । ब्रह्मारुद्राभिर्देवै :
प्राणिनां हितकांयया ॥
२८.निर्मितं श्रीपुरं नाम परमायतनं श्रिय : । तत् समीपे महातेजा : वर्तते कुंभसंभव
: ॥
२९.तत् प्रसादात् मया लब्धं ऐहिकामुष्मिकं फलम् । जीवितं सफलं जातं सफलो मे परिश्रम
: ॥
३०.महाक्रतुं पारयत : श्रुत्वा युष्मान् महात्मन : । श्रेष्ठं कथयितुं पुण्यं ताम्राया
: चरितं महत् ॥
३१.आगतोऽस्मीह भद्रं व : मुनय : तु तपोधना : । इत : परं मया कार्यं युष्माकं प्रीतिवर्धनम्
॥
३२.तदत्र परमायत्ता : साधु शासितुमर्हत । इति तस्य वच : श्रुत्वा मुनयो दीर्घदर्शिन
: ॥
३३.प्रशस्य बहुधा प्रोचु : व्यासशिष्यमकल्मषम् । ऋषय : ---
आश्चर्यं भवता दृष्टमाश्चर्यमनुभावितुम्
॥
३४.अहो विचित्रजननी ताम्रा परमपावनी । आदौ कदा समुद्भूता कुतो वा केन हेतुना ॥
३५.कथं वा मलयं प्राप्ता श्रीपुरं च कथं पुन : । कथं प्रवृत्ता मलयात् अपांभसां
निधिम् ॥
३६.एतानि वद विस्तीर्य व्यासशिष्य महामते । इति श्रुत्वा वच : तेषां ऋषीणां सूतनन्दन
: ॥
३७.स्मृत्वा स्मृत्वा महाभागां ताम्रपर्णीं सरिद्वराम् । अञ्जलिं शिरसा धृत्वा
व्यासं नत्वा निजं गुरुम् ॥
३८.कौतुहलसमाविष्टो रोमाञ्चितकलेबर : । आनन्दबाष्पपूराभ्यां लोचनाब्यां विलोकयन्
॥
३९.श्री सूत : ---
श्रुण्वन्तु मुनयस्सर्वे प्रभावं कुंभजन्मन
: । महादेव्यास्तु चरितं ताम्राया : परमाद्भुतम् ॥
४०.य : श्रुणोति सकृद्वापि सर्वपापै : प्रमुच्यते । पुरा दक्षसुता गौरी रुद्रपत्नी
क्रुधान्विता ॥
४१.निजामग्नौ तनुं हुत्वा कुत्सयन्ती तनूद्भवाम् । प्रादुरासीत् पुन : शैलराजराजस्य
कन्यका ॥
४२.तत्पत्न्यां मेनकाख्यां प्राच्यामिव रविप्रभाम् । प्रादुर्भूतां माहादेवीं तरुणादित्यपाटलाम्
॥
४३.कुसुंभचारुवदनां नानामणिविभूषिताम् । कनकाङ्गदकेयूरकमनीयभुजान्विताम् ॥
४४.मणिकोटीरघटितनिशाकरकलान्विताम् । अष्टादशभोदञ्चत् अभिख्यायुतोज्ज्वलाम् ॥
४५.स्तूयमानां मुनिगणै : वाक्यै : उपनिषद्गणै : । निजारुणप्रभापूरमज्जत्ब्बुवनमण्डलाम्
॥
४६सौन्दर्यसिन्धुसंभूतचन्द्ररेखामिवस्थिताम् । उपसृत्य महादेवीं भीतभीत इवाद्रिराट्
॥
४७.प्रणम्य शिरसा भूमौ भूयो भूय : प्रसादयन् । तुष्टावाशेषजननीं विशेषविदुषीमिमाम्
॥
४८.अंब विश्वंभरे मात : प्रसीद परमेश्वरि । प्रसीद करुणापाङ्गसंरक्षितचराचरे ॥
४९.ब्रह्मोपेन्द्ररुद्राद्यै : स्तूयमानमहोदये । समस्तभुवनापायव्यपोहनकृतोद्यमे
॥
५०.नमस्तुभ्यं महादेवि मायामोहितदानवे । पापभञ्जनपाण्डित्यपादांबुजरज :कणे ॥
५१.सर्गादौ जगतां साक्षात् कथ्यते प्रकृति : परा । वैखरीति ततो भासि वाचि वाचस्पतेरपि
॥
५२.वैखारिकार्णीन्द्राय त्वया दृष्टानि चात्मन : । त्वयादौ विहितो ब्रह्मा रजसा
सर्गसिद्धये ॥
५३.त्वां वदन्ति पुनर्वेदा : स्थित्यै नारायणात्मिकाम् । विश्वविध्वंसनविधौ महारुद्रकलात्मिकाम्
॥
५४.कलाकाष्ठमुहूर्ताश्च राशिनक्षत्रपङ्क्तय : । त्वदंशविहिता : वेदा : तत्ववाक्यप्रमाणत
: ॥
५५.भोगीनां भोगजननी मुमूक्षाणां च मोक्षदा । कर्मकालगुणा मर्यादावुयक्तरूपिणी ॥
५६.त्वयि सर्वमिदं विश्वं त्वदाज्ञागौरवाश्रयम् । यजन्ति त्वां सुरास्सर्वे ध्यायन्ति
हृदि योगिन : ॥
५७.आराधयन्ति कर्मिष्ठा : द्रव्यै : तत्वसमुद्भवै : । अन्विष्यमाणा निगमै : आगमै
:मन्त्रगर्भितै : ॥
५८.लब्ध्वैव भासि दुर्लभ्या लभ्या परमेशितु : । एवं त्वमधुना मादृशां दृष्टिगोचरा
॥
५९.आश्चर्यमिव पश्यामि ह्यन्धलब्धोमणिर्यथा । अम्ब भीतोऽस्मि नितरां त्वद्रूपालाकनादहम्
॥
६०.त्वामहं दारिकां लब्ध्वा वाञ्छामि सुखमासितुम् । तथा प्रसीद मातस्त्वं एष एव
वरो मम ॥
६१.इत्थं स्तुता महादेवी प्रार्थिता सा पुन:पुन :। सुधासामग्रया वाचा व्याजहाराचलेश्वरम्
॥
६२.महाराज नृपश्रेष्ठ भवता सह भार्यया । अर्चिताहं पुरा भक्त्या वर्शाणामयुतायुतम्
॥
६३.तपसा दुश्चरेणापि स्तोत्रै : श्रुत्यन्तगर्भितै : । उपहारैश्च विविधै : तोषितोऽहं
निरन्तरम् ॥
६४.तत्तपस्सदृशं भाग्यमदृष्ट्वा भुवनत्रये । जाताहमधुना राजन् युवयो : भाग्यदित्सया
॥
६५.आक्ल्पं भोगिनौ भूत्वा मत्त : प्राप्तमनोरथौ । स्निह्यन्तौ पुत्रिकाबुद्ध्या
ध्यायन्तौ तत्वचिन्तया ॥
६६.अन्ते सुदुर्लभां सिद्धिं मत्तो विन्दत केवलम् । इत्युक्त्वा सहसा देवी दारिका
प्राकृताह्यभूत् ॥
६७.तत : परमसंहृष्टौ दंपती देवसत्तमौ । आदाय दारिकां दिव्यां लालयामासतुर्मुदा
॥
६८.अवर्धत महादेवी पर्वतेन्द्रस्यवेश्मनि । कालेनाल्पीयसा जाता रूपयौवनशालिनी ॥
६९.सखीभिर्युक्ता क्रीडन्ती रत्नसानुषु । पित्रो : प्रीतिं विवृण्वाना चन्द्रिकेव
महोदधे : ॥
७०.एतमिन्नन्तरे देवा : सेनापतिमभीप्सव : । रुद्राय गिरिजां दातुं यत्नं चक्रुस्समाहिता
: ॥
७१.रुद्रेण प्रेषितास्सप्तर्षयोऽद्रिमुपेत्य ते । तमै कथयामासु : यदुक्तं शंभुना
स्वयम् ॥
७२.तत् श्रुत्वा हर्ष्पूर्णाङ्ग : सभार्य : सपरिच्छद : । अस्तु मङ्गलमित्युक्त्वा
ऋषीन् संपूज्य सादरम् ॥
७३.पुन : तान् प्रेषयामास कैलासं शङ्करालयम् । सामन्तै : मन्त्रिवृद्धैश्च बन्धुभि
: च अचलेश्वर : ॥
७४.कल्याणाय पुरं सर्वमलङ्कर्तुम् अगात् प्रभु : । हिमाद्रीनगरी पुण्या शतयोजनमायता
॥
७५.मणिप्राकारपर्यन्ता महामरज्कतस्थली । प्रासादशतसंपूर्णा पताकाध्वजमालिनी ॥
७६.महाराजगृहोपेता महावीथीपरिष्कृता । हृष्टपुष्टजनाकीर्णा नटनर्तकसंकुला ॥
७७.शंखभेरीमृदङ्गाद्यै : वाद्यैस्सन्नाहनादिनी । अलङ्कृता बभौ तावत् गीर्वाणनगरी
यथा ॥
७८.तत : कौतुक संयुक्ता गौरी कल्याणरूपिणी । अंबामाराधयामास देवीं श्रीपुरदेवताम्
॥
७९.नानोपाहारबलिभि : दीपनीराञ्जनादिभि : । स्तूयमाना गिरिजया देवी प्रादुरभूत्
पुर : ॥
८०.संपुल्लपद्मनयना सान्द्रसिन्दूरपाटला । सौन्दर्यसंपदुद्दामसौभाग्यपरमोर्मिका
॥
८१.अनेकयोगिनीबृन्दवन्द्यमानपदाम्बुजा । मन्दस्मितप्रभाजातदुग्धधाराभिवर्षिणी ॥
८२.मन्दं मधुरया वाचा गौरीं प्राह महेश्वरीम् । श्रीदेवी ----
त्वयि प्रसन्नास्मि त्वयि भागा : सनातना
: ॥
८३.त्वय्येव सकला लोका : त्वदधीनम् इदं जगत् । सहधर्मचरी शंभो : पाहि विश्वम् इदं
भयात् ॥
८४.इत्युक्त्वा सहसा कण्ठमालामादाय पाणिना । कण्ठे विस्रर्जयामास तस्यां फुल्लसरोरुहाम्
॥
८५.मूर्ध्न्युमया पाणिपद्मं निधाय परमाद्भुतम् । पुन : प्रोवाच तां गौरीं दयया
परदेवता ॥
८६.शैलेन्द्रपुत्रीं मत् दत्तां तुभ्यमभ्यर्चितां सुरै : । अवेहि परमां मालां मामकीं
हृदयङ्गमाम् ॥
८७.अनया मालया लोका : भवन्तु सुखिनस्सदा । जगतामुपकाराय भवेत् एषा न संशय : ॥
८८.इत्युक्त्वान्तर्दधे देवी लोकानां पश्यतामपि । तां लब्ध्वा परमां मालां गौरी
परममङ्गला ॥
८९.स्वपित्रो : परमां प्रीतिं कुर्वाणा स्वगृहं ययौ ।
९०.अथ जगदुदयाय नीलकण्ठो मुदितमना : कृतकौतुको मुनीन्द्रै : ।
त्रिभुवनपरिवर्तितत्जनौघं निजकुतुकाय
निमन्त्रयांबभूव ॥
इति श्रीमत् शैवपुराणे उपरिभागे तीर्थक्षेत्रवैभवखण्डे ताम्रपर्णीमाहात्म्ये प्रथम
: अध्याय : ।
द्वितीय :
अध्याय :
दक्षिणदिशि ताम्रपर्ण्या
सह अगस्त्यस्य आगमनम्
१.तत : चराचरं सर्वं त्रिलोकपरिवर्तितम् । आविर्बभूव सहसा कैलासनगरान्तिके ॥
२.सुनन्दनन्दप्रमुखै : असंख्यातै : सपार्षदै । हरिराविरभूत् लक्ष्म्या वैनतेयो
महारथ : ॥
३.सनकाद्यै : महासिद्धै : हंसारूढ : चतुर्मुख : । भारत्या सहित : श्रीमान् शिवालयमुपेयिवान्
॥
४.महेन्द्रो धनद : पाशी प्रेतराजो हुताशन : । रक्षोऽधिपो गन्धवहो वसवोऽष्टौ तथाश्विनौ
॥
५.सिद्धा : च द्वादशादित्या : रुद्रा एकादशा परे । भूरादिसप्तलोकस्ता : नागा :
पातालवासिन : ॥
६.सर्वे समागता : तत्र देवदेवस्यपत्तने । देवर्षयो नारदाद्या : वसिष्ठाद्या : मुनीश्वरा
: ॥
७.एतानभ्यागतान् सर्वान् ब्रह्मनारायणादिकान् । अनुगृह्य कृपादृष्ट्या प्रयाणाय
मनो दधे ॥
८.अलङ्कृत्वा वृषाधीशं मणिकाञ्चनभूषणै : । अल्ङ्कृतो महादेव : कल्याणोचितवेषधृत्
॥
९.तं तुष्टुवु : नारदाद्या : सिद्धाश्च परमर्षय : ॥ छत्रचामरसमायुक्तो लोकपाल इवापर
: ॥
१०.अन्यत : पटहध्वानै : कृतोनिस्स्वान्निस्वनै :। शङ्खनादविमिश्रै : च पटहाडंबरै
: अपि ॥
११.रथनेमिस्वनैर्घोषै : हयह्रेषितमिश्रितै : । वीणावेणुमृदङ्गै : च सिंहनादै :
च गर्जितम् ॥
१२.परिपूर्णमिवाभाति समन्तात् भुवनत्रयम् । एवं प्रयाता परिषत् देवदेवस्य शूलिन
: ॥
१३.एवं तुमुलसन्नादै : संघुष्टो जगदीश्वर : । आससाद तुषाराद्रिं यत्र् देवी व्यवस्थिता
॥
१४.प्रत्युद्ययौ महादेवं भक्त्या परमयाद्रिराट् । आनीय स्वगृहे देवं मधुपर्कार्हणादिभि
: ॥
१५.पूजयामास विधिवत् पुरोहितसमन्वित : । उद्वाहमण्डपं प्राप्य ब्रह्मविष्णुमुखैस्सुरै
: ॥
१६.अग्निमाधाय विधिवत् हुत्वाग्निं मन्त्रसंहितै : । तोषयामास देवांश्च हविर्भि
: त्रिपुरान्तक : ॥
१७.तावत् सुतामदात् तस्मै धारापूर्वं धराधर : । तां मालाम् अमलां देवी भर्तु :
कण्ठे व्यसर्जयत् ॥
१८.तावदाविरभूत् व्योम्नि पुष्पवृष्टिस्समन्तत : । देवदुन्दभयो नेदु : भेरीतूर्याण्यनेकश
: ॥
१९.सुमङ्गला : तथा वाच : प्राणिन : प्रीणयन्ति च । एतस्मिन्नन्तरे व्योम्नि वागभूत्
अशरीरिणी ॥
२०.चराचरेषु सर्वेषु समवायेषु चैकत : । दक्षिणा भारती भूमि : लघुत्वात् ऊर्ध्वम्
उत्थिता ॥
२१.असमीकरणात् अल्पकालतो नाशमेष्यति । इति श्रुत्वा महादेव : ध्यानारूढ : क्षणान्तरम्
॥
२२.समाहूय मुनिं प्राह स्वभक्तं कलशोद्भवम् । एहि साधय धर्मज्ञ कुंभयोने महामते
॥
२३.त्वया मया वा कर्तव्यं कार्यमस्ति महत्तरम् । भूरेषा दक्षिणा मुक्तचरराचरमहापरा
॥
२४.भङ्गुरा वर्तते तस्मात् भयात् त्राहि भवानिति । अनया सहित : पत्न्या दक्षिणां
याहि मा चिरम् ॥
२५.तत्र ते दर्शयिष्यामि वेषं कल्याणसंभृतम् । रुद्राण्या सह सर्वेषां भक्तानां
हितकांयया ॥
२६.एषा ते स्नानपानादि कर्मोपकरणा भवेत् । भविष्यत्यनया साक्षात् पराशक्त्या पवित्रया
॥
२७.नूनं श्रेयांसि भूयांसि स्रजा तीर्थस्वरूपया । इति गौरीकरात् लब्धां मालां दत्वा
महात्मने ॥
२८.प्रेषयामास सर्वेषां देवानां पश्यतां प्रभु : । स मुनि : किञ्चित् उद्विग्नहृदयो
दयितान्वित : ॥
२९.उभाभ्यामेव पाणिभ्यां जग्राहोत्फुल्लपङ्कजाम् । तावत् पुष्पमयीवृष्टि : अंबरात्
अभ्यवर्तत ॥
३०.मुनयो मुदिता देवा : सिद्धाश्च परमर्षय : । साधु साधु इत्यभिष्टूय संहृष्टा
वाचमूचिरे ॥
३१.सा माला पश्यतां तेषां कन्याभूत् कमलेक्षणा । तप्तचामीकराकारा कनकांबरधारिणी
॥
३२.महामणिगणाकीर्णां मकुटाङ्गदधारिणीम् । किञ्चित् उज्जृंबणाभ्यां कुचाभ्यामुपलक्षिताम्
॥
३३.महदाश्चर्यनिलयां महासौन्दर्यमुद्रिकाम् । दृष्ट्वा तां कन्यकां सर्वे विस्मयं
ययु : ॥
३४.लोपामुद्रा राजपुत्री तामालक्ष्य मनोहराम् । आनन्दनिर्भरा सासीत् निधिं लब्ध्वैव
निर्धन : ॥
३५.महादेवी स्वपाणिभ्यां तस्यै मालामदात् शुभाम् । तप्तचामीकराकरां स्वयानं मधुसूदन
: ॥
३६.प्रादात् विरिञ्चो भगवान् अंलानं काञ्चनांबुजम् । शंखरत्नं प्रदायास्यै वरुणो
यादसां पति : ॥
३७.कोटीनां त्रितयं प्रादात् तीर्थानां परमाद्भुतम् । वीणां मणिमयीं प्रादात् देवी
कमलसंभवा ॥
३८.भारती शारिकारत्नं सर्वशास्त्रमयं ददौ । मुक्ताहारमदात् गङ्गा यमुनोत्पलमालिकाम्
॥
३९.सीमन्तरेखालङ्कारं सिन्दूरं तु शरावती । कावेरी कुङ्कुमं प्रादात् तुङ्गभद्राञ्जनं
ददौ ॥
४०.महामृगमदं प्रादात् पुण्या गोदावरी नदी । मुक्तावती मणिवती पूर्णा घोरा कुमुद्वती
॥
४१.श्यामावती चन्द्रसेना घट्ना कपिलारुणा । एता : दशा : सुता : मेरो : सख्य : समभवन्
तदा ॥
४२.सर्वदेवशरीरेभ्य : तेजो राशि : समुत्थित : । इमां समाविशन् तत्र तदद्भुतमिवाभवत्
॥
४३.इमामाहु : सुरगणा : तेजसारुणविग्रहाम् । ताम्रपर्णीति जगु : केचित् ताम्रां
च प्रशंसिरे ॥
४४.मणिगर्भामिति परे पराम् अन्ये प्रशंसिरे । इत्थं देवै : स्तूयमाना ताम्रपर्णी
सरिद्वरा ॥
४५.लोपामुद्रान्वित : श्रीमान् अगस्त्योऽपि महातपा : । प्रणम्य सांबमीशानं मनस्याधाय
शङ्करम् ॥
ताम्रपर्ण्या सह तदा प्रस्थानम् अकरोत्
मुदा ॥
४६.इत्थं सुरै : मुनिगणै : अभ्नन्द्यमानां मन्दाकिनीव जगतीं भगीरथार्थे ।
प्रायात् प्रसन्नवदना भुवनैकधात्री कार्तान्तिकां
दिशमनेन मुनीश्वरेण ॥
४७.भूयो भूयो स्वान्तमन्तर्महेशं ध्यायन् वाचा कल्पवल्लीं भवानीम् ।
श्रीगन्धाद्रावाश्रमं भावयानो मन्दं
मन्दं भारतीमाप ॥
इति द्वितीय
: अध्याय : । Pro.Total = 90 + 47 = 137.
तृतीय : अध्याय :
मलयाचलेन अगस्त्यानीताया
: ताम्रपर्ण्या : पुत्रीत्वेन स्वीकरणम् ।
१.इत्थं निगदितां पुण्यां पापप्रणाशिनीम् । श्रुत्वा तु मुनय : सर्वे सूतं बभाषिरे
॥
२.ऋषय : ----
आश्चर्यमिदमाख्यानमधुना संप्रकीर्तितम्
। आनन्दयति न : चित्तं रोमाञ्चयति विग्रहम् ॥
३.न साधनमिवाभाति नित्यं नूतनतां गतम् । ताम्रपर्ण्या : महानद्या : माहात्म्यं
भूरि पुण्यत : ॥
४.न तृप्तिमधिगच्छाम : पिबन्त : तत् कथामृतम् । विस्तरात् ब्रूहि धर्मज्ञ बूय
: ताम् सूतनन्दन ॥
५.कथं वा प्रस्थित : श्रीमान् कथं वा वसतिं व्यधात् । श्रीपुरं च कथं दृष्टं कथं
वा निस्सृता सरित् ॥
६.आसागरमियं सूत ताम्रपर्णी व्यवस्थिता । सरित् कथं प्रवहिता इयं पौराणिकोत्तम
॥
७.इति पृष्टो मुनिश्रेष्ठै : सूतो वक्तुं प्रचक्रमे । श्रुण्वन्तु मुनयस्सर्वे
पुरा व्यासेन कीर्तितम् ॥
८.शुकाय कथितं पुण्यमितिहासं पुरातनम् । श्रुण्वतामश्वमेधस्य फलमाहुर्मनीषिण :
॥
९.अनुज्ञाप्य महादेवं देवान् आमन्त्र्य कुंभभू :। सहित :सरिता तस्मात् अचलात् सन्यवर्तत
॥
१०.शरावतीमतिक्रम्य दृष्ट्वा नारायणालयम् । नमस्कृत्य च केदारं सोमेशं संप्रणम्य
च ।
११.हरिद्वारं प्रणम्याग्रे ब्रह्मारर्तं च शास्वतम् । अवलोक्य कुरुक्षेत्रम् अयोध्यां
सरयूमपि ॥
१२.महाकालं च गोकर्णं श्रीशैलं पुरुषोत्तमम् । कृष्णां गोदावरीं स्नात्वा तुङ्गभद्रां
कलम्बिनीम् ॥
१३.कुमारकाननं दृष्ट्वा महालक्ष्मीं प्रणंय च । शेषाद्रौ हरिमभ्यर्च्य काञ्चीं
कमलपीठिकाम् ॥
१४.यत्रास्ते शांभवी शक्ति : लोकानां हितकांयया । प्रणंय तां पुनर्देवम् एकांरनिलयं
शिवम् ॥
१५.वेषं वरदराजाख्यं हरिं कम्पां महानदीम् । शोणां शुद्धां तुङ्गभद्रां कावेरीं
सह्यसंभवाम् ॥
१६.यत्र शेते हरिस्साक्षात् महाप्रणवमन्दिरे । यस्य मालायते नित्यं कावेरी च महानदी
॥
१७.श्रीशंभुनृत्तसदनं आर्जुनं कमलालयम् । कादंबकाननं प्राप्य देवीं देवं प्रणम्य
च ॥
१८.अतीत्य महदध्वानं लोपामुद्रासमन्वित : । ददर्श गगनाकारं मलयं चन्दनालयम् ॥
१९.महामृगमदामोदमन्दमारुतमेदुरम् । चंपकाशोकपुन्नागवकुलार्जुनभूर्जकै : ॥
२०करीरकन्दवानीरनीवाराश्वत्थकेतकै : । तमालतालहिन्तालपलासपनर्र्र्द्रकै : ॥
२१.अङ्कोलनवकङ्केलिपूगद्रुमकलिद्रुमै : । एवमन्यै : महावृक्षै : नीलांबुदनिभप्रभै
: ॥
२२.सञ्छन्नसानुपर्यन्तनानाधातुपरिष्कृतम् । मुक्ताहारसमाकारै : धातुभि : समलङ्कृतम्
॥
२३.महामरकताकारै : पर्यन्तै : पर्वतै : वृतम् । हरिकूटत्रिकूटालिगुप्तिपर्वतकुन्तलै
: ॥
२४.मणिकाञ्चनभूयिष्ठै : शृङ्गै : पञ्चभिरावृतम् । यस्य षष्ठं प्रशंसन्ति माहेन्द्रं
भार्गवालयम् ॥
२५.दक्षिणोत्तरतो दैर्घ्यात् आहुरद्वाददशयोजनम् । शिखराक्रान्तगगनम् आशान्तपरिवर्तितम्
॥
२६.महामणिग्रहाकारं दीप्तौषधपरिष्कृतम् । नित्यं वसन्तनिलयं सन्ततो वृद्धिमत्गुणम्
॥
२७.कृतसान्निध्यहेमन्तम् अनन्तघनसञ्चयम् । सदा फलै : कुसुमितै : उद्यानै :उपशोभितम्
॥
२८.मत्तब्रमरसन्नादं कूजत्कोकिलसारसम् । सिद्धगन्धर्वनिलयं मुनिबृन्दनिषेवितम्
॥
२९.देवदानवयक्षैश्च रममाणै : अलग्कृतम् । एवमाश्चर्यनिलयं मु इबृन्दनिषेवितम् ॥
३०.दृष्ट्वा परमसंह्रुष्ट : पत्न्या सह समन्वित : । संप्राप सरिता शैलं ताम्रपर्ण्या
शनै :शनै : ॥
३१.भावं धराधरेन्द्रस्तु विज्ञाय मुनिमागतम् । वल्लभाभि : अनेकाभि : परिवारैश्च
सेवित : ॥
३२.वपुषा दिव्यरूपेण मुदा प्रत्युज्जगाम ह । ब्रह्मन् स्वागतमित्युच्चै : ब्रुवाणो
विनयान्वित : ॥
३३.मूर्ध्ना ववन्दे चरणौ कुंभयोने : कुतूहलात् । पाद्यम् अर्घ्यं यथान्यायं मधुपर्कमकल्पयत्
॥
३४.बद्धाञ्जलिपुटो भूत्वा संभ्रान्तमिदमब्रवीत् । मलय : ---स्वागतं ते महाभाग प्रसीद्
तपसां निधे ॥
३५.कृतार्थोऽस्मि कृतार्थोऽस्मि प्रीतोऽस्मि तव दर्शनात् । इदमागमनं मन्ये मदीयं
तपस : फलम् ॥
३६.भवादृशां प्रवसनं श्रेयसे जगतां ध्रुवम् । ज्ञातुमिच्छामि भगवन् त्व्दागमनकारणम्
॥
३७.पूर्णकामस्य ते ब्रह्मन् किं करिष्याम्यहं प्रियम् । इति पृष्टोऽद्रिवर्येण
मैत्रावरुणिरात्मवित् ॥
३८.आचचक्षे स्ववृत्तान्तमशेषं पृच्छतो मुनि : । एतस्मिन्नन्तरे सिद्धौ मुनी तुंबुरुपर्वतौ
॥
३९.अभिष्टूय मुनिश्रेष्ठं राजानं च महीभृताम् । ऊचतु : परमप्रीतौ वचनं शंभुशासनम्
॥
४०.महाराज कुलश्रेष्ठ कृतकृत्योऽस्मि केवलम् । त्वया पुरा महादेव : तोषित : तपसा
भृशम् ॥
४१.तत्फलं भवता लब्धं भाग्यमन्यत्र दुर्लभम् । एषा परमकल्याणी ताम्रपर्णी सरिद्वरा
॥
४२.अनेन मुनिनानीता प्रसादात् शूलपाणिन : । एषा तव सुता भूयात् अनया तीर्थरूपया
॥
४३.तव श्रेयांसि भूयांसि भविष्यन्ति न संशय : । इत्थं तयो : वच : श्रुत्वा मुनि
: परमहर्षित : ॥
४४.तस्मै सुतां अदात् ताम्रां सोऽपि जग्राह शैलराट् । तावदंबरसंभूता पुष्पवृष्टि
: सुगन्धिनी ॥
४५.देवदुन्दुभयो नेदु : तुष्टुवु : च सुरासुरा : । तदन्तरामृतमयं शांभवं लिङ्गम्
अद्भुतम् ॥
४६.प्रत्यदृश्यत लोकानां त्रयाणां श्रेयसे महत् । तस्मिन्नाराधयामास देवदेवं मुनीश्वर
: ॥
४७.सोऽपि चक्रे महापूजामद्रिराट् अद्भुतार्पिताम् । तस्मिन् आविरभूत् शंभु : प्रसन्नो
गिरिजान्वित : ॥
४८.इदमाह वच: प्रीत्या तं मुनिं कलशोद्भवम् । प्रीतोऽस्मि तव कृत्येन समीभूता च
भूरियम् ॥
४९.तोषिता भवता लोका : जना : स्थावरजङ्गम : । इत : परं ते वक्ष्यामि जगतामुपकारकम्
॥
५०.इतोऽविदूरे मत्स्थानं यत्र मे चित्रिका सभा । तत्र गन्तासि सहितो गिरिणानेन
भूष्णुना ॥
५१.तत्र मां अर्चयित्वैव देवीमाराध्य शांभवीम् । कृत्वा कर्माण्यद्भुतानि गिरिणानेन
संयुत : ॥
५२.ताम्रया तीर्थरूपिण्या गच्छ शीघ्रमित : परम् । यत्र मे परमं स्थानं शिखरे मलयस्य
तु ॥
५३.श्रुतय : पर्वताकारा : चतुर्दिक्षु व्यवस्थिता : । गुप्तिशृङ्गम् इति ख्यातं
तन्मध्ये परमाद्ब्भुतम् ॥
५४.तमवेहि मुनिश्रेष्ठ मामकं प्रणवालयम् । अभ्याशे तस्य कर्तव्या भवता वसति : स्थिरा
॥
५५.अनेन राज्ञा निदिष्टस्थाने वसतु मालिका । तत्र श्रेयांसि पश्य त्वं दुर्लभं
जगतीतले ॥
५६.महाराज त्वया लब्धा ताम्रपर्णी कुमारिका । विधस्यति परमां प्रीतिं गच्छ स्वभवनं
मुदा ॥
५७.भवतां श्रेयसे नूनं प्राप्तोस्मि शुभदर्शन । देवदत्तं इदं स्थानं ख्यातं लोके
भविष्यति ॥
५८.ये माम् अत्र अर्चयिष्यन्ति तेषां कामान् ददाम्यहम् । इत्थं मुनिं च राजानं
ताम्रां च अनुशास्य च ॥
५९.तस्मिन् महति वै लिङ्गे स्वमन्तरधात् शिव : । ततो मलयराजस्तु पुत्रीं स्वीकृत्य
शास्त्रत : ॥
६०.अङ्कमारोप्य चाघ्राय मूर्ध्ना नन्दमुपागमत् । तद्भार्या गंधवत्याख्या ताम्रां
लब्ध्वात्मसंभवाम् ॥
६१.प्रहर्षमतुलं लेभे मेने गङ्गामिवोत्तमाम् । ततस्ते मिलितास्सर्वे मुनिना कुंभजन्मना
।
संप्राप मलयं शैलं महोदयमिवोत्थितम् ॥
६२.इत्थं शिवेन भणितामभिनन्द्य वाणीं वेणीवरां मलयजामनुनीय पश्चात् ।
नाम्ना त्रिकूट इति शस्तमभूत जगत्यां
तत्स्थानमापमणिचित्रसमाभिरामाम् ॥
इति तृतीय
अध्याय : Pro.Total = 137
+ 62 = 199
चतुर्थ : अध्याय :
अगस्त्येन वैष्णवमतनिराकरणपूर्वकं
शैवमतस्थापनम्
श्री सूत : ----
१.इत्थं स्मग्रमधुरां कथां कर्ण मनोमनोहराम् । मुखेन्दुमण्डलोत्तीर्णां सरसां बादरायणे
: ॥
२.आकर्ण्य परिपूर्णार्थ : शुको ब्रह्मविदां वर : । अभिनन्द्य पुन : तातंमभ्यभाषत
सारवित् ॥
३.अहो सारवती पुण्या कथेयममलाशया । इमां भूयोऽपि विस्तृत्य तात् वक्तुमिहार्हसि
॥
४.स मुनि : ताम्रया सार्धं प्राप्य चित्रसभां शुभाम् । लोपामुद्रा महादेवी भर्तारमनुवर्तिनी
॥
श्रीवेदव्यास : ---
५.श्रुणु पुत्र प्रवक्ष्यामि पुण्यमाख्यानमुत्तमम् । पठनात् अस्य जायन्ते निर्मलज्ञानभागिन
: ॥
६.तस्मादपि विनिर्गत्य देवद्त्तां मुनीश्वर : । त्रिकूटाख्यमहाक्षेत्रं संप्राप्य
मुनिपुङ्गवम् ॥
७.समन्तात् देजसाकारं प्राप्य हर्षसमन्वित : । नृत्यन्तं परमेशानं तत्र चित्रसभान्तरे
॥
८.ददर्श दहनाकारं दीप्यमानं स्वतेजसा । आराधयामास मुदा मन्त्रै : पञ्चाक्षरात्मकै
: ॥
९.शतरुद्रीयमन्त्रेण तुष्टाव परमेश्वरम् । तत्प्रसादात् अनुप्राप्य मुनि : कलशसंभव
: ॥
१०.तस्मात् दक्षिणत : किञ्चित् विष्णुमूर्तिं शिवात्मकम् । शिवलिङ्गं पुन : चक्रे
त्रिकूटतरुमूलत : ॥
११.आराध्य धरणीपीठं बिलद्वारस्य पूर्वत : । वेदशाखिनमाराध्य देवं त्रिपुरभैरवम्
॥
१२.तत : संप्राप शिखरं गुप्तिस्थानाभिधं महत् । इत्युक्तवति वै व्यासे शुकोऽभ्यभाषत
॥
१३.तत किं धरणीपीठं गुहा का वा समीरिता । श्रुतिवृक्ष इति ख्यात : स वृक्ष : केन
हेतुना ॥
१४.का वात्र चंपकारण्ये देवी दृष्टेति कीर्तिता । एतत् सर्वमशेषेण विस्तरात् वक्तुमर्हसि
॥
१५.व्यास : ---
श्रुणु वक्ष्याम्यहं तात स्थलस्यस्यास्यैव वैभवम् । पुरा पृथुर्महातेजा : चक्रवर्ती
महाबल : ॥
१६.समीकृत्य महीं सर्वां धनुषा शत्रुभञ्जन : । दुदोह संपदा भूरि वसुधां सागरांबराम्
॥
१७.मर्यादां स्थापयामास तपसा सचराचरे । वर्णाश्रमान् धर्मान् तथा षट्समयान् विभु
: ॥
१८.तत्रालिङ्गितमर्यादा : लोकास्सर्वे व्यवस्थिता : । एतस्मिन् अन्तरे लोके सुरुचिर्नाम
वै द्विज : ॥
१९.बार्हस्पत्यान्वयो भूत्वा भ्रात्रा रोचिष्मता सह । अतीत्य वेदान् सकलान् षडङ्गान्
पदक्रमान् ॥
२०.चतुष्षष्टिकलाभेदमावगाह्य समन्तत : । समयाचारशास्त्राणि भक्तिमाप जनार्दने ॥
२१.अहङ्कारात् अहं चक्रे शास्त्रं समयसंबृतम् । तेनैव खण्डान् सर्वान् अन्यात्मबुध्या
मदान्वित : ॥
२२.स्वमतं स्थापयामास विजयी सर्वत : भुवम् । वैदिका : ब्राह्मणा : सर्वे क्षत्रिया
: च परे जना : ॥
२३.स्वमाचारं परित्यज्य तस्यैव वशगा अभवन् । एवं तु भारतं वर्षं क्लिश्यमानं अनेन
तु ॥
२४दृष्ट्वाप्यसह्यमानस्सन् राजा परमदु;खित : । कैलासकटकं
प्राप्य समाधिमुपस्थित : ॥
२५.आराधयामास शिवं स्तोत्रै : मन्त्रै : समर्हणै : । तत्राअधिगतसान्निध्यं देवदेवेन
शूलिन : ॥
२६.हृष्टोऽस्मि तव राजेन्द्र स्तोत्रैरपि नमस्यया । वृणु भूप यथाकामं पूरयिष्ये
मनोरथान् ॥
२७.इति देवस्य सदयां वाणीमाकर्ण्य शूलिन : । विनयावनतो भूत्वा वाचमेवमवोचत ॥
२८.पृथु : ---भगवन् यदि मे दातुं वरं वाञ्छसि शङ्कर : । वैदिकध्वंसिन : शैवसमयान्
दूषितस्य च ॥
२९.शंभो : कदापि देवेश न सिध्यन्तु मनोरथा : । इति ब्रुवाणं राजानं प्रत्युवाच
महेश्वर : ॥
३०.शिव : ---
मा चिन्तां कुरु राजेन्द्र तवास्त्वभिमतो
वर : । ये दूषयन्ति पापिष्ठा : शैवीं समयदीपिकाम् ॥
३१.श्रुतिमार्गरतान् सर्वान् वैदिकान् ब्राह्मणोत्तमान् । तेषां कदापि जायन्ते
नैव चित्तमनोरथा : ॥
३२.कस्यचित् देवकार्यस्य हेतुना कुंभसंभव : । प्रयास्यति दक्षिणाशां तदाशा ते भविष्यति
॥
३३.इत्युक्त्वान्तर्दधे देवो राजापि स्वपुरं ययौ । स मुनिर्देवदेवस्य विज्ञायैव
तु शासनम् ॥
३४.प्राप्य स्थानं त्रिकूटाख्यं दृष्ट्वा लास्यं च शांभवम् । सह पत्न्या समागत्य
देवद्वारमुपागमत् ॥
३५.तत्रत्या : पुरुषास्सर्वे तुलसीदामभूषणा : । ऊर्ध्वपुण्ड्रधरा : विष्णुनामोच्चारणचुञ्चव
: ॥
३६.उद्वहन्त : तथा मुद्रे वैदिकाध्वविदूषका : । विदूषयन्त : पदवीं शैवीमुपनिषद्गताम्
॥
३७.ते दृष्ट्वा तं मुनिं श्रेष्ठं द्वितीयमिव शङ्करम् । रुन्धाना : पदवीं तस्य
वाचं प्रोचु : क्रुधान्विता : ॥
३८.भवादृशा : न गन्तव्यं समयेतरगामिना । इत्युक्त्वेषु निर्गत्य तादृशं रूपमास्थित
:
३९.भूय : प्रविश्य सहसा दृष्ट्वा च हरिविग्रहम् । तस्मिन्नाराधयामास देवदेवं सदाशिवम्
॥
४०.संपूज्य विधिना शंभुं स्वपाणिभ्यां परामृशन् । एवं संभावित : तेन भगवान् हरिरीश्वर
: ॥
४१.स्वमूर्तिं सङ्कुचन्नग्रे संप्राप शिवलिङ्गताम् । तदावारणदेवा : च शिवावरणमूर्तय
: ॥
४२.प्रत्यदृश्यन्त सर्वेषां जनानां पश्यताम् तदा । एतस्मिन्नन्तरे क्रुद्धा : सुरुचे
: परिचारका : ॥
४३.शिष्या : प्रशिष्यामात्या : च चक्रिरे कलहं मुनौ । अरूपा तावदाकाशात् वागभूत्
अद्भुतावहा ॥
४४.उभयो : क्रियतां वादं यत्र व विजयो भवेत् । साक्षिणं पुरत : कृत्वा यं कञ्चित्
न्यायवादिनम् ॥
४५.इति तेषु ब्रुवाणेषु शिवस्योत्तरपार्श्वत : । पीठादाविरभूत् देवी काचित् काञ्चनपाटला
॥
४६.तामासाद्य महादेवीं वव्रिरे वादसाक्षिणीम् । कुंभयोने : तदा तेषां महान् वाद
: प्रावर्तत ॥
४७.दास्यं पराजितस्येति विधाय समयं मुदा । पञ्चमेऽहनि ते सर्वे निर्जिता : कुंभजन्मना
॥
४८.तमेव गुरुमासाद्य शिवदीक्षामुपाविशन् । तदादि परमं क्षेत्रं शिवक्षेत्रमभूत्
तथा ॥
४९.तेनैव स्कला : लोका : ब्राह्मणाश्च विशेषत : । स्वस्वधर्ममनुप्राप्य सुखिन
: चिरजीविन : ॥
५०.शैवं च वैदिकं धर्मं प्रतिष्ठाप्य महीतले । विगाह्य चित्रातीर्थं च देवं आराध्य
पीठिकाम् ॥
५१.भैरवं माधवं चैव वेदशाखिनमीश्वरम् । प्रणम्य विधिवत् दृष्ट्वा परमानन्दताण्डवम्
॥
लोपामुद्रापति : श्रीमान् ताम्रपर्ण्या मुदं ययौ ।
इति चतुर्थ
: अध्याय : Pro.Total = 199
+ 51 =250
पञ्चम : अध्याय
:
त्रिकूटाचलमाहात्म्यम्
१.श्री शुक : ---- भगवन् सर्वधर्मज्ञ कथिता भबवदाधुना । महिमामोदभरिता कथेयं कुंभजन्मन
: ॥
२.श्रुतापि श्रवणानन्दपीयूषपुषिताधुनी । नैव तृप्तिकरी नूनं घृतधारेव पावके ॥
३.तत्र तस्मात् महापीठात् आविर्भूतांबुजारुणा । का वा किमर्थमुद्भूता केन वा प्रार्थिता
पुन : ॥
४.अस्या : प्रभावमस्माकं श्रोतुं कौतूहलं किल । इत्युक्तवति वै तस्मिन् व्यास
: सत्यवतीसुत : ॥
५.व्याजहार कथामेनां शुकाय ब्रह्मवादिने । व्यास : ---पुरा प्रलयसंलीने ब्रह्माण्डे
सचराचरे ॥
६.तमसा व्यावृते तस्मिन् वैखारिकविवर्जिते । नाद्योदन्त कर्माणि विषया : च गुणोत्तरा
: ॥
७.आकस्मिकमभूत् शब्दं यत् ब्रह्म परिपठ्यते । तत्र काचिदभूत् देवी त्रिवर्णा वर्णरूपिणी
॥
८.कृष्णलोहितशुक्लाभा स्वरूपा सूक्ष्मदर्शिनी । अजा जनित्री जगतामद्भुताकार दर्शना
॥
९.हितायैव हि लोकानामाललंबे परां तनुम् । लोकमायानुभावेन सासूत मिथुन त्रयम् ॥
१०.विधिं सर्गाय सन्दिश्य हरिं पालनकर्मणि । अभ्ययायादिशत् रुद्रं ते च चक्रुर्यथापुन
: ॥
११.अत : त्रिकूटमित्युक्तं त्रयाणां मेलनस्थलम् । तेषामनुग्रहार्थाय सन्दृष्टं
जगदंबया ॥
१२.त्रयी तरुस्वरूपेण सान्निध्य कुरुते यत : । तेनापि हेतुना क्षेत्रं त्रिकूटमिति
कथ्यते ।
१३.युगे युगे च मर्यादां उपाधाय शिव : स्वयम् । एकस्मिन् एव बिंबे तु मूर्तीनां
त्रितयं यत : ।
१४.दर्शयिष्यति तत् तस्मात् स्थलस्यास्य त्रिकूटता । अत्रेतिहासं भूयोऽपि श्रुणु
पुत्र महामते ॥
१५.यस्या :श्रवणमात्रेण नर : पापै : प्रमुच्यते । पुरा दनुसुत : कश्चित् निशुंभस्य
हि मातुल : ॥
१६.उदुंबरन्नाम महान् नासर्वा असुर शिल्पिन : । ययाचे स रह :स्थानं स्ववासाय महत्तरम्
॥
१७.तत : स वार्धकिर्धीमान् मायामस्थाय तु दु:सहाम् । पार्श्वे मलयशैलस्य गुहायां
नगरां व्यधात् ॥
१८.तदादि निर्भयो भूत्वा तस्मिन् एवावसत् सुखम् । मयस्य मायावर्येण दुर्जये नगरे
वरे ॥
१९.निवसन् पुत्रपौत्राद्यै : बलैश्च बलवत्तर : । बबाधे प्रत्यहं रात्रौ गूढात्मा
सकला : प्रजा : ॥
२०.अल्पेनैव तु कालेन नष्टाभूत् दक्षिणा मही । शरणं प्राप निकरं मुनीनां ब्रह्मवादिनाम्
॥
२१.पदे पदे दु:खहन्त्रीं दुरितां दुरितभञ्जनीम् । मलयचम्पक्वने मूर्तिं स्थाप्य
तन्मयीम् ॥
२२.आराध्य मुनयो भक्त्या देवीं दु:खार्तिभञ्जनीम् । पूजान्ते भवभूतेशीं तुष्टुवु
: स्तुतिभिश्च ताम् ॥
२३.ऋषय : ---जय देवि महादेवि महामङ्गलदायिनि । प्रसीदत सीदतां न : त्वं परित्राणाय
पार्वति ॥
२४.शूलखड्वाङ्गमुसलविनिष्पिष्टारिसनिके । प्रसीद सीदतां न : त्वं परित्राणाय पार्वति
॥
२५.त्वयांब सकला दैत्या : भक्षिता रणसंकटे । प्रसीदत सीदतां न : त्वं परित्राणाय
पार्वति ॥
२६.त्वत्कराग्रलसत्शूलदलिता : दानवा : पुरा । रक्षणायैव लोकानं सा कृपा क्व गतांबिके
॥
२७.सिंहनादविनादेन मोहिता दैत्यदानवा : । रक्षणायैव लोकानां सा कृपा क्व गतांबिके
॥
२८.दंष्ट्राकरालवदनं दृष्ट्वा ते मूर्च्छिता : परे । रक्षणायैव लोकानां सा कृपा
क्व गतांबिके ॥
२९.अस्मान् पाहि भयात् भीतान् अनाथान् भक्तवत्सले । अविलंबं दयापात्रं विधेहि भुवनत्रयम्
॥
३०.लीलयैव विहन्त्री त्वं दैत्यानां कीर्तिभञ्जनी । अविलंबं दयापात्रं विधेहि भुवनत्रयम्
॥
३१.त्वदस्त्रवित्रस्तबलं दैत्यानां क्षणभङ्गुरम् । तान् उदस्यासि दुर्गे त्वं भक्तानां
हितकांयया ॥
३२.त्वया जगदिदं विश्वं समये पाल्यते भयात् । तया न : पाहि कल्याणि प्रसू : पुत्रानिव
स्वयम् ॥
३३.तुभ्यं नम : सर्वजगत्सवित्री वित्रास्य पापान् अमरारिवर्गान् ।
आप्तं जनं पाहि भवानि भद्रे रुद्राणि
भद्रे करुणे पुराणि ॥
३४. व्यास : ---
इत्थं तैर्मुनिशार्दूलै : स्तूयमाना
महेश्वरी । प्रसन्नाविरभूत्तस्मात् बिंबात् अंभोरुहासना ॥
३५.सौन्दर्यसिन्धुकल्लोलकटाक्षाक्षेपसुन्दरी । मनोज्ञमन्दस्मेरांशुकलिकाकल्पवल्लरी
॥
३६.काञ्जनाङ्गदकेयूरकटकाङ्गुलिभूषिता । अभ्यर्च्यमाना गीर्वणै: कुसुमै : कल्पकोद्भवै
:॥ ३७.वाचा मोचाफलामोदगन्धिना व्याजहार
सा ॥ श्री देवी ---मा विषादं मुनिश्रेष्ठा : किं
कृत्वा भवतां हिता ॥
३८.साधयिष्यांयहं नूनं मायूयं भवदालसा : । एवं ब्रुवत्यां दुर्गायां भक्तिप्रवाहात्ममूर्तय
: ॥
३९.ऋषय : ---
ऊचुर्जयजयेत्युक्त्वा बद्धाञ्जलिपुटोज्ज्वला : । अंबाकर्णय वृत्तान्तं अस्माकं
विप्लवं महत् ॥
४०.गूढात्मा हि रह:कश्चित् दैत्योदुंबरसंज्ञक :। निर्मानुषमिमां कृत्वा महीं मुनिजनोषिताम्॥
४१.अस्माकमग्निहोत्राणि बलवान् बाधते बहु । तं हत्वा दुस्सहं दैत्यं अस्माकं सौख्यदा
भव ॥
४२.इत्थं संप्रार्थिता देवी ऋषिभि : भावितात्मभि : । तथेत्यभयमाभाष्य निर्जगामांबराध्वना
॥
४३.हित्वा मायामयस्यापि विधार्य च महीतलम् । प्रविवेश गुहां रम्यां समन्तात् दानवावृतम्
॥
४४.सिंहनादनिनादेन संघुष्य भुवनत्रयम् । पार्ष्णिघातं पुरद्वारि चकाराशनि सन्निभम्
॥
४५.ते किमेतत् इति भ्रान्ता : दैत्या : च परितो गुहाम् । आवव्रु : परमां देवीं
शस्त्रास्त्रशतवर्षिण : ॥
४६.एवमापततो दैत्यान् नानाबलसमन्वितान् । पाणिभ्यां गृह्णती वेगात् चिक्षेप च निजानने
॥
४७.शतं सहस्रयुतं रथानीकं अनेकश : । रथानामपि साहस्रं तुरगाणां परश्शतम् ॥
४८.चर्षयन्ती महाभीमं कालानलसमप्रभम् । एवं मुहूर्तमात्रेण शून्यमासीत् गुहोदरम्
॥
४९.केचिन्नष्टा : भक्षिताश्च त्यक्त्वा दैत्यवपु : पुन : । संप्राप परमं स्थानं
स्वर्गमन्यैस्सुदुर्लभम् ॥
५०.हतानां तत्र दैत्यानां पञ्च पज्च शतानि च । महाभूताभवन् तत्र मातृभक्ताश्च दुर्दमा
: ॥
५१.दुर्गादेव्या समादिष्टा : क्षेत्रपाला : अभवन् तथा । सा गुहा नगरी चासीत् सिद्धानां
वसति : पुरा ॥
५२.एवं निहत्य तान् दैत्यान् सर्वान् निर्गत्य च बिलोदरात् । स्तूयमानाना मुनिगणै:
व्याजहार महेश्वरी॥
५३.श्रीदेवी ---सन्तु भद्राणि युष्माकं मा विचारो मुनीश्वरा : । नित्यमत्र वसिष्यामि
भवतां हितकांयया ॥
५४.यथा यथा हि धर्मस्य ग्लानिर्भवति भूतले । तथा तथानुसूपेण नाशयिष्यामि विप्लवम्
॥
५५.अर्चिता प्रणता ध्याता संस्तुता च पुन : पुन : । काङ्क्षितानि प्रदास्यामि सर्वेषामेव
देहिनाम् ॥
५६.माहात्म्यं मम लीलाया : ये शृण्वन्ति पठन्त्यपि । तेषामपि विशेषेण नित्यं कामदुहास्म्यहम्
॥
५७.इति ब्रुवाणा सा देवी तत्रैवान्तरधीयत । संहृष्टा : सकला : लोका : ऋषयश्च तपोधना
: ॥
५८.अद्यापि संस्थिता देवी क्षेत्रे परमपावने । तपश्चरन्त : संहृष्टा : स्तुवन्त
: परमेश्वरीम् ॥
५९.तदारभ्य तथा तत्र सुराज्ञ्या दानवा : हता : । गणभूता : पालयन्त : स्थलं महत्
॥
६०.तदादि सिद्धनगरं सिद्धै : पूर्णं गुहातलम् । चंपकाविपिनं तत्र ख्यातमासीत् निरन्तरम्
॥
६१.तदादि चंपकारण्यं देवी सा चंपकाभिधा । पुरा ब्रह्मादिभिर्देवै : केनचित् कारणान्तरे
॥
६२.अत्राकारि महापीठं तत्प्रसादोपलब्धये । एवं क्षेत्रस्य माहात्म्यमहो वाचामगोचरम्
॥
६३.स्मरणात् एव जन्तूनां भोगमोक्षैकसाधनम् । इत : परं प्रवक्ष्यामि कुंभयोने :
महात्मन : ॥
६४.चरितं ताम्रपर्ण्यास्तु मलयस्य महागिरे : । यथावृत्तं प्रवक्ष्यामि श्रुणु पुत्र
महामते ॥
६५.एवमभ्युदयं रूपं हरेर्नारायणस्य तु । विधाय शांभवं लिङ्गं पूजयामास भक्तित
: ॥
५६.प्रावेशयत् तु तत्रत्यान् महापाशुपतव्रतम् । लोपामुद्रान्वित : श्रीमान् सपर्यां
विदधे पराम् ॥
६७.उपहारै : महादेव्या : निर्दिष्टेनैव कर्मणा । तत्प्रसादमनुप्राप्य सुखं तत्रावसत्
चिरम् ॥
इति पञ्चम
: अध्याय : Pro.Total = 250
+ 67 =317.
षष्ठ
: अध्याय :
चित्रानद्या : रोदिनीनद्या
: च उद्भव :
१.प्रभातायां तु शर्वर्यां नियमस्नानतत्पर : । ताम्रामुत्थापयामास स्तोत्रै : श्रुतिमनोहरै
: ॥
२.अगस्त्य उवाच----
अंब ताम्रे महादेवि लोकानुग्रहकारिणि
। सुप्रभाता निशा कृत्स्ना प्रबुद्धा भव शोभने ॥
३.अनादिशांभवीकण्ठकनकांबुजमालिके । महामणिप्रसूर्मात : प्रबुद्धा भव शोभने ॥
४.सङ्कुचत्कैरवं भृङ्गा : विहाय कृपणं यथा । उत्फुल्लां नलिनीं यान्ति प्रबुद्धा
भव शोभने ॥
५.गौरीकुचाचलोदञ्चन्निर्झरश्री विडंबिनी । तीर्थानां तीर्थदा रूपे प्रबुद्धा भव
शोभने ॥
६.श्रुतय : सकला : लोकहिताय शिवकल्पिता : । तस्मात् वेदद्रवा प्रोक्ता महापातकनाशिनी
॥
७.शिवभक्तिमाये पुण्ये विष्णुभक्तिप्रवाहिनी । ब्रह्मशक्तिरसासि त्वमुत्तिष्ठामृतवाहिनी
॥
८.अन्नदा वसुदा भूरि पुण्यदा मज्जतां नृणाम् । त्वमेव परमा शक्ति : प्रसीद मलयात्मजे
॥
९.इति स्तुता मुनीन्द्रेण ताम्रपर्णी सरिद्वरा । समुत्तस्थौ शनैर्देवी निद्रकलुषितेक्षणा
॥
१०.सखीभिस्सह संयुक्ता मन्दं मन्दं समाययौ । तत्पादकमलासङ्गात् तप्तहाटकनूपुरात्
॥
११.विशीर्णमणयो भूमौ वैश्वानरसमप्रभा : । तेषु स्वच्छतया दृष्टा : ताम्राया : मूर्तय
: शुभा : ॥
१२.तत्रैकां मणिबिंबस्थां छायामूर्तिं निजां शुभाम् । आहूय व्याजहारांबा स्मयमाना
महानदी ॥
१३.ताम्रपर्णी ----
एह्येहि वत्से कल्याणि मच्छक्तिपरिभाविते
। मदाज्ञया मुनेरस्य स्नानपानाय सत्वरम् ॥
१४.प्रवाहरूपा शुद्धोदा आविर्भवितुमर्हसि । इमे भवेतां सरिते वयस्ये तीर्थविग्रहे
॥
१५.इत्थं आज्ञापिता सा तु मणिच्छाया मनोहरा । सखीभ्यां सह संभूय नानावर्णा मणित्विषा
॥
१६.इमां प्रदक्षिणीकृत्य सर्वेषां पश्यतां मुदा । ओमित्यामन्त्र्य शिखरात् मलयस्य
महागिरे : ॥
१७.प्रवाहरूपिणी पूर्णा निस्ससार झषाकुला । मत्स्यकच्छपसंपाता शङ्खशुक्तिनिषेविता
॥
१८.तरङ्गिणी शैवलिनी महावर्तशतान्विता । शुद्धोदका स्वादुमती विचित्रा पापहारिणी
॥
१९.मध्ये त्रिकूटक्षेत्रस्य निस्ससार शनै:शनै : । क्षालयन्ती पदांभोजयुगलं कुंभजन्मन
: ॥
२०.लोपामुद्राङ्घ्रिसंसक्तयावकाद्रवपाटलाम् । नदीमखण्डसंभूतां गङ्गामिव शुभोदकाम्
॥
२१.दृष्ट्वा मुनिगणास्सर्वे हृष्टाश्च परमर्षय : । सिद्धगन्धर्वयक्षाश्च पतगोरगकिन्नरा
: ॥
२२.इन्द्राद्या : सकला : देवा : स्तुवन्त : कुंभसंभवम् । पुष्पवृष्टिमुचो व्योम्नि
त्रिकूटक्षेत्रमाययु : ॥
२३.नानावर्णतया चित्रां इमां नांना प्रचक्रिरे । चैत्रमासि सिते पक्षे चित्रायुजि
निशाकरे ॥
२४.जाता महानदी ह्येषा तस्मात् चित्रेति कीर्तिता । बाला नदीति विख्याता बालारूपतया
ध्रुवम् ॥
२५.ततखीं ऊचिरे शुक्लामपरामपि मण्डिनीम् । तीर्थप्रवाहरूपायां महानद्यां महर्षय
: ॥
२६.सस्नु : पवित्रमित्युक्त्वा देवाश्च पितृगुह्यका : । तेषामनुग्रहार्थाय त्रिकूटेशो
महेश्वर : ॥
२७.आविर्भूतो महालिङ्गात् ददौ तीर्थं महेश्वर : । सह पत्न्या मुनि : श्रीमान् स्नात्वास्यां
शंभुसन्निधौ ॥
२८.तर्पयित्वा ऋषीन् देवान् पितॄन् च विधिपूर्वकम् । देवं त्रिकूटमीशानं संपूज्य
कुसुमादिभि : ॥
२९.पूज्यमानस्सिद्धगणै : ताम्रपर्ण्यासमन्चित : । समाप्य काल्यं नियमं ब्राह्मणांश्च
यथाविधि ॥
३०.सन्तर्प्य भक्ष्यभोज्याद्यै : दक्षिणाभिर्यथोचितै : । पर्वतेन मुनीन्द्रेण तथा
तुंबुरुणान्वित : ॥
३१.बुभुजे स बुधश्रेष्ठ : देवी ताम्रा सखीवताम् । लोपमुद्रा राजपुत्री भर्तु:शेषं
प्रगृह्य सा ॥
३२.उवास सहधर्मज्ञा शुश्रुषणपरायणा । एवं निवसतां तेषां मुनीनां कुंभसंभव : ॥
३३.अस्ताद्रिमगमत् श्रीमान् अंशुमाली शनै:शनै : । उपास्य पश्चिमां सन्ध्यां हुताग्नि
: सह भार्यया ॥
३४.कथाभिरभिरामाभि : रञ्जयानो जनं महत् । निनाय रजनीं तत्र निमिषार्धमिव क्षणात्
॥
३५.एवं व्युधास्य रजनीमुदिते सवितर्यथ । भगवन्तमुपस्थाय भास्करं भुवनेश्वरम् ॥
३६.प्रतस्थे दक्षिणामाशामादाय मलयात्मजाम् । सह तुंबुरुणा चैव पर्वतेन महात्मना
॥
३७.चित्रा नदीं समुत्तीर्य लंघयित्वा वनान्यपि । अश्रुणोत् रोदनं घोरं करुणं कणपीडनम्
॥
३८.पुन : क्षणान्तरेणैव वने तस्मिन् भयानके । काप्यदृश्यन्त तन्वङ्गी सर्वायवसुन्दरी
॥
३९.प्रणालीव प्रमुञ्चन्ती नेत्राभ्यामश्रुनिर्भरम् । तामासाद्य दयाविष्टा ताम्रपर्णी
शुचिस्मिता ॥
४०.पपच्छ वाचा पीयूषपरिणामाक्षराङ्कया । देवी ---का त्वमर्थं विपिने परं रोदिषि
भीषणम् ॥
४१.श्रोतुमिच्छामि ते दु:खं श्रोतव्यं यदि मे पुन :। वक्तुमर्हस्यशेषेण मैवं शोचितुमर्हसि
॥
४२.इति पृष्टा सा तयैवमवोचत् दु;खकारणम् । ताम्रे
कल्याणि वक्ष्यामि मम शोकस्य कारणम् ॥
४३.काश्यपस्य सुता नाम्ना कुन्तलास्मि शुचिस्मिते । सुमेधस्य प्रिया भूत्वा ऋषे
: तस्य तपस्विन : ॥
४४.चिरं भुक्तानि भोगानि विविधान्यपि । अत्र कश्चित् महद्रक्ष : समागत्य विधेर्बलात्
॥
४५.जघान मम भर्तारं मां हन्तुं पुनरागत : । केशे जग्राह पाणिभ्यां सोऽपि भस्मीकृतोऽभवत्
॥
४६.तत : चितामारोप्य वह्निं प्रक्षिप्य सर्वत : । प्रविष्टायां मयि पुन : सोऽग्निरन्तर्दधे
महान् ॥
४७.स्वस्त्यस्तु नूनमित्यासीत् तावत् वागशरीरिणी । तस्मान्निवृत्ता मरणात् काङ्क्षन्ती
श्रेय उत्तमम् ॥
४८.किं मरोमि क्व गच्छामि हा कष्टं समुपस्थितम् । प्लावमाना महासिन्धावघाते दु;खसागरे ॥
४९.दृष्टा मे देवि कल्याणि भाग्यशेषात् ममाग्रत : । त्वं माता त्वं सखी साक्षात्
त्वामहं शर्णं गत : ॥
५०.इत्थं विलपमानां तां सीदन्तीं च पुन:पुन: । आलिलिङ्गे जगन्माता कृपया मलयात्मजा
॥
५१.तवन्मुनि : समुत्तस्थौ तौ सुधासंसर्गतो यथा । पपात भूरि पुष्पाणि देवमुक्तानि
भूतले ॥
५२.तत्दृष्ट्वा महदाश्चर्यं कुंभभू : अतिविस्मित : । बहुमेने मलयजां लोपामुद्रा
च हर्षिता ॥
५३.सुमति : सहसोत्थाय कुंभयोनिसमन्वित : । ताम्रामाराधयामास देवीं त्रैलोक्यपावनीम्
॥
५४.तस्या : प्रसादात् संप्राप्य वरान् श्रेयांश्च भूरिश : । तदश्रुवारिधाराभि
: पूरिता काप्यभून्नदी ॥
५५.अनुग्रहात् ताम्रपर्ण्या : संसर्गात् कुंभजन्मन : । अद्यापि पुण्यतीर्था सा
दृश्यते दक्षिणापथे ॥
५६.तौ दंपती प्रतिष्ठाप्य स्वाश्रमे कुंभसंभव : । पुनस्स ताम्रया सार्धं प्रयातो
दक्षिणां दिशम् ॥
५७.आससाद शिलावर्तं यत्रास्ते वरुणात्मज : । वज्रङ्गद इति ख्यातो ब्रह्मशापेन कर्शित
: ॥
५८.पित्रादिष्टां गुहामेत्य निर्मितां विश्वकर्मणा । चकार वसतिं तत्र मलयस्य तु
पार्श्वत : ॥
५९.वीक्ष्यमाणस्तु शापान्तं निनाय शरदां शतम् । स दृष्ट्वा कलशीसूनुं पूजयित्वा
महानदीम् ॥
६०.अनुग्रहात् ताम्रपर्ण्या : पुनर्देवत्वमाप्तवान् । वज्राङ्गदगुहास्थानम् तोरणाचलसंज्ञिताम्
॥
६१.तस्मात् दक्षिणत : किञ्चित् क्रोशमात्रमतीत्य स : । अत्रेराश्रममाश्चर्यमवाप
मुनिपुङ्गव : ॥
इति षष्ठ :
अध्याय : Pro.Total = 317
+ 61 = 378.
सप्तम : अध्याय :
वज्राङ्गदशापनिवृत्ति
: शिवशैले घट्नोत्पत्तिनिरूपणम्
१.इत्थं निगदितां वाणीं पित्रा व्यासेन धीमता । हर्षमाण : पुनर्वाक्यमाबभाषे शुको
मुनि : ॥
२.श्री शुक : ---
किमाघ : कृतवान् तात वारुणि : केन हेतुना । वेधा : तमशपत् केन तन् मे कथय विस्तरात्
॥
३.वेदव्यास : ---
अहो ते कथयिष्यामि कथां कलुषनाषिनीम् । पुरा सारङ्गकेतस्य कन्या गन्धर्वभूपते
: ॥
४.मालतीं नाम सुभगां उपयेमे जलाधिप : । रेमे चिरं तया राजा वरुणो हरिदीश्वर : ॥
५.सुषेवे सा वरारोहा पुत्रान् भर्तृसमान् शुभान् । वज्राङ्गद : पूर्तिदक्षो प्रभानुर्मणिवान्
प्रसू : ॥
६.पञ्चैते भ्रातर : शूरा : धर्मज्ञा : लोकसंमता : । ब्र्ह्मणा शङ्करेणापि हरिणा वज्रपाणिना ॥
६.पञ्चैते भ्रातर : शूरा : धर्मज्ञा : लोकसंमता : । ब्र्ह्मणा शङ्करेणापि हरिणा वज्रपाणिना ॥
७.संमानिता : विशेषेण पित्रो : प्रीतिकरा : अभवन् । तेषु ज्येष्ठो महतेजा : धीरो
वज्राङ्गदो बली ॥
८.कदाचित् वारुणीलोकात् विनिष्क्रम्य विमानवान् । वीणामादाय विमलामुद्गत : ब्रह्मण
: सभाम् ॥
९.उत्पपातातिवेगेन व्योम्ना विस्तारशालिना । आदित्यपदमुल्लङ्घ्य ग्रहनक्षत्रमण्डितम्
॥
१०.शिंशुमारमहाचक्रं तथा सप्त्र्षिमण्डलम् । ध्रुवं प्रदक्षिणीकृत्य गच्छन् गगनवर्त्मना
॥
११.ददर्श स विमानस्थं प्रयान्तं ब्रह्मणस्सभाम् । मणिकान्तमितिख्यातं गुह्यकानां
गणेश्वरम् ॥
१२.तस्योत्सङ्गे वर्तमानां ददर्श स्तबकावतीम् । असंभ्रान्त इवासाद्य निरुध्याध्वानमोजसा
॥
१३.बभाषे वचनं धीमान् वारुणि : गुह्यकेश्वरम् । वज्राङ्गद : ----
साधु गुह्यक राजन् त्वं कुलिनोऽसि विशेषत
: ॥
१४.अञ्जनाख्यस्य यक्षस्य सुतेयं मत्परिग्रहा । स्तबकाख्या वधूरेषा कुत्र वा नीयते
त्वया ॥
१५.मुञ्च मुञ्च वधूमेनामकार्यं मा करिष्यथा : । इत्युक्तवति वै तस्मिन् पुन : प्राह
स गुह्यक : ॥
१६.मा कुरु त्वमहङ्कारं धर्मप्त्नी न ते खलु । बहवोऽस्या : पतिर्भूत्वा त्वादृशा
मादृशा जना : ॥
१७.यमेषा वृणुते कान्तं सोऽस्या : पतिरसंशय : । साधारणस्त्री सर्वेषां सुराणां
देवकल्पितम् ॥
१८.एवमन्योन्यवादेन कलहस्सुमहान् अभूत् । गुह्यकं तं पराजित्य तामादाय वराङ्गनाम्
॥
१९.गतो वज्राङ्गदो लोकं सोऽप्यगात् ब्रह्मणस्सभाम् । तं दृष्ट्वा दीनमनसं क्लान्तं
तं गुह्याधिपम् ॥
२०.किमेतत् इति पप्रच्छ दयालुस्स पितामह : । ब्रह्मा ---
किं ते स्न्तापसंभ्रान्तस्वान्त:क्लान्तं
वपु : परम् ॥
२१.दारानुसक्तमनसां कुत : सौख्यं भविष्यति । धर्मत : तस्य सा नूनं भार्या भवितुमर्हति
॥
२२.तथाप्यकृत्यं तस्यैव ध्रुवचक्रादित : परम् । रागवन्तो भविष्यन्ति ते त्याज्या
मत्समीपत : ॥
२३.एतत् आरभ्य तस्यैव मास्तु देवगतिर्ध्रुवम् । इत्युक्त्वा भगवान् ब्रह्मा सान्त्वयामास
गुह्यकम् ॥
२४.सोऽपि वज्राङ्गद : शापात् नष्टगतिर्ध्रुवम् । पितरं शरणं प्राप वरुणं यादसां
पतिम् ॥
२५.स तु पुत्रं समाश्वस्य प्राप्य ब्रह्माणमीश्वरम् । प्रार्थयामास शापान्तं सोऽपि
तं पुनरब्रवीत् ॥
२६.यदा मलयशैलस्य प्रान्तश्रुङ्गे महोदये । दृश्यसे तैजसं चित्रं तोरणम् मणिभास्वरम्
॥
२७.तदा ताम्रासमायुक्तो मैत्रावरुणिरात्मवान् । आगमिष्यति लोकानां हिताय मुनिपुङ्गव
: ॥
२८.तदनुग्रहमासाद्य ताम्रपर्ण्यां विगाह्य च । पुनर्देवगतिं यातु सभार्यो नात्र
संशय : ॥
२९.इत्थं लब्ध्वा तु शापान्तं वारुणि : सह भार्यया । वरुणस्याज्ञया विश्वकर्मणा
निर्मितां गुहाम् ॥
३०.आसाद्य वसतिं चक्रे वीक्षमाणो महामुने : । समागमं ताम्रपर्ण्या यातो हय इवाध्वनि
॥
३१.गते वर्षशते पूर्णे गुहाद्वारि विजृंभिते । तोरणं तरुणादित्यपाटलं चारुचित्रकम्
॥
३२.आलोक्य स गुहाद्वारि धीरो वज्राङ्गदो मुदा । निर्गत्य गर्तात् विस्तीर्णे ददर्श
महतीं महीम् ॥
३३.उत्फुल्लचन्दवनामुदागरुवाटिकाम् । उत्फुल्लकदलीफ्गां उच्चावचविहङ्गमाम् ॥
३४.वसन्तमदनोल्लासकूजत्कोकिलसारसाम् । आश्चर्यतोरण्च्छायाम् चमत्कृतमणिस्थलीम्
॥
३५.इत्थं व्यापारयन् दृष्टिं समन्तात् वरुणात्मज : । दिशमावृत्य कौबेरीं प्रभां
ज्योत्स्नामिव स्थिताम् ॥
३६.दृष्ट्वा स विस्मयाविष्टो ददर्श मुनिमग्रत : । अक्षिसाफल्यकरणं तप:फलमिव स्थितम्
॥
३७.अक्षिलक्ष्यं मुनिं कृत्वा परमानन्दनिर्भर : । पपात पादयोस्तस्य पाहि मां पाहि
मामिति ॥
३८.अभिवाद्य मुनिश्रेष्ठं लोपामुद्रं च तत्प्रियाम् । ताभ्यां प्रदर्शितां देवीं
नदीं मुक्तमणिप्रसूम् ॥
३९.तस्या : दर्शनमात्रेण देवभावन्मवाप्तवान् । तावत् विमानमारूढा संहृष्टा स्तबकावती
॥
४०.आययौ वरुण : चापि भ्रातरोऽस्य समन्तत : । सह देवास्समागत्य सधु साध्वित्यघोषयन्
॥
४१.मुनीं प्रदक्षिणीकृत्य ताम्रपर्णीं प्रणंय च । शुद्धात्मा शापनिर्मुक्त : पूजितस्सकलैस्सुरै
: ॥
४२.वज्राङ्गदो महाबाहु : पुनर्देवगतिं गत : । अभ्यर्च्य बरुणो राजा लोपामुद्रापतिं
मुनिम् ॥
४३.अभिष्टूय मुनिं तद्वत् चन्दनाचलकन्यकाम् । ब्रह्मणानुमत : तस्या : शुश्रूषार्थं
जलाधिप : ॥
४४.तीर्थानां दिव्यरूपाणां सागरं कोटित्रयं ददौ । सा ताभि : तीर्थकन्याभि : संवृता
लोकपावनी ॥
४५.तप्तहाटकसंस्थेव बभौ मणिमतल्लिका । तां दृष्ट्वा मुनय : सिद्धा : देवाश्च सह
दानवै : ॥
४६.तुष्टुवु : परमप्रीता : पुष्पवृष्टिमुचो दिवि । समाज : सर्वसिद्धानां तीर्थानां
त्रिदिवौकसाम् ॥
४७.ज्योतिषामिव सङ्घातो विरराज महीतले । स तै : परिवृत : श्रीमान् ताम्रया मणिगर्भया
॥
४८.कुंभयोनि : संप्रतस्थे संहृष्टो दक्षिणां दिशम् । शंसन्त : तस्य कर्माणि कुंभयोने
: महात्मन : ॥
४९.महानुभावा : ताम्राय : कथयन्त : परस्परम् । अपनिन्यु : तदध्वानपरिश्रमम् अमी
जना : ॥
५०.शिवसैलमुपाजग्मु : यत्रास्ते शङ्करस्स्वयम् । तपस्यत : चन्दनाद्रे : सपत्नीकस्य
वै चिरम् ॥
५१.प्रसादमकरोत् यत्र शिव : सर्वशिवङ्कर : । तदादि शिवसंप्राप्य शिवशैल इतीरित
: ॥
५२.तावदत्रिर्महातेजा : मुनिस्साक्षात् हरिस्स्वयम् । अग्रे प्रादुरभूत्तस्य मुने
: कलशजन्मन : ॥
५३.आदाय पाद्यमर्घ्यं च मधुपर्कं च मन्त्रवित् । सपर्यामकरोत्तस्मै प्रहृष्तेनान्तरात्मना
॥
५४.अहो समागमं श्रेष्ठं तवात्र कलशीसुत । मन्ये लोकहितार्थाय महादेवेन कल्पितम्
॥
५५.भगीरथस्य राजर्षे : गङ्गामानयत : पुरा । तपसा पालितं विश्वं पापेभ्य : सचराचरम्
॥
५६.इदानीं भवता श्रीमान् ताम्रामानयां नदीम् । पापात् भयान् महाव्याधे : दारिद्र्यात्
पालितं जगत् ॥
५७.एनां महानदीं पुण्यां दर्शनात् पापनाशिनीम् । ये भजन्ति नरा : भक्त्या तेषां
नास्ति दरिद्रता ॥
५८.यदम्बुपानतो मर्त्या : चिरं जीवन्त्यरोगिण : । यत्तीर्थाप्लुतदेहस्य मोक्षलक्ष्मी
करस्थिता ॥
५९.एनामानयता ब्रह्मन् भवता करुणात्मना । सनाथा विहिता नूनं दक्षिणाशा सुदक्षिणा
॥
६०.इति वाचा कुंभयोनिं बहुमान्य पुन:पुन : । नत्वैवाञ्जलिना देवीं तुष्टाव मलयात्मजाम्
॥
६१.नमस्तुभ्यमाब्रह्मकीटम् विश्वं पापात् पालयन्ती पयोभि : ।
तीर्थाकारा त्वं दृश्यसे त्वं प्रकृत्या
सूक्ष्माकारा दृश्यसे वेदवाग्भि : ॥
६२.त्रेधा भङ्क्त्वा स्वां तनुं द्योतयन्तीं गङा कृष्णा भारतीति प्रशस्तिं ।
भकानस्मान् पापत : पाहि मात : ताम्रे
संपत्साधने समर्था ॥
६३.आशैलाब्धिं स्रोतसाञ्चोदधारा पीयूषेण प्राज्यकूलद्व्ये ते ।
स्तन्यक्षीरेणैव लोकं पुनाना मातस्ताम्रे
देवि नित्या भव त्वम् ॥
६४.इत्यभिष्टूय ताम्रां देवीं अत्रि : परमधर्मवित् । अनसूयासमायुक्तो ध्यानारूडोऽभवत्
पुन : ॥
६५.तवत् शैलेन्द्र्कटकात् अत्रे : सन्तोषकाम्यया । निष्क्रान्तन् तत् महातीर्थं
निस्ससार महोर्मिवत् ॥
६६.सैषा सखी ताम्रपर्ण्या घटनेति प्रकीर्तिता । स्नानात् पानात् पापहन्त्री पुण्या
मन्दाकिनी यथा ।
६७.तस्यां स्नात्वा सपत्नीक : सोऽत्रिस्सार्धं सुरोत्तमै : । अगस्त्येन मुनीन्द्रेण तर्पयित्वा पितॄन् सुरान् ॥
६८.शिवशैलेश्वरं नत्वा संप्राप्य च मनोरथान् । घतयत्यखिलान् कामान् मज्जतां पिबतां
नृणाम् ॥
६९.घटनेयं नदी भविष्यति न संशय : । अत्र्यर्थं निर्गता यस्मात् आत्र्यीति प्रशस्यते
॥
७०.शिवशैलात् विनिष्क्रान्ता शिवशैलवती तत : । ताम्रानुजेति केचित् तां अन्ये शैलोदकामिति
॥
७१.एवं प्रशस्य बहुधा स्तुभि : घटनां नदींम् । सहा(मलय)द्रिणा मुनिगणै : अमरिरभिसंवृत
॥
७२.प्रतस्थे कलशीसूनु : ताम्रया परया परम् । व्योमयानै : सिद्धगणै : गन्धर्वोरगकिन्नरै
: ॥
७३.समन्तात् वसुधाकीर्णा नक्षत्रै : द्यौरिवाबभौ । मध्ये मुनिवर : श्रीमान् मालेय्या
सहित : तथा ।
ज्योत्स्नया सहित : व्योम्नि शशीव रुरुचे परम् ॥
७४.एवं समाजो महतां ऋषीणाम् व्याघुष्य नानानिगमप्रबन्धै : ।
अपास्तशोकं निहता शुभौघं समासत् चन्दनशैलराजम्
॥
इति सप्तम
: अध्याय : Pro.Total = 378
+ 74 = 452
अष्टम
: अध्याय :
हयग्रीवाश्रमं प्रति अगस्त्यागमनम्
१.भगवन् सर्वधर्मज्ञ लोकानुग्रहकर्मकृत् । श्रुत्वापि त्वन्मुखांभोजकथापीयूषसन्तति
: ॥
२.नहि मे तृप्तिजननी कामिन : कामिनी यथा । आह्लादयति गात्राणि चित्तमानन्दयत्यपि
॥
३.अन्त:करणसन्तापं वुपोहति दुधेव न : । पारावारमिवापारं अनन्तं श्रुतिवत् पुन
: ॥
४.अपरा स्वादु पीयूषाधारापूरमिवाद्भुतम् । भूयोऽपि श्रोतुमिच्छामि ताम्रपर्णयास्तु
वैभवम् ॥
५.कथं प्राप नदी पुण्या ताम्रा गुप्ताद्रिमस्तके ।कथं प्रवाहपुषिता समेता सागरेण
सा ॥
६.इति पृष्टो महातेजा : स्वपुत्रेण महामुनि : । कथां विस्तार्य महतीं प्रवक्तुमुपचक्रमे
॥
७.व्यास : ---वत्स ते कथयिष्यामि श्रोतव्यं सावधानत : । अत्रितुंबुरुमुख्यै : च
वसुगौतमनारदै : ॥
८.कपिलाङ्गीरसोचत्यकण्वकाणादरैवतै : । वरुणेनारुणेनापि सपुत्रबलशालिना ॥
९.अन्यै : च सिद्धैरमरै : समन्तात् अभिसंवृतै : । मुनि : कलशभूर्भूमां पुण्यामादाय
तां नदीम् ॥
१०.अत्र्याश्रमात् विनिर्गत्य किञ्चित् गत्वा
क्षणादिव । उपत्यकायां शैलस्य विस्तृतायां महामुनि : ॥
११.आससाद सरोरम्यं व्योमाख्यं मानसं यथा । अगाधममृतं स्वादु सलिलं सान्द्रशीतलम्
॥
१२.तद्रक्षणार्थं भगवान् पुरा नारायण : प्रभु : । आस्ते पर्वतरूपेण ज्योतिर्मणिकृताभिध
: ॥
१३.तस्य प्रणवरूपस्य मध्ये श्रुङ्गस्य संस्थित : । सरोवरं समासाद्य निवासमकरोत्
मुनि : ॥
१४.सर्वेनिविविशुर्हृष्टा : देवाश्च परमर्षय : । तत्र पञ्चसहस्राणि वर्षाणि नियतेन्द्रिय
: ॥
१५.तपश्चाचार भगवान् उमालाभाय शङ्कर : । यस्यां पुष्करवाप्यां तु निक्षिप्यात्मधनु
:शरान् ॥
१६.एकाकी तप आतिष्ठत् लोकानां हितकाम्यया । तदादिनाम्ना पैनाकसरो लोकेषु गीयते
॥
१७.हरि : पर्वतरूपेण तद्रक्षामकरोत् यत : । तदारभ्य सरो नाम्ना विष्णुगर्भमितीरितम्
॥
१८.तत्रत्या : च एव ते सर्वे तमेत्य कलशोद्भवम् । सपत्नीकं समभ्यर्च्य संपूज्य
मलयात्मजाम् ॥
१९.आतिथ्यं विददु : तस्मै सर्वेषाम् च यतोचितम् । स्नात्वा पुष्करिणीतीर्थे तर्पयित्वा
पितॄन् सुरान् ॥
२०.तत्रैव विहितातिथ्या : पुरस्कृत्य महानदीम् । देवगन्धर्वमुख्यै : च वरुणेनात्रिणा
सह ॥
२१.ऊषु : पञ्चदिनान्यत्र तीर्थमाहात्म्यनिर्वृता : । अथोष्स्युपवृत्तायामगस्त्यो
मुनिभिस्सह ॥
२२.काल्यं निवृत्य नियमं कृतकृत्योऽत्रिणा समम् । तीर्थं प्रदक्षिणीकृत्य ताम्रामादाय
पावनीम् ।
२३.ज्योतिर्मणिं लङ्घयित्वा प्रणंय वनदेवताम् । देवदुन्दुभिनादेषु जृंभमाणेषु सर्वत : ॥
२४.किञ्चित् दक्षिणत : तस्मात् ददर्श महदाश्रमम् । यत्रास्ते भगवान् विष्णु : हयग्रीवस्वरूपधृत्
॥
२५.तं सेवन्ते सिद्धगणा : देवाश्च परमर्षय : । ऋतवो युगपत् सर्वे न मुञ्चन्ति हि
तद्वनम् ॥
२६.अपास्तवैरं वर्तन्ते सत्वानि विविधान्यपि । तत्र पुष्करिणी काचित् अगाधा निर्मलोदका
॥
२७.पिशङ्गिला नाम यस्यां गणा: पैशङ्गिला: स्थिता:। कपिला इति विख्याता समादिष्टा
: स्वयंभुवा ॥
२८.तद्रक्षणार्थमद्यापि बहवो निवसन्ति हि । निशासु घोषा श्रूयन्ते मेघानामिव गर्जताम्
॥
२९.कृताञ्जलि : कुंभयोनि : प्रविवेश तदाश्रमम् । अवरुह्य तु यानेभ्य : देवा : चाश्रममाययु
: ॥
३०.ताम्रपर्ण्या समायुक्तमागतं कलशीसुतम् । विज्ञाय भगवान् श्रीमान् हयग्रीवो महामुनि
: ॥
३१.अत्रि : मुनि : अगस्त्यश्च वरुणो यादसां पति : । एतान् अन्यान् च विधिवत् तथा
तुंबुरुपर्वतौ ॥
३२.पूजयित्वा महदेवीं ताम्रपर्णीं सरिद्वराम् । अभिनन्द्य प्रणंयाग्रे सन्ति ते
शासनं क्रमात् ॥
३३.उपविष्टेषु सर्वेषु पूजितेषु यथोचितम् । बहुमान्य हयग्रीव : कुंभयोनिमभाषत ॥
३४.श्री भगवानुवाच ---
श्रान्तोऽसि मैत्रावरुणे त्वयैतत् साध्वनुष्ठितम्
। संयक् आनयता देवीं ताम्रपर्णीं सरिद्वराम् ॥
३५.कृतेयं भारर्ती भूमि : स्वर्गादपि गरीयसी । अहो कृतमिदं कार्यम् सर्वप्राणिहितोदयम्
॥
३६.भवादृशां परिश्रान्ति : अश्रान्तिकरिणीभुव : । यत्कृता भवता ब्रह्मन् शिवाज्ञादेशकारिणा
॥
३७.तदशेषं मया ज्ञातं समाधिमुपगच्छता । सन्तुष्टोऽस्मि महाभाग कर्मणा भूरिधर्मणा
॥
३८.श्रेय : प्राप्स्यसि भद्रं ते दुर्लभं जगतीतले । तव सन्दर्शनात् अद्य कृतकृत्योऽस्मि
केवलम् ॥
३९.एषा परमकल्याणी शांभवी शक्तिरूपिणी । भुक्तिदा मुक्तिदा नॄणां महापातकनाशिनी
।
४०.साक्षात् प्रकृतिरव्यक्ता निर्गुणा गुणरूपिणी । ब्रह्मविष्णुमुखैर्देवै : मुहुराराध्यते
किल ॥
४१.अस्या : प्रतिष्ठितो मूर्श्नि शङ्करो लोकशङ्कर : । हृदये वर्तते ब्रह्मा ललाटे
गरुडध्वज : ॥
४२.गङ्गा सरस्वती चैव यमुना च शरावती । इमास्ते पुण्य सरित : अस्या : बाहुषु संस्थिता
: ॥
४३.ऊरू मन्थरकैलासौ चक्षुषी शशिभास्करौ । नासिकायाम् उमादेवी कर्णयोरश्विनावुभौ
॥
४४.गोदावरी च कावेरी कपोलतलसंस्थिते । नाभौ च संस्थितो देवो वायु : घ्राणे च संस्थित
: ॥
४५.जिह्वायां भारती देवी लक्ष्मी वक्षसि संस्थिता । जङ्हयो : संस्थिता नागा : गावोऽस्या
: चरणांबुजे ॥
४६.मुनयो वसव : साध्या : रोमकूपेषु संस्थिता : । एनामाश्रित्य तीर्थानि लभन्ते
तीर्थतां पुन : ॥
४७.सर्वे देवाश्च मन्त्राश्च गायत्र्या साकमत्र हि । अनया धार्यते लोकं पाल्यते
पापगह्वरात् ॥
४८.तस्मात् इमां ये सेवन्ते तेषां न हि पराभव : । इत : परं ते गन्तव्यं न पश्ये
सुकृतं महत् ॥
४९.काश्मीरादपि केदारात् हरिगर्तात् च नैमिशात् । श्रैष्ठ्यभूता त्वया ब्रह्मन्
विहिता दक्षिणा मही ॥
५०.कृतार्थोऽस्मि कृतार्थोऽस्मि भवतां दर्शनात् अहम् । इयन्तं कालमत्रैव भवदागमनाशया
॥
५१.वसतो मे चिरात् प्राप्तं कल्याणं महदूर्जितम् । एभि : सह मुनिश्रेष्ठै : देवैश्च
वरुणात्मभि : ॥
५२.वास्तव्यं भवता ब्रह्मन् इहैव च मयान्तिके । पूजनीया महादेवी ताम्रपर्णी महेश्वरी
॥
५३.इति श्रुत्वा वचस्तस्य स मुनि : कुंभसंभव : । ओम् इत्यञ्जलिना भाष्य सहात्रिप्रवरैर्द्विजै
: ॥
५४.तस्मिन् मलयजातेज:करंबित महोदके । पिशङ्गिलाख्ये सरसि सस्नौ ब्रह्मानुभावयन्
॥
५५.अनसूया समासक्ता लोपामुद्रोपलालिता । पूज्यमाना ताम्रपर्णी स्तूयमाना मुनीश्वरै
: ॥
५६.स्नाता दिव्यांबरधरा दिव्यालङ्कारभूषिता । अनुजग्राह विहितं आतिथ्यं हरिणामुना
॥
५७.मैत्रावरुणिना सार्धं अत्रिमुख्या : मुनीश्वरा : । कृत्वा कर्माण्यशेषाणि पञ्चयज्ञादिकान्यपि
॥
५८.सहांबुपतिना सार्धं हयग्रीवेण कल्पितम् । अङ्गीकृत्य यथान्यायं तेन सार्धं महात्मना
॥
५९.संहर्षमाणा : सर्वे ते सुखमूषु : तथाश्रमे । क्षणप्रायमिवाभूवन् अहानि त्रीणि
पञ्च च ॥
६०.तदाश्रमपदं सर्वं समन्तात् योजनावृतम् । विमानशतसंकीर्णं नानामुनिगणावृतम् ।
गन्धर्वै : स्तूयमामानैश्च महोत्सवमिवाभवत्
॥
इति अष्टमोऽध्याय
: Pro.Total = 452
+ 60 = 512.
नवमोऽध्याय :
वीरसेनशंखयो
: संवाद :
१.अथापरेद्युर्भगवत्युदिते कर्मसाक्षिणि । अवतीर्य महातेजा : विश्वकर्मा वियत्तलात्
।
२.आससाद मुनिश्रेष्ठं तमगस्त्यं कृताञ्जलि : । अभिवाद्य हयग्रीवं वरुणं संप्रणम्य
च ॥
३.अत्रिमाराधयन् मूर्ध्ना व्याजहार स वर्धकि :।विश्वकर्मा---नमो महद्भ्य:सर्वेभ्यो
मुनिभ्योऽयं इहाञ्जलि:॥
४.विज्ञाप्यं श्रूयतामत्र महादेवानुशासितम् । वक्ष्यमाणं मया ब्रह्मन् यथावत् अवधार्यताम्
॥
५.सन्तुष्टोऽस्मि मुनिश्रेष्ठा : कर्मणानेन केवलम् । वैशाखपौर्णिमायां तु मुहूर्ते
मैत्रसंज्ञिते ॥
६.मच्छक्तिरेषा कल्याणी ताम्रा मलयनन्दिनी । प्रवाहरूपा निर्गत्य मलयात् यातु सागरम्
॥
७.अहमप्यागमिष्यामि भवतां हितकाम्यया । इत्थमुक्त्वा महादेव : प्रेषयामास मामिह
॥
८.अनुज्ञात : त्वया ब्रह्मन् आश्रमं करवाण्यहम् । इति ब्रुवाणं तं दृष्ट्वा विश्वकर्माणमागत
: ॥
९.बहुमेने मुनिर्वाचा कुंभयोनिर्मुदान्वित : । सर्वे च मुनयो देवा : साधु साध्वित्यपूजयन्
॥
१०.हयग्रीवेणानुशिष्ट : विश्वकर्मा महामति : । तीराग्रेऽगस्तिशृङ्गस्य मध्ये विस्तृतशालिनी
॥
११.निर्ममे भवनं चित्रमद्भुतं प्रियदर्शनम् । पञ्चनल्वप्रमाणेन विस्तारायामसंयुतम्
॥
१२.विष्णुस्थानं शिवस्थानं ब्रह्मण : सदनं तथा । भवनं भास्करावासं दुर्गास्थानं
गणेशितु : ॥
१३.निर्मिता मुनिशार्दूल तथैवास्थानमण्डप : । महानसं भुक्तिशाला जपध्यानालयं तथा
॥
१४.एवं विधाय भवनं कुंभयोनेर्महात्मन : । कदलीपूगपुन्नागरसालपनसादिभि : ॥
१५.नारङ्गलिकुचारंभाकेरक्तमुखपाटलै : । उद्यानैरपि भूयिष्ठं फलपुष्पमधूर्जितै
: ॥
१६.वापीकूपसमायुक्तं कूजत्कोकिलसारसम् । विधाय विविधाकारं तस्याप्युत्तरत : स्थले
॥
१७.वृषाङ्कम् नाम नगरं मणिप्राकारतोरणम् । महाभवनसंयुक्तं रत्नप्रासादभास्वरम्
॥
१८.स्थानं मलयनन्दिन्या : विदधे शिल्पिनां वर : । तत्रत्यं श्रीकरं नाम गन्धर्वानां
गणं महत् ॥
१९.न्ययुङ्क्त स्थलरक्षार्थं मायावृतमकल्मषम् । पुनर्मुनिमुपागंय सकलं स व्यजिज्ञपत्
॥
२०.तमभ्यर्च्य गिरा हर्षात् स मुनिर्देवशिल्पिनम् । संप्रतस्थे महातेजा : ताम्रामादाय
पावनीम् ॥
२१.हयग्रीवमुखैस्सिद्धै : देवैश्च वरुणादिभि : । शंखदुन्दुभिनादैश्च भेरीतूर्यरवैरपि
॥
२२.व्याघुष्य ककुभास्सर्वा : समीयायाश्रमं निजम् । उत्सव : सुमहान् आसीत् प्रविशत्
आश्रमं मुनौ ॥
२३.अंबरात् अभ्यवर्तन्त समन्तात् पुष्पवृष्टय : । मकरन्दसुधाबृन्दतुन्दिल : चन्दनद्रुमान्
॥
२४.नर्तयन् इव सानन्दं मन्दं मन्दं मरुत् ववौ । शकुना : कर्णपीयूषै : पोषयन्ती
कलस्वरै : ॥
२५.अन्यान्यपि सह्स्राणि शुभान्यासन् समन्तत : । हर्षसंभ्रमसंघुष्टजनरोमाञ्चकञ्चुकम्
॥
२६.चकाशे क्न्दलाक्रान्तं प्रावृषीव महीतलम् । इत्थं प्रविश्य मुनिभि : देवैश्च
सह कुंभज : ॥
२७.आश्रमं परमं हृष्टो बभूव ससुहृद्वृत : । लोपामुद्रापति : श्रीमान् प्रवेश्य
निजमाश्रमम् ॥
२८.ताम्रपर्णीं महादेवीं भक्तिमान् अभ्यपूजयत् । सर्वे च मानिता : तेन देवा: च
ऋषय : तथा ॥
२९.ऊषु : परमसंहृष्टा : तस्मिन् एवाश्रमे सुखे । उद्यानानि विचित्राणि वाप्य :
च विमलोदका : ॥
३०.पुष्पिता : तरव : भूरि फलवन्तो मधुस्रवा : । दृष्ट्वा ते विविधाकारमाश्रमं विस्मिता
: ययु : ॥
३१.विलोक्य विश्वकर्माणं प्रशशंसु : इतस्तत : । प्रविश्याश्रममाश्चर्यं सर्वान्
संभावयन् क्रमात् ॥
३२.तत्रैकादशरात्रन्तु स् समुशित्वा महामुनि : । नारदाद्यै : तु संयुक्त : ताम्रामादाय
पावनीम् ॥
३३.असाद्य श्रीगुहास्थानमभ्यर्च्य परदेवताम् । तत् प्रसादमनुप्राप्य देवैश्च समभिष्टुत
: ॥
३४.सागरेण महापूरां मुनि : ताम्रामयोजयत् । समाज : सर्वभूतानां तत्राद्भुतमिवाभवत्
॥
३५.श्री शुक : --
तत कीदृक् स्थलं देव्या : गुहा वा कीदृशी पुन : । केन रूपेण सा देवी संस्थिता परमेश्वरी
॥
३६.एतत् सर्वमशेषेण विस्तरात् वक्तुमर्हसि । श्री वेदव्यास : ---
शृणु पुत्र प्रवक्ष्यामि कथां कथयतो
मम ॥
३७.वीरसेनस्य शंखस्य संवादं परमाद्भुतम् । अस्ति मानवती नाम नगरी काञ्चनारुणा ॥
३८.उत्तरे हिमशैलस्य पुष्पवत्याश्च दक्षिणे । तस्यामस्ति नर : कश्चित् वीरसेन
: इति श्रुत : ॥
३९.तपसा शंभुमाराध्य लेभे त्रैलोक्यपूजितम् । देवदत्तं समारुह्य विमानं सूर्यसन्निभम्
॥
४०.वाह्यमानं महावीरै : तुरङ्गै : कुङ्कुमारुणै : । देशान् सञ्चरता तेन प्राप पुष्पवतीतटम्
॥
४१.पयस्तस्या क्षोभयन्तं हंसम् तं यादसां गणम् । वज्रदन्तं जघानाशु गदया भीमवेगया
॥
४२.तदुपद्रवतो मुक्ता सा नदी तुष्टमानसा । प्रादात् तस्मै नरेन्द्राय नादेयीं नाम
कन्यकाम् ॥
४३.तामुद्वाह्य वरारोहां रममाणो महीपति : । ताज्यं पुत्र् समाधाय प्रियाया : प्रियकाम्यया
॥
४४.विमानवरमारुह्य चचार पृथिवीमिमाम् । मेरुं प्रदक्षिणीकृत्य रममाण : ततस्तत
: ।
४५.परीत्य द्वीपं वर्षाणि लङ्हयित्वा हिमाचलम् । बह्वमन्यत भूयिष्ठां स दृष्ट्वा
भारतीं महीम् ॥
४६.नगराणि विचित्राणि वनानि विविधान्यपि । व्योमयानात् समुल्लङ्घ्य त्वर्माण :
पुनर्ययौ ॥
४७.विमानं कामगं तस्य स्तब्धमासीत् वियत्तले । किमेतत् इति संभ्रान्त : चिन्तयामास
बुद्धिमान् ॥
४८.तवत् अंबर्त : चित्रा वागभूत् अशरीरिणी । अलङ्घ्यममरैरन्यै : ब्रह्मविष्णुमुखैरपि
॥
४९.परानन्दैकनिलयं शृङ्गं मलयभूभृत । इति श्रुत्वा वचो राजा विस्मयाविष्टमानस
: ॥
५०.सन्निवृत्य विमानं तं महीमवततार ह । दृष्ट्वा तीरे महानद्या : मुने : शंखस्य
आश्रमम् ॥
५१.विमानात् अवरुह्यासौ सभार्य : प्रविवेश ह । तं दृष्ट्वा मुनिशार्दूलं विनयात्
अभ्यवादयत् ॥
५२.स्वागतेनासनेनापि संभाष्य च महीपतिम् । अभ्यभाषत संहृष्टो वचा मधुरया मुनि
: ॥
५३.श्री शंख : ---स्वागतं ते महाभाग चिरात् दृष्टोऽसि मे खलु ।
कच्चित् ते कुशलं राज्ये
कच्चित् अन्त:पुरे परे ॥
५४.त्वयानुष्ठीयते किन्तु राजधर्म : सनातन : ।
कच्चित् ते मन्त्रिण : स्निग्धा : पुत्रा
: किं विनयोज्ज्वला : ॥
५५.छायानुरूपा : वर्तन्ते दारा : किं नु महीपते । किं ते प्रवसनं राज्यात् आनीतेयं
कुतो वधू : ॥
५६.आश्चर्याविष्टचित्तस्त्वं द्योतसे मुखलक्षणै : । मयि प्रवक्तुं शक्यं चेत् कथयस्व
महीपते ॥
५७.इति तस्य वच : श्रुत्वा वीरसेनो भुव : पति : । श्लाघमानो मुनेर्वाक्यं प्रणतो
वाक्यमब्रवीत् ॥
५८.राजोवाच ---तव प्रसादात् कुशलं अस्माकं सर्वत : किल । तवानुरागपात्रस्य कुतो
मे विपरीतता ॥
५९.प्रसादात् देवदेवस्य महादेवस्य शूलिन : । विमानं कामगं दिव्यं अकुण्ठितगतागतम्
॥
६०.अत्र स्तब्धमभूत् ब्रह्मन् ज्ञायते कारणं न मे । एषा नाम्ना तु नादेयी पुष्पत्यात्मजा
सती ॥
६१.मम प्रिया वरारोहा मामयाचत किञ्चन । एतत् भूमन्डलं सर्वं नानाद्वीपाब्धिसंकुलम्
॥
६२.ज्ञातुं द्रष्टुं च तत्वेन काङ्क्षन्ती कौतुकाकुला । आलोकालोकमहता मयेयं दिगुपाश्रिता
॥
६३.ज्ञातुमिच्छामि तत्वेन स्तंभितं केन हेतुना । इति पृष्टवत : तस्य वीरसेनस्य
भूपते : ।
६४.श्लाघयित्वा वचो भूय : व्याजहार मुनीश्वर : । श्रुणु राजन् प्रवक्ष्यामि येन
स्तब्धगतिर्भवेत् ॥
६५.यत : प्रवृत्तिर्जगतां यत्साक्षित्वे विवर्तते । वेन विश्वमिदं व्याप्तं यत्
प्राप्य निवर्तते ॥
६६.मनो वच : तथा बुद्धि : विषया न स्पृशन्ति यत् । तत् ब्रह्म परमं तेज : परमानन्दनिर्भरम्
॥
६७.हिताय जगतां एकं द्वैधीभावमभूत् पुन : । तदत्र मिथुनीभूय रमते हि परस्परम् ॥
६८.श्रीमत्परशिवाङ्कस्थतरुणीरूपलक्षणम् । मह:काञ्चनकल्याणसौन्दर्यामृतनिर्भरम्
॥
६९.तत्र चन्दन्शैलेन्द्रे ज्योतिगृहमहान्तरे । विमले चक्रपर्यङ्के रमते परमात्मना
॥
७०.सैषा परमकल्याणी सेव्यमाना सुरासुरै : । आस्ते विस्तार्य जगतीं वागुरामिव सर्वश
: ।
७१.पञ्चकृत्यपरान् देवान् वसमानीय सर्वश : । अत्रास्ते विश्वजननी विश्वरक्षाविनोदिनी
॥
७२.अत्र तीर्थमयी ताम्रा सर्वपातकनाशिनी । अत्रैव मैत्रावरुणिर्लोपामुद्र्रासखो
मुनि : ॥
७३.ताम्रामादाय महतीं नदीमीश्वरसासनात् । आसागरं नियमिता स्रोतोरूपा प्रतिष्ठिता
॥
७४.अत्र देवाश्च विप्राश्च मन्त्राश्च क्रतव : परे । उपास्यते ब्रह्मणैषा रुद्रेण
हरिणा तथा ॥
७५.नित्यमत्र महादेव : पुरा पर्यङ्कतां गत : । स्वशक्त्या कीडते साक्षात् परानन्दस्वरूपया
॥
७६.तल्लङ्घनबलाभावात् विमानं स्तंभितं तव । तस्मात् त्वं तीर्थवर्यायां ताम्रायां
कृतमज्जन : ॥
७७.अभिवाद्य मुनिश्रेष्ठं लोपामुद्रां च तत्प्रियाम् । तदनुग्रहमासाद्य तमंबां
द्रष्टुमर्हसि ॥
७८.ततो वाचमिमां श्रुत्वा मुने : शंखस्य धीमत : । प्रत्यभाषत तं राजा विस्मयाविष्टमानस
: ॥
७९.राजा ---
कथेयं कथिता ब्रह्मन् त्वया मय्यनुकंपया
। महानदीव पापघ्नी श्रीरिवानन्ददायिनी ॥
८०.मधुधारेव कर्णस्य कौमुदी शारदा यथा । नैव लब्द्वा सुधापानं विना तृप्तिकरी किल
॥
८१.संमानिता मुनीन्द्रेण ताम्रा कलशजन्मना । कथं दृष्ट्वा महादेवी पूजिता च विशेषत
: ॥
८२.तदाश्रमपदं अत्रैव वर्तते परमाद्भुतम् । एतत् सर्वमशेषेण विस्तरात् ब्रूहि मे
प्रभो ॥
८३.शंख : उवाच ---एतत्विचित्रं कलिकल्मषघ्नमाख्यानमूर्जस्वलमादिमातु : ।
श्रुणुष्व राजन् विनयेन
संयक् मयाधुना संप्रति वक्ष्यमाणम् ॥
इति नवमोऽध्याय
: Pro.Total = 512
+ 83 = 595
दशमोऽध्याय
:
ताम्रपर्णीसमुद्रयोर्विवाह
:
१.श्री शंख : ---श्रुणु राजन् प्रवक्ष्यामि कथां कर्णसुखावहम् । यस्यास्स्मरणमात्रेण
पुरुष : पुरुषार्थभाक् ॥
२.समीकर्तुमिमां भूमिमगस्त्य : शंभुशासनात् । ताम्रां महानदीं लब्ध्वा प्रतस्थे
दक्षिणां दिशम् ॥
३.त्रिकूटे शंभुमभ्यर्च्य चित्रं प्रावर्तयन्नदीम् । अत्र्याश्रमे तु घटनां शिवशैलात्
उदञ्चयन् ॥
४.ज्योतिर्मणौ महाकूटे व्योमपुष्करिणीतटे । प्राप्य स्नात्वा तर्पयित्वा पितॄन्
देवीन् ऋषीन् तथा ॥
५.ततो हयग्रीवमुनेर्विश्रान्त : चाश्रमे सुखम् । स्नात्वा पिशङ्गिलातीर्थे सह देवै
: सहर्षिभि : ॥
६.न्यवसत् स्वाश्रमे पुण्ये विहिते विश्वकर्मणा । तत्रैकादशरात्रं तु समुषित्वा
यथासुखम् ॥
७.सर्वै : च मुनिशार्दूलैरमरैरभिसंवृत : । ताम्रपर्णीं पुरस्कृत्य प्रस्थानमकरोत्
पुन : ॥
८.निमित्तान्यभवन् तत्र शुभशंसीनि सर्वश : । ततोऽवतीर्य गगनात् नारद : कपिलो मुनि
: ॥
९.अभ्ययातां महात्मानौ संभाव्य कलशीसुतम् । तावभ्यर्च्य यथान्यायमन्योन्यमभिनन्दिता
: ॥
१०.श्रीमत् चक्रगुहां सर्वे मुदिता : संप्रतस्थिरे । तत्रेषाख्यं च महातीर्थं ऊर्जाख्यं
च महत्सर : ॥
११.उभयोरपि संस्नात्वा चन्द्रादित्यौ प्रणम्य च । प्रासाद्य किङ्क्रान् सर्वान्
अगस्त्य : ताम्रया सह ॥
१२.प्रविवेश गुहां रम्यां सर्वतो योजनावृताम् । कदंबविपिनोदारां कल्पकोद्यानशोभिनीम्
॥
१३.कर्पूरवालुकाजुष्टां जांबूनदमयस्थलीम् । उत्फुल्लकेतकीषण्डामुदञ्चत्कदलीकुलाम्
॥
१४.कूजत्कोकिलसन्नादां मत्तभ्रमरसंभ्रमाम् । सप्तकोटिमहामन्त्रै : मक्षिकापक्षिरूपै
: ॥
१५.कोलाहलितदिक्चक्रां बालातपपिशङ्गिलाम् । वसन्तकामराजाभ्यां पाल्यमानां समन्तत
: ॥
१६.चित्रकेतुमुखैश्शूरै : सदारै : प्रमथेश्वरै : । अप्रमादमसंपातं रक्ष्यमाणं महीपते
॥
१७.काञ्चनै : कदलीषण्डै : महमरकतच्छदै : । सुधासदृशपक्वाढ्यै : प्रफुल्लतटशालिनीम्
॥
१८.प्रफुल्लकमलोदारां ददर्शाग्रे तु दीर्घिकाम् । नवमणिक्यसोपानां नानायदोगणावृताम्
॥
१९.सुविस्तारामघौघघ्नीं सुधासमरसोदकाम् । उपस्पृश्य महातेजा : मुनिराम्नायसंश्रिताम्
॥
२०.ततो दक्षिणतो गत्वा वापीमन्यां ददर्स स : । मनिप्रवरसोपानां काञ्चनेषु वनावृताम्
॥
२१.समुपस्पृश्य मेधावी पुणामाम्नायवापिकाम् । तप्तहाटकसंकाशै : संवृतां चम्पकाद्रुमै
: ॥
२२.कापि वाप्यक्षिपदवीमाससाद मुने : पुर : । पश्चिमाम्नायसलिलं तत्रोपस्पृश्य कुंभभू
: ॥
२३.प्रणत : चोत्तरे भागे ददर्श अन्यत् महत्सर : । शातकुंभमयैर्दिव्यै : हरिचन्दनपादपै
: ॥
२४.सञ्छन्नतटसौरभ्यं हंससारससेवितम् । तत् तीर्थं शिरसा बिभ्रन् संप्राप श्रीपुरं
महत् ॥
२५.महापीयूषपरिघां मणिप्राकारगोपुराम् । महाभैरवसंपातां मातृकाशतसङ्कुलाम् ॥
२६.कृताञ्जलि : प्रह्वतनु : प्रविश्य श्रीपुरं महत् । ददर्श परमानन्दां शिवपर्यङ्कवर्तिनीम्
॥
२७.चतुर्भि : पञ्चमै : सूक्ष्मै : मेलनं यत्र दृश्यते । पञ्चकृत्यपरा यत्र पञ्चतामुपपेदिरे
॥
२८.यत्र शिवकामेश्वराङ्कस्था जयते शांभवी कला । तां दृष्ट्वा परमानन्दसन्दोहामृतरूपिणीम्
॥
२९.लोपामुद्रान्वितो धीमान् समाराध्य महेश्वरीम् । ताम्रपर्ण्या समायुक्त : तुष्टाव
परमेश्वरीम् ॥
३०.अगस्त्य : ---अंब जृंभत्कृपापूरे दूरीकृतपराभवे । भवभञ्जनि रुद्राणि प्रसीस
मम शांभवि ॥
३१.दुरितार्णवस्अन्तारस्त्रिस्त्वमसि देहिनाम् । मायान्धकारविध्वंसविनोदमणिदीपिके
॥
३२.यान्त्वामाहु : सदा मात : चिरन्तनगिरां तति : । अक्षरामक्षराकारां आद्यामीडे
पुरातनीम् ॥
३३.प्रसन्नजनसौभाग्यसुधासमुदयार्णवे । प्रसीद मात : प्रत्यक्षमोक्षमार्गैकदीपिके
॥
३४.महामातरसंभाव्यकर्मकालविकल्पने । कलाकलितमर्यादे तुभ्यं देव्यै नमो नम : ॥
३५.एकामनेकामेकस्थां शोकापायां निरामयीम् । त्वामाहु : श्रुतयो वाचां तान्त्वां
अन्तरुपास्महे ॥
३६.मायां अन्ये पराम् अन्ये परे शंसन्ति शांभवीम् ।सन्त : स्वचछन्दचारित्रां तमहन्तान्नम
: पराम् ॥ ३७.स्तुत्यं सत्यं परं प्राप्य ध्येयमर्च्यमहर्निशम् । यन्महस्तरुणीरूपं
स्रोतामाराधये पुर : ॥
३८.मय्यनन्यगते मात : प्रसीद वरदेवते । प्रसीद विश्वजननि प्रसीद् प्रणवात्मिके
॥
३९.विभक्तननाविधचक्रकोणे पाणिस्थलालङ्कृतपञ्चबाणे।प्रपन्नसन्तानलते प्रसीद प्रकृष्टपाशाग्कुशपद्महस्ते॥
४०.मात:प्रसीद मलयाचलपद्मपीठे मायाविशेषकलया रचितप्रपञ्चे ।
पञ्चप्रपञ्चेश्वरमञ्चसंस्थे मह्यं मह:कल्पय
मातराशु ॥
४२.श्री देवी ---अभिनन्द्य मुनिश्रेष्ठमपि तद्धर्मचारिणीम् । त्वदागमनतोऽप्येषा
स्तुतिर्मे हषदायिनी ॥
४३.आह्लादयति मे चित्तं चकोरमिव चन्द्रिका । त्वयानीता ताम्रपर्णी त्वत्कृतेयं
स्तुतिस्तथा ॥
४४.आह्लादयेतां भुवनं समन्तात् मदनुग्रहात् । एषा नदी ताम्रपर्णी जलशक्तिर्मदात्मिका
॥
४५.मम तुष्टिकरी चैषा वाङ्मयी तीर्थदेवता । उभयत्र कृतस्नाता : पूतात्मानो भवन्ति
हि ॥
४६.वस्तव्या भवता चैव पत्न्या सह महामुने । त्वयेदं सकलं सौख्यमुपयातु जगत्त्रयम्
॥
४७.त्वयि स्थिते ताम्रपर्ण्या सरिता मुनिपुङ्गव । सिद्धक्षेत्रं भवेत् स्थानं समन्तात्
दशयोजनम् ॥
४८.अस्मिन् देशे मत्प्रसादात् विप्लवो न भवेत् नृणाम् । दुर्भिक्षभयसन्तापा : तथारिष्टादय
: परे ॥
४९.कदाचिदपि मा सन्तु मास्तु लोके पराभव : । सर्वे च सुखिन : सन्तु सर्वे सन्तु
निरामया : ॥
५०.मा विशन्तु जनं पापा : पराभव : भवादय : । स्वस्त्यस्तु सर्वजगतां चिरं जीवन्तु
जन्तव : ॥
५१.भवन्तु तव भद्राणि मत्प्रसादात् महमुने । अद्य पुण्यतमे लग्ने मुहूर्ते विजयाभिते
॥
५२.एषा महानदी पुण्या प्रयातु वरुणालयम् । अस्या : तीरद्वये देवी श्रीर्नित्यात्वनपायिनी
॥
५३.फलन्तु सर्वसस्यानि फलानि विविधान्यपि । समन्ततो महानद्या : पुष्णन्त्यौषधय
: परे ॥
५४.इति सन्तुष्टहृदया देवी देववरार्चिता । समाश्लिष्योरसा ताम्रां मृणालमृदुलैर्भुजै
: ॥
५५.ततो वृषाङ्कनगरे भवने मणिकुन्तले । मुक्तामणिमये पीठे निधाय मलयात्मजाम् ॥
५६.अभ्यषिञ्जत् सुधासारै : सलिलै : कुंभसंभृतै : । चतुस्सहस्रतोयैश्च हेमकुंभसमाभृतै
: ॥
५७.अभ्यषिञ्जन् मुनिगणा : सिद्धाश्च सनकादय : । अभिषिक्ता तथा ताम्रा हरिब्रह्मपुरन्दरै
: ॥
५८.बभौ परमकल्याणी साक्षाअदिव महेश्वरी । शुकवीणधरा शङ्खसरसिरुहधारिणी ॥
५९.सर्वाभरणसंयुक्ता तरुणी काञ्चनारुणा । सेव्यमाना मुनिगणै : स्तूयमाना सुरासुरै
: ॥
६०.श्वेतच्छत्रसमायुक्ता चामरद्वयवीजिता । सखीजनसमायुक्ता लोकलक्ष्मीरिवाबभौ ॥
६१.तावदभ्यायौ श्रीमान् देवो नदनदीपति : । सेवितो नागराजै : च दैत्यदानवपुङ्गवै
: ॥
६२.यादोगणै : स्तूयमान : पूज्यमान : सुरादिभि : । तमागतं मलयराट् अभ्यर्च्य विधिपूर्वकम्
॥
६३.उपलभ्य शिवानुज्ञां मुनिनाप्यनुमोदित : । समुद्राय सुतां प्रादात् धारापूर्वं
धराधर : ॥
६४.सैषा भर्तारमासाद्य नदी रत्नाकरं विभुम् । विशेषात् शुशुभे ताम्रा गौरीव परमेश्वरम्
॥
६५.सर्वे मुमुदिरे लोका : प्रसन्ना : च दिशो दश । देवदुन्दुभयो नेदु : गुह्यकाश्च
कलं जगु ; ॥
६६.कलं जगुश्च गन्धर्वा : ननृतुश्चाप्सरोगणा : । ताम्रामुद्वाह्य भगवान् तुतोष
सरितां पति : ॥
६७.तवदादि महलक्ष्मी : प्रीयमाणा पुन:पुन :। आदिदेश कृपादृष्ट्या प्रवाहयितुमुद्यता
॥
६८.तावन्मुनिगणा : सिद्धा : देवाश्च सहगुह्यका : । साधु साध्विति संहृष्टा : प्रोचु
: प्राप्तमनोरथा : ॥
६९.विमानैर्निबिडं व्योम नानावर्णैरदृश्यत । ब्रह्मरुद्रहृषीकेशपुरन्दरसमास्थितै
: ॥
७०.वीणां वादयतामुच्चै : गायतां कलनिस्वनम् । कथा : कथयतां पुण्या : गर्जतां हर्षहर्षगद्गदम्
॥
७१.संघर्षनादो ववृधे पर्वणीव महार्णवात् । इत्थं संघर्षमाणेषु जनेषु जगदम्बिका
॥
७२.व्यादिदेश महादेवी प्रवहेति महानदीम् । इत्थं ब्रुवत्यामम्बायां प्रशान्ते जननिस्वने
॥
७३.पठ्यमाणेषु सूक्तेषु पश्यत्सु सकलेष्वपि । महानादसमुद्धूतो जलौघ : संप्रदृश्यते
॥
७४.तदम्बुपूरातभिजातरूपान्नानामणिद्योदिततोरणाग्र्य:।निष्टप्तचामीकरचारुवर्णं विमानमर्कोपममाविरासीत्॥
७५.उच्चावाचध्वजदुकूलमुदस्तशृङ्गमुद्दामकूबरमुदञ्चितकिङ्गिणीकम् ।
अद्युक्तधौततुरगोज्ज्वलमाप्तसूतमग्रे
विमानमचलोपममाविरासीत् ॥
७६.वाचा हरेर्विश्वधरस्य विष्णो : वातापिवैरीनिजधर्मपत्नीं ।
देवीं नमस्कृत्य कृताभ्यनुज्ञ : सार्धं
हयग्रीवमुखैर्मुनीन्द्रै : ॥
७७.प्रदक्षिणीकृत्य विमानमग्र्यं समारुरोहाभ्युदयप्रसाद : ।
मन्दं ययौ स्यन्दनमस्य चैन्द्रीमतिप्रसन्नां
हरितं जनौघै : ॥
७८.तत्पृष्ठत : सान्द्रजलप्रवाहा प्रायात् नदी चन्दलशैलकन्या ।
वृषाङ्कतो दक्षिणत : समीपे वापीमिषामूर्जामपि
प्रभिद्य ॥
७९.तस्याश्रमात् उत्तरत : प्रवाहा तत्स्यन्दनमनुप्रयाता ।
मध्ये घनारण्यमतीत्य घोरं दिशं पितॄणामुपगम्य
किञ्चित् ॥
८०.चक्रोपलां प्लावयती नदीयं समृद्धपूरोत्तरवाहनीका ।
एषा चतुष्षष्टितनु:प्रमाणविस्तारयुक्ता
विमलाम्बुपूरा ॥
८१.ऊर्ध्वं तथा पञ्चतनु:प्रमाणामावृत्य नानाजलजन्तुयुक्ता ।
एवं प्रवृत्ता महती नदीयमनुप्रयाता विविधैर्जनौघै
: ॥
८२.प्रसन्नतोया प्रविवेश वेगात् कलम्बगर्तं कमपि प्रशस्तम् ।
तत्पूरयित्वा प्रहरैकमात्रा प्राप्तप्रणादा
मलयस्य पुत्री ॥
८३.नाराचमूर्तेर्नलिनायताक्षात् प्रशान्तसन्तापवत : प्रसन्ना ।
आकीर्णपुष्पप्रकरामरौगै : प्रायात् पुन
: स्यन्दनचक्रमार्गम् ॥
८४.समन्तत : शान्तसमन्ततापं समृद्धहर्षाबिनवप्रणादम् ।
मुनीश्वरस्यन्दनमार्गयाना महार्णवं तूर्णमगात्
नदीयम् ॥
इति दशम : सर्ग : Pro.Total = 595 + 74 = 679.
Hi
ReplyDeleteI hail from tirunelveli and will like a copy of Tamraparani Mahatmyam and to discuss the same with you for help for our temple at Desamanikkam
will appreocate if you can email me at srikanth.krish@gmail.com with your contact details so that I may call you
This is for our temple tiruppani work and nothing commercial
will appreciate your email
thanks
srikanth